16 - परिमाणे कारणत्वम्
अणुपरिमाणस्य, पुनः परममहत्परिमाणस्य कुत्रापि कारणत्वं नास्ति | मध्यमपरिमाणं भवति स्वाश्रयजन्यद्रवस्य उत्कृष्टपरिमाणं प्रति असमवायिकारणम् | किन्तु अणुपरिमाणस्य, पुनः परममहत्परिमाणस्य च तथा न भवति |
घटस्य अवयवः कपालः, कपालस्य पुनः अवयवः कपालिका | चतुरणुकं, त्र्यणुकम् | त्र्यणुकात् आरभ्य घटपर्यन्तं यानि द्रव्याणि वर्तन्ते, तेषां सर्वेषां मध्यमपरिमाणम् | घटे यत् मध्यमपरिमाणम् उत्पन्नं, तत् कथम् उत्पन्नम् इत्युक्तौ कपाले विद्यमानं परिमाणं, तस्मात् घटे मध्यमपरिमाणम् उत्पन्नम् | एवं कपाले यत् मध्यमपरिमाणम् उत्पन्नं, तत् कथम् उत्पन्नम् इत्युक्तौ कपालिकायां विद्यमानं परिमाणं, तस्मात् कपाले मध्यमपरिमाणम् उत्पन्नम् | पुनः कपालिका अपि तथा, अवयवस्य विद्यमानात् मध्यमपरिमाणात् स्वस्य परिमाणम् उत्पन्नम् | चतुरणुके अपि तथा त्र्यणुकात् | त्र्यणुकेषु अपि मध्यमपरिमाणम् अस्ति अतः तस्मात् चतुरणुके परिमाणम् उत्पद्यते | एवं कृत्वा उत्तरोत्तरद्रव्याणां परिमाणस्य पूर्व-पूर्व-अवयवद्रव्येषु विद्यमानं परिमाणं कारणं भवति |
तथा च परिमाणस्य कश्चन नियमः सिद्धः— स्वसजातीयस्वोत्कृष्टपरिमाणजनकत्वम् | सजातीयम् इति समानजातीयं; स्वोत्कृष्टम् इति स्वस्य अपेक्षया उत्कृष्टम् | कथम् इति चेत्, चिन्तयतु कस्मिंश्चित् द्रव्ये परिमाणं जायते— यथा कपालपरिमाणतः घटपरिमाणम् उत्पद्यते | तत्र द्वयोः द्रव्ययोः परिमाणं समानजातीयं, नाम उभयत्र मध्यमपरिमाणं न तु अणुपरिमाणं वा परममहत्परिमाणं वा— अतः स्वसजातीयं परिमाणम् उत्पद्यते | तदा, कपालपरिमाणापेक्षया, घटे विद्यमानं परिमाणं किञ्चित् उत्कृष्टं भवति, अधिकं भवति | कपालपरिमाणं यावत्, तदपेक्षया अधिकं परिमाणं घटे भवति | इत्थञ्च स्वसजातीयस्वोत्कृष्टपरिमाणजनकत्वं परिमाणस्य इति नियमः |
इदानीं द्व्यणुकं प्रति समवायिकारणं किम् ? द्व्यणुकस्य अवयवः, परमाणुः | तर्हि द्व्यणुकपरिमाणं प्रति, किम् असमवायिकारणं भवितुम् अर्हति ? परिमाणौ विद्यमानपरिमाणम् | तत्र परिमाणप्रसङ्गे नियमः कः, स्वसजातीयस्वोत्कृष्टपरिमाणजनकत्वम् इत्युक्तम् | तर्हि स्वसजातीयपरिमाणम् इत्युक्ते अणुपरिमाणमेव | स्वोत्कृष्टम् इत्युक्ते परमाणु-अपेक्षया उत्कृष्टं अणुपरिमणम् उत्पद्यते द्व्यणुके | अतः परमाणु-अपेक्षया इतोऽपि सूक्ष्मं स्यात् | परम-अणुत्वम् | इतोऽपि लघु स्यात् | यत्र मध्यमपरिमाणम् अस्ति, तत्र 'उत्कृष्टं' परिमाणम् इत्युक्ते इतोऽपि किञ्चित् अधिकं, नाम बृहत्; किन्तु परमाणुपरिमाणस्य इतोऽपि उत्कृष्टम् इत्युक्ते इतोऽपि अणु, इतोऽपि लघु, इतोऽपि सूक्ष्मम् | तदनुसृत्य द्व्यणुकपरिमाणं, परमाण्वोः आणुपरिमाणस्य अपेक्षया लघु स्यात् | यद्यपि वस्तुतः तथा नास्ति इति जानीमः | तदर्थं परमाणुपरिमाणं द्व्यणुकपरिमाणस्य कारणं न भवितुम् अर्हति | अपि तु परमाणुगतद्वित्वसङ्ख्या एव द्व्यणुकपरिमाणस्य कारणम् | परमाणुद्वयसंयोगेन द्व्यणुकं भवति | तस्मिन् समये प्रत्येकस्मिन् परमाणौ द्वित्वसङ्ख्या जायते | परमाणौ विद्यमानद्वित्वसङ्ख्यया अणुपरिमाणं द्व्यणुके उत्पद्यते |
एवमेव द्व्यणुकपरिमाणम् अपि त्र्यणुकपरिमाणं प्रति न कारणम् | प्रथमतया स्वसजातीयपरिमाणं न जनयति | द्व्यणुके अस्ति अणुपरिमाणम् | त्र्यणुके तु उत्पद्यते किम् ? महत्परिमाणम् (मध्यमपरिमाणम्) | तर्हि स्वसजातीयपरिमाणजनकत्वं नास्ति द्व्यणुकपरिमाणस्य | अपि च पुनः सा एव समस्या यत् द्व्यणुके विद्यमानपरिमाणम् अणुपरिमाणम्, अतः तदपेक्षया उत्कृष्टम् इत्युक्ते इतोऽपि लघु | अतः आहत्य द्व्यणुकपरिमाणं, त्र्यणुकपरिमाणं प्रति न कारणम् |
तदर्थम् अत्रापि उक्तं, यत्र द्व्यणुकत्रयं वर्तते, तत्र द्व्यणुकगतबहुत्वसङ्ख्या (तृत्वसङ्ख्या) एव त्र्यणुकपरिमाणं प्रति कारणं न तु द्व्यणुके परिमाणं कारणम् | नो चेत् किं भवेत् ? त्र्यणुकस्यापि अणुपरिमाणं स्यात्, येन त्र्यणुकं न दृश्येत | परन्तु तथा नास्ति— त्र्यणुकं तु दृश्यते | अतः तस्मिन् महत्परिमाणम् अस्ति, अपि च केन जायते इत्युक्तौ द्व्यणुके विधमान-तृत्वसङ्ख्यया जायते | द्व्यणुकत्रयाणां संयोगेन खलु त्र्यणुकम् उत्पद्यते | यदा पुरतः त्रीणि द्व्यणुकानि सन्ति, प्रत्येकस्मिन् तृत्वसङ्ख्या वर्तते | आहत्य एकस्मिन् त्र्यणुके विद्यमानमहत्परिमाणस्य कारणं द्व्यणुके विद्यमानतृत्वसङ्ख्या |
तर्हि द्वयोः परमाण्वोः संयोगेन द्व्यणुकं; त्रयाणां द्व्यणुकानां संयोगेन त्र्यणुकम् | उभयत्र कार्यभूतपरिमाणस्य कारणं अवयवे विद्यमानसङ्ख्या— परमाणौ द्वित्वसङ्ख्या, द्व्यणुके तृत्वसङ्ख्या | इत्थञ्च अणुपरिमाणं कस्यापि कारणं नास्ति |
एवमेव आकाशे विद्यामानपरममहत्परिमाणम् अपि कस्यापि कारणं नास्ति | आकाशे न किमपि द्रव्यं जायते | आकाशे शब्दः एव जायते; शब्दे परिमाणं न भवति तस्य गुणत्वात् | गुणे परिमाणं नास्ति | अपि च आकाशे विद्यमानपरममहत्परिमाणं शब्दं प्रति न कारणम्, अग्रे वक्ष्यमाण-अन्यथासिद्धत्वात् | यथा, शब्दं प्रति आकाशम् अपेक्षितं परन्तु यद्यपि शब्दकार्यं प्रति महत्परिमाणं नियतपूर्ववृत्ति, तथापि शब्दस्य उत्पादनार्थम् आकाशे विद्यमानपरममहत्परिमाणं नापेक्षितम् | आकाशमेव कारणं, न तु आकाशे विद्यमानं परिमाणम् |
अन्यच्च आकाशे विद्यमानं परममहत्परिमाणं नित्यम् अतः स्वस्य किमपि कारणं नास्ति— यद्यपि इयं तु भिन्ना वार्ता | अत्र अस्माकं प्रश्नः अयं यत् आकाशे विद्यमानपरममहत्परिमाणेन किमपि उत्पद्यते न वा | उत्तरम् अस्ति 'न, अनेन किमपि नोत्पद्यते' |
आहत्य अणुपरिमाणे परममहत्परिमाणे च कारणत्वं नास्ति | मध्यमपरिमाणवत्सु अवयवेषु एव विद्यमानमध्यमपरिमाणे, अवयवैः उत्पन्नद्रव्यमध्यमोत्कृष्टपरिमाणं प्रति परिमाणजनकत्वं, कारणत्वम् अस्ति |
Swarup – October 2016
---------------------------------