17 - कार्यकारणभावः च द्वितीयम् असमवायिकारणम्
कार्यकाराणभावस्य कथनावसरे लक्ष्यं किम् ? एकस्मिन् अधिकरणे कार्यस्य च कारणस्य च वृत्तित्वम् | इत्युक्तौ केन सम्बन्धेन कारणम् अधिकरणे, पुनः केन सम्बन्धेन कार्यम् अधिकरणे, इति वक्तव्यम् | कुत्रचित् द्वयोः— कार्यकारणयोः — सम्बन्धः अधिकरणे साक्षात् सिध्यति | पुनः कुत्रचित् एकस्य साक्षात्, एकस्य परम्परया | किन्तु यत्र कार्यकाराणभावः आनुभविकः, तत्र कथञ्चित् अधिकरणे कार्यस्य कारणस्य च सम्बन्धः साधनीयः एव | अस्मिन् विषये अत्र चिन्तनं भविष्यति |
कार्यकारणभावस्य प्रकटीकरणार्थम् अपेक्षते—
१) कार्यकारणभावार्थं कार्यकारणयोः सामानाधिकरण्यम् अपेक्षितम् | तत् सामानाधिकरण्यं वक्तव्यं चेत्, एकस्मिन् अधिकरणे कार्यं कारणं च भवतः इति बोध्यम् |
२) कार्यं कारणञ्च एकस्मिन् अधिकरणे इति प्रकटीकरणार्थं द्वेऽपि केन सम्बन्धेन अधिकरणे स्तः इति वक्तव्यम् | केन सम्बन्धेन कार्यम् अधिकरणे, तस्मिन्नेव च अधिकरणे केन सम्बन्धेन कारणं भवति इति इदानीं विचारणीयम् |
उदाहरणानि
समवायिकारणम्
यत् स्वस्मिन् तादात्म्येन सम्बन्धेन स्थित्वा समवायेन कार्यं जनयति तत् समवायिकारणम् | अवयवावयविनोः, गुणगुणिनोः क्रियाक्रियवतोः, जातिव्यक्त्योः, विशेषनित्यद्रव्योः च समवायसम्बन्धो भवति |
१) घटः - कपालः
घटं प्रति कपालः समवयिकारणं भवति | अधिकरणं कपालः | घटः कपाले, कपालः कपाले (स्वस्मिन्) |
"समवायसम्बन्धेन घटं प्रति तादात्म्यसम्बन्धेन कपालः कारणम्" | अनेन कार्यकारणभावः साधितः |
२) घटपरिमाणम् - घटः
परिमाणं प्रति घटः समवयिकारणं भवति | घटे परिमाणम् | घटस्य परिमाणस्य च सामानाधिकरण्यं वक्तव्यम् | घटः यस्मिन् अधिकरणे अस्ति, तस्मिन् अधिकरणे परिमाणम् अपि अस्ति | "समवायसम्बन्धेन परिमाणं प्रति तादात्म्यसम्बन्धेन घटः कारणम्" | अनेन कार्यकारणभावः साधितः |
३) कपालपरिमाणम् - कपालः
समवायसम्बन्धेन कपालपरिमाणं प्रति, तादात्म्यसम्बन्धेन कपालः कारणम् |
अभ्यासः— पटः-तन्तुः | पटरूपं-पटः |
असमवायिकारणम्
समवायिकारणे समवायसम्बन्धेन यः गुणः अथवा या क्रिया कार्यं प्रति कारणं, तत् असमवायिकारणम् |
प्रथमविधम् : घटः - कपालसंयोगः
घटस्य असमवायिकारणं कपालसंयोगः | अधिकरणं कपालः | घटः कपाले, कपालसंयोगः कपाले |
"समवायसम्बन्धेन घटं प्रति समवायसम्बन्धेन कपालसंयोगः कारणम्" |
अभ्यासः— पटः-तन्तुसंयोगः | हस्तपुस्तकसंयोगः-हस्तगता (हस्ते विद्यमाना) क्रिया |
आहत्य यत्र घटः समवायेन जायते, कपाले, तत्रैव तस्मिन् कपाले कपालद्वयसंयोगः समवायसम्बन्धेन अस्ति | घटं प्रति कपालद्वयसंयोगः असमवायिकारणम् | अत्र कपालान्तर्भावेन कार्यकारणयोः सामानाधिकारण्यम् | एवम् उभयमेकस्मिन् अधिकरणे इति प्रथमम् असमवायिकारणम् | कार्येण सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् |
घटपरिमाणस्य कपालपरिमाणस्य च कार्यकारणभावः
अत्र कार्यकारणयोः अधिकरणं समानम् इति साक्षात् न दृश्यते | तदर्थं परम्परया वक्तव्यं भवति एव | किमर्थं वक्तव्यम् इति चेत् कार्यकारणभावः अस्ति इति अस्माकम् अनुभवः | घटे विद्यमानस्य परिमाणस्य कारणं कपाले अवयवे विद्यमानं परिमाणम्, इत्ययं कार्यकारणभावः आनुभविकः | अस्माभिः सर्वैः अनुभूयते इति करणतः कथञ्चित् कार्यकारणभावः साधनीयः |
यत्र कार्यकारणभावः अस्ति किन्तु सामानाधिकरण्यं साक्षात् नास्ति, तत्र परम्परया वक्तव्यं भवति, अन्यः न कोऽपि उपायः | यत्र कार्यं जायते तत्रैव कारणेन भाव्यम् | अत्र कार्यम् अस्ति, अन्यत्र कारणम् उत्पद्यताम् इति तु कथमपि न भवति |
द्वितीयासमवायिकारणं यथा घटपरिमाणं प्रति कपालपरिमाणम् असमवायिकारणम् | घटस्य परिमाणं समवायसम्बन्धेन घटे, कपालस्य परिमाणं समवायसम्बन्धेन कपाले | घटपरिमाण-कपालपरिमाणयोः एकम् अधिकरणम् अप्रसिद्धम् | अतः कार्यस्य वा कारणस्य वा परम्परा-सम्बन्धः स्वीकार्यः |
प्रथमं कपालः कार्यकारणयोः अधिकरणम् इति स्वीकुर्मः | अस्यां दशायां घटपरिमाणस्य साक्षात् सम्बन्धः अधिकरणे नास्ति | अतः घटपरिमाणस्य परम्परा-सम्बन्धः वक्तव्यः कपाले | स्वम् इति घटपरिमाणम् | (स्व-शब्दः कुत्र प्रयोक्तव्यः ? यत्र साक्षात् सम्बन्धः नास्ति, यत्र परम्परया एव सम्बन्धः शक्यः, तत्र स्व-शब्दस्य आवश्यकता भवति |) स्वस्य साक्षात् अधिकरणं घटः | केन सम्बन्धेन ? समवायसम्बन्धेन | अतः घटपरिमाणस्य समवायी घटः |
समवायी | समवायसम्बन्धः द्वयोर्मध्ये भवति चेत्, एकः आश्रितः भवति, अन्यः आश्रयः भवति | परिमाणं घटे इति स्वीकरोतु | समवायसम्बन्धेन परिमाणं घटे | आश्रयः घटः, आश्रितं परिमाणम् | अत्र परिमाणसमवायी भवति घटः— इत्युक्ते समवायसम्बन्धेन तत् परिमाणम् अस्मिन् घटे अस्ति | समवायसम्बन्धेन यस्मिन् अस्ति, सः समवायी— नकारान्तशब्दः, इनि प्रत्ययः | समवायः अस्मिन् अस्ति इति समवायी, इति व्युत्पत्तिः | परिमाणसमवायः घटे अस्ति, इत्युक्तौ समवायसम्बन्धेन परिमाणं घटे अस्ति | अत्र परिमाणसमवायः इत्युक्ते परिमाणस्य समवायः | परिमाणस्य समवायः घटे |
तर्हि घटपरिमाणस्य समवायी घटः | घटः पुनः कुत्र अस्ति इति चेत्, कपाले | केन सम्बन्धेन ? समवायसम्बन्धेन | अतः घटस्य समवायी कपालः | अनेन स्वसमवायी घटः, घटसमवायी कपालः | आहत्य स्वसमवायिसमवायी कपालः | स्वसमवायिसमवायित्वं कपाले | घटपरिमाणं स्वसमवायिसमवायित्व-सम्बन्धेन कपाले | इति परम्परा-सम्बन्धः | अपि च कपालपरिमाणं कुत्र अस्ति ? साक्षात् कपाले | केन सम्बन्धेन ? समवायसम्बन्धेन | अतः स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् | इत्येव कार्यकारणभावः सिद्धः |
धेयं यत् स्वसमवायी अपि च स्वाश्रयः इत्यत्र समानार्थकशब्दौ | अतः स्वाश्रयसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम्, इत्यपि समीचीनम् | समवायी, आश्रयः इत्यनयोः मध्ये आश्रयशब्दः इतोऽपि सामान्यं, समवायी इतोऽपि विशिष्टं, तावान् एव भेदः | किन्तु अत्र द्वयोः उपयोगः शक्यः | स्वाश्रयः, स्वसमवायी |
उपरितने उदाहरणे कार्यसम्बन्धः अधिकरणे परम्परया, कारणसम्बन्धः च साक्षात् अधिकरणे इति स्वीकृतम् | अधुना विपरीतं कुर्मः— कार्यसम्बन्धः साक्षात् अधिकरणे, कारणसम्बन्धः च अधिकरणे परम्परया | कार्यकारणभावः साधनीयः, अतः अस्माकं कार्यकारणयोः सामानाधिकरण्यम् अपेक्षितमेव | अस्मिन् पर्याये अधिकरणं किम् ? घटः | घटपरिमाणं साक्षात् घटे च | किन्तु कपालपरिमाणम् ? स च कुत्र अस्ति ? कपाले | पुनः घटे भवेत् इति वक्तव्यं चेत्, परम्परया एव वक्तुं शक्यम् |
कपालपरिमाणं घटे अस्ति इत्यस्य साधनार्थं समवेतशब्दस्य प्रयोगः करणीयः | समवेतं नाम समवायसम्बन्धेन विद्यमानम् | 'समवायी' इत्यनेन अधः गमनं; 'समवेतम्' इत्यनेन उपरिगमनम् | पूर्वमपि इदम् अस्माभिः दृष्टम् | "फले एकः रसः अस्ति" इति वाक्ये एकत्वसङ्ख्या, रसश्च द्वावपि गुणौ; एकत्वं फले समवायसम्बन्धेन, रसः अपि फले समवायसम्बन्धेन | तर्हि "फले एकः रसः अस्ति" इत्यस्य कथनावसरे 'एकः रसः' इत्यनेन एकत्वं रसे, ततः 'गुणः गुणे' इति कथं साधनीयम् इति चेत्, एकत्वस्य आश्रयः फलं; तत्समवेतः (समवायसम्बन्धेन विद्यमानः) भवति रसः | समवेतत्वं रसे | स्वं च एकत्वम् | अतः स्वसमवायिसमवेतः रसः, स्वसमवायिसमवेतत्वं रसे, अपि च स्वसमवायिसमवेतत्वसम्बन्धेन एकत्वं रसे | अनेन 'फले एकः रसः अस्ति' इति वाक्यं सिद्धम् |
एवमेव प्रकृतौ अपि समवेतत्वस्य प्रयोगेण परम्परासम्बन्धं साधयितुं शक्यते | स्वं कपालपरिमाणं, स्वसमवायी कपालः, तत्र समवेतः भवति घटः, समवेतत्वं घटे | तथा च स्वसमवायिसमवेतत्वसम्बन्धेन कपालस्य परिमाणं घटे वर्तते | तत्रैव घटे, घटस्य परिमाणं समवायसम्बन्धेन वर्तते | इति कारणस्य सम्बन्धः परम्परासम्बन्धः | तत्र घटपरिमाणं साक्षात् समवायसम्बन्धेन घटे | समवायसम्बन्धेन घटपरिमाणं प्रति, स्वसमवायिसमवेतत्वसम्बन्धेन कपालपरिमाणं कारणम् | अत्र स्वसमवायिसमवेतत्वं स्वीकृत्य कारणसम्बन्धः |
आहत्य कार्यस्य सम्बन्धः परम्परासम्बन्धः अथवा कारणस्य सम्बन्धः परम्परासम्बन्धः | उभयथा वक्तुं शक्यते; उभयत्र कार्यकारणयोः एकम् अधिकरणं सिध्यति | इति द्वितीयविधम् असमवायिकारणम् |
द्वितीयविधम् असमवायिकारणम् : घटपरिमाणम् - कपालपरिमाणम्
स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं प्रति, समवायसम्बन्धेन कपालपरिमाणं कारणम् |
- अथवा -
समवायसम्बन्धेन घटपरिमाणं प्रति, स्वसमवायिसमवेतत्वसम्बन्धेन कपालपरिमाणं कारणम् |
इत्थञ्च द्वितीयम् असमवायिकारणं कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् |
अभ्यासः— पटरूपं-तन्तुरूपम् |
परम्परासम्बन्धः एकमुखेन स्वीकरणीयः
पुस्तकं हस्ते अस्ति, संयोगसम्बन्धेन | अत्र संयोगसम्बन्धः हस्ते अपि, पुस्तके अपि | तदर्थं संयोगः द्विनिष्ठः इति उच्यते |
अत्र प्रश्नः उदेति, समवायसम्बन्धः तथा नास्ति किम् ? समवायेन यस्मिन् अस्ति सः समवायी इति | परिमाणम् अस्ति घटे समवायेन इति चेत् घटः समवायी परिमाणस्य | किन्तु समवायः इति सम्बन्धः तु घटे अपि अस्ति, परिमाणे अपि अस्ति— उभयत्र आश्रितः | अतः घटः अपि समवायी, परिमाणम् अपि समवायि खलु ? अनेन गुणः अपि समवायी, द्रव्यम् अपि समवायि | इति चेत्, यथा घटः परिमाणसमवायी तथैव परिमाणम् अपि घटसमवायि |
सत्यं समवायसम्बन्धः उभयत्र आश्रितः अतः द्विनिष्ठः एव | किन्तु स च समवायसम्बन्धः एकस्मिन् आश्रये एकेन सम्बन्धेन, अपरस्मिन् आश्रये अपरसम्बन्धेन | समवायसम्बन्धः घटे अस्ति अनुयोगितासम्बन्धेन; समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन | द्वयमपि सत्यम् | अत्र प्रतियोगी अनुयोगी च, संसर्गीयः न तु अभावीयः | यस्य सम्बन्धः सः प्रतियोगी; यत्र सम्बन्धः सः अनुयोगी | अत्र च इदं 'समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन' इत्यस्य न्याये व्यवहारो नास्ति | 'समवायसम्बन्धः घटे अस्ति अनुयोगितासम्बन्धेन' इति प्रसिद्धः यतोहि अनेन समवायीकारणं व्यक्तीक्रियते | एवञ्च आश्रयस्य दिशि अधः गमनार्थं, वदनार्थं 'समवायी', आश्रितस्य दिशि उपरि गमनार्थं, वदनार्थं 'समवेतः' इति व्यवहरामः |
अस्तु, ततः अग्रे पुस्तकं हस्ते इति यथा संयोगसम्बन्धः उभयत्र अश्रितः द्विनिष्ठः, तथैव परम्परासम्बन्धः अपि स्यात् | किन्तु अत्र भिन्ना समस्या— अत्र सम्बन्धः द्विनिष्ठ एव नास्ति | स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं कपाले इति स्थितौ यद्यपि स्वसमवायिसमवायित्वसम्बन्धः कपाले अस्ति, किन्तु घटपरिमाणे नास्ति | स्वसमवायिसमवायी कपालः | इदं समवायित्वं च कपाले एव भवति |
संयोगः इति यथा उच्यते, तादृशसरलसम्बन्धः नास्ति अत्र पारम्पर्यात् | स्वस्य समवायी घटः, घटस्य समवायी कपालः | स्वसमवायिसमवायित्वं कपाले एव, न तु स्वस्मिन् | अतः एतादृशसम्बन्धः घटपरिमाणेऽपि अस्ति इति वक्तुं न शक्यते | विपरीतरीत्या अपि वक्तुं शक्त्यते— स्वम् इति कपालः | स्वसमवेतः घटः, पुनः घटसमवेतं घटपरिमाणम् | स्वसमवेतसमवेतं परिमाणं, स्वसमवेतसमवेतत्वं परिमाणे | यद्यपि कपालः स्वसमवेतसमवेतत्वसम्बन्धेन घटपरिमाणे, किन्तु इदं स्वसमवेतसमवेतत्वं केवलं परिमाणे न तु कपाले |
प्रकृतौ च स्वसमवायिसमवायित्वं कपाले एव | अतः परम्परासम्बन्धः यत्र भवति, तत्र एकमुखेन सम्बन्धः स्वीकरणीयः भवति | अत्र सम्बन्धः द्विनिष्ठः नास्ति | स्वसमवेतसमवेतत्वं परिमाणे न तु कपाले; स्वसमवायिसमवायित्वं कपाले न तु परिमाणे |
Swarup – October 2016
---------------------------------