06 - कृत्-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च
पूर्वम् अस्माभिः दृष्टं यत् धातुभ्यः विहिताः प्रत्ययाः द्विधाः—तिङ् च कृत् च | एते सर्वे प्रत्ययाः पुनः विभजिताः— सार्वधातुकाः आर्धधातुकाश्च | अस्य महत्त्वम् एवं यत् प्रत्ययः सार्वधातुकश्चेत्, तर्हि कर्त्रर्थे शबादयः विकरणाः आयान्ति कर्तरि शप् इत्यनेन | शबादयः आयान्ति चेत् धातुगणभेदाः भवन्ति | प्रत्ययः सार्वधातुकः नास्ति चेत् आर्धधातुकः एव; आर्धधातुकः चेत् इडागमविचारः करणीयः | इदं विभजनं तिङ्षु अपि भवति, कृत्सु अपि भवति | पूर्वम् इयं व्यवस्था अस्माभिः अवलोकिता तिङ्-प्रसङ्गे | अधुना अवलोकामहै कृत्-प्रसङ्गे |
कृत् नाम किम् ? यथोक्तं धातुभ्यः विहिताः प्रत्ययाः द्विधाः—तिङ् च कृत् च | यः कोऽपि तिङ्-भिन्नः प्रत्ययः धातुतः विहितः, स च प्रत्ययः कृत् इत्युच्यते | यस्य पदस्य अन्ते कृत्-प्रत्ययः अस्ति, तत् पदं कृदन्तपदम् | कृदन्तपदानि सर्वदा सुबन्तानि | इत्युक्तौ नामपदानि सन्ति न तु क्रियापदानि | यथा कर्तव्यं, मतिः, नेता, गायकः, लिखन्, प्रकाशमानम्— इमानि पदानि सर्वाणि कृदन्तानि | यतः एते प्रत्ययाः (तव्यत्, क्तिन्, तृच्, ण्वुल्, शतृ, शानच्) साक्षात् धातुभ्यः विहिताः, तिङ्-भिन्नाः, पदान्ते च सन्ति |
एते सर्वे प्रत्ययाः—तिङः, कृतश्च—अष्टाध्याय्याः तृतीयाध्याये विहिताः, यत्र धातोः, प्रत्ययः इत्यनयोः अधिकारः | पूर्वमेव अवगतं यत् आरम्भे तिङ्-प्रत्ययाः सर्वे सार्वधातुकाः, तिङ्शित्सार्वधातुकम् (३.४.११३) इति सूत्रेण | अत्र अनुवृत्ति-सहितसूत्रम् अवलोकयाम— धातोः परश्च तिङ्-शित् प्रत्ययः सार्वधातुकम् | अतः सार्वधातुकत्वस्य कृते प्रथमो नियमः अयं यत् प्रत्ययः धातुतः विहितः स्यात् | (धातुतः विहितः नास्ति चेत्, सार्वधातुकत्वस्य आर्धधातुकत्वस्य प्रश्नः नैव उदेति |) तदा धातुतः विहितश्चेत्, तिङ् चेत् सार्वधातुकम् इति सामान्यतया निश्चितम् | लिट्लकारे आशीर्लिङ्लकारे तिङ्प्रत्ययः अपवादत्वेन आर्धधातुकं भवति | परन्तु कृत् चेत्, किमपि नैश्चित्यं नास्ति यत् सार्वधातुकं भवेत्; कृत् शित् अस्ति चेदेव सार्वधातुकः | कृत्-प्रत्ययेषु नव शितः | ते च— शतृ, शानच्, चानश्, शानन्, खश्, श, एश्, शध्यै, शधैन् इति | एषु द्वौ प्रसिद्धौ— शतृ, शानच् च | अवशिष्टाः सर्वे कृत् प्रत्ययाः आर्धधातुकाः, आर्धधातुकं शेषः (३.४.११४) इति सूत्रेण |
अस्य महत्त्वम् अस्माभिः परिशीलितं तिङ्-प्रसङ्गे | प्रत्ययः सार्वधातुकः चेत्, कर्तरि शप् (३.१.६८) इति सूत्रेण कर्त्रर्थे धातु-प्रत्यययोः मध्ये विकरणप्रत्ययः विहितो भवति | अनेन दशानां धातुगणानां रूपभेदाः निष्पद्यन्ते |
कर्तरि शप् (३.१.६८) = कर्त्रर्थे सार्वधातुकप्रत्ययः परे अस्ति चेत्, धातुतः शप्-प्रत्ययः भवति | अत्र कर्त्रर्थे कर्तरि प्रयोगः इति अवगम्यताम् | भावे कर्मणि च शप् प्रत्ययः न विहितः | अनुवृत्ति-सहितसूत्रम्— कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः |
A. कर्त्रर्थे सार्वधातुकानां कृत्-प्रत्ययानां (कृदन्तानां) दशानां धातुगणानां रूपभेदाः
यथा शतृ-प्रत्ययः शित् अतः सार्वधातुकः | कर्त्रर्थे एव भवति शतृ-प्रत्ययः | कर्तरि शप् इत्यनेन शबादय-विकरणप्रत्ययाः विहिताः, अतः शत्रन्तेषु दशानां धातुगणानां रूपभेदाः—
शतृ → अनुबन्धलोपे → अत्
भ्वादौ पठ् + अत् → कर्तरि शप् → पठ् + शप् + अत् → अनुबन्धलोपे → पठ् + अ + अत् → अतो गुणे* → पठ् + अत् → वर्णमेलने → पठत् इति प्रातिपदिकं (पुंसि पठन्, स्त्रियां पठन्ती)
अदादौ वच् + अत् → कर्तरि शप् → (वच् + शप् + अत् →) अदिप्रभृतिभ्यः शपः (२.४.७२) इत्यनेन शपः लुक् (लोपः) → वच् + अत् → वचत् (वचन्, वचती)
जुहोत्यादौ दा + अत् → कर्तरि शप् → (दा + शप् + अत् →) जुहोत्यादिभ्यः श्लुः (२.४.७५) इत्यनेन शपः श्लुः (लोपः) → → ददत् (ददत्, ददती) [नाभ्यस्ताच्छतुः (७.१.७८) इत्यनेन अभ्यस्तसंज्ञकात् शतृ-प्रत्ययस्य नुम्-आगमो न भवति |]
दिवादौ नश् + अत् → कर्तरि शप् → (नश् + शप् + अत् →) दिवादिभ्यः श्यन् (३.१.६९) इत्यनेन शपं प्रबाध्य श्यन् → नश् + श्यन् + अत् → अनुबन्धलोपे → नश् + य + अत् → नश्य + अत् → अतो गुणे → नश्य् + अत् → नश्यत् (नश्यन्, नश्यन्ती)
स्वादौ आप् + अत् → कर्तरि शप् → (आप् + शप् + अत् →) स्वादिभ्यः श्नुः (३.१.७३) इत्यनेन शपं प्रबाध्य श्नु → आप् + श्नु + अत् → अनुबन्धलोपे → आप् + नु + अत् → आप्नु + अत् → → आप्नुवत् (आप्नुवन्, आप्नुवती)
तुदादौ लिख् + अत् → कर्तरि शप् → (लिख् + शप् + अत् →) तुदादिभ्यः शः (३.१.७७) इत्यनेन शपं प्रबाध्य श → लिख् + श + अत् → अनुबन्धलोपे लिख् + अ + अत् → अतो गुणे → लिख् + अत् → वर्णमेलने → लिखत् (लिखन्, लिखन्ती)
रुधादौ भिद् + अत् → कर्तरि शप् → (भिद् + शप् + अत् →) रुधादिभ्यः श्नम् (३.१.७८) इत्यनेन शपं प्रबाध्य श्नम् → भिद् + श्नम् + अत् → अनुबन्धलोपे भिद् + न + अत् → → भिन्द् + अत् → भिन्दत् (भिन्दन्, भिन्दती)
तनादौ कृ + अत् → कर्तरि शप् → (कृ + शप् + अत् →) तनादिकृञ्भ्यः उः (३.१.७९) इत्यनेन शपं प्रबाध्य उ → कृ + उ + अत् → → कुर्वत् (कुर्वन्, कुर्वती)
क्र्यादौ क्री + अत् → कर्तरि शप् → (क्री + शप् + अत् →) क्र्यादिभ्यः श्ना (३.१.९७) इत्यनेन शपं प्रबाध्य श्ना → क्री + श्ना + अत् → अनुबन्धलोपे क्री + ना + अत् → → क्रीणत् (क्रीणन्, क्रीणती)
चुरादौ चुर् → चोरि इति धातुः + अत् → कर्तरि शप् → चोरि + शप् + अत् → अनुबन्धलोपे → चोरि + अ + अत् → → चोरयत् (चोरयन्, चोरयन्ती)
इति शत्रन्तानाम् इव अपरेषां सर्वेषां सार्वधातुक-कृदन्तानां दशानां धातुगणानां रूपभेदाः | कर्त्रर्थे शानच्-प्रत्ययानाम् अपि एतादृशाः गणीयभेदाः भवन्ति |
*अतो गुणे (६.१.९७) = अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात् | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं वृद्धिरेचि (६.१.८८), अकः सवर्णे दीर्घः (६.१.१०१) इत्यनयोः अपवादसूत्रम् | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम् | उस्यपदान्तात् (६.१.९६) इत्यस्मात् अपदान्तात् अपि च एङि पररूपम् (६.१.९४) इत्यस्मात् पररूपम् इत्यनयोः अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम् |
धेयं यत् शत्रन्तानां दशगणेषु ये रूपभेदाः दृश्यन्ते, ते भेदाः जायन्ते विकरणप्रत्ययस्य द्विप्रकारक-प्रभावेन—
१) प्रथमतया विकरणप्रत्ययभेदेन धातुगणम् अनुसृत्य शत्रन्तपदे रूपभेदः | शप् इत्यनेन "अ" संयुज्यते, श्यन् इत्यनेन "य" संयुज्यते, श्नु इत्यनेन "नु" संयुज्यते, श्नम् इत्यनेन "न" संयुज्यते, उ इत्यनेन "उ" संयुज्यते, श्ना इत्यनेन "ना" संयुज्यते | अत्र विकरणप्रत्ययानां स्थूलाकृति-भेदेन प्रभावः | अ, य, नु, न, उ, ना इत्येषाम् रूपभेदेन शत्रन्तपदे रूपभेदः भविष्यति— पठन्, नश्यन्, आप्नुवन्, भिन्दन्, कुर्वन्, क्रीणन् |
२) विकरणं स्वयं प्रत्ययः, अतः प्रत्ययत्वात् पूर्वं स्थितं यत् धातुरूपि-अङ्गं, तस्मिन् अपि रूपभेदः भवति | अदादिगणे जुहोत्यादिगणे च यत्र विकरणस्य लोपो भवति, तत्रापि लुक्, श्लु इत्याभ्यां विशिष्टकार्यं भवति |
अधः षट् वृत्तान्ताः a-f इत्येषु सर्वाणि सोपानानि अस्माभिः न अधीतानि, किन्तु स्थूलरूपेण परिशीलनात् विकरणप्रत्ययेन कीदृशप्रभावः, इत्यस्य एका दृष्टिः भवति—
a) विकरणप्रत्ययेन गुणकार्यम्— भ्वादिगणे, चुरादिगणे च | भू + शप् + अत् → सार्वधातुकार्धधातुकयोः इत्यनेन इगन्त-धातोः इकः गुणः → भो + अ + अत् → भव + अत् → भवत्, पुंसि भवन् | चुर् + इ → चोरि + शप् + अत् → सार्वधातुकार्धधातुकयोः इत्यनेन इगन्त-धातोः इकः गुणः → चोरे + अ + अत् → चोरय + अत् → चोरयत्, पुंसि चोरयन् |
b) विकरणप्रत्ययस्य लोपे सति शतृ-प्रत्ययेन इयङ्/उवङ् आदेशः— अदादिगणे जुहोत्यादिगणे च | ब्रू + अत् → शपः लुक् (लोपः) → ब्रू + अत् → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उ/ऊकारान्तधातुरूपि-अङ्गस्य उ/ऊकारस्य स्थाने उवङ् आदेशः → ब्र्र् + उव + अत् → ब्रुव् + अत् → ब्रुवत् (पुंसि ब्रुवन्) | जुहोत्यदौ अपि तथा; अत्र ह्री-धातुः इकारान्तः अतः इयङ्— ह्री → जिह्री + अत् → जिह्र् + इय् + अत् → जिह्रियत्
c) विकरणप्रत्ययस्य श्लौ अङ्गस्य द्वित्वम्— जुहोत्यादिगणे | दा + अत् → दा + श्लु + अत् → श्लौ इत्यनेन द्वित्वम् → दादा + अत् → ह्रस्वः इत्यनेन अभ्यासस्य ह्रस्वत्वम् → ददा + अत् → श्नाभ्यस्तयोरातः (६.४.११२) इत्यनेन श्ना इत्येतस्य अभ्यस्तानां च अङ्गानाम् आकारस्य लोपो भवति सार्वधातुके क्ङिति परतः → ददत्
d) विकरणप्रत्ययस्य अपित्वात् गुणनिषेधः— दिवादिगणे, स्वादिगणे, तुदादिगणे, क्र्यादिगणे | चि + श्नु + अत् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन इगन्त-धातोः इकः गुणः → सार्वधातुकमपित् (१.२.४), क्ङिति च (१.१.५) इत्याभ्यां गुणनिषेधः → चिनु + अत् → चिन्वत् (पुंसि चिन्वन्)
e) तनादिगणे कृ + अत् → तनादिकृञ्भ्यः उः (३.१.७९) → इत्यनेन शपं प्रबाध्य उ → कृ + उ + अत् → सार्वधातुकार्धधातुकयोः ७.३.८४ इत्यनेन इगन्त-धातोः इकः गुणः → कर् + उ + अत् → करु + अत् → अत उत्सार्वधातुके (६.४.११०) इत्यनेन अपिति प्रत्यये परे, करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः → कुरु + अत् → यण्-सन्धिः → कुर्वत् (पुंसि कुर्वन्)
f) रुधादिगणे एकमेव विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं भवति, तच्च केवलं यत्र श्नम्-प्रत्ययात् परं धातौ नकारः वर्तते | श्नम्-प्रत्ययात् परं स्थितस्य नकारस्य लोपः, श्नान्नलोपः (६.४.२३) इत्यनेन सूत्रेण | यथा उन्द् + श्नम् + अत् → उनन्द् + अत् | 'उनन्द्' इत्यस्मिन् श्नम्-प्रत्ययात् परं धातौ नकारः वर्तते अतः श्नान्नलोपः इत्यनेन श्नम्-प्रत्ययात् उत्तरस्य नकारस्य लोपः | उनन्द् + अत् → उनद् + अत् → अपित्सु सार्वधातुकलकारेषु श्नम्-प्रत्यये स्थितस्य अकारस्य लोपो भवति श्नसोरल्लोपः (६.४.१११) इत्यनेन सूत्रेण → उन्द् + अत् → वर्णमेलने → उन्दत् (पुंसि उन्दन्)
B. आर्धधातुकानां कृत्-प्रत्ययानां रूपाणि
उपर्युक्तान् नव कृत्-प्रत्ययान् विहाय, अवशिष्टाः सर्वे कृत्-प्रत्ययाः अशित्त्वात् आर्धधातुकाः | कृत्-प्रत्ययः आर्धधातुकश्चेत्, धातुगणम् अनुसृत्य कृदन्तपदानां कोऽपि रूपभेदो नास्ति | अतः अत्रापि, आर्धधातुकलकाराः इव, धातुगणानां न काऽपि भूमिका |
1. कर्त्रर्थे आर्धधातुकानां कृत्-प्रत्ययानां (कृदन्तानां) दशानां धातुगणानां रूपभेदः नास्ति
आर्धधातुक-कृत्-प्रत्ययेषु परेषु, धातुः यस्मिन् कस्मिन्नपि गणे भवतु नाम, गणं निमित्तीकृत्य रूपभेदः न भवति | ण्वुल् इति प्रत्ययं पश्येम— अयं प्रत्ययः धातुभ्यः विधीयते किन्तु न तिङ् न वा शित्, अतः आर्धधातुकः | चुटू इत्यनेन णकारस्य इत्-संज्ञा, हलन्त्यम् इत्यनेन लकारस्य इत्-संज्ञा, तस्य लोपः इत्यनेन तयोः लोपः → वु अवशिष्यते | युवोरनाकौ (७.१.१) = अङ्गात् उत्तरस्य यु, वु इत्यनयोः स्थाने क्रमशः अन अक चादेशौ भवतः | अतः वु-स्थाने अक-आदेशः सर्वत्र | यथा—
भ्वादौ पठ् + अक → पाठक इति प्रातिपदिकम् (पुंसि पाठकः)
अस्य मार्गस्य अवलोकनेन तत्क्षणं सार्वधातुकप्रक्रियातः महान् भेदः लक्ष्यते | स च भेदः कः ? अत्र आर्धधातुकत्वात् कर्तरि शप् (३.१.६८) इत्यनेन शप् न भवति | शपः अभावे न कस्यापि विकरणप्रत्ययस्य अवसरः; तस्मात् धातुगणीयभेदः नास्ति एव—
भ्वादौ पठ् + अक → पाठक (पाठकः)
अदादौ वच् + अक → वाचक (वाचकः)
जुहोत्यादौ दा + अक → दायक (दायकः)
दिवादौ नश् + अक → नाशक (नाशकः)
सुवादौ आप् + अक → आपक (आपकः)
तुदादौ लिख् + अक → लेखक (लेखकः)
रुधादौ भिद् + अक → भेदक (भेदकः)
तनादौ कृ + अक → कारक (कारकः)
क्र्यादौ क्री + अक → क्रायक (क्रायकः)
चुरादौ चुर् → चोरि इति धातुः + अक → चोरक (चोरकः)
इमानि रूपाणि दृष्ट्वा अवगम्यते यत् गणं निमित्तीकृत्य रूपभेदः न भवति | कारणं किम् ? ण्वुल्-प्रत्ययः सार्वधातुकः नास्ति अतः कर्तरि शप् (३.१.६८) इत्यस्य प्रसक्तिर्नास्ति | कर्तरि शप् न भवति चेत् शप् न भवति;| शप् न भवति चेत्, अपरेषां गणानां विकरणप्रत्ययाः अपि न भवन्ति यतोहि ते सर्वे शपं प्रबाध्य आयान्ति | शप् नास्ति चेत्, श्यन्, श्नु, श इत्यादयः विक्रणप्रत्ययाः अपि न भवन्ति | तेषाम् अभावे गणं निमित्तीकृत्य रूपभेदः न भवति |
अनीयर् इति प्रत्ययं पश्येम— अयं प्रत्ययः न तिङ् न वा शित्, अतः आर्धधातुकः | अनीयर् न केवलम् आर्धधातुकः, अपि तु कर्मणि अर्थे (न तु कर्तरि अर्थे) अस्ति | अस्मात् कारणद्वयात् कर्तरि शप् (३.१.६८) इत्यस्य प्रसक्तिर्नास्ति | अत्र हलन्त्यम् इत्यनेन रेफस्य इत्-संज्ञा, तस्य लोपः इत्यनेन लोपः → अनीय अवशिष्यते |
भ्वादौ पठ् + अनीय → पठनीय
अदादौ वच् + अनीय → वचनीय
जुहोत्यादौ दा + अनीय → दानीय
दिवादौ नश् + अनीय → नशनीय
सुवादौ आप् + अनीय → आपनीय
तुदादौ लिख् + अनीय → लेखनीय
रुधादौ भिद् + अनीय → भेदनीय
तनादौ कृ + अनीय → करणीय
क्र्यादौ क्री + अनीय → क्रयणीय
चुरादौ चुर्→ चोरि इति धातुः + अनीय → चोरणीय
यत्र यत्र कृत्-प्रत्ययः आर्धधातुकः, तत्र तत्र धातुगणम् आधारीकृत्य भेदो न वर्तते | अतः यथा आर्धधातुकलकाराः, आर्धधातुककृत्प्रत्ययानां प्रक्रियार्थं धातूनाम् अन्तिमवर्णम् अनुसृत्य चतुर्दशवर्गेषु विभज्यन्ते | चतुर्दश वर्गाः एते—
१) अकारान्ताः— यथा कथ, गण, रच इत्यादयः |
२) आकारान्ताः— यथा पा, ला, वा, दा, धा इत्यादयः |
३) इकारान्ताः— यथा जि, श्वि, चि, कि, रि इत्यादयः |
४) ईकारान्ताः— यथा नी, शी, डी, क्री, वी इत्यादयः |
५) उकारान्ताः— यथा द्रु, नु, कु, गु, क्षु इत्यादयः |
६) ऊकारान्ताः— यथा भू, लू, पू, नू, मू इत्यादयः |
७) ऋकारान्ताः— यथा हृ, भृ, धृ, मृ, कृ, स्वृ, स्मृ इत्यादयः |
८) ॠकारान्ताः— यथा जॄ, झॄ, शॄ, गॄ, वॄ इत्यादयः |
९) एजन्ताः— यथा ग्लै, म्लै, धे, ध्यै, पै, शो, छो इत्यादयः |
१०) अदुपधाः— यथा पठ्, चल्, वद्, स्खल्, कक्, पच्, चट् इत्यादयः |
११) इदुपधाः— यथा चित्, मिद्, छिद्, भिद्, निद्, मिल् इत्यादयः |
१२) उदुपधाः— यथा बुध्, शुध्, मुद्, कुक्, उख् इत्यादयः |
१३) ऋदुपधाः— यथा कृष्, वृष्, नृत्, छृद्, वृत्, वृध् इत्यादयः |
१४) अवशिष्टाः— ये न सन्ति एषु वर्गेषु यथा मील्, शीक्, बुक्क्, अञ्च् इत्यादयः |
अन्यच्च आर्धधातुकः कृत्-प्रत्ययः चेत्, इडागमविचारः करणीयः |
2. आर्धधातुकः कृत्-प्रत्ययानाम् इडागमविचारः
आर्धधातुक-कृत्-प्रत्ययैः निष्पादितानां पदानां धातुगणीयभेदो न भवति, किन्तु इडागमविचारः अपेक्षितः |
यथा—
क्तवतु— कृतवान्, गतवान्, परन्तु इडागमे सति पठितवान्, खादितवान् |
तुमुन्— ज्ञातुम्, आप्तुं, परन्तु इडागमे सति क्रीडितुम्, जीवितुम् |
तव्यत्— द्रष्टव्यम्, दातव्यं, परन्तु इडागमे सति खादितव्यम्, क्रीडितव्यम् |
तृच्— कर्ता, दाता, परन्तु इडागमे सति स्पर्धिता, डयिता |
एवमेव अनीयर्, ण्वुल्, क्त, क्त्वा, ल्युट् | यावन्तः कृत्-प्रत्ययाः अशितः सन्ति, ते सर्वे तथा आर्धधातुकाः | तत्र इडागम-विचारः करणीयः |
आर्धधातुकप्रत्ययः परे सति इट्— नाम "इ" इति आगमः— कुत्रचित् धातु-प्रत्यययोः मध्ये उपविशति | यथा दृष्टं पूर्वं, धातुः अपि सेट् (स-इट्), प्रत्ययः अपि सेट् चेदेव इडागमो भवति | धातुप्रत्यययोः मध्ये एकोऽपि अनिट् (अन्-इट्) चेत्, इडागमो न भवति | द्वयमपि सेट् चेदपि कुत्रचित् अपवादत्वेन इडागमः न भवति; परन्तु द्वयोर्मध्ये एकः अनिट् चेत् इडागमो नैव भवति |
कोऽपि आर्धधातुकप्रत्ययः सेट्— नाम इडागमयोग्यः— न वा इति कथं ज्ञातव्यम् ? एतदर्थं प्रमुखं सूत्रद्वयम् अस्ति |
आर्धधातुकस्येड्वलादेः (७.२.३५) = आर्धधातुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात् | इट्-आगमः टित् अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल् आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्, इट् प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गात् वलादेः आर्धधातुकस्य इट् |
नेड् वशि कृति (७.२.८) = कृत्-प्रत्ययस्य आदौ वश्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो न भवति | यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन वशि कृति इत्युक्तौ वशादौ कृति (तादृशप्रत्ययः यस्य आदौ वश् स्यात्) | वश्-प्रत्याहारे वर्गीयव्यञ्जनानां तृतीयः, चतुर्थः, पञ्चमश्च सदस्याः, वकाररेफलकाराः च | नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः, द्वितीयः अथवा श्, ष्, स्, ह् चेत्, इडनुकूलः | न अव्ययपदम्, इट् प्रथमान्तं, वशि सप्तम्यन्तं, कृति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गात् न इट् वशि कृति |
सारांशः एवं यत् आर्धधतुक-कृत्-प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः, द्वितीयः सदस्यः, श्, ष्, स्, ह् च इत्येषु अन्यतमः चेत्, सः प्रत्ययः इडनुकूलः भवति | धातुः अपि सेट् चेत्, सामान्यतया इडागमो भविष्यति |
यथा ण्वुल् अनिट्; तृच् सेट् | ण्वुल् धातोः परे चेत्, इडागमः न कदापि भवति | तृच् सेट् अस्ति, अतः धातुः अपि सेट् चेत्, इडागमः सम्भवति (भवति इति सामान्यनियमः, परन्तु केचन अपवादाः सन्ति) |
अधुना चिन्तनं कुर्वन्तु, एते आर्धधतुक-कृत्-प्रत्ययाः सेट् वा अनिट् वा— अनीयर्, क्त, तव्यत्, क्त्वा, ल्युट्, क्तवतु, तुमुन् |
धातुः सेट् वा अनिट् वा इत्यस्य प्रपञ्चः अग्रे आर्धधातुकपाठे अधीयते | परन्तु एतावता अस्माभिः ज्ञातं यत् आर्धधातुक-कृत्-प्रत्ययः अनिट् चेत्, इडागमः अवश्यं न भवति | प्रत्ययः सेट् चेत्, धातुः अपि सेट् चेत् इडागमस्य सम्भावना |
आहत्य कृत्-प्रत्ययाः तिङ्प्रत्ययाः च द्विविधाः— सार्वधातुकाः आर्धधातुकाः च | यत्र प्रत्ययः सार्वधातुकः, स च प्रत्ययः कृत् वा तिङ् वा भवतु, प्रक्रिया समाना | तथैव प्रत्ययः आर्धधातुकः चेत्, स च प्रत्ययः कृत् वा तिङ् वा भवतु, प्रक्रिया समाना | अतः धातुभ्यः प्रत्ययः यत्र विधीयते, तत्र चिन्तनं केवलं द्विविधं— सार्वधातुकम् आर्धधातुकं च | तत्र स च प्रत्ययः कृत् अथवा तिङ्, इत्यनेन प्रक्रियायां भेदः नास्ति | अतः सार्वधातुकप्रक्रियायाम् अस्ति लट्, लोट्, लङ्, विधिलिङ्, शतृ, शानच्— एषां कार्यं समानं विकरणप्रत्ययसहितत्वात् | आर्धधातुकप्रक्रियायाम् अस्ति लृट्, लृङ्, लुट्, लुङ्, लिट् आशीर्लिङ्, तृच्, ण्वुल्, तव्यत्, अनीयर्, क्तवतु इत्यादयः— एषां कार्यं समानं विकरणप्रत्ययरहितत्वात्, इडागमचिन्तनसहितत्वात् च |
इति कृत्-प्रत्ययानां समग्रदृष्टिः |
Swarup – August 2014 (Updated July 2016)
---------------------------------
०६ - कृत्-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च .pdf (85k) Swarup Bhai, Aug 11, 2016, 1:46 PM v.1
शतृ-प्रत्ययः - स्थूलचिन्तनम् pdf , अष्टाध्याय्याः समग्रदृष्टिः pdf