07 - यङ्लुगन्तधातवः
यङ्लुगन्तधातूनां निर्माणावसरे आर्धधातुकप्रक्रिया आश्रीयते | आर्धधातुकप्रक्रिया उच्यते यदा धातुभ्यः यः प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः | इयम् आर्धधातुकप्रक्रिया उपपद्यते त्रिषु स्थलेषु— (१) आतिदेशिकधातूनां साधनावसरे धातुभ्यः ये धातुप्रत्ययाः विधीयन्ते ते आर्धधातुकसंज्ञकाः, यथा सन्, णिच्, यङ् इति द्वादश धातुप्रत्ययाः; (२) लकाराणां तिङन्तसाधनावसरे धातुभ्यः यः विकरणप्रत्ययः (यथा लृटि 'स्य') अथवा यः तिङ्प्रत्ययः (यथा आशीर्लिङि 'यात्') विधीयते सः आर्धधातुकसंज्ञकः चेत्; (३) कृदन्तसाधनावसरे धातुभ्यः यः कृत्-प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः चेत् | अतः आहत्य आर्धधातुकप्रक्रिया घटिता आतिदेशिकधातुनिर्माणे, लकाराणां तिङन्तनिर्माणे, कृदन्तनिर्माणे च | अत्र यङ्लुगन्तस्य आर्धधातुकप्रक्रिया आतिदेशिकधातुनिर्माणमेव | एकवारम् आतिदेशिकधातुः यदा सिद्धः, ततः अग्रे तिङन्तसाधने केवलं सन्धिकार्यम् |
यङ्लुक्-प्रक्रिया अनिडादिषु अन्यतमा | अत्र यङ्-प्रत्ययः विधीयते यः वलादिः नास्ति, तदा तस्य च यङ्-प्रत्ययस्य लुक् भवति | अतः इडागमस्य अवसरो न भवत्येव | प्रेरणार्थे णिच्, कर्मणि भावे यक्, परस्मैपदे आशीर्लिङ्, यङ्लुगन्ताः, यङन्ताः, च इत्येते सर्वे अनिडादयः | क्रमेण एषां पाठः जायमानः | एतावता प्रेरणार्थे णिच्, कर्मणि भावे यक्, परस्मैपदे आशीर्लिङ् इत्येते समाप्ताः; सम्प्रति यङ्लुक्; तदा यङन्ताः | यङ्लुक् प्रथमं क्रियते यतोहि अस्मिन् यङ्-निमित्तीकृत्य अङ्गकार्यं नास्ति | यङि अङ्गकार्यस्य बाहुल्यम् इति कारणेन अधिकं जाटिल्यम् | अनिडादीनां प्रक्रियानन्तरम् इड्व्यवस्था, तदा इडादीनां पाठः |
तर्हि आर्धधातुकप्रक्रिया उच्यते यदा धातुभ्यः यः प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः |
१) अस्य एकं फलम् इदं यत् कर्तरि शप् (३.१.६८) इत्यस्य प्रसक्तिर्नास्ति | कर्तरि शप् (३.१.६८) इत्यनेन धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके | धातुभ्यः विधीयमानप्रत्ययः आर्धधातुकः चेत् शप् न भवति, न वा शपं प्रबाध्य ये गणम् अवलम्ब्य विशिष्टविकरणप्रत्ययाः तेऽपि न भवन्ति | शपः अभावे आर्धधातुकप्रक्रियायाः धातुगणेन साकं न कोऽपि सम्बन्धः | सर्वान् धातून् सङ्गृह्य प्रत्येकं धातोः अन्तिमवर्णम् अनुसृत्य पुनः विभज्य श्रेणीकार्यं भवति |
२) आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन इडागमो भवति न वा इति विवेचनीयम् | यथोक्तम् अत्र यङ्लुकि इडागमस्य अवसरो नास्ति |
आर्धधातुकस्येड्वलादेः (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात् | इट्-आगमः टित् अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल् आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्, इट् प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गात् वलादेः आर्धधातुकस्य इट् |
यङ्-प्रत्ययः केभ्यः धातुभ्यः विधीयते, केषु च अर्थेषु
द्वादशसु धातुप्रत्ययेषु यङ्-प्रत्ययः अन्यतमः | वारं वारम् अथवा अधिकाधिकम् इत्यस्मिन् अर्थे भवति | यथा णिच् अपि च सन्, अस्य यङ्-प्रत्ययस्य धातुना संयोजनेन नूतनधातुः निर्मितः भवति | तदा यङन्तधातुः इति वदामः | यङ्-प्रत्ययस्य किञ्चन वैशिष्ट्यम् अस्ति यत् तस्य लोपः (लुक्) अपि भवितुम् अर्हति | यत्र यङः लुक् भवति तत्र यङ्लुगन्तधातुः इत्युच्यते | यङन्तानां यङ्लुगन्तानां च अर्थः समानः, परन्तु रूपं भिद्यते |
यथा—
पठ् + यङ् → 'पापठ्य' इति यङन्तधातुः |
पठ् + यङ् → पापठ्य → यङः लुक् → पापठ् इति यङ्लुगन्तधातुः |
पापठ्य इति अदन्तधातुः, पापठ् इति हलन्तधातुः; रूपं भिद्यते किन्तु अर्थः समानः | यङः लटि पापठ्यते, यङ्लुगन्तस्य लटि पापट्टि | उभयत्र वारं वारम् अथवा अधिकाधिकं पठति इत्यर्थः |
तर्हि यङ्-प्रत्ययस्य 'वारं वारम् अथवा अधिकाधिकम्' इति सामान्यः अर्थः | व्याकरणे अस्यैव अर्थस्य व्यक्तीकरणार्थं 'क्रियासमभिहारः' इति पदं भवति | पौनःपुन्यं भृशार्थश्च क्रियासमभिहारः इति | सम्प्रति द्रष्टव्यं कुत्र यङ्-प्रत्ययः अस्मिन् सामान्यार्थे भवति, कुत्र च अपरस्मिन् विशिष्टार्थे भवति |
धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) = वारं वारम् अथवा अतिशयार्थे हलादि-एकाच्-धातुभ्यः यङ्-प्रत्ययो भवति | पौनःपुन्ये भृशार्थे च द्योत्ये धातोरेकाचो हलादेर्यङ् स्यात् | एकोऽच् यस्मिन् स एकाच् बहुव्रीहिः, तस्मात् एकाचः | हल् आदिर्यस्य स हलादिः बहुव्रीहिः, तस्मात् हलादेः | क्रियायाः समभिहारः क्रियासमभिहारः षष्ठीतत्पुरुषः, तस्मिन् क्रियासमभिहारे | धातोः पञ्चम्यन्तम्, एकाचः पञ्चम्यन्तं, हलादेः पञ्चम्यन्तं क्रियासमभिहारे सप्तम्यन्तं, यङ् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— एकाचः हलादेः धातोः यङ् प्रत्ययः परश्च क्रियासमभिहारे |
अनेन बोधो भवति यत् यङः त्रीणि निमित्तानि— (१) विवक्षा क्रियासमभिहारे भवेत्, (२) धातुः हलादिः भवेत्, (३) धातुः एकाच् भवेत् | त्रिषु अन्यतमः नास्ति चेत् यङ् न भवति | यथा जागृ-धातुः हलादिः किन्तु अनेकाच् अतः जागृ-धातोः यङ्-प्रत्ययः न भवति; ईक्ष्-धातुः एकाच् किन्तु अजादिः अतः ईक्ष्-धातोः यङ्-प्रत्ययः न भवति | परन्तु भू-धातुः हलादिः अपि अस्ति, एकाच् अपि अस्ति, अतः भू-धातोः यङ्-प्रत्ययो भवति |
सूचिसूत्रिमूत्र्यटत्यर्त्यशूर्णोतीनां यङ् वक्तव्यम् इति वार्त्तिकेन क्रियासमभिहारार्थे सूचि, सूत्रि, मूत्रि इत्येभ्यः त्रिभ्यः अनेकाच्-धातुभ्यः च अट्, ऋ, अश्, ऊर्णु इति चतुर्भ्यः अजादिधातुभ्यः यङ्-प्रत्ययो भवति |
नित्यं कौटिल्ये गतौ (३.१.२३) = गत्यर्थकधातुभ्यः कुटिलगमनार्थे एव यङ्-प्रत्ययो भवति; क्रियासमभिहारार्थे न भवति | गतिवचनाद्धातोः कौटिल्ये गम्यमाने नित्यं यङ्-प्रत्ययो भवति | नित्यं द्वितीयान्तं क्रियाविशेषणं, कौटिल्ये सप्तम्यन्तं, गतौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः, यङ् इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— धातोः यङ् नित्यं कौटिल्ये गतौ |
अत्र प्रश्नः उदेति यत् गत्यर्थकधातवः के | प्रायः ३५० गत्यर्थकधातवः सन्ति | ये ये धातवः गमनार्थे सन्ति, ते सर्वे गत्यर्थकाः | अत्र धेयं यत् केचन गत्यर्थकधातवः अकर्मकाः, पुनः केचन सकर्मकाः | अनेन नित्यं कौटिल्ये गतौ (३.१.२३) इति सूत्रेण एते सर्वे गत्यर्थकधातवः अन्तर्भूताः | अपरस्मिन् प्रसङ्गे गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च (३.४.७२) इत्यनेन गत्यर्थ-अकर्मक-श्लिष-शीङ्-स्था-आस-वस-जन-रुह-जीर्यतिभ्यः धातुभ्यः क्त-प्रत्ययः कर्त्रर्थे अपि विधीयते | अत्र गत्यर्थकधातवः च अकर्मकधातवः च पृथक् उक्ताः इत्यस्मात् गत्यर्थे सकर्मकधातूनामेव ग्रहणम् | अनेन सकर्मकगत्यर्थकधातुभ्यः कर्त्रर्थे क्त-प्रत्ययो भवति | बालकः ग्रामं गतः | अत्र भ्वादौ धावु गतिशुद्धयोः इति अकर्मक-धाव्-धातोः अकर्मकत्वात् एव कर्त्रर्थे क्त-प्रत्ययो भवति | किन्तु प्रकृते, नित्यं कौटिल्ये गतौ (३.१.२३) इति सूत्रे सर्वेषां गत्यर्थकधातूनां ग्रहणम् |
लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् (३.१.२४) = लुप्, सद्, चर्, जप्, जभ्, दह्, दश्, गॄ, इति धातुभ्यः क्रियायाः भावगर्हाऽर्थे एव यङ्-प्रत्ययो भवति; अपरेषु अर्थेषु न भवति | भावशब्देन क्रिया-सङ्केतः; क्रियायाः निन्दा अर्थात् असमीचीनरीत्या क्रिया सम्पन्ना इत्यस्मिन् अर्थे 'भावगर्हा' उपयुज्यते | लुपश्च सदश्च चरश्च जपश्च जभश्च दहश्च दशश्च गॄ च तेषामितरेतरद्वन्द्वः लुपसदचरजपजभदहदशगरः, तेभ्यः लुपसदचरजपजभदहदशगॄभ्यः | भावस्य गर्हा भावगर्हा, तस्यां भावगर्हायाम् | लुपसदचरजपजभदहदशगॄभ्यः पञ्चम्यन्तं, भावगर्हायाम् सप्तम्यन्तं, द्विपदमिदं सूत्रम् | नित्यं कौटिल्ये गतौ (३.१.२३) इत्यस्मात् नित्यम् इत्यस्य अनुवृत्तिः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् यङ् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— लुपसदचरजपजभदहदशगॄभ्यो यङ्, नित्यं भावगर्हायाम् |
चर् + यङ् → चञ्चूर्य इति यङन्तधातोः अर्थः निन्दितरूपेण चलनम् | गर्हितं चरति चञ्चूर्यते | गर्हितं लुम्पति लोलुप्यते | (लुम्पति = तुदादिगणे लुप्-धातुः, स्थगयति, दमयति इत्यर्थः) ।
तर्हि यङ्-प्रत्ययः कुत्र कुत्र भवति इति चेत्, चतुर्णां सूत्राणां वार्त्तिकानाञ्च मिलित्वा अर्थः एवम्—
१) अजादिधातुषु अट्, ॠ, अश्, ऊर्णु इत्येभ्यः एव यङ् भवति | अवशिष्टेभ्यः अजादिधातुभ्यः यङ् न भवति |
२) हलादिधातवः द्विविधाः— अनेकाचः एकाचः च |
- अनेकाच्-धातुषु केवलं सूचि, सूत्रि, मूत्रि इत्येभ्यः त्रिभ्यः यङ् भवति | अवशिष्टेभ्यः हलादि-अनेकाच्-धातुभ्यः यङ् न भवति | सर्वे णिजन्ताः सनन्ताः च धावतः अनेकाचः अतः तेभ्यः यङ् न भवति | चुरादिगणे यावन्तः धातवः ते सर्वे अनेकाचः अतः तेभ्यः अपि यङ् न भवति | दीधी, वेवी, दरिद्रा, जागृ, चकास् इत्यादिभ्यः अपि यङ् न भवति |
- पठ्, वद्, मुद्, बुध् इत्यादिभ्यः सर्वेभ्यः एकाच्-हलादिधातुभ्यः यङ्-प्रत्ययो भवति |
यङन्तस्य धातुसंज्ञा
धातुभ्यः यदा हि यङ्-प्रत्ययः विधीयते, तदा हि धातुसंज्ञा भवति | अनन्तरं यङ्ः लुकि सत्यपि प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यनेन धातुसंज्ञा तिष्ठति एव |
सनाद्यन्ता धातवः (३.१.३२) = गुप्तिज्किद्भ्यः सन् (३.१.५) इत्यस्य सन् इत्यारभ्य कमेर्णिङ् (३.१.३०) इत्यस्य णिङ् इत्यन्तं द्वादश प्रत्ययाः येषाम् अन्ते भवन्ति, तेषां धातु-संज्ञा स्यात् | सन् आदौ येषां ते सनादयः; सनादयः अन्ते येषां ते सनाद्यन्ताः | सनाद्यन्ताः प्रथमान्तं, धातवः प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— सनाद्यन्ताः धातवः |
यङ्लुक्-विधानम्
यङोऽचि च (२.४.७४) = यङः लुक् भवति अच्-प्रत्यये परे; 'च'-शब्देन अच्-प्रत्ययं विनाऽपि यङः लुक् भवति | 'बहुलम्' इति शब्देन यङः लुक् वैकल्पिकम् | यङः षष्ठ्यन्तम्, अचि सप्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | ण्यक्षत्रियार्षञितो लुगणिञोः (२.४.५८) इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः | बहुलं छन्दसि (२.४.७३) इत्यस्मात् बहुलम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— यङः लुक् अचि च बहुलम् |
सिद्धान्तकौमुद्यां 'यङोऽच्प्रत्यये लुक् स्याच्चकारात्तं विनापि बहुलं लुक् स्यात् | अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति | ततः प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वम् | अभ्यासकार्यम् | धातुत्वाल्लडादयः |' 'च'-शब्देन अच्-प्रत्ययं विनाऽपि यङः लुक् भवति | अनेन प्रश्नः उदेति यत् 'अचि' (अच्-प्रत्यये परे) इति दलस्य किं प्रयोजनम् | अच्-प्रत्ययस्य अस्मिन् सूत्रे निवेशः निरर्थको वा ? 'अच्-प्रत्यये परे यङः लुक् नित्यम्, अन्यत्र वैकल्पिकम्' इति कोऽपि तादृशकारणस्य ऊहां कुर्यात्, किन्तु तत्तु दोषाय यतोहि अच्-प्रत्यये परे अपि यङ् वैकल्पिकम् | अतः नित्यत्वम् अस्य निवेशस्य कारणं न | अपि तु, अस्य अच्-प्रत्ययस्य निवेशस्य फलं न धातुलोप आर्धधातुके (१.१.४) इति सूत्रे |
न धातुलोप आर्धधातुके (१.१.४) = धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धी न स्तः | धातोः कस्यचित् अंशस्य कस्मिंश्चित् आर्धधातुकप्रत्ययस्य विषये लोपो भवति चेत्, तस्य धातोः इक्-वर्णस्य तस्मिन् आर्धधातुकप्रत्ययस्य विषये गुणवृद्धी न भवतः | धातुलोप-शब्दे 'धातु' इति भागेन धात्वंशस्य ग्रहणम्, अतः धातुलोपः इत्युक्ते धात्वंशलोपः | धातुं लोपयतीति धातुलोपः, तस्मिन् धातुलोपे | नाव्ययं, धातुलोपे सप्तम्यन्तम्, आर्धधातुके सप्तम्यन्तम् | इको गुणवृद्धी (१.१.३) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— धातुलोपे आर्धधातुके इकः गुणवृद्धी न |
यथा—
'लूञ् छेदने' इति धातोः 'पुनः पुनः लूनाति' इति अर्थे धातोरेकाचो हलादे क्रियासमभिहारे यङ् (३.१.२२) इत्यनेन यङ्-प्रत्ययः भवति; तेन 'लोलूय' इति आतिदेशिकः धातुः सिध्यति | यथा लटि लोलूय + ते → लोलूयते, पुनः पुनः लूनाति इत्यर्थः | तदा 'यः लोलूयते सः' इति अर्थे 'लोलूय' धातोः नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (३.१.१३४) इत्यनेन 'अच्'-प्रत्ययः विधीयते, येन 'लोलूव' इति प्रातिपदिकं सिध्यति | यः पुनः पुनः लूनाति सः = यः लोलूयते सः = लोलुवः |
प्रक्रिया एवम्—
लू + यङ् + अच् → सन्यङोः (६.१.९) इत्यनेन यङन्तधातोः एकाच्-अवयवस्य द्वित्वम् → लू + लू + यङ् + अच् → प्रथमः 'लू' इत्यस्य पूर्वोभ्यासः (६.१.४) इत्यनेन अभ्यास-संज्ञा → गुणो यङ्लुकोः (७.४.८२) इत्यनेन यङ्-प्रत्यये परे इगन्तस्य अभ्यासस्य गुणः → लो + लू + यङ् + अच् → यङोऽचि च (२.४.७४) इत्यनेन अच्-प्रत्यये परे यङ्-प्रत्ययस्य विकल्पेन लुक् → लो + लू + अच् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन अच्-प्रत्यये परे 'लू' इत्यस्य गुणादेशः → अयं गुणादेशः न धातुलोप आर्धधातुके (१.१.४) इत्यनेन निषिध्यते |
कथं निषेधः इति चेत्—
१) आर्धधातुकं शेषः (३.४.११४) इत्यनेन अच्-प्रत्ययः आर्धधातुकप्रत्ययः |
२) अच्-प्रत्ययस्य अङ्गं 'लोलूय' इति धातुः |
३) अच्-प्रत्ययस्य निमित्तत्वेन यङोऽचि च (२.४.७४) इत्यनेन 'लोलूय' इति धातोः यः अंशः 'य'-शब्दः तस्य लोपः |
४) अङ्गस्य यः इक्-वर्णः तस्य गुणादेशः तमेव अच्-प्रत्ययं निमित्तीकृत्य सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण विधीयते |
=> एवञ्च न धातुलोप आर्धधातुके (१.१.४) इत्यस्य सर्वाणि निमित्तानि पूरितानि | अनेन प्राप्तस्य गुणस्य निषेधो भवति |
अग्रे प्रक्रिया एवम्—
लो + लू + अच् → 'लू' इत्यस्य गुणादेशः न धातुलोप आर्धधातुके (१.१.४) इत्यनेन बाधितः अतः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन लू-इत्यस्य उवङ्-आदेशः; ङिच्च (१.१.५३) इति अयम् अन्त्यादेशः → लो + लुवङ् + अ → ङकारस्य इत्संज्ञा लोपश्च; अकारः उच्चारणार्थः → लोलुव् + अ → लोलुव इति प्रातिपदिकम् |
'पूञ् पवने' इति धातोः 'यः पुनः पुनः पुनाति सः' इति अर्थे 'पोपुव' इति प्रातिपदिकम् अपि एवमेव भवति |
तर्हि प्रश्नः अधुनापि अस्ति, किमर्थम् अच्-प्रत्ययः यङोऽचि च (२.४.७४) इति सूत्रे पठितः | यतोहि— अच्-प्रत्यये परे यङः लुक् नैमित्तिकम् | अचम् अतिरिच्य अन्यत्र सर्वत्र यङः लुक् अनैमित्तिकम् | अच्-प्रत्ययः यङः लुकः निमित्तम्; अस्य फलद्वयं वर्तते | एकं फलमिदं यत् असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषया अन्तरङ्गकार्यस्य कर्तव्ये बहिरङ्गकार्यम् असिद्धं भवति | अच्-प्रत्यये परे यत् यङः लुक्, तत् अधुना द्वित्वकार्यापेक्षया अधिकापेक्षम्बहिरङ्गम् | अचम् अतिरिच्य अन्यत्र सर्वत्र यङः लुक् अनैमित्तिकम् अतः अन्तरङ्गम् | द्वितीयफलं प्रमुखं; तच्च अग्रे प्रदर्श्यते—
लू + यङ् + अच् → सन्यङोः (६.१.९) इत्यनेन यङन्तधातोः द्वित्वं; यङोऽचि च (२.४.७४) इत्यनेन अच्-प्रत्यये परे यङ्-प्रत्ययस्य लुक् → द्वयोः एकत्र प्राप्तिः → यङः लुक् बहिरङ्गम् इति कृत्वा (परत्वात् नित्यत्वात् च) सन्यङोः (६.१.९) इत्यनेन द्वित्वम् → लू + लू + यङ् → गुणो यङ्लुकोः (७.४.८२) इत्यनेन यङ्-प्रत्यये परे इगन्तस्य अभ्यासस्य गुणः → लो + लू + यङ् + अच् → यङोऽचि च (२.४.७४) इत्यनेन अच्-प्रत्यये परे यङ्-प्रत्ययस्य विकल्पेन लुक् → लो + लू + अच् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन अच्-प्रत्यये परे 'लू' इत्यस्य गुणादेशः → अयं गुणादेशः न धातुलोप आर्धधातुके (१.१.४) इत्यनेन निषिध्यते; किमर्थमिति चेत्, अयम् अच्-प्रत्ययः यङः लुकः निमित्तम् | अन्यत्र सर्वत्र यङः लुक् अनैमित्तिकं, किन्तु अत्र यङः लुक् नैमित्तिकमेव | नो चेत् न धातुलोप आर्धधातुके (१.१.४) इति सूत्रस्य प्रसक्तिरेव न भवति स्म | 'धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धी न स्तः' | यदि यङोऽचि च (२.४.७४) इति सूत्रे 'अच्' इति दलं नाभविष्यत्, नाम अच्-प्रत्यये परे अपि यदि यङः लुक् अनैमित्तिकम् अभविष्यत्, तर्हि न धातुलोप आर्धधातुके (१.१.४) इत्यनेन सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन प्राप्तगुणं बाधितुं न शक्नोति स्म | गुणकार्यम् अभविष्यत्— लो + लू + अच् → लो लो अच् → लोलव इति अनिष्टं रूपं सिध्यति स्म | अस्य कृते यङः लुकः निमित्तम् अच्-प्रत्ययः आवश्यकः | एतदर्थं यङोऽचि च (२.४.७४) इति सूत्रे अच्-प्रत्ययः पठितः | लोलुव |
पुनः प्रश्नः उदेति— यङोऽचि च (२.४.७४) इति सूत्रे अच्-प्रत्ययः इत्यस्य निमित्तसप्तमी इति कृत्वा अयं प्रत्ययः यङः लुक् प्रति नैमित्तकः; अच् इति उक्तं चेत् तादृशाः अन्ये अपि नैमित्तकप्रत्ययाः सन्ति वा येषां माध्यमेन न धातुलोप आर्धधातुके (१.१.४) द्वारा गुणनिषेधः सिध्येत ? यथा अनीयर् अथवा अन्ये कृत्-प्रत्ययाः, यया रीत्या अच्-प्रत्ययः नैमित्तकः इति कारणतः लोलुव भवति न तु लोलव, एवमेव लू + यङ् + अनीयर् → लोलुवनीयं न तु लोलवनीयम् इति वा ? इति चेत्, नैव | यङोऽचि च (२.४.७४) इति सूत्रे अच् इत्येव उक्तं यतोहि अच्-प्रत्ययः एव नैमित्तकः | अन्यः न कोऽपि प्रत्ययो वर्तते यः यङः लुक् प्रति नैमित्तकः स्यात् | लू + यङ् + अनीयर् → लोलवनीयम् |
अन्यत् उदाहरणं स्वीकुर्मः, लिख् → यङ्लुकि लेलिख् इति धातुः → लेलिख् + ण्वुल् → लेलेखकः | अत्र पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन ण्वुल्-प्रत्यये परे लघूपधा इत्यस्य गुणादेशः भवति | तदर्थं लेलेखकः अस्ति, न तु लेलिखकः | एवमेव लेलेखनीयं, लेलेखितुं, लेलेखितव्यं, लेलेखिता, लेलेखिष्यति | एते सर्वे प्रत्ययाः यङोऽचि च (२.४.७४) इति सूत्रे अनैमित्तकाः इति करणतः अत्र न धातुलोप आर्धधातुके (१.१.४) इत्यस्य किमपि कार्यं नास्ति | प्रसक्तिरेव नास्ति |
किन्तु लिख् → यङि लेलिख्य इति धातुः → लेलिख्य + ण्वुल् → यस्य हलः (६.४.४९) इत्यनेन हलुत्तरस्य यशब्दस्य लोपो भवति आर्धधातुकप्रत्यये परे → लेलिख् + ण्वुल् → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन ण्वुल्-प्रत्यये परे लघूपधा इत्यस्य गुणादेशो न भवति यतोहि न धातुलोप आर्धधातुके (१.१.४) इत्यनेन पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन प्राप्तगुणः बाधितः भवति → लेलिखकः | एवमेव लेलिखनीयं, लेलिखितुं, लेलिखितव्यं, लेलिखिता, लेलिखिष्यति |
तर्हि आहत्य यङोऽचि च (२.४.७४) इति सूत्रे बहुलम् इति अनुवृत्त्या यङः लुक् वैकल्पिकम् | द्वादशानां सनादीनां धातु-प्रत्ययानां वैकल्पिकत्वं धातोः कर्मणः समानकर्तृकादिच्छायां वा (३.१.७) इति सूत्रात् 'वा' इति अनुवृत्त्या सर्वत्र सिध्यति | किन्तु यङः लुक् विधीयते लुक्-प्रकरणे न तु धातुप्रत्ययप्रकरणे इति कारणतः बहुलं छन्दसि (२.४.७३) इत्यस्मात् बहुलम् इत्यस्य अनुवृत्त्या सिध्यति | 'अचि' इति निवेशस्य फलं न धातुलोप आर्धधातुके (१.१.४) इति सूत्रे | 'च'-शब्देन अच्-प्रत्ययं विनाऽपि यङः लुक् भवति; इत्युक्ते यङः लुक् अनैमित्तिकम् |
अग्रे प्रश्नः उदेति यत् बहुलं छन्दसि (२.४.७३) इत्यस्मात् छन्दसि इत्यस्य अनुवृत्तिः भवेत्; अनेन यङः लुक् केवलं वेदे न तु लोके | तर्हि लोके कथं विधीयते इत्यपि द्रष्टव्यम् | वेदे भू-धातोः यङ्लुगन्तधातोः लोट्-लकारस्य प्रथमपुरुषैकवचनान्तरूपम् अस्ति 'बोभूतु' | इदं रूपं च साक्षात् निपातनेन उच्यते अस्मिन् सूत्रे—दाधर्ति-दर्धर्ति-दर्धर्षि-बोभूतु-तेतिक्तेऽलर्ष्या-पनीफणत्-संसनिष्यदत्-करिक्रत्-कनिक्रदद्-भरिभ्रद्-दविध्वतो-दविद्युतत्-तरित्रतः-सरीसृपतं-वरीवृजन्-मर्मृज्या-गनीगन्तीति च (७.४.६५) | वेदे 'बोभूतु' इत्यस्य निपातनं भवति अष्टाध्याय्यां यतोहि लोके तस्य रूपं 'बोभोतु' इति भवति | लोके गुणं कृत्वा 'बोभोतु'; वेदे गुणाभावे 'बोभूतु' | किन्तु भूसुवोस्तिङि (७.३.८८) इत्यनेन एव गुणनिषेधं साधयितुं शक्यम् आसीत् अतः निपातनस्य का आवश्यकता | अनेन निपातनं व्यर्थम् | अस्य समाधानमिदं यत् दाधर्ति० (७.४.६५) इति सूत्रे 'बोभूतु' इति ज्ञापकम् अस्ति यत् लोकेऽपि यङ्लुगन्तरूपं भवति | यदा वेदे निपातनं कृत्वा सूचितं यत् गुणनिषेधो भवति, तदा लोके तस्मात् भिन्नं भवेत् इत्युक्ते गुणः भवेत् | अतः लोके 'बोभोतु' इति गुणसहितरूपं भवति यद्यपि भूसुवोस्तिङि (७.३.८८) इत्यनेन लोकेऽपि गुणनिषेधो भवति स्म | तर्हि लोके 'बोभोतु', वेदे 'बोभूतु' | निपातनस्य बलेन भूसुवोस्तिङि (७.३.८८) इति सूत्रं यङ्लुकि लोके कार्यं न करोति | किन्तु अन्यत्र लोके कार्यं करोति, यथा लुङि 'अभूत्' |
भूसुवोस्तिङि (७.३.८८) = भू सू इति धातुभ्यां सार्वधातुके तिङ्प्रत्यये परे गुणनिषेधः भवति | भू-धातुः भ्वादिगणे, यथा लुङ्-लकारे भू-धातोः परे तिङ् साक्षात् आयाति | तत्र इकः गुणः भवति स्म, परन्तु अनेन सूत्रेण गुणनिषेधः, अभूत् इति रूपम् | सू-धातुः अदादिगणे; अनेन सूत्रेण पिति परे अपि गुणः न | भूश्च सूश्च भूसुवौ इतरेतरद्वन्द्वः, तयोः भूसुवोः | भूसुवोः षष्ठ्यन्तं, तिङि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | नाभ्यस्तस्याचि पिति सार्वधातुके (७.३.८७) इत्यस्मात् न, सार्वधातुके इत्यनयोः अनुवृत्तिः | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— भूसुवोः न गुणः सार्वधातुके तिङि |
वस्तुतस्तु अनेन एव सूत्रेण अधिकाधिकधातुभ्यः यङः लुक् भवति | इत्युक्ते येभ्यः उपर्युक्तेभ्यः धातुभ्यः यङ्-प्रत्ययः सम्भवति, आधिक्येन तेभ्यः यङः लुक् अपि विकल्पेन भवति | परिगणितेभ्यः एव यङः लुक् न भवति; ते च महाभाष्यस्य ज्ञापकेन अधः निर्दिष्टाः |
केभ्यः धातुभ्यः यङ्ः लुक् न भवति
वकारन्तधातवः—
महाभाष्ये दत्तम् अस्ति यत् च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन ये ऊठ्-भाविनः वकारान्तधातवः सन्ति, तेषां यङ्लुक् न भवति | ऊठ्-भावी धातुः इत्युक्ते तादृशधातुः यस्य च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रेण ऊठ्-आदेशः सम्भवति |
च्छ्वोः शूडनुनासिके च (६.४.१९) = तुक्-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ् च व् च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श् च ऊठ् च तयोः समाहारद्वन्द्वः शूड् | झलां जशोऽन्ते (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— च्छ्वोः अङ्गस्य शूड् क्विझलोः अनुनासिके च |
स्रिव्, मव् इति द्वौ धातू ऊठ्-भाविनौ, किन्तु ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) इति सूत्रेण न तु च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रेण | अस्मिन् सूत्रे एतौ द्वौ वकारान्तधातू साक्षात् उल्लेखितौ, अतः एतौ द्वावेव ययोः यङ्लुक् रूपं भवति | (अस्मिन् सूत्रे अव्-धातुः अपि पठितः, किन्तु स च धातुः अजादिः इति कारणतः यङ्-प्रत्ययः न विधीयते; तदर्थं तस्य यङ्लुक् अपि न भवति |)
ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) = ज्वर्, त्वर्, स्रिव्, अव्, मव् इत्येषां धातूनाम् उपधा च वकारः चेत्यनयोः मिलित्वा स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | ज्वरश्च त्वरश्च स्रिविश्च अविश्च मव् च तेषामितरेतरद्वन्द्वः ज्वरत्वरस्रिव्यविमवः, तेषां ज्वरत्वरस्रिव्यविमवाम् | ज्वरत्वरस्रिव्यविमवाम् षष्ठ्यन्तम्, उपधायाः षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्मात् वः, ऊठ्, अनुनासिके इत्येषाम् अनुवृत्तिः | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ज्वरत्वरस्रिव्यविमवाम् अङ्गस्य उपधायाः वः च ऊठ् क्विझलोः अनुनासिके च |
येषां वकारान्तधातूनाम् अन्तिमवकारात् प्राक् रेफः अस्ति, यथा धुर्व्, तुर्व्, थुर्व्, दुर्व्, मूर्व्, पूर्व्, खर्व्, गर्व्, चर्व्, पर्व्, भर्व्, मर्व्, शर्व्, षर्व्, एते धातवः ऊठ्-भाविनः न, अपि तु एषाम् अन्तिमवकारस्य लोपः सम्भवति राल्लोपः इति सूत्रेण | एतादृशेभ्यः वकारान्तधातुभ्यः यङ्लुक् भवति |
राल्लोपः (६.४.२१) = रेफात् परस्य छकारस्य वकारस्य च लोपो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | रात् पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्मात् च्छ्वोः इत्यस्य अनुवृत्तिः; अत्र धेयं यत् अनुवृत्तौ 'तक्-सहितः छकारः' सत्यपि व्याख्याने तुगागमो नापेक्षितः अतः न स्वीकृतः | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् अनुनासिकस्य, क्विझलोः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य रात् च्छ्वोः लोपः अनुनासिके क्विझलोः |
यकारान्तधातवः—
मव्य्-धातोः यङः लुक् न भवति; अवशिष्टेभ्यः यकारान्तधातुभ्यः यङ्लुगन्तरूपं भवति |
धात्वादेशीयानां यङ्-लुक्
चत्वारः धात्वादेशाः भवन्ति आर्धधातुकप्रत्यये परे | इदं कार्यम् आर्धधातुकप्रत्ययस्य विषये भवति; यङ्लुकि च यङ् इति आर्धधातुकप्रत्ययः 'नष्टो भविष्यति' इति योजनायाः बलात् अकृतव्यूहाः पाणिनीयाः (परिभाषा ५६) इत्यनेन इमे धात्वादेशाः निषिद्धाः | अनया परिभाषया यन्निमित्तकं कार्यं निर्दिष्टं, तदेव निमित्तं यदि नशिष्यमाणं, नाम अग्रे निश्चिततया नष्टो भविष्यति, तन्निमित्तककार्यं न भवति |
- अस्-धातोः स्थाने भू-आदेशो न भवति | अस्-धातुश्च अजादिः अतः तस्य यङ्-प्रत्ययः एव न भवति; यङ् न भवति चेत् यङ्-लुक् अपि न भवति |
- अज्-धातोः स्थाने वी-आदेशः न भवति | अज्-धातुः अजादिः यस्मात् यङ्लुक् न भवति |
- चक्ष्-धातोः स्थाने ख्याञादेशो न भवति | चक्ष्-धातुः हलादिः एकाच् अतः यङ् भवति; तस्मात् यङ्लुक् अपि भवति |
- ब्रू-धातोः स्थाने वच्-आदेशो न भवति | ब्रू-धातुः हलादिः एकाच् अतः यङ् भवति; तस्मात् यङ्लुक् अपि भवति |
अस्तेर्भूः (२.४.५२) = आर्धधातुकविवक्षायाम् अस्-धातोः स्थाने भू-आदेशो भवति | अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अस्तेः भूः आर्धधातुके |
अजेर्व्यघञपोः (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ् च अप् च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अजेः वी आर्धधातुके अघञपोः |
चक्षिङः ख्याञ् (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ् प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चक्षिङः ख्याञ् आर्धधातुके |
ब्रुवो वचिः (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | इकार उच्चारणार्थः | ब्रुवः षष्ठ्येकवचनं, वचिः प्रथमैकवचनं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ब्रुवः वचिः आर्धधातुके |
उपर्युक्तपरिगणितान् स्थलान् (यकारान्तधातून्, वकारान्तधातून्, धात्वादेशीयान् चेति) अतिरिच्य, येभ्यः धातुभ्यः यङ्-प्रत्ययो भवति, तेभ्यः यङ्लुक् अपि भवति |
यङ्लुक्-प्रक्रिया
सर्वप्रथमं यङ् विधीयते, तदा सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा | तदा यङः लुक्—
यङोऽचि च (२.४.७४) इति सूत्रेण यङ्-प्रत्ययस्य विकल्पेन लुक् भवति | तदा युगपत् यङः लुक् अपि च सन्यङोः (६.१.९) इत्यनेन द्वित्वप्रसक्तिः | अयं लुक्-आदेशः अनैमित्तिकः किन्तु सन्यङोः (६.१.९) इत्यनेन यत् द्वित्वं भवति तस्य कृते निमित्तानि सन्ति— एकाचो द्वे प्रथमस्य (६.१.१) इत्यनेन द्रष्टव्यं यत् यस्य धातोः द्वित्वं तस्मिन् एकाच् अथवा अनेकाचः वर्तन्ते; अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्रष्टव्यं यत् तस्य आदौ अच्-वर्णः अस्ति अथवा हल्-वर्णः | तस्मात् सन्यङोः (६.१.९) इत्यस्य अपेक्षया यङोऽचि च (२.४.७४) अनैमित्तिकत्वात् अन्तरङ्गम् अस्ति | अल्पापेक्षमन्तरङ्गम् | द्वित्वकार्यं बहिरङ्गम् | इति कारणतः द्वित्वात् प्रागेव प्रक्रियायां सर्वप्रथमं कार्यं यङः लुक् |
द्वित्वम्—
यङः लुगानन्तरं प्रश्नः उदेति यदा यङ्-प्रत्ययो नास्त्येव, तदा कथं सन्यङोः (६.१.९) इत्यनेन द्वित्वं स्यात् ?
सन्यङोः (६.१.९) = सन्नन्तस्य यङन्तस्य च धातुरनभ्यासस्य प्रथमस्यैकाच्-अवयवस्य द्वे स्तः; अजादेस्तु द्वितीयस्य | सन् च यङ् च तयोरितरेतरद्वन्द्वः सन्यङौ, तयोः सन्यङोः | सन्यङोः षष्ठ्यन्तम्, एकपदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः, अनभ्यासस्य इत्यनयोः अनुवृत्तिः | एकाचो द्वे प्रथमस्य (६.१.१), अजादेर्द्वितीयस्य (६.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— सन्यङोः धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य अजादेः द्वितीयस्य |
एकाचो द्वे प्रथमस्य (६.१.१) = अधिकारसूत्रं— प्रथमस्य एकाच्-भागस्य द्वित्वं भवति | जागृ → जा जागृ | पच् → पच् पच् | इ → इ इ | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | एकाचः षष्ठ्यन्तं, द्वे प्रथमान्तं, प्रथमस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— प्रथमस्य एकाचः द्वे |
अजादेर्द्वितीयस्य (६.१.२) | अधिकारसूत्रम्— अजादिधातोः द्वितीयस्य एकाच्-भागस्य द्वित्वं भवति | ऊर्णु → ऊर्णु नु | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | अजादेः षष्ठ्यन्तं, द्वितीयस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— अजादेः द्वितीयस्य (एकाचः द्वे) |
बहुत्र धातुः एकाच् एव; तथा भवति चेत् समग्रधातोरेव द्वित्वं भवति | यथा जुहोत्यादिगणे मा → मामा, हा → हाहा | यङन्तधातुः सदा अनेकाच् यतोहि औपदेशिकधातौ न्यूनातिन्यूनम् एकः स्वरः अस्त्येव; तदा 'य' इत्यस्य संयोजनेन ‘य' इत्यस्मिन् यः अकारः, सः यङन्तधातोः द्वितीयः अच्-वर्णो भवति | धातुः अनेकाच् चेत्, अपि च हलादिः इति चेत् एकाचो द्वे प्रथमस्य (६.१.१) इत्यनेन प्रथमस्य एकाच्-भागस्य द्वित्वं भवति | धातुः अनेकाच् चेत्, अपि च अजादिः इति चेत् अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वं भवति | एकाच्-भागः इत्युक्ते यादा हि प्रथमः अच्-वर्णः आयाति, स च वर्णः भागस्य अन्तो भवति | नाम, स्वरवर्णः भागस्य अन्तिमवर्णो भवति | अग्रिमवर्णः अग्रिमभागस्य प्रथमवर्णः |
यथा भू + य → भूय इत्यस्य सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातुसंज्ञा → सन्यङोः (६.१.९) इत्यनेन द्वित्वम् → भूय इति धातुः अनेकाच्, हलादिः च अतः प्रथमस्य एकाच्-भागस्य द्वित्वम् → ऊ-कारः स्वरः अतः स च ऊकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'भू' इति प्रथमभागः, तस्य च द्वित्वम् → भू भू य
किन्तु धातुः अजादिः अस्ति चेत् अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वं भवति—
अश् य → अश्य इत्यस्य सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातुसंज्ञा → सन्यङोः (६.१.९) इत्यनेन अजादेः द्वितीयस्य द्वित्वम् → अश्य इति धातौ अश्य इत्यस्य प्रथमः अ-कारः स्वरः अतः स च अकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'श्य' इति द्वितीयभागः, तस्य च द्वित्वम् → अ श्य श्य
धेयं यत् 'यङ्-प्रत्ययं निमित्तीकृत्य द्वित्वम्' इति वार्ता नास्ति | 'अश् य → अश्य → अ श्य श्य' इत्यस्य दर्शनेन स्पष्टं भवति यत् यङ्-प्रत्ययः द्वित्वकार्यस्य निमित्तं नास्ति; 'य' एव स्थानी, नाम स च 'य' कार्यस्य स्थलम् | अपरेषु द्वित्वप्रसङ्गेषु प्रत्ययः सप्तमीविभक्तौ भवति— लिटि धातोरनभ्यासस्य (६.१.८), श्लौ (६.१.१०), चङि (६.१.११) | एषु लिटि, श्लौ, चङि इति सप्तम्यन्तानि; किन्तु सन्यङोः (६.१.९) इत्यस्मिन् सन्यङोः इति षष्ठ्यन्तं पदम् | यतोहि तस्य एव द्वित्वं भवति | यस्य अन्ते यङ् अस्ति, तस्य द्वित्वं भवति | यङ् तस्मिन् द्वित्वकार्ये अन्तर्भूतमेव |
न न्द्राः संयोगादयः (६.१.३) = अचः पराः संयोगादयः नदराः द्विर्न भवन्ति | न् च द् च रश्च तेषामितरेतरद्वन्द्वो न्द्राः | संयोगस्य आदयः, संयोगादयः षष्ठीतत्पुरुषः | न अव्ययपदं, न्द्राः प्रथमान्तं, संयोगादयः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अजादेर्द्वितीयस्य (६.१.२) इत्यसमत् अजादेः इत्यस्य अनुवृत्तिः | अच् चासौ आदिश्च अजादिः, तस्मात् अजादेः कर्मधारयः | एकाचो द्वे प्रथमस्य (६.१.१) इत्यसमत् द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अजादेः संयोगादयः न्द्राः न द्वे |
यथा—
ऊर्णु → ऊ इति प्रथमः एकाच्-भागः, र्णु इति द्वितीयः एकाच्-भागः → अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वम् → न न्द्राः संयोगादयः (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'नु' इत्यस्य एव द्वित्वम् → ऊर्णु नु
उन्द् + सन् → इडागमः, षत्वादेशः → उन्दिष → त्रयः एकाच्-भागाः उ, न्दि, ष → अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वम् → 'न्दि' इति द्वितीयः एकाच्-भागः → न न्द्राः संयोगादयः (६.१.३) इत्यनेन संयोगादि-नकारस्य द्वित्वं न भवति अतः 'दि' इत्यस्य एव द्वित्वम् → प्रथमः तृतीयः च एकाच्-भागौ यथावत् तिष्ठतः → उन्दि + दि + ष → उन्दिदिष
प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात् | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन् प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणम्, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णं— प्रत्ययलोपे प्रत्ययलक्षणम् |
न लुमताऽङ्गस्य (१.१.६३) = यस्मिन् शब्दे 'लु' अस्ति, तेन शब्देन प्रत्ययादर्शनं विहितं चेत्, सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात् | लुः अस्य अस्ति इति लुमान्, तेन लुमता | न अव्ययपदं, लुमता तृतीयान्तम्, अङ्गस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न |
अस्मिन् सूत्रे लुमता, लुमत् इति प्रातिपदिकस्य तृतीयाविभक्त्यन्तं रूपम् | इदं मतुप्-प्रत्ययान्तं; प्रथमाविभक्तौ लुमान् | मतुप्-प्रत्ययस्य अर्थः अस्य अस्मिन् वा; यथा बुद्धिमान् इत्युक्ते बुद्धिः अस्य अस्मिन् वा, सः बुद्धिमान् | तर्हि 'लु' अस्य अस्मिन् वा, सः लुमान् | व्याकरणे त्रयः लुमन्तः सन्ति— लुक्, श्लु, लुप् चेति | इदं सूत्रं वक्ति यत् येन अदर्शनं भवति, सः लुमान् अस्ति चेत्, तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति | अनुवृत्ति-सहितसूत्रं तथैव— (यदा) लुमता प्रत्ययलोपे (तदा) अङ्गस्य प्रत्ययलक्षणं न | अतः न लुमताऽङ्गस्य (१.१.६३) इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यस्य बाधकसूत्रम् | तर्हि अत्र सारांशः एवं यत् लुक् इत्यनेन कस्यचित् प्रत्ययस्य अदर्शनं भवति चेत्, यस्मात् अङ्गात् सः प्रत्ययः लुप्तः जातः, तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति |
द्वित्वे वैशिष्ट्यं ह्वेञ्-धातुः—
ह्वेञ्-धातोः द्वित्वात् प्राक् तस्य सम्प्रसारणं भवति |
अभ्यस्तस्य च (६.१.३३) = अभ्यस्तीभविष्यतो ह्वेञः सम्प्रसारणं स्यात् | ह्वेञ्-धातोः यदा द्वित्वं भविष्यति तस्मात् साक्षात् प्रागेव तस्य सम्प्रसारणं भवति | अभ्यस्तस्य षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | ह्वः सम्प्रसारणम् (६.१.३२) इत्यस्य सम्पूर्णतया अनुवृत्तिः | ह्वः इति ह्वा-शब्दस्य षष्ठ्यन्तं रूपम्; आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन ह्वे इत्यस्मात् ह्वा | अनुवृत्ति-सहितसूत्रम्— अभ्यस्तस्य ह्वः सम्प्रसारणं च |
ह्वे + यङ् → अभ्यस्तस्य च (६.१.३३) इत्यनेन सम्प्रसारणम् → हु + य → तदा एव द्वित्वम्
एवमेव—
ह्वे + लिट् → हु + लिट्
ह्वे + सन् → हु + सन्
सिद्धान्तकौमुद्याम् 'अभ्यस्तीभविष्यतो ह्वेञः सम्प्रसारणं स्यात्' इति वृत्तिः | तत् कथम् इति प्रश्नः | 'ह्वः' इति षष्ठ्यन्तम्, 'अभ्यस्तस्य' इत्यपि षष्ठ्यन्तम्; अत्र द्वयोः सामानाधिकरण्यं वा, वैयधिकरण्यं वा ? अत्र काशिकावृत्तावस्ति, "'ह्वः' इति वर्तते, तद् 'अभ्यस्तस्य' इत्यनेन व्यधिकरणम्—अभ्यस्तस्य यो ह्वयतिः | कश्चाभ्यस्तस्य ह्वयतिः ? कारणम् | तेनाभ्यस्तकारणस्य ह्वयतेः प्रागेव द्विर्वचनात्सम्प्रसारणं भवति" | अत्र प्रश्नः जातः यत् ह्वः अभ्यस्तस्य इति पदद्वर्योर्मध्ये विशेषणविशेष्यभावो वर्तते किम् ? विशेषणविशेष्यभाव इत्युक्ते सामानाधिकरण्यम् | सामानाधिकरण्यं वर्तते चेत्, तर्हि द्विर्वचने कृतेऽभ्यस्तसंज्ञायामुपजातायां सम्प्रसारणं स्यात् | एवञ्च न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) इत्यनेन अभ्यासस्य सम्प्रसारणं न स्यात् | अतः सूत्रार्थः कः ? 'अभ्यस्तस्य यः ह्वेञ्-धातुः', न तु 'ह्वः अभ्यस्तस्य' इति | अभ्यस्तस्य कः ह्वेञ्-धातुः ? 'कारणम्' इत्याह | अनेन अभ्यस्तस्य कारणीभूतस्य ह्वेञ्-धातोः द्विर्वचनात् प्रागेव सम्प्रसारणं भवति | इदमुत्तरं महाभाष्यम् अनुसृत्यैव काशिकावृत्तिर्दत्ता | नाम 'अभ्यस्तस्य कः ह्वेञ्-धातुः ?' इति प्रश्ने सति, भाष्ये 'प्रकृतिः' इत्युक्तम्— 'ह्वोभ्यस्तस्य प्रकृतिरिति' | भाष्यकारो वदति यत् अभ्यस्तसंज्ञायाः यः प्रकृतिभूतः ह्वेञ्-धातुः, तस्य सम्प्रसारणं भवति | इत्थञ्च यत्र अभ्यस्तसंज्ञा सम्भवति, तत्र द्वित्वात् प्रागेव सम्प्रसारणं क्रियते |
न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति | न अव्ययपदं, सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णं— न सम्प्रसारणे सम्प्रसारणम् |
प्रश्नः उदेति यत् ह्वे-धातोः एजन्तत्वात् तस्य आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन आत्त्वं भवति किम् ? अवश्यं भवति— पर्जन्यवत् भवति; तस्य फलं नास्ति इति कारणतः न प्रदर्श्यते | किन्तु भवति; आत्त्वस्य अनैमित्तकत्वात् सम्प्रसारणात् प्रागेव |
ह्वे → धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) → ह्वे+ यङ् → यङोऽचि च (२.४.७४) → ह्वे → आदेच उपदेशेऽशिति (६.१.४५) → ह्वा → अभ्यस्तस्य च (६.१.३३) इत्यनेन सम्प्रसारणम् → हु आ → सम्प्रसारणाच्च (६.१.१०८) → हु → तदा एव द्वित्वम्
अभ्यासः अभ्यस्तम् इति द्वे संज्ञे—
पूर्वोऽभ्यासः (६.१.४) = द्वित्वानन्तरं, यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम् | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— पूर्वः अभ्यासः द्वयोः |
उभे अभ्यस्तम् (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम् | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्—उभे द्वे अभ्यस्तम् |
अभ्यासकार्यम्—
न लुमताङ्गस्य (१.१.६३) इत्यनेन यङ्-प्रत्यय-निमित्तम् अङ्गकार्यं निषिद्धम् | यथोक्तं, द्वित्वकार्यं प्रत्ययलक्षणेन भवति | अभ्यासकार्यं तु यङ्-प्रत्ययनिमित्तिकं नास्ति, तदर्थं यङः लुकि न काऽपि बाधा |
द्वित्वस्य अनन्तरं कानिचन कार्याणि भवन्ति अभ्यासे, तानि च 'अभ्यासकार्यम् इत्युच्यते | यथा अभ्यासस्य ह्रस्वत्वम्, अल्पप्राणत्वं च भवति | अभ्यासकार्यस्य पुनः विभजनं भवति— सामान्याभ्यासकार्यं, विशेषाभ्यासकार्यं चेति |
सामान्याभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति— लिटि, सनि, यङि, श्लौ, चङि च | विशेषाभ्यासकार्यं भवति द्वित्व-सम्बद्ध-प्रत्ययम् अधिकृत्य; यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यङि, चङि च | अत्र सामान्याभ्यासकार्याणि प्रदर्श्यन्ते | ततः अग्रे यथास्थानं यङ्लुक्-विशिष्टानि अभ्यासकार्यणि प्रदर्श्यन्ते |
अत्र सन्ति प्रमुख-सामान्याभ्यासकार्याणि—
हलादिः शेषः (७.४.६०)
शर्पूर्वाः खयः (७.४.६१)
ह्रस्वः (७.४.५९)
उरत् (७.४.६६)
कुहोश्चुः (७.४.६२)
अभ्यासे चर्च (८.४.५४)
हलादिः शेषः (७.४.६०) = अभ्यासस्य आदिमः* हल् शेषः, अभ्यासे अपरेषां हलां लोपः | हल् प्रथमान्तम्, आदिः प्रथमान्तं, शेषः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— (अङ्गस्य) अभ्यासस्य हलादिः शेषः |
पठ् → सन्यङोः (६.१.९) इत्यनेन यङन्तस्य धातोः प्रथमस्यैकाचो द्वे स्तः → पठ् पठ् → प्रथमः पठ् इति भागः अभ्याससंज्ञकः → हलादिः शेषः (७.४.६०) इत्यनेन अभ्यासस्य आदिमः हल् शेषः, अभ्यासे अपरेषां हलां लोपः → प पठ् | तथैव ज्ञा → ज ज्ञा |
एवमेव विचारणीयम्— धन्, निज्, विष्, खाद्, धिष्, विज्, तुर्, भस् |
*आदिमः इत्युक्तौ 'आदौ यः', न तु 'प्रथमः' | अतः अजादिधातोः द्वित्वं क्रियते चेत्, आदौ अच्-वर्णः न तु हल्-वर्णः इति कारणतः हलादिः शेषः (७.४.६०) इत्यनेन अभ्यासे सर्वेषां हल्-वर्णानां लोपो भवति | अट् → अट् अट् → अ अट् |
शर्पूर्वाः खयः (७.४.६१) = यस्य अभ्यासस्य पूर्वं शर् परञ्च खय्, तस्य तु खय् एव शेषो भवति, अन्ये हलः च लुप्यन्ते | हलादिः शेषः (७.४.६०) इत्यस्य अपवादः अतः तस्य बाधकसूत्रम् | शर् पूर्वो येषां ते शर्पूर्वाः | शर्पूर्वाः प्रथमान्तं, खयः प्रथमान्तं, द्विपदमिदं सूत्रम् | हलादिः शेषः (७.४.६०) इत्यस्मात् वचनपरिणामं कृत्वा शेषाः इत्यस्य अनुवृत्तिः | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— (अङ्गस्य) अभ्यासस्य शर्पूर्वाः खयः शेषाः |
स्पर्ध् → स्पर्ध् स्पर्ध् → प स्पर्ध्
एवमेव विचारणीयम्— स्पन्द्, स्पूर्ज्, स्तम्भ्, स्तुभ्, स्खल्, स्पश्, स्तिघ्, स्फुर् |
ह्रस्वः (७.४.५९) = अभ्यासस्य अच्-वर्णः ह्रस्वः स्यात् | अचश्च (१.२.२८) इति परिभाषा-सूत्रेण यत्र कुत्रापि सूत्रेषु 'ह्रस्व', 'दीर्घ', 'प्लुत' इत्येते शब्दाः आयान्ति, तत्र 'अचः' इति शब्दः सूत्रार्थेऽपि आयाति | अतः 'ह्रस्वः' इत्युक्तौ 'ह्रस्वः अच्-वर्णः'; तथा सर्वत्र | ह्रस्वः प्रथमान्तम्, एकपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य अचः ह्रस्वः |
खा खाद् → ख खाद्
नी नी → नि नी
लू लू → लु लू
से सेव् → सि सेव्
गो गोष्ट् → गु गोष्ट्
ढौ ढौक् → ढु ढौक्
उरत् (७.४.६६) = अभ्यासस्य ऋवर्णस्य स्थाने अत्-आदेशः भवति | उः षष्ठ्यन्तम्, अत् प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य उः अत् |
वृष् → वृष् वृष् → वृ वृष् → वर् वृष् → व वृष्
कृष् → कृष् कृष् → कृ कृष् → कर् कृष् → क कृष् → च कृष्
हृष् → हृष् हृष् → हृ हृष् → हर् हृष् → ह हृष् → ज हृष्
ऋकारान्तधातवः—
भृ → भृ भृ → भर् भृ → भ भृ → ब भृ
हृ → हृ हृ → हर् हृ → ह हृ → ज हृ
कृ → कृ कृ → कर् कृ → क कृ → च कृ
तॄ → तॄ तॄ → तर् तॄ → त तॄ
धेयं यत् यङ्लुकि न लुमताङ्गस्य (१.१.६३) इत्यनेन यङ्-निमित्तीकृत्य अङ्गकार्यनिषेधत्वात् रीङ् ऋतः (७.४.२७) इत्यनेन धातोः ॠकारस्य (ॠतः) रीङ् इति आदेशो न भवति |
रीङ् ऋतः (७.४.२७) = ऋदन्ताङ्गस्य रीङादेशो भवति अकृतः यकारे परे, असार्वधातुकयकारे परे, च्वि-प्रत्यये च परे | रीङ्-आदेशस्य ङित्त्वात् ङिच्च इति सूत्रेण अङ्गस्य अन्त्यऋकारस्य एव स्थाने भवति |
कुहोश्चुः (७.४.६२) = अभ्यासे कवर्गीयस्य हकारस्य च स्थाने चवर्गीयादेशो भवति | तत्र स्थानेऽन्तरतमः (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात् हकारस्य स्थाने झकारः, तदा अभ्यासे चर्च (८.४.५४) इत्यनेन झ-स्थाने जकारः | कुश्च ह् च तयोरितरेतरद्वन्द्वः कुहौ, तयोः कुहोः | कुहोः षष्ठ्यन्तं, चुः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य कुहोः चुः |
स्थानेऽन्तरतमः (१.१.५०) = प्रसङ्गम् अवलम्ब्य तुल्यतमः आदेशो भवति | स्थाने सप्तम्यन्तम्, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम् |
कृ → कृ कृ → कर् कृ → क कृ → च कृ
खन् → खन् खन् → ख खन् → छ खन् → च खन्
गम् → गम् गम् → ग गम् → ज गम्
ग्रह् → ग्रह् ग्रह् → ग ग्रह् → ज ग्रह्
घृ → घृ घृ → घर् घृ → झ घृ → ज घृ
हृ → हृ हृ → हर् हृ → ह हृ → ज हृ
हस् → हस् हस् → ह हस् → झ हस् → ज हस्
अभ्यासे चर्च (८.४.५४)* = अभ्यासे झल्-स्थाने जश् चर् च आदेशौ भवतः | तत्र स्थानेऽन्तरतमः (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात् झश्-स्थाने जश् अपि च खय्-स्थाने चर् | अनुवृत्त्यर्थम् अष्टमाध्याये |अभ्यासे सप्तम्यन्तं, चर् प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | झलां जश् झशि (८.४.५३) इत्यस्मात् झलां, जश् इत्यनयोः अनुवृत्तिः | तयोर्यवावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्—अभ्यासे झलां जश् चर् च संहितायाम् |
चर्त्वम्
थु थुड् → तु थुड्
फ फल् → प फल्
छु छुप् → चु छुप्
जश्त्वम्
भु भू → बु भू
ढु ढौक् → डु ढौक्
झ झर्झ् → ज झर्झ्
धेयं यत् अभ्यासे वर्गस्थप्रथमसदस्यः, तृतीयसदस्यः, पञ्चमसदस्यः, यण्-प्रत्याहारस्थः चेति वर्णानां विकारो न भवति | अतः एषां नाम 'अनादेश-अभ्यासः' इति उच्यन्ते |
चल् → च चल्
जप् → ज जप्
टीक् → टि टीक्
डी → डि डी
तॄ → त तॄ
दल् → द दल्
नम् → न नम्
पत् → प पत्
बाध् → ब बाध्
मील् → मि मील्
यम् → य यम्
वृध् → व वृध्
*प्रश्नः उदेति यत् अभ्यासे चर्च (८.४.५४) तु अङ्गस्य (६.४.१) इत्यस्य अधिकारे नास्ति; तर्हि अङ्गकार्यम् अस्ति किम् ? अभ्यासस्य निमित्तं प्रत्ययः; प्रत्यये परे एव द्वित्वं भवति | अतः कस्यापि अभ्यासकार्यस्य निमित्तं तु प्रत्ययः अवश्यम् | तथा सति अङ्गकार्यमेव |
अधुना अभ्यासे चर्च (८.४.५४) अष्टमाध्यायस्य चतुर्थे पादे स्थापितम् अतः अङ्गकार्यं न स्यात् इति भासेत | अष्टमाध्यायस्य चतुर्थे पादे वर्णनिमित्तकार्यं जायमानं किन्तु अभ्यासे चर्च (८.४.५४) तु वर्णनिमित्तकं नास्ति | साधारणतया अष्टमाध्यायस्य चतुर्थे पादे किमपि सूत्रं स्थापितं चेत् तस्य तत्र स्थापनस्य विशिष्टकारणम् अस्ति असिद्धत्वम्; असिद्धत्वम् अपेक्षते, तदर्थं तत्र स्थापितम् | किन्तु अभ्यासे चर्च (८.४.५४) असिद्धमपि न भवति कदाचित् | त्रिपाद्यां पूर्वसूत्रं प्रति परसूत्रम् असिद्धम् | किन्तु अभ्यासे चर्च (८.४.५४) इत्यस्य सम्बन्धः एव नास्ति अपरत्रिपादिसूत्रैः सह अतः तानि सूत्राणि प्रति असिद्धत्वस्य अवसर एव नास्ति | वस्तुतस्तु अभ्यासे चर्च (८.४.५४) केवलम् अनुवृत्तिवशात् उक्तस्थाने अस्ति | झलां जश्झशि (८.४.५३) इत्यस्मात् जश् इति अनुवर्तते प्रकृतसूत्रे | अपि च अभ्यासे चर्च (८.४.५४) इति सूत्रात् चर् इत्यस्य अनुवृत्तिः भवति खरि च (८.४.५५) इति सूत्रे | अत्र फलितार्थः अस्ति यत् अभ्यासे चर्च (८.४.५४) अङ्गकार्यमेव यद्यपि अङ्गस्य (६.४.१) इत्यस्य अधिकारे नास्ति |
लिट्यभ्यासस्योभयेषाम् (६.१.१७) इति सूत्रं षष्ठ्याध्याये स्थपितम् अस्ति सम्प्रसारणम् इत्यस्य अनुवृत्ति-कृते | वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणं लिटि इति सूत्रार्थः | किन्तु वस्तुतस्तु इदम् अभ्यासकार्यमेव, अतः कार्यदृष्ट्या सप्तमाध्यायस्य चतुर्थपादे अभविष्यत् |
अभ्यासस्यासवर्णे (६.४.७८) इति सूत्रं षष्ठ्याध्याये स्थपितम् अस्ति इयङ्-उवङ् इत्यनयोः अनुवृत्ति-कृते | अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि इति सूत्रार्थः | किन्तु वस्तुतस्तु इदम् अभ्यासकार्यमेव, अतः कार्यदृष्ट्या सप्तमाध्यायस्य चतुर्थपादे अभविष्यत् |
इमानि त्रीणि सूत्राणि—अभ्यासे चर्च (८.४.५४), लिट्यभ्यासस्योभयेषाम् (६.१.१७), अभ्यासस्यासवर्णे (६.४.७८)—अभ्यासकार्याणि अतः सप्तमाध्यायस्य चतुर्थे पादे भवन्ति स्म परन्तु अनुवृत्त्यर्थम् अन्यत्र स्थापितानि | यत् किमपि सूत्रं स्वस्य प्रकरणात् बहिः स्थाप्यते, तस्य कारणम् अनुवृत्तिः हि | अनुवृत्तिवशात्, लाघवार्थं स्थानान्तरे भवति |
इति यङ्लुकि सामान्यम् अभ्यासकार्यं समाप्तम् | विशिष्टाभ्यासकार्यं यथास्थानम् अग्रे पदर्श्यते |
अधुना यत् ज्ञानम् अपेक्षितं, यानि यन्त्राणि अपेक्षितानि, तत् तानि च सर्वम् गृहीतम् | अग्रे सर्वान् औपदेशिकधातून् वर्गीकृत्य यङ्लुगन्तधातून् निर्मामः | सर्वत्र च क्रमः अयम्— यङ्-प्रत्ययविधानं, धातुसंज्ञा, यङ्-प्रत्ययस्य लुक्, द्वित्वम्, अभ्यासकार्यञ्च | यङः लुगनन्तरं, यङ् निमित्तीकृत्य अङ्गकार्यं निषिद्धं न लुमताऽङ्गस्य (१.१.६३) इति सूत्रेण |
आकारान्तधातूनाम् एजन्तधातूनां च यङ्लुगन्तधातुः
यङ्लुकि अङ्गकार्यविशेषः—
न लुमताऽङ्गस्य (१.१.६३) इत्यनेन यङ्-प्रत्यय-निमित्तम् अङ्गकार्यं निषिद्धम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन एजन्तस्य धातोरात्त्वं परन्तु भवति; अस्य सूत्रस्य अर्थो नास्ति यत् एजन्तस्य धातोरात्त्वं भवति अशिति प्रत्यये परे | 'अशिति प्रत्यये परे' इति उच्यते चेत्, यङ्लुकि अस्य कार्यं न भविष्यति | यतोहि यङ्लुकि अशित् प्रत्ययो नास्तेव | प्रत्ययस्य लुकि सति प्रत्ययः एव नास्ति | अतः सूत्रस्य अर्थः एवं यत् एजन्तधातोः आत्त्वादेशो भवति; शिति प्रत्यये परे न भवति | अनेन यङ्लुकि अपि आत्त्वादेशो भवति |
आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— एचः धातोः आत् उपदेशे अशिति |
यथा—
ग्लै → ग्ला, म्लै → म्ला, ध्यै → ध्या, शो → शा, सो → सा, वे → वा, छो → छा, धे → धा |
अत्र प्रश्नः उदेति यत् प्रक्रियाक्रमः कः— आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन आत्त्वं सर्वप्रथमं भवति वा, तदा एव धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यनेन यङ्-विधानम् ? अथवा धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२), तदा यङोऽचि च (२.४.७४) इति सूत्रेण यङ्-प्रत्ययस्य लुक्, तदा एव आदेच उपदेशेऽशिति (६.१.४५) ? अत्र सरलरीत्या चिन्तयितुं शक्नुमः यत् आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशावस्थायां कार्यं भवति, नाम धातुः औपदेशिकः स्यात्, अतः आरम्भे एव आत्त्वं भवतु | नो चेत् यङ् यदा हि विधीयते, तदा हि आतिदेशिकधातोः धातुसंज्ञा भवति | तस्य निवारणार्थं सर्वप्रथमम् आदेच उपदेशेऽशिति (६.१.४५) | इति अस्माकं तादृशचिन्तनं स्यात् |
किन्तु एतादृशं कुर्मः चेत्, समस्या भवति | अपि च आदेच उपदेशेऽशिति (६.१.४५) इति स्वयम् अनैमित्तकम्, अतः कदाचिदपि भवितुम् अर्हति | यथा जानीमः, ‘अशित्-प्रत्यये परे' इति तु नास्ति; अपि तु 'शित्-प्रत्यये परे न' इत्येव | अधुना समस्या का इति चेत्, सर्वप्रथमम् आदेच उपदेशेऽशिति (६.१.४५) भवति चेत्, प्रक्रिया कथं स्यात् लटि | यथा भ्वादौ ध्यै + लट् → लट्-प्रत्ययः शित् न अतः आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन आत्त्वम् → ध्या + लट् → ध्या + तिप् → ध्या + शप् + तिप् → अधुना आत्त्वं वर्तते, शप्-प्रत्ययः च परः → पुनः 'ध्यै' इति रूपं कुर्मः वा ? एतादृशं विधानं न भवति केनचिदपि सूत्रेण | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य फलितः अर्थः अस्ति यत् प्रक्रियायां कुत्रचिदपि शप्-प्रत्ययः नास्ति चेत्, एजन्तधातोः आत्त्वं भवति | अनेन बुध्यते यत् आदेच उपदेशेऽशिति (६.१.४५) इति सूत्रं स्वयं ज्ञापयति यत् प्रथमतया ये ये प्रत्ययाः विधीयन्ते, एते सर्वे आनेतव्याः; सर्वेषां विधानानन्तरं, एषु विहितप्रत्ययेषु एकोऽपि शित् नास्ति चेत्, एजन्तधातोः आत्त्वं भवति | प्रक्रियारम्भे आत्त्वं कुर्मः चेत्, सार्वधातुकप्रक्रिया नष्टा भवति | अस्य निवारणार्थं प्रत्ययाः विधेयाः, तदा आत्त्वम् | अतः अत्र सर्वप्रथमं धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२), तदा यङोऽचि च (२.४.७४), तदा एव आदेच उपदेशेऽशिति (६.१.४५) |
अन्यच्च आरम्भे एव आदेच उपदेशेऽशिति (६.१.४५) भवतु इत्यस्माभिः चिन्तितं येन धातुः औपदेशिकः स्यात्, नाम उपदेशावस्थायां स्यात् | अत्रोच्यते यत् आतिदेशिकधातोः विधानानन्तरमपि अन्तर्निहितः औपदेशिकधातुसंज्ञा अपि वर्तते | यथा ध्यै + यङ् → ध्यैय → द्वित्वाभ्यासकार्यात् पूर्वमपि आतिदेशिकधातुसंज्ञा भवति 'ध्यैय’ इति रूपस्य; तत्र च अन्तर्निहित 'ध्यै' इत्यस्य तदानीमपि औपदेशिकधातुसंज्ञा वर्तते |
तदा सन्यङोः (६.१.९) इत्यनेन द्वित्वकार्यम्, अनन्तरम् अभ्यासकारम् |
यथा—
धा → धा धा → ह्रस्वः (७.४.५९) इत्यनेन ह्रस्वादेशः → ध धा → अभ्यासे चर्च (८.४.५४) इत्यनेन चर्त्वम् → द धा | अत्र यङि यङ्लुकि च एकं विशिष्टाभ्यास्यकार्यम्— दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्-अभ्यासस्य दीर्घादेशो भवति यङि यङ्लुकि च—
दे → दा → दा दा → द दा → दादा इति यङ्लुगन्तधातुः
व्ये → व्या → व्या व्या → व व्या → वाव्या इति यङ्लुगन्तधातुः
एवमेव—
ध्यै → ध्या → ध्या ध्या → द ध्या → दाध्या
ग्लै → ग्ला → ग्ला ग्ला → ज ग्ला → जाग्ला
म्लै → म्ला → म्ला म्ला → म म्ला → माम्ला
मा → मा मा → म मा → मामा
घ्रा → घ्रा घ्रा → ज घ्रा → जाघ्रा
दीर्घोऽकितः (७.४.८३) = अकित्-अभ्यासस्य दीर्घादेशो भवति यङि यङ्लुकि च | न कित् यस्य स अकित्, तस्य | 'अकित्-अभ्यासः' इत्युक्ते तादृशः अभ्यासः यस्य कित् आगमो न भवति | दीर्घः प्रथमान्तम्, अकितः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ्लुकोः |
इकारान्तानाम् ईकारान्तानां च धातूनां यङ्लुगन्तधातुः
गुणो यङ्लुकोः (७.४.८२) = अभ्यासस्य गुणो भवति यङि यङ्लुकि च | यङ् च लुक् च यङ्लुकौ इतरेतरद्वन्द्वः, तयोः यङ्लुकोः | गुणः प्रथमान्तं, यङ्लुकोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य गुणः यङ्लुकोः |
जि → जि जि → गुणो यङ्लुकोः (७.४.८२) → जेजि इति यङ्लुगन्तधातुः
एवमेव—
चि → चि चि → चेचि
नी → नि नी → नेनी
क्री → चि क्री → चेक्री
शी → शि शी → शेशी
श्वि → शि श्वि → शेश्वि
अत्र प्रश्नः उदेति यत् जि → जि जि इति स्थितौ न केवलं गुणो यङ्लुकोः (७.४.८२) अपि तु दीर्घोऽकितः (७.४.८३) इत्यस्यापि प्रसक्तिरस्ति किल | अनयोः सूत्रयोः कः सम्बन्धः | अत्र बाध्यबाधकभावः कीदृशः ? पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः (परिभाषा ३८) इत्यनेन अनयोः कीदृशसम्बन्धः— पूर्वपरत्वम् इति वा, अपवादः इति वा ? अत्र अन्या परिभाषा परिशीलनीया— अभ्यासविकारेषु बाध्यबाधकभावो नास्ति (परिभाषा ६७) | अस्य बोधनेन सम्बन्धः स्पष्टो भवति |
उकारान्तानाम् ऊकारान्तानां च धातूनां यङ्लुगन्तधातुः
अत्रापि गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि यङ्लुकि च |
हु → हु हु → जु हु → जोहु इति यङ्लुगन्तधातुः
एवमेव—
भू → भू भू → बु भू → बोभू
ऋकारान्तधातूनां यङ्लुगन्तधातुः
ऋतश्च (७.४.९२) = ऋकारान्तधातोः अभ्यासस्य रुक्, रिक्, रीक् इति त्रयः आगमाः भवन्ति यङ्लुकि परे | ऋतः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम् | च-शब्देन रुग्रिकौ च लुकि (७.४.९१) इत्यस्मिन् अनुवृत्त-अभ्यासस्य, यङ् इत्यनयोः अत्रापि अनुवृत्तिः; तेन सह रुग्रिकौ च लुकि (७.४.९१) इत्यस्य अपि स्वयं सम्पूर्णरीत्या अनुवृत्तिः | रीगृदुपधस्य च (७.४.९०) इत्यस्मात् रीक् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ऋतश्च अङ्गस्य अभ्यासस्य रुक्-रिकौ रीक् च यङ्-लुकि |
अनेन सूत्रेण रीक् → री, रिक् → रि, रुक् → र् इत्येषां त्रयाणाम् आगमानां विधानं भवति सर्वेभ्यः यथा—
कृ → कृ कृ → चकृ → चरीकृ, चरिकृ, चर्कृ इति यङ्लुगन्तधातवः
भृ → भृ भृ → बभृ → बरीभृ, बरिभृ, बर्भृ
हृ → हृ हृ → जहृ → जरीहृ, जरिहृ जर्हृ
ॠकारान्तधातूनां यङ्लुगन्तधातुः
तॄ → तॄ तॄ → तर् तॄ → ततॄ → दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्-अभ्यासस्य दीर्घादेशो भवति यङ्लुकि → तातॄ इति यङ्लुगन्तधातुः
एवमेव—
वॄ →
जॄ →
शॄ →
भॄ →
दॄ →
पॄ →
गॄ-धातुः शब्दे इत्यस्य अनभिधानस्य (लोके अप्रयुज्यमानस्य) कारणेन यङ्-प्रत्ययो न भवति, तदर्थञ्च यङ्लुगन्तरूपमपि न भवति | [धातुपाठे द्वौ गॄ-धातू स्तः | तुदादिगणे गॄ निगरणे, लटि गिरति | क्र्यादिगणे गॄ शब्दे, लटि गृणति | गॄ शब्दे इत्यस्य अनभिधानस्य (लोके अप्रयुज्यमानस्य) कारणेन यङ्-प्रत्ययो न भवति | काशिकायां दीयते यत् "केचिद् ग्र इति गिरतेर्गृणातेश्च सामान्येन ग्रहणमिच्छन्ति | अपरे तु गिरतेरेव, न गृणातेः | गृणातेर्हि यङेव नास्ति, अनभिधानादिति | यङीति किम् ? निगीर्यते |”]
अत्र प्रश्नः उदेति यत् किमर्थं ॠत इद्धातोः (७.१.१००) इत्यनेन ऋदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशः न स्यात् ? तातॄ → ॠत इद्धातोः (७.१.१००) → ताति → उरण् रपरः (१.१.५१) → तातिर् इति किमर्थं न स्यात् ? यद्यपि अङ्गकार्यमस्ति, यङ्लुक् अथवा अन्यं प्रत्ययं निमितीकृत्य नास्ति किल ? किन्तु तथापि अङ्गकार्यम् इति तु अस्ति | अत्र यङः लुक् जातम् इति कारणतः न लुमताऽङ्गस्य (१.१.६३) इत्यनेन इदं कार्यं निषिद्धम् |
अदुपधधातूनां यङ्लुगन्तधातुः
१. सामान्यम्—
द्वित्वाभ्यास्यकार्यं कृत्वा अभ्यासस्य अन्त्यस्य अवर्णस्य दीर्घत्वं भवति दीर्घोऽकितः (७.४.८३) इति सूत्रेण—
गल् → गल् गल् → ग गल् → ज गल् → जागल् इति यङ्लुगन्तधातुः
एवमेव—
पच् → पच् पच् → प पच् → पापच्
वद् → वद् वद् → व वद् → वावद्
गद् → गद् गद् → ज गद् → जागद्
पठ् → पठ् पठ् → प पठ् → पापठ्
लष् →
लप् →
विशेषाः—
२. कस् ,पत्, पद् इति त्रयाणां धातूनां यङ्लुगन्तधातुः
नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् (७.४.८४) = वञ्च्, स्रंस्, ध्वंस्, भ्रंस्, कस्, पत्, पद्, स्कन्द् इत्येषां धातूनाम् अभ्यासस्य नीक्-आगमो भवति यङि यङ्लुकि च | वञ्चुश्च स्रंसुश्च ध्वंसुश्च भ्रंसुश्च कसश्च पतश्च पदश्च स्कन्द च तेषामितरेतरद्वन्द्वः वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दः, तेषाम् | नीक् प्रथमान्तं, वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दां षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् अङ्गस्य अभ्यासस्य नीक् यङ्लुकोः |
कस् → कस् कस् → क कस् → च कस् → चनीकस् इति यङ्लुगन्तधातुः
एवमेव—
पत् → पत् पत् → प पत् → पनीपत्
पद् → पद् पद् → प पद् → पनीपद्
वञ्च्, स्रंस्, ध्वंस्, भ्रंस्, स्कन्द् चेति धातवः अनिदित्-धातूनां स्थाले वक्ष्यमाणाः |
अत्र प्रश्नः उदेति—
कस् → कस् कस् → क कस् → च कस् → चनीकस् इति स्थितौ यदि 'चनी’ इति अभ्यासः अस्ति, तर्हि किमर्थं गुणो यङ्लुकोः (७.४.८२) इत्यनेन गुणः भूत्वा 'चनेकस्' इति न स्यात्? उत्तरत्वेन विधानस्य सामर्थ्यात् गुणो न भवति | इष्टः यङ्लुगन्तधातुः यदि 'चनेकस्' इति अभविष्यत्, तर्हि पाणिनिः साक्षात् 'नेक्' इति आगमम् अकरिष्यत् | आगमः यदा कोऽपि भवितुम् अर्हति, तदा पाणिनिः साक्षात् नेक् इति आगमं व्यधास्यत् | एतादृशात् स्वातन्त्र्यात् आगमस्य सामर्थ्यं वर्तते | अनेन सामर्थ्येन नीक् इत्युक्तं चेत्, नीक् इत्येव इष्टम् | अस्मिन् सामर्थ्ये लाघवमपि अस्ति |
३. जप्, जभ्, दह्, पश् इति चत्वार्णां धातूनां यङ्लुगन्तधातुः
जपजभदहदशभञ्जपशां च (७.४.८६) = जप्, जभ्, दह्, दश्, भञ्ज्, पश् इत्येषां धातूनाम् अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | नुक् इत्यस्मिन् ककारः इत्संज्ञकः, उकारश्च उच्चारणार्थः; नुक् अनुस्वारस्य उपलक्षणम् | जपश्च जभश्च दहश्च दशश्च भञ्जश्च पशश्च च तेषामितरेतरद्वन्द्वः जपजभदहदशभञ्जपशः, तेषाम् | जपजभदहदशभञ्जपशां षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यस्मात् नुक् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— जपजभदहदशभञ्जपशां च अङ्गस्य अभ्यासस्य नुक् यङ्लुकोः |
जप् → जप् जप् → ज जप् → जं जप् → जञ्जप्
जभ् → जभ् जभ् → ज जभ् → जं जभ् → जञ्जभ्
दह् → दह् दह् → द दह् → दं दह् → दन्दह्
पश् → पश् पश् → प पश् → पं पश् → पम्पश्
दंश्-धातुः भञ्ज्-धातुः चेति द्वौ धातू अनिदित्-धातूनां स्थाले वक्ष्यमाणौ |
४. चर्, फल् इति द्वयोः धात्वोः यङ्लुगन्तधातुः
चरफलोश्च (७.४.८७) = चर्, फल्, इत्यनयोः धात्वोः अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | इदं सूत्रं पृथक्तया उक्तं येन अग्रे केवलं चर्, फल्, इत्यनयोः उत्परस्यातः (७.४.८८) इत्यनेन अभ्यासोत्तर-अतः उत्त्वं स्यात् | चरश्च फल् च तोरितरेतरद्वन्द्वः चरफलौ, तयोः चरफलोः | चरफलोः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यस्मात् नुक् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— चरफलोः च अङ्गस्य अभ्यासस्य नुक् यङ्लुकोः |
उत्परस्यातः (७.४.८८) = चर्, फल्, इत्यनयोः धात्वोः अभ्यासात् परस्य ह्रस्व-अकारस्य स्थाने उत् आदेशो भवति यङि यङ्लुकि च | उत् प्रथमान्तं, परस्य षष्ठ्यन्तम्, अतः षष्ठ्यन्तं, त्रपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य विभक्तिपरिणामं कृत्वा अभ्यासात् इति अनुवृत्तिः | चरफलोश्च (७.४.८७) इत्यस्मात् चरफलोः इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— चरफलोः च अङ्गस्य अभ्यासात् परस्य अतः उत् यङ्लुकोः |
चर् → चर् चर् → च चर् → चञ्चर्→ चञ्चुर् ति यङ्लुगन्तधातुः
फल् → फल् फल् → प फल् → पम्फल् → पम्फुल् इति यङ्लुगन्तधातुः
५. अनुनासिकान्त-अदुपध-धातूनां यङ्लुगन्तधातुः
नुगतोऽनुनासिकान्तस्य (७.४.८५) = अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | नुक् अनुस्वारस्य उपलक्षणम् | धातोः अभ्यासस्य अन्ते अत् चेत्, धातोः अन्ते अनुनासिकहल्-वर्णः (ञ्, म्, ङ्, ण्, न्) चेत् इदं कार्यं प्रवर्तते | नुक्-आगमः कित् | ककारः इत्-संज्ञकः, उकारः उच्चारणार्थः | अनुनासिकः अन्ते यस्य तत् अनुनासिकान्तं, तस्य | नुक् प्रथमान्तं, अतः षष्ठ्यन्तम्, अनुनासिकान्तस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— अनुनासिकान्तस्य अङ्गस्य अतः अभ्यासस्य नुक् यङ्लुकोः |
कण्* → कण् कण् → क कण् → च कण् → चंकण् → चङ्कण् इति यङ्लुगन्तधातुः
रन्** →
गम् → जंगम् / जङ्गम्***
यम् → यंयम् / यँय्यम्***
जन् →
सन् →
खन् →
तम् →
* अत्र स्वभावेन णकारान्तः |
** अत्र निमित्तत्वात् णत्वम्; अग्रे प्रक्रियावशात् यथासङ्गं णत्वं कर्तव्यम् |
***नुगतोऽनुनासिकान्तस्य (७.४.८५) इति सूत्रस्य अन्तर्गते वार्तिकम् अस्ति पदान्तवच्चेति वक्तव्यम् | अनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमे सति स च अभ्यासः पदान्तवत् इति मन्तव्यम् | तस्मात् वा पदान्तस्य (८.४.५९) इत्यनेन परसवर्णविकल्पः | अनुनासिकान्तधातुप्रसङ्गे सर्वत्र तथा कल्पनीयं यथासङ्गं— नाम यत्र अभ्यासः अदन्तः |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे |
वा पदान्तस्य (८.४.५९) = पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति ययि परे |
६. हन्-धातोः यङ्लुगन्तधातुः
अभ्यासाच्च (७.३.५५) = अभ्यासात् हन्-धातोः हकारस्य स्थाने कवर्गादेशो भवति | अभ्यासात् प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | हो हन्तेर्ञ्णिन्नेषु (७.३.५४) इत्यसमत् हः, हन्तेः इत्यनयोः अनुवृत्तिः | चजोः कु घिण्यतोः (७.३.५२) इत्यस्मात् कु इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— अभ्यासात् च हन्तेः अङ्गस्य हः कु |
हन् → द्वित्वाभ्यास्यकार्यम् → जहन् → अभ्यासोत्तरहकारस्य कुत्वम् → जघन् → अभ्यासस्य नुक्-आगमः → जंघन् → अनुस्वारस्य परसवर्णादेशः → जङ्घन्
इदुपधधातूनां यङ्लुगन्तधातुः
गुणो यङ्लुकोः (७.४.८२) = अभ्यासस्य गुणो भवति यङि यङ्लुकि च | यङ् च लुक् च यङ्लुकौ इतरेतरद्वन्द्वः, तयोः यङ्लुकोः | गुणः प्रथमान्तं, यङ्लुकोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य गुणः यङ्लुकोः |
भिद् → भिद् भिद् → भि भिद् → बि भिद् → बेभिद् इति यङ्लुगन्तधातुः
छिद् →
मिद् →
चित् →
उदुपधधातूनां यङ्लुगन्तधातुः
गुणो यङ्लुकोः (७.४.८२) = अभ्यासस्य गुणो भवति यङि यङ्लुकि च |
बुध् → बुध् बुध् → बु बुध् → बोबुध् इति यङ्लुगन्तधातुः
रुध् →
लुभ् →
ऋदुपधधातूनां यङ्लुगन्तधातुः
रीगृदुपधस्य च (७.४.९०) = ऋदुपधधातोः अभ्यासस्य रीक् इति आगमो भवति यङि यङ्लुकि च | रीक् कित् अतः अभ्यासस्य अन्ते विधीयते | ऋत् उपधा यस्य, सः ऋदुपधः, तस्य ऋदुपधस्य | रीक् प्रथमान्तम्, ऋदुपधस्य षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ऋदुपधस्य अङ्गस्य अभ्यासस्य रीक् यङ्लुकोः |
रुग्रिकौ च लुकि (७.४.९१) = ऋदुपधधातोः अभ्यासस्य रुक्, रिक् इति आगमौ भवतः यङ्लुकि परे | च-शब्देन रीगृदुपधस्य च (७.४.९०) इत्यस्य रीक्-आगमस्य समुच्चयः | रुक् च रिक् च कित् अतः द्वावपि अभ्यासस्य अन्ते विधीयेते | रुक् च रिक् च तयोरितरेतरद्वन्द्वः रुग्रिकौ | रुग्रिकौ प्रथमाद्विवचनातं, च अव्ययं, लुकि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ् इत्यस्य अनुवृत्तिः; अस्य च अन्वयो भवति लुकि इत्यनेन साकम् | रीगृदुपधस्य च (७.४.९०) इत्यस्मात् ऋदुपधस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— रुग्रिकौ च यङ्लुकि |
अनेन रीक् → री, रिक् → रि, रुक् → र् इत्येषां त्रयाणाम् आगमानां विधानं भवति सर्वेभ्यः यथा—
नृत् → नृत् नृत् → न नृत् → नरीनृत्, नरिनृत्, नर्नृत् इति यङ्लुगन्तधातवः
तृप् →
वृध् →
शृध् →
कृष् →
मृष् →
वृत् →
अत्र प्रश्नः उदेति यत् नरीनृत्, नरिनृत्, नर्नृत् इति धातुषु किमर्थं णत्वं न स्यात् ? एते धातवः क्षुभ्नादिषु पठन्ति इति कारणतः क्षुभ्नादिषु च (८.४.३९) इत्यनेन णत्वनिषेधः |
कृप्-धातुः इति विशेषः—
कृपेश्च अवकल्कने (विचारं करोति, चिन्तनं करोति) |
कृपो रो लः (८.२.१८) = कृप्-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम् | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम् | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तं, अनेकपदमिदं सूत्रम् | कृपः इत्यस्य द्विवारम् आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्— कृपः उः कृपः रः लः |
कृप्-धातोः द्वित्वाभ्यासकार्यं यथासामान्यम् | अनेन रुक्, रिक्, रीक् इति त्रयोऽपि भवन्ति एव | तदा कृपो रो लः (८.२.१८) इत्यनेन अभ्यासस्य रेफस्थाने लकारः, धातोः च ऋकारस्थाने ऌ-कारः |
कृप् → क कृप् → च कृप् → चरीकृप् → चलीकॢप्
कृप् → क कृप् → च कृप् → चरिकृप् → चलिकॢप्
कृप् → क कृप् → च कृप् → चर्कृप् → चल्कॢप्
इति एवं कृप्-धातोः त्रयः यङ्लुगन्तधातवः |
अत्र प्रश्नः उदेति यत् कृपो रो लः (८.२.१८) इत्यनेन कृप्-धातोः रेफस्य लकारादेशो भवति; अनेन धातुना ये आतिदेशिकधातवः निष्पद्यन्ते तेषामपि ईदृशं कार्यमिति नोक्तम् | तर्हि चरीकृप् इति धातौ 'कृप्' इति भागे कार्यं भवतु, किन्तु 'चरी' इति अभ्यासे कथं वा कार्यं स्यात् ? एका परिभाषा वर्तते प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम् (परिभाषा १०१) | अनेन कृपो रो लः (८.२.१८) इति सूत्रे कृप्-धातोः कथनेन यङ्लुगन्तधातोः अपि ग्रहणं भवति | अभ्यासः अपि यङ्लुगन्तधातोः अवयवः इति कृत्वा अभ्यासेऽपि कार्यं भवति |
तर्हि कृपो रो लः (८.२.१८) इति सूत्रेण, आहत्य कृप्-धातोः रेफस्य लकारादेशः; कृप्-धातोः ऋकारस्य अंशः यः रेफसदृशः, तस्य स्थाने लकारसदृशादेशो भवति | यत्र कृप्-धातोः उपधायाः गुणः भवति कर्प्, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प् इति फलं; यत्र उपधागुणो न भवति, तत्र कृप् इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप् इति फलम् | दृष्टान्तत्वेन अपरेषु स्थलेषु कथं अनेन सूत्रेण रूपं सिध्यति इत्यत्र प्रदर्श्यते—
लटि कल्पयति/ते | कृप् + णिच् → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः → कर्प् + इ → कृपो रो लः (८.२.१८) इत्यनेन रेफस्य स्थाने लकारादेशः → कल्प् + इ → कल्पि इति धातुः → कल्पि + शप् → कल्पय इति अङ्गम् → कल्पय + ति → कल्पयति/ते
लिट्-लकारे गुणनिषेधत्वात् ऋकारस्य उदाहरणम्—
लिटि चकॢपे | कृप् + ए → द्वित्वम् अभ्यासकार्यम् च → चकृप् + ए → कृपो रो लः (८.२.१८) इत्यनेन ऋकारस्य स्थाने ऌकारादेशः → चकॢप् + ए → चकॢपे
प्रश्नः उदेति यदि रेफस्य स्थाने लकारस्तु भवति एव, तर्हि किमर्थं मूलधातौ उपदेशावस्थायां कॢप् न स्यात् ? उतरम् अस्ति यत् वेदे तस्य ऋकारस्य महत्त्वं वर्तते | वेदे उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम् इङ्गितम् | अतः वेदे अयं धातुः ऋदुपदधातुः भवेत् |
अनिदित्-धातूनां यङ्लुगन्तधातुः
पाणिनेः धातुपाठे अनिदित्-धातवः इमे—
अञ्च् | कुञ्च् | ग्लुञ्च् | चञ्च् | तञ्च् | त्वञ्च् | म्रुञ्च् | म्लुञ्च् | लुञ्च् | वञ्च् |
अञ्ज् | रञ्ज् | भञ्ज् | सञ्ज् | ष्वञ्ज् | कुन्थ् | ग्रन्थ् | मन्थ् | श्रन्थ् | उन्द् |
बुन्द् | स्कन्द् | स्यन्द् | इन्ध् | बन्ध् | शुन्ध् | तुम्प् | त्रुम्प् | ऋम्फ् | गुम्फ् |
तुम्फ् | त्रुम्फ् | तृम्फ् | दृम्फ् | उम्भ् | दम्भ् | शुम्भ् | श्रम्भ् | षृम्भ् | स्रम्भ् |
दंश् | भ्रंश् | ध्वंस् | भ्रंस् | शंस् | स्रंस् | तृन्ह् |
धेयं यत् एषु अञ्च्, अञ्ज्, इन्ध्,उन्द्, उम्भ्, ऋम्फ् इत्येते धातवः अजादयः अतः एभ्यः यङ्-प्रत्ययः न भवति यतोहि हलादि-एकाच्-धातुभ्यः एव यङ् इति सामान्यनियमः | अवशिष्ट-अनिदित्-धातुभिः कथं यङ्लुगन्तधातवः सिध्यन्ति इति अग्रे प्रदर्श्यते—
१. वञ्च्, स्रंस्, ध्वंस्, भ्रंस्, स्कन्द् इति धातवः
नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् (७.४.८४) इत्यनेन वञ्च्, स्रंस्, ध्वंस्, भ्रंस्, स्कन्द् इत्येषां धातूनाम् अभ्यासस्य नीक्-आगमो भवति यङि यङ्लुकि च |
वञ्च् → वञ्च् वञ्च् → व वञ्च् → वनीवञ्च् इति यङ्लुगन्तधातुः
स्रंस् →
ध्वंस् →
भ्रंस् →
स्कन्द् →
नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् (७.४.८४) = वञ्च्, स्रंस्, ध्वंस्, भ्रंस्, कस्, पत्, पद्, स्कन्द् इत्येषां धातूनाम् अभ्यासस्य नीक्-आगमो भवति यङि यङ्लुकि च | वञ्चुश्च स्रंसुश्च ध्वंसुश्च भ्रंसुश्च कसश्च पतश्च पदश्च स्कन्द च तेषामितरेतरद्वन्द्वः वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दः, तेषाम् | नीक् प्रथमान्तं, वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दां षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् अङ्गस्य अभ्यासस्य नीक् यङ्लुकोः |
कस् ,पत्, पद् इति त्रयाणां धातूनां यङ्लुगन्तसिद्धिः प्रदर्शितः अदुपधधातूनां स्थले |
२. दंश्, भञ्ज् इति धातवः
जपजभदहदशभञ्जपशां च (७.४.८६) इत्यनेन दंश्, भञ्ज् इत्यनयोः धात्वोः अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च |
दंश् → दश् दश् → द दश् → दन्दश् इति यङ्लुगन्तधातुः
भञ्ज् →
जपजभदहदशभञ्जपशां च (७.४.८६) = जप्, जभ्, दह्, दश्, भञ्ज्, पश् इत्येषां धातूनाम् अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | नुक् इत्यस्मिन् ककारः इत्संज्ञकः, उकारश्च उच्चारणार्थः; नुक् अनुस्वारस्य उपलक्षणम् | दंश्-धातोः अस्मिन् सूत्रे अनुस्वारो नास्ति यतोहि यङलुकि दश् इत्यस्य एव द्वित्वम्; अनुनासिकत्वं न भवति | जपश्च जभश्च दहश्च दशश्च भञ्जश्च पशश्च च तेषामितरेतरद्वन्द्वः जपजभदहदशभञ्जपशः, तेषाम् | जपजभदहदशभञ्जपशां षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यस्मात् नुक् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— जपजभदहदशभञ्जपशां च अङ्गस्य अभ्यासस्य नुक् यङ्लुकोः |
जप्, जभ्, दह्, पश् इति चत्वार्णां धातूनां यङ्लुगन्तसिद्धिः प्रदर्शितः अदुपधधातूनां स्थले |
३. यङ्लुकि येषाम् अनिदिताम् अभ्यासः अकारान्तः
दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्-अभ्यासस्य दीर्घादेशो भवति यङि यङ्लुकि च |
चञ्च् → चञ्च् चञ्च् → च चञ्च् → चाचञ्च् इति यङ्लुगन्तधातुः
तञ्च् →
त्वञ्च् →
एवमेव रञ्ज्, सञ्ज्, स्वञ्ज्, मन्थ्, ग्रन्थ्, श्रन्थ्, स्यन्द्, बन्ध्, दम्भ्, स्रम्भ्, श्रम्भ्, शंश् |
४. यङ्लुकि येषाम् अनिदिताम् अभ्यासः उकारान्तः
गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि यङ्लुकि च |
लुञ्च् → लुञ्च् लुञ्च् → लु लुञ्च् → लोलुञ्च् इति यङ्लुगन्तधातुः
कुञ्च् → कुञ्च् कुञ्च् → कु कुञ्च् → चु कुञ्च् → चोकुञ्च्
एवमेव म्रुञ्च्, म्लुञ्च्, ग्लुञ्च्, कुन्थ्, बुन्द्, शुन्ध्, तुम्प्, त्रुम्प्, तुम्फ्, गुम्फ्, शुम्भ् |
५. ऋकारवान् अनिदित्-धातवः
रीगृदुपधस्य च (७.४.९०) = ऋदुपधधातोः अभ्यासस्य रीक् इति आगमो भवति यङि यङ्लुकि च | रीगृत्वत इति वक्तव्यम् इति वार्तिकेन ऋकारवतामपि धातूनाम् अभ्यासस्य रीक् इति आगमो भवति यङि यङ्लुकि च |
तृम्फ् → तृम्फ् तृम्फ् → तृ तृम्फ् → त तृम्फ् → तरीतृम्फ्
दृम्फ् →
सृम्भ् →
तृंह् →
रीगृदुपधस्य च (७.४.९०) = ऋदुपधधातोः अभ्यासस्य रीक् इति आगमो भवति यङि यङ्लुकि च | रीक् कित् अतः अभ्यासस्य अन्ते विधीयते | ऋत् उपधा यस्य, सः ऋदुपधः, तस्य ऋदुपधस्य | रीक् प्रथमान्तम्, ऋदुपधस्य षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ऋदुपधस्य अङ्गस्य अभ्यासस्य रीक् यङ्लुकोः |
६. हम्म्-धातुः
नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च |
हम्म् → हम्म् हम्म् → ह हम्म् → ज हम्म् → जंहम्म्
नुगतोऽनुनासिकान्तस्य (७.४.८५) = अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | नुक् अनुस्वारस्य उपलक्षणम् | धातोः अभ्यासस्य अन्ते अत् चेत्, धातोः अन्ते अनुनासिकहल्-वर्णः (ञ्, म्, ङ्, ण्, न्) चेत् इदं कार्यं प्रवर्तते | नुक्-आगमः कित् | ककारः इत्-संज्ञकः, उकारः उच्चारणार्थः | अनुनासिकः अन्ते यस्य तत् अनुनासिकान्तं, तस्य | नुक् प्रथमान्तं, अतः षष्ठ्यन्तम्, अनुनासिकान्तस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— अनुनासिकान्तस्य अङ्गस्य अतः अभ्यासस्य नुक् यङ्लुकोः |
अनेन सर्वे यङ्लुगन्तधातवः साधिताः |
सम्प्रति अस्य पाठस्य पूरणार्थं यङ्लुगन्तधातुभ्यः तिङन्तरूपाणि साधनीयानि | यङ्लुगन्तधातोः साधनम् आर्धधातुकप्रक्रियायाम् अन्तर्भवति | ततः तिङन्तसाधनं पुनः पृथक् कार्यम् | यङ्लुगन्तधातुभ्यः लट्, लोट्. लङ्, विधिलिङ् इत्येषां साधनं सार्वधातुकप्रक्रियायाम् अन्तर्गतम्; अवशिष्टषड् लकाराणां साधनम् आर्धधातुकप्रक्रियायाम् | अस्मिन् पाठे लट्, लोट्. लङ्, विधिलिङ् इत्येषां साधनविधिः प्रदर्श्यते; आर्धधातुकलकाराणां रूपसिधिः तत्तदार्धधातुकलकारपाठे क्रियते |
यङ्लुगन्तधातुभ्यः लट्, लोट्. लङ्, विधिलिङ् इति चतुर्णां सिद्धिः
यङो वा (७.३.९४) = यङ्लुगन्तेभ्यः धातुभ्यः हलादिपित्-सार्वधातुकस्य विकल्पेन ईट्-आगमो भवति | हलादिपित्-सार्वधातुक-प्रत्ययाः न सन्ति एव यङि तस्य आत्मनेपदत्वात्; ततः 'इदं सूत्रं यङ्लुकि' इति ज्ञापकम् | यङः पञ्चम्यन्तं, वा अव्ययपदं, द्विपदम् इदं सूत्रम् | उतो वृद्धिर्लुकि हलि (७.३.८९) इत्यस्मात् हलि इत्यस्य अनुवृत्तिः | नाभ्यस्तस्याचि पिति सार्वधातुके (७.३.८७) इत्यस्मात् पिति, सार्वधातुके इत्यनयोः अनुवृत्तिः | ब्रूव ईट् (७.३.९३) इत्यस्मात् ईट् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— यङः ईट् वा हलि पिति सार्वधातुके |
यत्र धातुः अभ्यस्तसंज्ञकः अस्ति, तत्र तिङ्प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते | यङ्लुगन्तधातवः सर्वे अभ्यस्तसंज्ञकाः, अतः सर्वत्र इमे द्वे कार्ये स्तः—
१) अदभ्यस्तात् (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | झोऽन्तः (७.१.३) इत्यस्मात् झः (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | आयनेयीनीयियः फढखछगां प्रत्ययादीनाम् (७.१.२) इत्यस्मात्, वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत् |
धेयं यत् अत्-आदेशस्य तकारः हलन्त्यम् (१.३.३) इति सूत्रेण इत्-संज्ञकः न, यतोहि अत् तु विभक्तिसंज्ञक-झि-प्रत्ययस्य अवयवस्य आदेशः अतः न विभक्तौ तुस्माः (१.३.४) इत्यनेन हलन्त्यम् (१.३.३) बाधितम् |
अदभ्यस्तात् (७.१.४) इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ्-स्थाने अत् आदेशः, अतः लटि झि → अति न तु अन्ति; लोटि झि → अतु न तु अन्तु |
२) सिजभ्यस्तविदिभ्यश्च (३.४.१०९) = ङित्-लकारस्य अवस्थायां, सिच्-प्रत्ययात्, अभ्यस्तसंज्ञकात् धातोः, विद्-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्-आदेशो भवति | सिच् च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | नित्यं ङितः (३.४.९९) इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः | झेर्जुस् (३.४.१०८) इत्यस्मात् झेः जुस् इत्यनयोः अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस् |
अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्-आदेशः | जुस् इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत्, लङि अन्-स्थाने उः इति प्रत्ययः भवति |
अतः आहत्य अभ्यस्तसंज्ञक-धातूनां कृते, सार्वधातुकलकारेषु सिद्ध-तिङ्प्रत्ययाः एते | जुहोत्यादिगणे परस्मैपदे यथा , तथैव + यङो वा (७.३.९४) इत्यनेन विकल्पेन हलादिपित्-सार्वधातुकस्य विकल्पेन ईट्-आगमः | तर्हि यङ्लुगन्ते एते एव योजनीयाः—
लट्-लकारः
ति, ईति | तः | अति |
सि, ईषि | थः | थ |
मि, ईमि | वः | मः |
लोट्-लकारः
तु, ईतु, तात् | ताम् | अतु |
हि, तात् | तम् | त |
आनि | आव | आम |
लङ्-लकारः
त् , ईत् | ताम् | उः |
स् (:), ईः | तम् | त |
अम् | व | म |
विधिलिङ्-लकारः
यात् | याताम् | युः |
याः | यातम् | यात |
याम् | याव | याम |
अत्र धेयं यत् एते सर्वे प्रत्ययाः तिङ्शित् सार्वधातुकम् (३.४.११३) इत्यनेन सार्वधातुकसंज्ञकाः | एषु च प्रत्ययेषु—
हलादिपित्-सार्वधातुक-प्रत्ययाः षद्— ति, सि, मि / तु / त्, स् |
अजादिपित्-सार्वधातुक-प्रत्ययाः दश— ईति, ईषि, ईमि / ईतु, आनि, आव, आम / ईत्, ईः, अम्
हलाद्यपित्-सार्वधातुक-प्रत्ययाः २५— तः, थः, थ, वः, मः / तात्, ताम्, हि, तात्, तम्, त / ताम्, तम्, त, व, म / यात्, याताम्, युः, याः, यातम्, यात, याम्, याव, याम
अजाद्यपित्-सार्वधातुक-प्रत्ययाः त्रयः— अति /अतु / उः
सार्वधातुकमपित् (१.२.४) इति सूत्रेण एते अपितः प्रत्ययाः सर्वे ङिद्वत् भवन्ति |
प्रत्येकं प्रत्ययस्य स्वभावः कः इति मनसि निधाय अग्रे कार्यं करणीयम् | अस्माकं कार्यं च यथा सर्वत्र द्विस्तरीयम्—
१) अङ्गकार्यम्
२) सन्धिकार्यम्
अङ्गकार्यं यथा—
नेनी + ति → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन इगन्ताङ्गस्य इकः गुणः → नेने + ति
चर्कृ + ति → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन इगन्ताङ्गस्य इकः गुणः → चर्कर् + ति
लेलिख् + ति → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन लघूपधस्य इकः गुणः → लेलेख् + ति
नेनी + तः → क्क्ङिति च (१.१.५) इत्यनेन यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति → नेनीतः
चर्कृ + तः → क्क्ङिति च (१.१.५) → चर्कृतः
सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |
पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
पदनिर्णयः
यङन्तधातुः ङित् भवति | तस्मात् अनुदात्तङित आत्मनेपदम् (१.३.१२) इत्यनेन अत्मनेपदसंज्ञकप्रत्ययाः एव विधीयन्ते | किन्तु यङ्लुगन्तधातुः अनुदात्तेत्, ङित्, स्वरितेत्, ञित् इत्येभ्यः भिन्नः इति कारणतः शेषात्कर्तरि परस्मैपदम् (१.३.७८) इत्यनेन परस्मैपदसंज्ञकप्रत्ययाः एव विधीयन्ते |
अत्र प्रश्नः उदेति यत् यङ्लुक्-प्रक्रियायां यङ्-प्रत्ययः विधीयते, तदा तस्य लोपो भवति | धातुसंज्ञा-प्रसङ्गे अस्माभिः दृष्टं यत् धातुभ्यः यदा हि यङ्-प्रत्ययः विधीयते, तदा हि सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातुसंज्ञा भवति | अनन्तरं यङ्ः लुकि सत्यपि प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यनेन धातुसंज्ञा तिष्ठति एव | एवमेव यङ्प्रत्ययस्य लुकि सत्यपि किमर्थं न प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यनेन ङित्त्वं मत्वा अनुदात्तङित आत्मनेपदम् (१.३.१२) इत्यनेन यङ्लुगन्तधातुः अपि आत्मनेपदी स्यात् ?
अस्मिन् प्रसङ्गे, यङोऽचि च (२.४.७४) इत्यस्य व्याखाने सिद्धान्तकौमुदी-ग्रन्थकारः प्रतिपादयति यत्—
"शेषात्कर्तरि- इति परस्मैपदम् | अनुदात्तङितः- इति तु न | ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः | यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत् | अत एव 'सुदृषत्प्रासाद' इत्यस्य 'अत्वसन्तस्य-’ इति दीर्घो न | येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योऽपि न, ‘अनुदात्तङितः-’ इत्यनुबन्धनिर्देशात् | तत्र 'श्तिपा शपा-’ इति निषेधात् | अत एव श्यन्नादयो न, गणेन निर्देशात्, किं तु शबेव | ‘चर्करीतं च्' इत्यदादौ पाठाच्छपो लुक् |”
अस्य अर्थः कः इति क्रमेण परिशीलयाम—
ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः | ङित्त्वप्रत्ययस्य, ङित्त्व-अप्रत्ययस्य च, उभयोः स्वस्य स्वस्य पृथक्तया धर्मो वर्तते | यत्र प्रत्यये परे अप्रत्यये परे च उभयत्र ग्रहणं भवति, तत्र प्रत्ययलक्षणं न कर्तव्यम् | इतोऽपि स्पष्टीकरणार्थम् उच्यते, यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत् | केवलं प्रत्ययस्य असाधारणरूपस्य आश्रयम् अवलम्ब्य कार्यं यत्र स्यात्, तत्रैव प्रत्ययलक्षणं भवतु, यथा राजा | राजन् + सु → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन स्-लोपः → प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यनेन सुप्-प्रत्ययात्मक-प्रत्ययधर्ममात्रस्य पुरस्कारं कृत्वा राजन् सुबन्तम् इति मत्वा सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन तस्य पद-संज्ञा-ग्रहणेन न लोपः प्रातिपदिकान्तस्य (८.२.७) इत्यनेन पदान्त-नकारस्य लोपो जायते | किन्तु अनुदात्तङित आत्मनेपदम् (१.३.१२) इत्यनेन यत् आत्मनेपदत्वं विधीयते, तस्य ङित्त्वं केवलं प्रत्ययनिमित्तकङित्त्वं न अपि तु यत्किमपि ङित्त्वं— प्रकृतेः ङित्त्वंम्, आदेशस्य ङित्त्वम् इत्यादिकमपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते | प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा ङित्त्व-प्रयुक्त-आत्मनेपदत्वं नास्ति | तात्पर्यम् इदं यत् आत्मनेपदत्वं केवलं प्रत्ययनिमित्तकं कार्यं नास्ति अपि तु प्रत्यय-अप्रत्ययस्य च उभयत्र विद्यमानं ङित्त्वं आत्मनेपदत्वस्य कारणम् | अतः अत्र प्रत्ययलक्षणेन यङ् ङित् मत्वा आत्मनेपदत्वं ग्रहीतुं न शक्यते | प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यस्य कार्यं तत्रैव भवति यत्र प्रत्ययः प्रत्ययरूपेण निमित्तं मत्वा विधीयमानं कार्यं साधयति | आत्मनेपदत्व-निमित्ताभावात् शेषात्कर्तरि परस्मैपदम् (१.३.७८) इत्यनेन परस्मैपदम् |
(अग्रिमपरिच्छेदस्य पठनात् प्राक् अधोभागे परिच्छेदद्वयस्य समासप्रसङ्गे शिक्षा द्रष्टव्या |)
अग्रिमः प्रश्नः आयाति यत् केवलं प्रत्ययधर्मस्य आश्रयः इति न अपितु यस्य कस्यापि धर्मस्य आश्रयम् अवलम्ब्य प्रत्ययलक्षणं किमर्थं न स्यात् ? अत्र कौमुदीकारो लिखति यत् अत एव 'सुदृषत्प्रासाद' इत्यस्य 'अत्वसन्तस्य-’ इति दीर्घो न | केवलं प्रत्ययधर्मस्य आश्रयम् अवलम्ब्य प्रत्ययलक्षणं करणीयम् इति सिद्धान्तः | तदर्थमेव 'सुदृषत्प्रासादः' इत्यस्मिन् अत्वसन्तस्य चाधातोः (६.४.१४) इत्यनेन दीर्घः न भवति | अनेन सूत्रेण अतु-प्रत्ययान्तशब्दस्य, तथा अस्-यस्य अन्ते अस्ति तादृशस्य शब्दस्य अङ्गस्य उपधायाः प्रथमैकवचनस्य सु-प्रत्यये परे दीर्घः भवति (परन्तु सूत्रे अधातोः इत्यनेन यस्य अन्ते धातुः अस्ति तादृशस्य शब्दस्य अयं दीर्घादेशः न भवति) | अत्र सु शोभना दृषदो यस्य प्रासादस्य (सु + जस् दृषद् + जस्) अर्थात् 'सुन्दराः शिलाखण्डाः यस्य प्रासादस्य' इति विग्रहवाक्येन यः समासः भवति, समासावयवः मत्वा सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन जस्-प्रत्ययस्य लोपः | सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् भवति | यदि कश्चन सुप्-प्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति, तर्हि तस्य सुप्-प्रत्ययस्य लुक् भवति | अत्र किन्तु लुप्तस्य जस्-प्रत्ययस्य प्रत्ययलक्षणस्य आश्रयम् अवलम्ब्य प्राप्तदीर्घादेशो न भवति | किमर्थम् इति चेत्, अत्वसन्तस्य चाधातोः (६.४.१४) इत्यनेन केवलं प्रत्ययमात्रस्य आश्रयम् अवलम्ब्य दीर्घः भवति इति नास्ति अपितु 'वेधस्-शब्दात् वेधाः' (वेधस् + सु → अत्वसन्तस्य चाधातोः (६.४.१४) → विधाः) इत्यस्मिन् प्रत्यये अप्रत्यये च उभयत्र दीर्घादेशो भवति | अतः इदं कार्यं प्रत्ययाप्रत्ययं साधारणकार्यं; केवलं प्रत्ययासाधारणकार्यं नास्ति | एवमेव यङ्लुकि प्रत्ययाप्रत्यय-साधारणकार्ये प्रत्ययलक्षणेन आत्मनेपदं न भवति |
समासस्य शिक्षा—
राजपुरुषः = राज्ञः पुरुषः → राजन् + ङस् + पुरुष + सु → समाससंज्ञा → कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञा → अधुना 'राजन् + ङस् + पुरुष + सु' इति समुदायस्य प्रातिपदिकसंज्ञा → ङस्, सु इति द्वौ प्रत्ययौ प्रातिपदिकस्य अवयवौ → सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् → राजन् + पुरुष |
प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये भवति | तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति, किन्तु यः धर्मः साधारणः, सः प्रत्यये अपि भवति अप्रत्यये अपि भवति, तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति | दृषद् इति दकारान्त-स्त्रीलिङ्गशब्दः, शिलाखण्डः इत्यर्थः; अग्रे इमं शब्दम् उपयुज्य समासः क्रियते उदाहरणत्वेन, 'सुदृषद्' ('सु' इति अव्ययम् अतः अग्रे सु इत्यस्मात् सुप्-प्रत्ययः न प्रदर्शितः; अलौकिकविग्रहे तस्य सुप् भवति; पृतथक् सूत्रेण च तस्य लोपः |) सु + दृषदः → सु + दृषद् + जस् → कृत्तद्धितसमासाश्च (१.२.४६) → 'सु + दृषद् + जस्' इत्यस्य समग्रस्य समुदायस्य प्रातिपदिकसंज्ञा → सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् → सु + दृषद् → (लुकि सति सुदृषद् दकारान्तः; प्रत्ययलक्षणे असन्तः) → प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) → सुदृषदस् → सुदृषदस् इति असन्तरूपम् → सुदृषदस् + सु → अत्वसन्तस्य चाधातोः (६.४.१४) इत्यनेन अतु-प्रत्ययान्तशब्दस्य, तथा अस्-यस्य अन्ते अस्ति तादृशस्य शब्दस्य अङ्गस्य उपधायाः प्रथमैकवचनस्य सु-प्रत्यये परे दीर्घः → अत्र दीर्घो न भवति यतोहि यत् प्रत्ययलक्षणं कृतं येन असन्तत्वं सिध्येत्, तत् प्रत्ययलक्षणं न भवति यतोहि तस्मिन् प्रत्यये यत् असन्तत्वं वर्तते, तत् असन्तत्वं प्रत्ययमात्रवृत्तिः नास्ति | अप्रत्यये प्रातिपदिके (चन्दमस् इत्यस्मिन्, वेधस् इत्यस्मिन् च) अपि भवति |
अत्वसन्तस्य चाधातोः (६.४.१४) इत्यस्य उदाहरणानि—
अतु-प्रत्ययाः यथा मतुप्, वतुप्, क्तवतु—
- मत्-येषाम् अन्ते ते— धीमत् + सु → धीमान् |
- वत्-येषाम् अन्ते ते— भवत् + सु → भवान् |
- गतवत् + सु → गतवान् |
असन्ताः यथा चन्द्रमस्, वेधस्—
- अस्-येषाम् अन्ते ते— चन्द्रमस् + सु → चन्द्रमाः |
यङन्तप्रसङ्गे धातुः स्वयं ङित् अस्ति अतः ङित्त्वस्य स्वीकारे समस्या नास्ति; यङ्लुगन्तप्रसङ्गे ङित्त्वस्यस्वीकारार्थं लुप्तस्य यङ्-प्रत्ययस्य लक्षणं करणीयं; तच्च न कर्तुं शक्यते यतोहि ङित्त्वं केवलप्रत्ययधर्मो नास्ति अपि तु अपरेषु स्थलेष्वपि भवति, यथा शीङ्-धातौ | एवमेव चन्द्रमस् इति प्रातिपदिकं स्वयम् असन्तम् अतः तस्य असन्त्वस्य स्वीकारे समस्या नास्ति | किन्तु 'सुदृषदस्' इत्यस्मिन् यः अस्-भागः, सः तु प्रत्ययलक्षणेन स्वीकृतम् | यतः असन्तत्वं केवलं प्रत्यये भवति इति नास्ति अपि तु प्रातिपदिकेषु अपि भवति अतः प्रत्ययलक्षणेन असन्तत्वं न मन्तव्यम् | असन्तत्वस्य प्रत्ययमात्रवृत्तित्वाभावेन तत्पुरस्कारेण दीर्घे क्रियमाणे प्रत्ययलक्षणस्य असम्भवादिति भावः |
'चन्द्रमस् + सु' च 'सुदृषदस्+ सु' इत्यनयोः मध्ये कः भेदः ? चन्द्रमस् इति स्वभावेन प्रातिपदिकं; सुदृषदस् इति रूपं प्रत्ययलक्षणं कृत्वा साधितम् | अत्र च यतोहि असन्तत्वं प्रत्यये अप्रत्यये उभयत्र भवति, अतः प्रत्ययलक्षणं कर्तुं न शक्यते | यङ्लुगन्तप्रसङ्गे अपि ङित्त्वं तादृशसाधारणधर्मः |
येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योऽपि न, ‘अनुदात्तङितः-’ इत्यनुबन्धनिर्धेशात् | तत्र 'श्तिपा शपा-’ इति निषेधात् | यः धातुः अनुदात्तेत् यथा स्पर्ध सङ्घर्षणे, अपि च यः धातुः ङित् यथा शीङ् स्वप्ने, तेषाम् अपि अनुदात्तङित आत्मनेपदम् (१.३.१२) इत्यनेन आत्मनेपदं न भवति यतोहि अनुबन्धेन निर्दिष्टकार्यं यङ्लुकि न भवति | अनुदात्तङित आत्मनेपदम् (१.३.१२) इति सूत्रे अनुदात्तेत् च ङित् चेत्याभ्यां पदाभ्याम् अनुबन्धग्रहणं भवति |
श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद् गणेन च |
यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि || (परिभाषा १३१)
अनेन श्तिप्-प्रत्ययेन निर्दिष्टं, शप्-प्रत्ययेन निर्दिष्टम्, अनुबन्धेन निर्दिष्टं, गणेन निर्दिष्टम्, एकाच्-ग्रहणेन, इमानि पञ्चविधसूत्राणि यङ्लुकि न प्रवर्तनीयानि | अस्मिन् च उक्तं यत् अनुबन्धमात्रेण निर्दिष्टं कार्यं यङ्लुकि न भवति | यथा शीङः सार्वधातुके गुणः (७.४.२१) इति सूत्रे शीङ्-धातोः गुणः विधीयते ङकारः इति इत्-संज्ञकवर्णम् अवलम्ब्य | ङकारः इति इत्-संज्ञकवर्णस्य ग्रहणेन एव गुणः विधीयते | यङ्लुगन्तप्रक्रियायाम् इत्-संज्ञकवर्णम् अवलम्ब्य यत् कार्यं तत् न भवति | अतः यङ्लुकि 'शेशी' धातोः शेशेति-शेशीतः-शेश्यति इति रूपाणि; पित्त्वात् एव गुणः नान्यत्र | एवमेव 'दिवादौ, तुदादौ, स्वादौ, क्र्यादौ' इति सङ्केतेन श्यन् इत्यादयः विकरणप्रत्ययाः न विधीयन्ते यतोहि धातुगणेन निर्दिष्टाः | 'गणेन' इति पदेन गणं निमित्तिकृत्य यावत् कार्यं तत् सर्वमपि निषिद्धं यङ्लुकि | अतः केवलं शप् इत्येव भवति यतोहि शप् गणसम्बद्धं न अपितु धातुसाधारणेन विधीयते, धातुमात्रम् अपेक्षितं, धातोः इति कृत्वा कर्तरि शप् (३.१.६८) | अस्य प्रदर्शनार्थं कौमुदीकारः लिखति अत एव श्यन्नादयो न, गणेन निर्देशात्, किं तु शबेव |
परिभाषायाम् एकाच् ग्रहणम् इत्यस्य कथनेन 'एकाच्' घटितानां सूत्राणां प्रवर्तनं यङ्लुकि न भवति | यथा एकाच उपदेशेऽनुदात्तात् (७.२.१०) इत्यनेन उपदेशे अनुदात्तात् एकाच: अङ्गात् इट् न भवति | अनेन इडागमः निषेधः | यथा डुकृञ् करणे इति धातौ ककारात् परः ऋकारः अनुदात्तः इत्यतः अस्मात् परः इडागमः न भवति | कृ + तृच् → कर्ता | वह प्रापणे इति धातौ वकारात् परः अकारः अनुदात्तः इत्यतः अस्मात् परः इडागमः न भवति | वह् + तृच् → वोढः | किन्तु अयं निषेधः यङ्लुकि न भवति | तदर्थं 'जाहिता, जाहिष्यति, बेभेदिता इत्यादिषु स्थलेषु एकाच उपदेशेऽनुदात्तात् (७.२.१०) इत्यनेन 'इट्' इत्यस्य निषेधो न भवति |
‘चर्करीतं च्' इत्यदादौ पाठाच्छपो लुक् | चर्करीतं च् इति गणसूत्रस्य सङ्केतन प्राचीनवैयाकरणाः यङ्लुगन्तधातुः चर्करीतम् इति वदन्ति; नाम इयं संज्ञा स्वीक्रियते यङ्लुगन्तस्य कृते | अनेन च अदिप्रभृतिभ्यः शपः (२.४.७२) इति सूत्रेण यङ्लुकि शपः लुक् भवति | तदर्थं ग्रन्थकारो वदति ‘चर्करीतं च्' इत्यदादौ पाठाच्छपो लुक् |
शीङः सार्वधातुके गुणः (७.४.२१) = शीङ्-धातोः गुणः भवति सार्वधातुकप्रत्यये परे | अनेन सूत्रेण शीङ्-धातोः गुणः भवति न केवलं पित्सु अपि तु अपित्सु अपि | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम्, अतः अत्र ईकारः स्थानी भवति | शीङः षष्ठ्यन्तं, सार्वधातुके सप्तम्यन्तं, गुणः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— शीङः अङ्गस्य गुणः सार्वधातुके |
न लोपः प्रातिपदिकान्तस्य (८.२.७) = प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः | न लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम, प्रातिपदिक लुप्तषष्ठीकं पदं, अन्तस्य षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः |
अनुदात्तङित आत्मनेपदम् (१.३.१२) = यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्-संज्ञा भवति, सः धातुः आत्मनेपदी | अनुदात्तश्च ङ् च अनुदात्तङौ, तौ इतौ यस्य सः अनुदात्तङित् द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात् अनुदात्तङितः | अनुदात्तङितः पञ्चम्यन्तम्, आत्मनेपदं प्रथमान्तम्, द्विपदमिदं सूत्रम् | भूवादयो धातवः (१.३.१) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | टीकाकाराः सूचयन्ति यत् लस्य इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन् | अनुवृत्ति-सहितसूत्रम्— अनुदात्तङितः धातोः लस्य आत्मनेपदम् |
स्वरितञितः कर्त्रभिप्राये क्रियाफले (१.३.७१) = यस्य धातोः स्वरितस्वरस्य ञकारस्य च इत्-संज्ञा भवति, तस्य क्रियायाः फलं कर्तुः अस्ति चेत् धातुतः आत्मनेपदितिङ्प्रत्ययाः विहिताः; क्रियायाः फलं कर्तुः नास्ति चेत् धातुतः परस्मैपदितिङ्प्रत्ययाः विहिताः भवन्ति | नाम एतादृशः धातुः उभयपदी, इति सारांशः | स्वरितश्च ञ् च स्वरितञौ, तौ इतौ यस्य स स्वरितञित्, द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात् स्वरितञितः | कर्तारम् अभिप्रैति इति कर्त्रभिप्रायम् (फलम्) उपपद-तत्पुरुषः (यथा कुम्भकारः), तस्मिन् कर्त्रभिप्रये | क्रियायाः फलं क्रियाफलं षष्ठी-तत्पुरुषः, तस्मिन् क्रियाफले | स्वरितञितः पञ्चम्यन्तम्, कर्त्रभिप्राये सप्तम्यन्तम्, क्रियाफले सप्तम्यन्तम्, त्रिपदमिदं सूत्रम् | भूवादयो धातवः (१.३.१) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | लस्य इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन् | अनुवृत्ति-सहितसूत्रम्— स्वरितञितः धातोः कर्त्रभिप्राये क्रियाफले लस्य आत्मनेपदम् |
शेषात्कर्तरि परस्मैपदम् (१.३.७८) = यत्र धातोः आत्मनेपदस्य कारणं नास्ति, तत्र कर्त्रर्थे परस्मैपदं भवति | आत्मनेपदनिमित्तहीनात् धातोः कर्तरि परस्मैपदं स्यात् | शेषात् पञ्चम्यन्तम्, कर्तरि सप्तम्यन्तम्, परस्मैपदं प्रथमान्तम्, त्रिपदमिदं सूत्रम् | भूवादयो धातवः (१.३.१) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | लस्य इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः परस्मैपदम् इत्यस्मिन् | अनुवृत्ति-सहित-सूत्रम्— शेषात् धातोः कर्तरि लस्य परस्मैपदम् |
विकरणम्
चर्करीतं च इति गणसूत्रेण यङ्लुगन्तधातवः आदादिकाः | अतः तत्र शपः लुक् भवति, अदादिगणवत् | अत्र प्रथमतया कर्तरि शप् (३.१.६८) इत्यनेन धातुतः शप्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये | तदा अदिप्रभृतिभ्यः शपः (२.४.७२) इत्यनेन अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्-प्रत्ययस्य लुक् भवति |
अन्ये सर्वे आतिदेशिकधातवः भ्वादिगणीयाः, यथा सन्नन्ताः, णिजन्ताः, यङन्ताः | तेषां सर्वेषां कृते शप्-विकरणप्रत्ययः भवति |
कर्तरि शप् (३.१.६८) = धातुतः शप्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | कर्तरि सप्तम्यन्तं, शप् प्रथमान्तं, द्विपदमिदं सूत्रम् | सार्वधातुके यक् (३.१.६७) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके |
अदिप्रभृतिभ्यः शपः (२.४.७२) = अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्-प्रत्ययस्य लुक् (लोपः) भवति | अदिः प्रभृतिः (आदिः) येषां ते अदिप्रभृतयः बहुव्रीहिः, तेभ्यः अदिप्रभृतिभ्यः | अदिप्रभृतिभ्यः पञ्चम्यन्तं, शपः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | ण्यक्षत्रियार्षञितो यूनि लुगणिञोः (२.४.५८) इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अदिप्रभृतिभ्यः शपः लुक् |
Swarup – May 2018
०७_-_यङ्लुगन्तधातवः.pdf (file size: 199 KB)