10 - यङ्गन्तधातवः ।।
C. इदुपधधातूनां यङन्तधातु-सिद्धिः
भिद् + यङ् → पुगन्तलघूपधस्य च (७.३.८६) → क्क्ङिति च (१.१.५) → भिद् + य → द्वित्वाभ्यासकार्यम् → बि भि + द्य → गुणो यङ्लुकोः (७.४.८२) → बेभिद्य इति यङन्तधातुः → बेभिद्यते
एवमेव—
छिद् + यङ् → → चिच्छिद् + य →
मिद् + यङ् →
चित् + यङ् →
D. उदुपधधातूनां यङन्तधातु-सिद्धिः
बुध् + यङ् → पुगन्तलघूपधस्य च (७.३.८६) → क्क्ङिति च (१.१.५) → बुध् + य → द्वित्वाभ्यासकार्यम् → बुबु + ध्य → गुणो यङ्लुकोः (७.४.८२) → बोबुध्य इति यङन्तधातुः → बोबुध्यते
एवमेव—
रुध् + यङ् →
लुभ् + यङ् →
E. ऋदुपधधातूनां यङन्तधातु-सिद्धिः
रीगृदुपधस्य च (७.४.९०) इत्यनेन ऋदुपधधातोः अभ्यासस्य रीक् इति आगमो भवति यङि परे |
नृत् + यङ् → न नृ + त्य → रीगृदुपधस्य च (७.४.९०) → नरी नृ + त्य → नरीनृत्य इति यङन्तधातुः → नरीनृत्यते
रीगृदुपधस्य च (७.४.९०) = ऋदुपधधातोः अभ्यासस्य रीक् इति आगमो भवति यङि यङ्लुकि च | रीक् कित् अतः अभ्यासस्य अन्ते विधीयते | ऋत् उपधा यस्य, सः ऋदुपधः, तस्य ऋदुपधस्य | रीक् प्रथमान्तम्, ऋदुपधस्य षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ऋदुपधस्य अङ्गस्य अभ्यासस्य रीक् यङ्लुकोः |
एवमेव—
तृप् + यङ् →
वृध् + यङ् →
शृध् + यङ् →
कृष् + यङ् →
मृष् + यङ् →
वृत् + यङ् →
कृप्-धातुः इति विशेषः—
कृपेश्च अवकल्कने (विचारं करोति, चिन्तनं करोति) | कृपेश्च इति धातुः चुरादिगणे अस्ति, लटि कल्पति/कल्पयति/कल्पयते । कृपू सामर्थ्ये (समर्थः भवति) भ्वादिगणे, लटि कल्पते । उभयत्र कृपो रो लः (८.२.१८) इत्यनेन लत्वम् ।
कृपो रो लः (८.२.१८) = कृप्-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम् | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम् | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तं, अनेकपदमिदं सूत्रम् | कृपः इत्यस्य द्विवारम् आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्— कृपः उः कृपः रः लः |
कृप्-धातोः द्वित्वाभ्यासकार्यं यथासामान्यम् | अस्मिन् क्रमे रीगृदुपधस्य च (७.४.९०) इत्यनेन रीक् इति आगमो भवति | तदा कृपो रो लः (८.२.१८) इत्यनेन अभ्यासस्य रेफस्थाने लकारः, धातोः च ऋकारस्थाने ऌ-कारः |
कृप् + यङ् → क कृ + प्य → च कृ + प्य → चरीकृ + प्य→ चलीकॢप्य इति यङन्तधातुः → चलीकॢप्यते
तर्हि कृपो रो लः (८.२.१८) इति सूत्रेण, आहत्य कृप्-धातोः रेफस्य लकारादेशः; कृप्-धातोः ऋकारस्य अंशः यः रेफसदृशः, तस्य स्थाने लकारसदृशादेशो भवति | यत्र कृप्-धातोः उपधायाः गुणः भवति कर्प्, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प् इति फलं; यत्र उपधागुणो न भवति, तत्र कृप् इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप् इति फलम् | दृष्टान्तत्वेन अपरेषु स्थलेषु कथम् अनेन सूत्रेण रूपं सिध्यति इत्यत्र प्रदर्श्यते—
लटि कल्पयति/ते | कृप् + णिच् → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः → कर्प् + इ → कृपो रो लः (८.२.१८) इत्यनेन रेफस्य स्थाने लकारादेशः → कल्प् + इ → कल्पि इति धातुः → कल्पि + शप् → कल्पय इति अङ्गम् → कल्पय + ति → कल्पयति/ते
लिट्-लकारे गुणनिषेधत्वात् ऋकारस्य उदाहरणम्—
लिटि चकॢपे | कृप् + ए → द्वित्वम् अभ्यासकार्यम् च → चकृप् + ए → कृपो रो लः (८.२.१८) इत्यनेन ऋकारस्य स्थाने ऌकारादेशः → चकॢप् + ए → चकॢपे
प्रश्नः उदेति यदि रेफस्य स्थाने लकारस्तु भवति एव, तर्हि किमर्थं मूलधातौ उपदेशावस्थायां कॢप् न स्यात् ? उत्तरम् अस्ति यत् वेदे तस्य ऋकारस्य महत्त्वं वर्तते | वेदे उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम् इङ्गितम् | अतः वेदे अयं धातुः ऋदुपधधातुः भवेत् |
F. अनिदित्-धातूनां यङन्तधातु-सिद्धिः
पाणिनेः धातुपाठे अनिदित्-धातवः इमे—
अञ्च् | कुञ्च् | ग्लुञ्च् | चञ्च् | तञ्च् | त्वञ्च् | म्रुञ्च् | म्लुञ्च् | लुञ्च् | वञ्च् |
अञ्ज् | रञ्ज् | भञ्ज् | सञ्ज् | ष्वञ्ज् | कुन्थ् | ग्रन्थ् | मन्थ् | श्रन्थ् | उन्द् |
बुन्द् | स्कन्द् | स्यन्द् | इन्ध् | बन्ध् | शुन्ध् | तुम्प् | त्रुम्प् | ऋम्फ् | गुम्फ् |
तुम्फ् | त्रुम्फ् | तृम्फ् | दृम्फ् | उम्भ् | दम्भ् | शुम्भ् | श्रम्भ् | षृम्भ् | स्रम्भ् |
दंश् | भ्रंश् | ध्वंस् | भ्रंस् | शंस् | स्रंस् | तृन्ह् |
धेयं यत् एषु अञ्च्, अञ्ज्, इन्ध्,उन्द्, उम्भ्, ऋम्फ् इत्येते धातवः अजादयः अतः एभ्यः यङ्-प्रत्ययः न भवति यतोहि हलादि-एकाच्-धातुभ्यः एव यङ् इति सामान्यनियमः | अवशिष्ट-अनिदित्-धातुभिः कथं यङन्तधातवः सिध्यन्ति इति अग्रे प्रदर्श्यते |
प्रथमतया स्मर्यतां यत् अनिदितां धातूनां नकारलोपो भवति—
अनिदितां हल उपधायाः क्ङिति (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्-संज्ञा नास्ति, तेषाम् उपधायां नकारः अस्ति चेत्, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत् इत् अस्ति येषाम् ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम् अनिदिताम् | क् च ङ् च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन् क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | श्नान्नलोपः (६.४.२३) इत्यस्मात् न, लोपः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति |
अपि च स्मर्यतां यत् नकारलोपः सामान्य-अङ्गकार्यं; यङन्तसिद्धिप्रक्रियायाञ्च सामान्य-अङ्गकार्यं द्वित्वात् पूर्वमेव करणीयम् |
१. वञ्च्, स्रंस्, ध्वंस्, भ्रंस्, स्कन्द् इति चतुर्णां धातूनां यङन्तधातु-सिद्धिः
एषां धातूनाम् अभ्यासस्य नीक्-आगमो भवति यङि परे |
वञ्च् +यङ् → अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन ङिति प्रत्यये परे नकारलोपः → वच् + य → द्वित्वाभ्यासकार्यम् → व व च्य → नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् (७.४.८४) इत्यनेन अभ्यासस्य नीगागमः यङि परे → वनीवच्य इति यङन्तधातुः → वनीवच्यते
एवमेव—
स्रंस् + यङ् → अनिदितां हल उपधायाः क्ङिति (६.४.२४) → द्वित्वाभ्यासकार्यम् → नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् (७.४.८४)
ध्वंस् + यङ् →
भ्रंस् + यङ् →
स्कन्द् + यङ् →
नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् (७.४.८४) = वञ्च्, स्रंस्, ध्वंस्, भ्रंस्, कस्, पत्, पद्, स्कन्द् इत्येषां धातूनाम् अभ्यासस्य नीक्-आगमो भवति यङि यङ्लुकि च | वञ्चुश्च स्रंसुश्च ध्वंसुश्च भ्रंसुश्च कसश्च पतश्च पदश्च स्कन्द च तेषामितरेतरद्वन्द्वः वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दः, तेषाम् | नीक् प्रथमान्तं, वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दां षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं—
वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् अङ्गस्य अभ्यासस्य नीक् यङ्लुकोः |
कस् ,पत्, पद् इति त्रयाणां धातूनां यङन्तधातु-सिद्धिः अदुपधधातूनां स्थले प्रदर्शिता |
यथा उक्तं पूर्वं, अत्र गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणः न भवति यतोहि इष्टः यङन्तधातुः यदि 'चनेकस्य' इति अभविष्यत्, तर्हि पाणिनिः साक्षात् 'नेक्' इति आगमम् अकरिष्यत् | आगमः यदा कोऽपि भवितुम् अर्हति, तदा पाणिनिः साक्षात् नेक् इति आगमं व्यधास्यत् | एतादृशात् स्वातन्त्र्यात् आगमस्य सामर्थ्यं वर्तते | अनेन सामर्थ्येन नीक् इत्युक्तं चेत्, नीक् इत्येव इष्टम् | अस्मिन् सामर्थ्ये लाघवमपि अस्ति |
२. दंश्, भञ्ज् चेति द्वयोः धात्वोः यङन्तधातु-सिद्धिः
यङन्तप्रसङ्गे एतेषां धातूनाम् अभ्यासस्य अन्ते ह्रस्व-अकारः अस्ति, किन्तु धात्वन्ते अनुनासिकवर्णो नास्ति अतः नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यनेन नुगागमो न भवति | तथपि एषां नुगागमो भवति जपजभदहदशभञ्जपशां च (७.४.८६) इति विशिष्टसूत्रेण |
दंश् + यङ् → अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन ङिति प्रत्यये परे नकारलोपः → दश् + य → द्वित्वाभ्यासकार्यम् → द द श्य → जपजभदहदशभञ्जपशां च (७.४.८६) इत्यनेन अभ्यासस्य नुक्-आगमः यङि परे → दंदश्य इति यङन्तधातुः → दंदश्यते
पदान्तवच्चेति वक्तव्यम् इति वार्तिकस्य बलात् वा पदान्तस्य (८.४.५९) इत्यनेन परसवर्णविकल्पः—
दंश् + यङ् → → दन्दश्यते
भञ्ज् + यङ् → (पदान्तवच्चेति वक्तव्यम् इत्यस्मात् रूपद्वयम्)
जपजभदहदशभञ्जपशां च (७.४.८६) = जप्, जभ्, दह्, दश्, भञ्ज्, पश् इत्येषां धातूनाम् अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | नुक् इत्यस्मिन् ककारः इत्संज्ञकः, उकारश्च उच्चारणार्थः; नुक् अनुस्वारस्य अपि उपलक्षणम् | दंश्-धातोः अस्मिन् सूत्रे अनुस्वारो नास्ति यतोहि यङलुकि दश् इत्यस्य एव द्वित्वम्; अनुनासिकत्वं न भवति | जपश्च जभश्च दहश्च दशश्च भञ्जश्च पशश्च च तेषामितरेतरद्वन्द्वः जपजभदहदशभञ्जपशः, तेषाम् | जपजभदहदशभञ्जपशां षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यस्मात् नुक् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— जपजभदहदशभञ्जपशां च अङ्गस्य अभ्यासस्य नुक् यङ्लुकोः |
प्रश्नः उदेति यत् किमर्थं सूत्रे दंश्-धातोः अनुस्वारः न प्रदर्शितः यदि तस्य लोपः तु भवति एव अनिदितां हल उपधायाः क्ङिति (६.४.२४) इति सूत्रेण | अनयोः द्वयोः धात्वोः (दंश्, भञ्ज्) भेदः अत्र कः ? कोपि भेदः न दृश्यते यतोहि द्वयोः अपि आरम्भे एव नकारलोपो भवति | तर्हि सूत्रे भेदप्रदर्शनस्य प्रयोजनं किम् ? यङ्लुकि भेदः अस्ति | यङ्लुकि अपि द्वयोः धात्वोः प्रक्रिया तु समाना एव, केवलम् आरम्भे 'दश्' इत्येव अस्ति न तु 'दंश्', सूत्रस्य 'दश्' इति ज्ञापकत्वात् | यङ्लुकि अनिदितां हल उपधायाः क्ङिति (६.४.२४) इति सूत्रस्य प्रसक्तिर्नास्ति, अतः यङ्लुकि द्वयोः धात्वोः रूपभेदः तिष्ठति (दन्दशीति, बम्भञ्जीति), किन्तु यङि शास्त्रविहीतनकारलोपकत्वात् रूपभेदो न तिष्ठति (दन्दश्यते, बम्भज्यते) यतोहि तत्र भञ्ज् धातोः अपि नकारलोपो भवति |
नुगागमप्रसङ्गे नुगित्यनेनानुस्वारो लक्ष्यते इति सिद्धान्तकौमुदिवाक्यं; नाम नुक् अनुस्वारस्य (अपि) उपलक्षणम् | ‘अपि’-शब्दः केषुचित् टीकाग्रन्थेषु दीयते | तथा चेत् नकारः इत्यस्य अपि सङ्केतः, अनुस्वारस्यापि | यत्र नकारेण रूपं न सिध्यति, तत्र अनुस्वारः | यथा यंयम्यते, रंरम्यते |
चित्रा-भगिन्या लक्षितं यत् नुगतोऽनुनासिकान्तस्य (७.४.८५) इति स्थले, महाभाष्ये अस्मिन् प्रसङ्गे सूचना प्राप्यते—
नुगतोऽनुनासिकान्तस्य ।। नुकि यंयम्यते रंरम्यते इति रूपाऽसिद्धिः ।। नुकि सति यंयम्यते रंरम्यते इति रूपं न सिद्ध्यति।। अनुस्वारागमवचनात्तु सिद्धम् ।। (अनुस्वारागमवचनात्सिद्धमेतत्) । अनुस्वारागमो वक्तव्यः । एवमपीदमेव रूपं स्यात् ‐ यय्यँम्यते, (इदं न स्यात् यंयम्यते) ।। पदान्तवच्च ।। पदान्तवच्चेति वक्तव्यम् । वा पदान्तस्येति ।। (नुगतोऽनुनासिकान्तस्य) ।।
काशिकायामपि अयं विषयः अस्ति; तत्र न्यासटीकायामुच्यते—
यदि नुक् क्रियते, यंयम्यते इत्यादौ नश्चापदान्तस्य झलि (८.३.२४) इति झल्युच्यमानोऽनुस्वारो न सिध्यति, अझल्परत्वात् ? इत्यत आह—`नुकित्येतदनुस्वारोपलक्षणार्थं द्रष्टव्यम्` इत्युक्तम् | कथं पुनर्नुगित्येतदनुस्वारोपलक्षणार्थं शक्यते द्रष्टुम् ? इत्याह—`स्थानिना हि आदेशो लक्ष्यते` इति | नुका हि स्थानिनाऽत्रादेशोऽनुस्वार उपलक्ष्यते | तस्मादनुस्वार एवागमोऽत्र विधीयते, न तु नुक् | यंयम्यते इत्यादौ यद्यप्यझल्परताऽस्ति, तथाप्यनुस्वारः सिध्यति | एवम् अनुस्वारस्य ययि परसवर्णः (८.४.५७) प्राप्नोति, इष्यते च पक्षेऽनुस्वारस्य श्रवणं, तन्न सिध्यति, अपदान्तत्वात् ? इत्यत आह—`पदान्तवच्च` इत्यादि | पदान्तवदनुस्वारो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः | तत्रेदं व्याख्यानम्—तदन्तविधिनैवानुनासिकान्तस्यानुस्वारो भवतीति नार्थोऽन्तग्रहणेन, तत्क्रियते—पदान्तस्यानुत्वारस्य यो धर्मः स नुकोऽपि स्यादित्येवमर्थम्; तेनानुस्वारस्य पक्षे श्रवणं भविष्यतीति |
जप्, जभ्, दह्, पश् इति चतुर्णां धातूनां यङ्लुगन्तसिद्धिः प्रदर्शितः अदुपधधातूनां स्थले |
३. अकारान्त-अभ्यासवताम् अनिदितां धातूनां यङन्तधातु-सिद्धिः
येषाम् अनिदिताम् अभ्यासः अकारान्तः, तेषां नकारलोपानन्तरं दीर्घोऽकितः (७.४.८३) इत्यनेन अभ्यासस्य दीर्घादेशो भवति |
चञ्च् + यङ् → अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन ङिति प्रत्यये परे नकारलोपः → चच् + य → द्वित्वाभ्यासकार्यम् → च च च्य → दीर्घोऽकितः (७.४.८३) इत्यनेन अभ्यासस्य दीर्घादेशः यङि परे → चाचच्य इति यङन्तधातुः → चाचच्यते
एवमेव—
तञ्च् + यङ् →
त्वञ्च् + यङ् →
रञ्ज् + यङ् →
सञ्ज् + यङ् →
स्वञ्ज् + यङ् →
मन्थ् + यङ् →
ग्रन्थ् + यङ् →
श्रन्थ् + यङ् →
स्यन्द् + यङ् →
बन्ध् + यङ् →
दम्भ् + यङ् →
श्रम्भ् + यङ् →
शंस् + यङ् →
भ्रंश् + यङ् →
४. यङि येषाम् अनिदिताम् अभ्यासः उकारान्तः
गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि यङ्लुकि च |
लुञ्च् + यङ् → अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन ङिति प्रत्यये परे नकारलोपः → लुच् + य → द्वित्वाभ्यासकार्यम् → लु लु च्य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि परे → लोलुच्य इति यङन्तधातुः → लोलुच्यते
एवमेव कुञ्च्, म्रुञ्च्, म्लुञ्च्, ग्लुञ्च्, कुन्थ्, बुन्द्, शुन्ध्, तुम्प्, त्रुम्प्, तुम्फ्, त्रुम्फ्, गुम्फ्, शुम्भ् |
५. अनिदितां धातूनां नकारलोपानन्तरं ये ऋदुपधधातवः भवन्ति
रीगृदुपधस्य च (७.४.९०) = ऋदुपधधातोः अभ्यासस्य रीक् इति आगमो भवति यङि यङ्लुकि च |
तृम्फ् → अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन ङिति प्रत्यये परे नकारलोपः → तृफ् + य → द्वित्वाभ्यासकार्यम् → त तृ फ्य → रीगृदुपधस्य च (७.४.९०) इत्यनेन ऋदुपधधातोः अभ्यासस्य रीक्-आगमः यङि परे → तरीतृफ् इति यङन्तधातुः → तरीतृफ्यते
दृम्फ् →
सृम्भ् →
तृंह् →
रीगृदुपधस्य च (७.४.९०) = ऋदुपधधातोः अभ्यासस्य रीक् इति आगमो भवति यङि यङ्लुकि च | रीक् कित् अतः अभ्यासस्य अन्ते विधीयते | ऋत् उपधा यस्य, सः ऋदुपधः, तस्य ऋदुपधस्य | रीक् प्रथमान्तम्, ऋदुपधस्य षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ऋदुपधस्य अङ्गस्य अभ्यासस्य रीक् यङ्लुकोः |
अत्र प्रश्नः उदेति यत् यद्यपि उपदेशावस्थायां ऋदुपधधातवः न सन्ति, किन्तु यङि परे नकारलोपानन्तरं ऋदुपधधातवः भवन्ति । अतः अत्र रीगृदुपधस्य च (७.४.९०) इति सूत्रेण एव साक्षात् रीक्-आगमो भवति, अथवा रीगृत्वत इति वक्तव्यम् इति वार्तिकेन एव वक्तव्यं भवति ? अनेन वार्तिकेन ऋकारवतामपि धातूनाम् अभ्यासस्य रीक् इति आगमो भवति यङि यङ्लुकि च | वस्तुतस्तु जानीमः यत् औपदेशिकधातुसंज्ञा च आतिदेशिकधातुसंज्ञा चेत्यनयोः बाध्यबाधकभावो नास्ति । अतः तृम्फ् + यङ् → ’त तृ फ्य” इति स्थितौ ’ततृफ्’ इत्यस्य तदानीमपि औपदेशिकधातुसंज्ञा तिष्ठति । अस्य बलेन ऋदुपधधातुः भवति, यस्मात् रीगृदुपधस्य च (७.४.९०) इति सूत्रेण एव रीक्-आगमो भवति । तृम्फ्, दृम्फ्, सृम्भ्, तृंह् इति चतुर्णामपि धातूनां कृते एतादृशी व्यवस्था अस्ति ।
तर्हि रीगृत्वत इति वक्तव्यम् इति वार्तिकस्य आवश्यकता कुत्र भवति ? प्रच्छ, भ्रस्ज, व्रश्च, इत्येषां त्रयाणां धातूनां सम्प्रसारणानन्तरमपि ऋदुपधधातवः न भवन्ति । परन्तु रीक्-आगमः आवश्यकः । एतेषु ऋकारो जायते, किन्तु ऋदुपधधातवः न भवन्ति । अतः एषां कृते वार्तिकम् अपेक्षितम् ।
६. क्रुञ्च्-धातोः यङन्तधातु-सिद्धिः
क्रुञ्च्-धातुः ञोपधधातुः, न तु नोपधधातुः, अतः तस्य ञकारः अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन लोपो न भवति | अतः तस्य साधारणयङ्-सम्बद्धाभ्यासकार्ये गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति |
क्रुञ्च् + यङ् → क्रु क्रु ञ्च्य → चो क्रु ञ्च्य → चोक्रुञ्च्य इति यङन्तधातुः → चोक्रुञ्च्यते
अञ्च्, कुञ्च्, ग्लुञ्च्, चञ्च्, तञ्च्, त्वञ्च्, म्रुञ्च्, म्लुञ्च्, लुञ्च्, वञ्च् इत्येते सर्वे धातवः नोपधधातवः । परन्तु क्रुञ्च्-धातुः तथा नास्ति अपितु ञोपधधातुः एव । कथं ज्ञायते यत् क्रुञ्च्-धातुः ञोपधधातुः, न तु नोपधधातुः ? परेश्च घाङ्कयोः (८.२.२२) इति सूत्रस्य भाष्ये ज्ञापकं वर्तते यत् एवमस्ति । अतः किति ङिति प्रत्यये परे उपधालोपो न भवति । एतादृशौ द्वौ इदितौ धातू वर्तेते यत्र उपधायाम् अनुनासिकवर्णः अस्ति चेदपि नकारो नस्ति इति कारणतः किति ङिति प्रत्यये परे तस्य लोपो न भवति । एकः अस्ति क्रुञ्च्-धातुः; अन्यः अस्ति हम्म्-धातुः । हम्म्-धातोः उपधा-मकारस्य अनन्तरं यः मकारः वर्तते, सः तु झल्-प्रत्याहारे नास्ति; अनेन ज्ञायते यत् मूले नकारो नासीत् । नो चेत् नकारस्य स्थाने अनुस्वारः, तस्य च स्थाने मकारः अभविष्यत् । किन्तु झल्-अभावे न भवति अतः मूले उपधामकारः एव ।
७. हम्म्-धातोः यङन्तधातु-सिद्धिः
हम्म्-धातुः मोपधधातुः, न तु नोपधधातुः, अतः तस्य मकारः अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन लोपो न भवति | अतः द्वित्वाभ्यासकार्यानन्तरं अनुनासिकान्तधातुं मत्वा नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमो भवति यङि |
हम्म् + यङ् → ह ह म्म्य → जं ह म्म्य → जंहम्म्य इति यङन्तधातुः → जंहम्म्यते
नुगतोऽनुनासिकान्तस्य (७.४.८५) = अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | धातोः अभ्यासस्य अन्ते अत् चेत्, धातोः अन्ते अनुनासिकहल्-वर्णः (ञ्, म्, ङ्, ण्, न्) चेत् इदं कार्यं प्रवर्तते | नुक्-आगमः कित् | ककारः इत्-संज्ञकः, उकारः उच्चारणार्थः | अनुनासिकः अन्ते यस्य तत् अनुनासिकान्तं, तस्य | नुक् प्रथमान्तं, अतः षष्ठ्यन्तम्, अनुनासिकान्तस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— अनुनासिकान्तस्य अङ्गस्य अतः अभ्यासस्य नुक् यङ्लुकोः |
G. विशेष-हलन्तधातवः
१. चक्षिङ्-धातुः
चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्-आदेशः | किन्तु अत्र भाष्यकारो वदति यत् क्शादिरयमादेशः, इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि च पूर्वत्रासिद्धम् (८.२.१) इति अधिकारे एकं वार्तिकम् अस्ति ख्शाञः शस्य यो वा वक्तवयः | अनेन ख्शाञ् इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति | फलितार्थः अयं यत् आर्धधातुकप्रत्यये परे चक्षिङ्-धातोः स्थाने ख्याञ्, ख्शाञ् इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्, अपरस्मिन् पक्षे ख्शाञ् |
चक्ष् + यङ् → ख्या + य → ख्या ख्या य → च ख्या य → चाख्याय इति यङन्तधातुः → चाख्यायते
चक्ष् + यङ् → ख्शा + य → ख्शा ख्शा य → च ख्शा य → चाक्शाय इति यङन्तधातुः → चाक्शायते
चक्षिङः ख्याञ् (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ् प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चक्षिङः ख्याञ् आर्धधातुके |
यत्र यत्र अयं धात्वादेशः विधीयते, तत्र तत्र भाष्यवाक्यं वार्तिकञ्च विधीयते | नाम सर्वेषु आर्धधातुकप्रत्ययेषु भवति, अतः आर्धधातुकप्रक्रियासम्बद्धरूपद्वयं सर्वत्र |
२. चाय्-धातुः
चायः की (६.१.२१) इति सूत्रेण चाय्-धातोः स्थाने की-आदेशो भवति यङि परे |
चाय् + यङ् → की य → की की य → चि की य → चेकीय इति यङन्तधातुः → चेकीयते
३. प्याय्-धातुः
लिङ्यङोश्च (६.१.२९) इति सूत्रेण प्याय्-धातोः पी-आदेशो भवति लिटि यङि च |
प्याय् + यङ् → पी पी य → पि पी य → पेपीय इति यङन्तधातुः → पेपीयते
४. व्रश्च्, प्रच्छ्, भ्रस्ज् इति त्रयः धातवः
एते त्रयः धातवः ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) इत्यनेन सम्प्रसारणानन्तरं ऋदुपदधातवः न सन्ति चेदपि रीगृत्वत इति वक्तव्यम् इति वार्तिकेन यस्मिन् धातौ कुत्रचिदपि ऋकारः स्यात्, एतादृशस्य ऋत्ववतः धातोः अभ्यासस्य रीक्-आगमो भवति | यथा—
प्रच्छ् + यङ् → ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) इत्यनेन सम्प्रसारणम् → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन पूर्वरूपादेशः → द्वित्वाभ्यासकार्यञ्च → प पृ च्छ्य → रीगृत्वत इति वक्तव्यम् इति वार्तिकेन अभ्यासस्य रीक्-आगमः → परीपृच्छ्य इति यङन्तधातुः → परीपृच्छ्यते
प्रच्छ् + यङ् → पृच्छ् + य → प पृ च्छ्य → परी पृ च्छ्य → परीपृच्छ्य → परीपृच्छ्यते
व्रश्च् + यङ् → वृश्च् + य → व वृ श्च्य → वरी वृ श्च्य → वरीवृश्च्य → वरीवृश्च्यते
भ्रस्ज् + यङ् → भृस्ज् + य → ब भृ स्ज्य → बरी भृ स्ज्य → बरी भृ ज्ज्य → बरीभृज्ज्य → बरीभृज्ज्यते
अनेकाच्-धातूनां यङन्तधातु-सिद्धिः
सूचि, सूत्रि, मूत्रि इति एभ्यः एव त्रिभ्यः धातुभ्यः यङ्-प्रत्ययः विधीयते | यङि परे, णेरनिटि (६.४.५१) इत्यनेन एतेषां धातूनां णिचः (इकारस्य) लोपो भवति |
सूचि + यङ् → सूच् + य → सोसूच्यते
सूत्रि + यङ् → सूत्र् + य → सोसूत्र्यते
मूत्रि + यङ् → मूत्र् + य → मोमूत्र्यते
सूचिसूत्रिमूत्र्यटत्यर्त्यशूर्णोतीनां यङ् वक्तव्यम् इति वार्त्तिकेन क्रियासमभिहारार्थे सूचि, सूत्रि, मूत्रि इत्येभ्यः त्रिभ्यः अनेकाच्-धातुभ्यः च अट्, ऋ, अश्, ऊर्णु इति चतुर्भ्यः अजादिधातुभ्यः यङ्-प्रत्ययो भवति |
णेरनिटि (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात् णिङ्, णिच् द्वयोः ग्रहणम्; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तं, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अतो लोपः (६.४.४८) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— णेः लोपः अनिटि आर्धधातुके |
अजादिधातूनां यङन्तधातु-सिद्धिः
अजादेः कारणेन धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यनेन यङः विधानं न भवति स्म कुत्रापि | परन्तु सूचिसूत्रिमूत्र्यटत्यर्त्यशूर्णोतीनां यङ् वक्तव्यम् इति वार्त्तिकेन क्रियासमभिहारार्थे चतुर्भ्यः अजादिधातुभ्यः यङ्-प्रत्ययः विधीयते— अट्, ऋ, अश्, ऊर्णु | एतान् अतिरिच्य, अजादिधातूनां यङन्तरूपं न भवति |
अश् + यङ् → अश्य → द्वित्वम् → अ श्य श्य → अ श श्य → दीर्घोऽकितः (७.४.८३) इत्यनेन अभ्यासस्य दीर्घादेशः → अशाश्यते
अट् + यङ् → अट्य → द्वित्वम् → अ ट्य ट्य → अ ट ट्य → दीर्घोऽकितः (७.४.८३) इत्यनेन अभ्यासस्य दीर्घादेशः → अटाट्यते
ऊर्णु + यङ् → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) → ऊर्णू + यङ् → द्वित्वम् → ऊर्णू नू → 'णु' इत्यस्य अभ्याससंज्ञा (यस्य द्वित्वं, तस्य अभ्याससंज्ञा) → हलादि शेषः इत्यस्य किमपि कार्यं नास्ति → गुणो यङ्लुकोः (७.४.८२) → ऊर्णो नू य → ऊर्णोनूयते
प्रश्नः उदेति, किमर्थं णत्वं न भवति द्वित्वसमये । अत्र सिद्धान्तकौमुद्याम् उच्यते— "पराः संयोगादयो नदरा द्विर्न भवन्ति । नुशब्दस्य द्वित्वम् । णत्वस्यासिद्धत्वात् ।"
तर्हि मूलधातुः ’ऊर्नु’ इति अस्ति, तस्य णत्वं रषाभ्यां नो णः समानपदे (८.४.१) इत्यनेन । धातुपाठे 'ऊर्णु' इति नकारस्य कृतणत्वस्य निर्देशः, द्वित्वे कर्तव्ये तस्य णत्वस्याऽसिद्धत्वादित्यर्थः । तर्हि अकृतव्य़ूहाः पाणिनीयाः इत्यनेन न भवति यतोहि णत्वस्य निमित्तं रेफः निशिष्यमाणो नास्ति । अपि तु द्वित्वावसरे ’ऊर्नू + यङ्’ इति स्थितौ युगपत् रषाभ्यां नो णः समानपदे (८.४.१), सन्यङोः (६.१.९) इत्यनयोः प्रसक्तिः; पूर्वत्रासिद्धम् इत्यनेन रषाभ्यां नो णः समानपदे (८.४.१) इति शास्त्रम् असिद्धम् । अनेन ’नू’ इत्यव भवति अभ्यासः, ’नू’ इत्यस्य एव द्वित्वम् । द्विद्वानन्तरमेव रषाभ्यां नो णः समानपदे (८.४.१) इत्यनेन णत्वम् । ऊर्नू + यङ् → द्वित्वम् → ऊ र्नू नू → रषाभ्यां नो णः समानपदे (८.४.१) इत्यनेन णत्वम् → ऊर्णू नू य → गुणो यङ्लुकोः (७.४.८२) → ऊर्णो नू य → ऊर्णोनूयते ।
ऋ + यङ् → यङि च (७.४.३०) इत्यनेन ऋ-धातोः ऋकारस्य गुणादेशो भवति यङि परे (सामान्य-अङ्गकार्यम्) → अर् + य → अजादेर्द्वितीयस्य (६.१.२) इत्यस्य साहाय्येन, सन्यङोः (६.१.९) इत्यनेन यङन्तस्य धातुरनभ्यासस्य प्रथमस्यैकाच्-अवयवस्य द्वे स्तः; अजादेस्तु द्वितीयस्य → प्रथमः एकाच्-भागः ‘अ’; द्वितीयः एकाच्-भागः 'र्य' → न न्द्राः संयोगादयः (६.१.३) इत्यनेन अचः पराः संयोगादयः नदराः द्विर्न भवन्ति— अजादेः संयोगादयः न्द्राः न द्वे → अ + र्य + य इति स्यात् → परन्तु यकारपररेफस्य न द्वित्वनिषेधः, अरार्यते इति भाष्योदाहरणात् इति सिद्धान्त्कौमुदीवाक्यं; महाभाष्यग्रन्थे सूचिसूत्रिमूत्र्यटत्यर्त्यशूर्णोतीनां यङ् वक्तव्यम् इति वार्त्तिकावसरे अरार्यते इति रूपम् उदाहृतम्; अनेन प्रमाणं स्वीकृतं यत् अत्र न न्द्राः संयोगादयः (६.१.३) इत्यस्य प्रवृत्तिर्न भवति; रेफस्य इह द्वित्वनिषेधो नास्ति → अ + र्य + र्य → हलादिः शेषः (७.४.६०) → अ + र + र्य → दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्-अभ्यासस्य दीर्घादेशो भवति यङि परे → अरार्य इति धातुः → अरार्य +शप् + ते → अरार्यते
यङि च (७.४.३०) = ऋ-धातोः च संयोगादिऋकारान्तधातोश्च ऋकारस्य गुणादेशो भवति यङि परे | यङ्-प्रत्ययस्य ङित्त्वात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधत्वात् गुणस्य साधनार्थम् अस्य सूत्रस्य आवश्यकता अस्ति | यङि सप्तम्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम् | चकारस्य बलेन गुणोऽर्ति-संयोगाद्योः (७.४.२९) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | रीङृतः (७.४.२७) इत्यस्मात् ऋतः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) अधिकारः | अनुवृत्ति-सहितसूत्रम्— अर्ति संयोगाद्योः अङ्गस्य ऋतः गुणः यङि |
संयोगादिऋकारान्तधातूनां प्रसङेऽपि इदं कार्यं दृष्टम् अस्माभिः—
स्मृ + यङ् → यङि च (७.४.३०) इत्यनेन संयोगादिऋकारान्तधातोः ऋकारस्य गुणादेशः यङि परे → स्मर् + य → सन्यङोः (६.१.९), एकाचो द्वे प्रथमस्य (६.१.१) इत्याभ्यं द्वित्वम् → स्म स्म र्य → सामान्याभ्यासकार्यम् → स स्म र्य → विशिष्टाभ्यासकार्यम् → दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्-अभ्यासस्य दीर्घादेशो भवति यङि → सास्म र्य → सास्मर्यते
अनेन सर्वे यङन्तधातवः साधिताः | सर्वत्र लट्-लकारस्य प्रथमपुरुषैकवचनान्तरूपं प्रदर्शितम् | एवमेव त्रिषु पुरुषेषु वचनेषु च, अपि च दशसु लकारेषु 'एधते' इतिवत् रूपाणि भवन्ति | यथा नी + यङ् → नेनीय इति यङन्तधातुः—
लटि = नेनीयते
लोटि = नेनीयताम्
लङि = अनेनीयत
विधिलिङि = नेनीयेत
लिटि = नेनीयाञ्चक्रे
लुटि = नेनीयिता
लृटि = नेनीयिष्यते
लृङि = अनेनीयिष्यत
लेटि = नेनीयिषते, नेनीयिषाते
आशीर्लिङि = नेनीयिषीष्ट
लुङि = अनेनीयिष्ट
Swarup - June 2019
०९_-_यङन्तधातवः.pdf (file size: 246 KB)