21 - हस्तौ संयुक्तौ इति ज्ञानम्‌

From Samskrita Vyakaranam
10---nyAyashAstram/21---hastau-saMyuktau-iti-gyAnam
Jump to navigation Jump to search
ध्वनिमुद्रणम्‌
१) hastau-saMyuktau-iti-gyAnam_2017-05-27



संयुक्तव्यवहारहेतुः संयोगः | 'हस्तौ संयुक्तौ' इति शब्दप्रयोगेण 'हस्तौ संयुक्तौ' इति प्रतीतिः, ज्ञानम्‌ उत्पद्यते | तस्य 'हस्तौ संयुक्तौ' इति आकारकज्ञानस्य कारणं भवति संयोगरूपगुणः | 'हस्तौ संयुक्तौ' इति ज्ञाने संयोगः, हस्तः च इति द्वौ विषयौ | विषययोः परस्परसम्बन्धो भवति इत्यनेन तयोः पुनः नामकरणम्‌ | संयोगरूपगुणः कुत्र आश्रीयते ? हस्ते | एतस्मात्‌ हस्तः इति विशेष्यः, संयोगः इति प्रकारः |


'हस्तौ संयुक्तौ' इति ज्ञानम्‌ अनुभवसिद्धम्‌; अनेन विषयीभूतगुणः संयोगः सिध्यति | किमर्थम्‌ इति चेत्‌, कार्यम्‌ अस्ति चेत्‌, तस्य कारणं भवेत् | ज्ञानं प्रति विषयः कारणम्‌ | ज्ञानम्‌ इति एकं कार्यं; तच्च ज्ञानरूपकार्यम्‌ अस्ति चेत्‌, तस्य कारणीभूतविषयः अपि स्यात्‌ | अत्र स च विषयः संयोगः |


ज्ञानं, बुद्धिः इति गुणः कुत्र भवति ? आत्मनि | केन सम्बन्धेन ? समवायसम्बन्धेन | अतः ज्ञानस्य समवायिकारणं भवति आत्मा | असमवायिकारणं च आत्मनि विद्यमानः आत्ममनसंयोगः | असमवायिकारणं भवति कश्चन गुणः काचन क्रिया वा समवायिकारणे | तर्हि विषयः ज्ञानस्य कारणम्‌ इति उक्ते सति तच्च कारणं कीदृशम्‌ ? समवायिकारणं नास्ति, असमवायिकारणमपि नास्ति; यत्‌ कारणं न समवायिकारणं न वा असमवायिकारणं, तत्‌ निमित्तकारणमिति | अतः विषयः ज्ञानस्य निमित्तकारणाम्‌ |


अत्र च प्रक्रिया भवति— संयोगरूपविषयः इति मूलनिमित्तकारणम्‌ | अनेन शब्दप्रयोगो जायते; तस्माच्च ज्ञानम्‌ उत्पद्यते | एतत्‌ सर्वं कथं भवति लोके ? रामः वदति 'हस्तौ संयुक्तौ' | अनेन श्रोतुः श्यामस्य मनसि 'हस्तौ संयुक्तौ' इति ज्ञानम्‌ उत्पद्यते | अस्मिन्‌ ज्ञाने हस्तः इति विशेष्याख्यः विषयः, संयोगश्च प्रकाराख्यः विषयः | अतः संयोगप्रकारकं ज्ञानं, हस्तविशेष्यकं ज्ञानं च इति वक्तव्यम्‌ | आहत्य 'हस्तौ संयुक्तौ' इति आकारकं ज्ञानम्‌ | इदं सर्वं ज्ञानम्‌ उत्पद्यते श्रोतुः मनसि | यदा कश्चन वक्ता अस्ति, स च वक्ता 'हस्तौ संयुक्तौ' इति वदति, श्रोता च तं व्यवहारं शृणोति, तदानीम्‌ इदं 'हस्तौ संयुक्तौ' इति आकारकं ज्ञानं श्रोतुः मनसि उत्पद्यते |


किन्तु कश्चन रामः इति पुरुषः एकाकी कस्मिंश्चित्‌ प्रकोष्ठे 'घटः पटे अस्ति' इति पश्यति चेत्‌, इयं प्रक्रिया— संयोगरूपगुणात् 'घटपटौ संयुक्तौ' इति शब्दप्रयोगः, तस्माच्च 'घटपटौ संयुक्तौ' इति आकारकं ज्ञानम्‌— न भवति | यतोहि रामः एकाकी इति कारणतः शब्दप्रयोगः एव नास्ति | तथापि 'घटेन सह पटः संयुक्तः' इति ज्ञानं तु उत्पद्यते एव रामस्य मनसि | अतः आहत्य एतत्‌ सर्वं— संयोगरूपगुणात् शब्दप्रयोगः, तस्माच्च ज्ञानम्‌— भवति यदा द्वौ जनौ अथवा तदधिकाः जनाः सन्ति; एक एव जनः अस्ति चेत्‌ एतादृशी प्रक्रिया न सम्भवति |


यथोक्तम्‌ एतादृशी प्रक्रिया— संयोगः → शब्दप्रयोगः → ज्ञानम्‌ — इति न भवति यदा एक एव मनुष्यः अस्ति | द्वौ जनौ अथवा तदधिकाः जनाः सन्ति चेदेव इदं सर्वं सम्भवति | तर्हि अत्र किं पर्यवसितम्‌ ? यत्र यत्र ज्ञानं तत्र सर्वत्र तस्य उत्पादनार्थं शब्दप्रयोगः भवेत्‌ इति नियमः नास्ति | ज्ञाने कश्चन विषयः भवेत्‌; किन्तु शब्दः भवेत्‌ इति नास्ति | अपि च एक एव जनः अस्ति चेत्‌, स च 'घटः पटे अस्ति' इति पश्यति चेत्‌ स्वस्य मनसि 'घटपटौ संयुक्तौ' इति शब्दप्रयोगः इति न भवति | न्यायशास्त्रे मुखात्‌ निःसरति चेदेव शब्दः भवति |


एक एव मनुष्यः अस्ति चेत्‌, तस्य आत्मनि यत्‌ ज्ञानं जायते, तच्च ज्ञानं शब्दप्रयोगेण न जायते | तर्हि अत्र कीदृशी प्रक्रिया ? ज्ञानस्य उत्पादनार्थं शब्दप्रयोगस्य आवश्यकता सर्वथा नास्ति | रामः 'घटः पटे अस्ति' इति पश्यति चेत्‌, तत्र संयोगेन सह चक्षुरिन्द्रियसन्निकर्षः जातः, अनेन प्रत्यक्षं ज्ञानम्‌ |


इदानीं द्वयोः हस्तयोः संयोगं दृष्ट्वा रामः 'हस्तौ संयुक्तौ' इति शब्दप्रयोगं करोति; तस्य शब्दप्रयोगस्य श्रवणेन 'हस्तौ संयुक्तौ' इति श्यामस्य ज्ञानं भवति चेत्‌, तत्‌ ज्ञानं शाब्दबोधः न तु प्रत्यक्षज्ञानम्‌ | शाब्दबोधं प्रति शब्दप्रयोगः कारणं भवति; शब्दप्रयोगः भवेदेव तत्र | किन्तु प्रत्यक्षज्ञानं प्रति शब्दप्रयोगः कारणं न भवति | 'हस्तौ संयुक्तौ' इति ज्ञानं शाब्दबोधात्मकं चेदेव शब्दप्रयोगः कारणीभूतः भवति |


यथार्थज्ञानं चतुर्विधम्‌— प्रत्यक्षम्‌, अनुमितिः, उपमितिः, शाब्दबोधः | शाब्दबोधप्रकारकं ज्ञानम्‌ अस्ति चेदेव शब्दप्रयोगः कारणं भवति, नो चेत्‌ न | प्रत्यक्षज्ञानम्‌ इति चेत्‌ शब्दप्रयोगस्य स्थाने इन्द्रियसन्निकर्षः भवति | तत्र प्रक्रिया एतादृशी— संयोगः → इन्द्रियसन्निकर्षः → ज्ञानम्‌ | अत्रापि संयोगाख्यः गुणः कारणीभूतः | किन्तु शब्दप्रयोगस्य स्थाने इन्द्रियसन्निकर्षः | एवं च ज्ञानोत्पादनस्य प्रक्रियाः अपि चतुर्विधाः | किन्तु यत्र यत्र 'हस्तौ संयुक्तौ' इति प्रकारकं ज्ञानं, चतुर्षु ज्ञानेषु यत्किमपि भवतु नाम, तत्र सर्वत्र संयोगरूपगुणः कारणम्‌ | कीदृशमिति चेत्‌, निमित्तकारणम्‌ |


Swarup – May 2017

---------------------------------

२१ - हस्तौ संयुक्तौ इति ज्ञानम्‌.pdf