2 - धातुगण-परिचयः
ध्वनिमुद्रणानि - प्रथमपाठे यानि ध्वनिमुद्रणानि सन्ति, तेषु अस्य पाठस्य अपि चर्चा क्रियते
दशगणाः
१. एतावता अस्माभिः दृष्टं यत् धातूनां दशगणाः सन्ति, तथा च विकरण-प्रत्ययेन गणाः भिद्यन्ते |
पठति = पठ् + अ + ति
पठ् – धातुः [अर्थं निर्दिशति]
अ – विकरण-प्रत्ययः [गणं निर्दिशति]
ति – तिङ्-प्रत्ययः [लकारं निर्दिशति]
विकरण-प्रत्ययस्य मूल-रूपम्
२. विकरण-प्रत्ययस्य मूल-रूपं भवति | धातुतः क्रियापदस्य निर्माणार्थं सोपानानि सन्ति | सोपानेषु विकरण-प्रत्ययस्य रूपं परिवर्तते | उदाहरणार्थं भ्वादिगणे विकरण-प्रत्ययः शप् | सोपानेषु लट्-लकारस्य प्रथमपुरुषैकवचनरूपस्य निर्माणे, विकरण-प्रत्ययः शप् → "अ" इति भवति | एवमेव दशसु लकारेषु—
गणः | विकरण-प्रत्ययस्य मूल-रूपम् | लट् लकारस्य प्रथमपुरुषैकवचनरूपे विकरण-प्रत्ययस्य आकृतिः |
---|---|---|
१ भ्वादिगणः | शप् | अ |
२ अदादिगणः | नास्ति [शप्लोपः] | नास्ति |
३ जुहोत्यादिगणः | नास्ति [शप्लोपः] | नास्ति |
४ दिवादिगणः | श्यन् | य |
५ स्वादिगणः | श्नु | नो |
६ तुदादिगणः | श | अ |
७ रुधादिगणः | श्नम् | न |
८ तनादिगणः | उ | ओ |
९ क्र्यादिगणः | श्ना | ना |
१० चुरादिगणः | णिच् + शप् | अय |
३. उपरि स्थिते कोष्ठके पश्यामः यत् मूल-विकरण-प्रत्ययेषु बहुत्र व्यञ्जनानि सन्ति | किन्तु तस्मिन् एव कोष्ठके पश्यामः यत् लट्-लकारे आधिक्येन तानि व्यञ्जनानि न तिष्ठन्ति | किमर्थम् इति चेत्, सोपानेषु तानि व्यञ्जनानि अपगच्छन्ति, नाम तेषां लोपः भवति | यस्य लोपः भवति, तस्य विशिष्टं नाम अस्ति— 'इत्' इति संज्ञा | तर्हि विकरण-प्रत्ययेषु बहुत्र व्यञ्जनानाम् इत्-संज्ञा भवति | किमर्थम् आरम्भे एतानि व्यञ्जनानि आसन् यदि गच्छन्ति एव ? तैः वर्णैः कार्यं निर्दिष्टम् अस्ति | अपि च तत् कार्यं एषां वर्णानां गमनानन्तरम् अपि सिध्यति | तत् कार्यं किम् इति अग्रे पश्यामः |
४. कः धातुः कस्मिन् गणे प्रविष्टः इति ज्ञातव्यम् अस्माभिः किल | एतावता भवन्तः प्रायः मूल-विषयम् अवगच्छन्ति— नाम, विकरण-प्रत्ययम् अधिकृत्य गणः निर्णेतव्यः | प्रथमे करपत्रे च कथं निर्णीयते इति प्रदर्शितं; परन्तु कुत्रचित् विषयः भ्रमात्मकः भवति | तानि भ्रमात्मकानि स्थलानि अधुना अवलोकयाम |
अ) विकरण-प्रत्ययः नास्ति चेत्, धातुः द्वितीयगणे वा, तृतीयगणे वा ?
अदादिगणे सारल्यम् अस्ति— अस् + ति = अस्ति | अस्, ति इत्यनयोः मध्ये किमपि नास्ति, अतः द्वितीयः गणः |
जुहोत्यादिगणे यद्यपि विकरण-प्रत्ययः नास्ति, परन्तु धातोः द्वित्वम् अस्ति | दा → ददाति; भी → बिभेति | द्वित्वम् अस्ति इति कारणतः सुलभतया अवगच्छामः तृतीयगणः; अतः द्वित्वं तृतीयगणस्य लक्षणम् |
आ) चतुर्थः गणः वा ? दशमः गणः वा ?
दिवादिगणे विकरण-प्रत्ययस्य केवलं "य" इति भागः दृश्यते क्रियापदे |
चुरादिगणे विकरण-प्रत्ययस्य "अय" इति भागः दृश्यते क्रियापदे |
नश् + य + ति = नश्यति
कथ् + अय + ति = कथयति
भेदः अवगतः किल ? नश् इत्यस्य अनन्तरम् 'अ' न आगच्छति; केवलं 'य' | अतः चतुर्थगणः | कथ् इत्यस्य अनन्तरम् 'अ' अस्ति, तदा 'य'; आहत्य 'अय' | अतः दशमगणः |
इ) पञ्चमः गणः वा ? अष्टमः गणः वा ?
स्वादिगणे लट्-लकारस्य प्रथमपुरुषैकवचनरूपे, विकरण-प्रत्ययस्य 'नो' इति भागः दृश्यते |
तनादिगणे लट्-लकारस्य प्रथमपुरुषैकवचनरूपे, विकरण-प्रत्ययस्य केवलम् 'ओ' इति भागः दृश्यते |
"नो" "ओ" इत्यनयोः भेदः |
शक् + नो + ति = शक्नोति
तन् + ओ + ति = तनोति
भेदः अवगतः किल ? पञ्चमगणे नकारः विकरण-प्रत्यये अस्ति; अष्टमगणे नकारः धातौ अस्ति |
ई) प्रथमः गणः वा ? षष्ठः गणः वा ?
अस्य भेदस्य अवगमनार्थम् अग्रिमं करपत्रं पठति चेत् वार्ता स्पष्टा भविष्यति इति मन्ये |
Swarup - August 2012