04 - तिङ्प्रत्ययानां सिद्धिः- २
एतावता परस्मैपदिधातूनां कृते लटि लोटि च सिद्ध-तिङ्प्रत्ययाः कथं भवन्ति इति अस्माभिः दृष्टम् | स्मरणीयं यत् इदानीं यत्र अङ्गम् अदन्तम् अस्ति— भ्वादौ, दिवादौ, तुदादौ, चुरादौ च— तत्रैव अस्माकम् अवधानम् | अङ्गम् अदन्तं नास्ति चेत्, सिद्ध-प्रत्ययाः किञ्चित् भिन्नाः |
यथोक्तं पूर्वम् अस्माकं प्रमुखं चिन्तनं भवति अङ्ग-निर्माणे, अपि च अङ्ग-सिद्धतिङ्प्रत्यययोः मेलने | सिद्धतिङ्प्रत्ययाः कथं सिध्यन्ति इति अत्र एकवारम् अवलोकयाम येन अस्माकं तिङ्प्रत्यय-ज्ञानं तर्कयुक्तं स्यात् | एवं च यदा सिद्धतिङ्प्रत्ययाः कण्ठस्थी क्रियन्ते अस्माभिः—कण्ठस्थीकरणं तु अतीव लाभदायकमेव—तदा सूत्राधारीकृत्य कण्ठस्थीकरणं सुलभम् |
तर्हि लटः प्रत्ययाः दृष्टाः, अपि च लोटः प्रत्ययाः ङिद्वत् सन्ति इति अस्माभिः अज्ञायत | तत्र अतिदेशसूत्रम् अस्ति लोटो लङ्वत् (३.४.८५) | अतिदेशः नाम यस्य स्वभावः तथा नास्ति, अतिदेशसूत्रेण तथैव व्यवह्रियते | यथा लोट् तु ङित् नास्ति, किन्तु अतिदेशसूत्रेण ङिद्वत् व्यवह्रियते | अधुना ङित्-लकारद्वयं (लङ्-लकारं, विधिलिङ्-लकारं च) परिशीलयाम |
परस्मैपदिधातूनां मूल-तिङ्प्रत्ययाः
तिप् तस् झि
सिप् थस् थ
मिप् वस् मस्
परस्मैपदे लङ्-लकारस्य तिङ्-प्रत्यय-सिद्धिः
नियमाः—
१. मूल-तिङ्-प्रत्ययेषु यत्र इकारः, ङित्-लकारेषु तस्य इकारस्य लोपः | यथा ति → त्; झि → अन्ति → अन्त्; सि → स् |
२. "तस्, थस्, थ, मिप्" ङित्सु लकारेषु, एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्, तम्, त, अम्" एते आदेशाः | न केवलं लङि अपि तु सर्वेषु ङित्सु लकारेषु एते आदेशाः भवन्ति |
३. “वस्, मस्" अनयोः प्रत्यययोः सकारस्य लोपः | अयं लोपोऽपि सर्वेषु ङित्सु लकारेषु भवति |
हलन्त्यम् (१.३.३) = यस्य कस्यापि अंशस्य अन्ते हल्-वर्णः भवति, तस्य हल्-वर्णस्य इत्-संज्ञा भवति |
तस्य लोपः (१.३.९) = यस्य वर्णस्य इत्-संज्ञा जाता, तस्य लोपः भवति |
तर्हि नियमान् अनुसृत्य कार्यम् एवम्—
तिप् → पकारलोपः → ति → इ-लोपः → "त्" इति लङ् प्रत्ययः निष्पन्नः |
तस् → "ताम्" आदेशः इत्यनेन "ताम्" इति लङ् प्रत्ययः निष्पन्नः |
झि → "झ्" स्थाने अन्त् आदेशः | अन्त् + इ → अन्ति → इ-लोपः → अन्त् → तकारस्य संयोगान्त-लोपः* → "अन्" इति लङ् प्रत्ययः निष्पन्नः |
सिप् → पकारलोपः → सि → इ-लोपः → "स्" इति लङ् प्रत्ययः निष्पन्नः |
थस् → "तम्" आदेशः इत्यनेन "तम्" इति लङ् प्रत्ययः निष्पन्नः |
थ → "त" इति लङ् प्रत्ययः निष्पन्नः |
मिप् → अम् आदेशः इत्यनेन "अम्" इति लङ् प्रत्ययः निष्पन्नः | **
वस् → सकारलोपः → "व" इति लङ् प्रत्ययः निष्पन्नः |
मस् → सकारलोपः → "म" इति लङ् प्रत्ययः निष्पन्नः |
*संयोगः | यदा द्वयोः अथवा तदधिकानां हल्-वर्णानाम् अव्यवहितं मेलनं भवति—नाम तन्मध्ये अच् वर्णः न आयाति—तदा 'संयोगः' इत्युच्यते (हलोऽनन्तराः संयोगः १.१.७) | यदि सः संयोगः कस्य अपि पदस्य अन्ते भवति, तर्हि तस्य संयोगस्य अन्ते यः वर्णः भवति, तस्य वर्णस्य लोपः भवति संयोगान्तस्य लोपः (८.२.२३) इति सूत्रेण | यथा अत्र 'अन्त्' इत्यस्ति | 'न्त्' इति सन्योगः अस्ति, अपि च सः संयोगः 'अन्त्' इत्यस्य अंशस्य अन्ते अस्ति (पदान्ते च) | अतः तकारस्य लोपः भवति |
लङि सिद्ध-प्रत्ययाः—
त् ताम् अन्
स् तम् त
अम् व म
इतश्च (३.४.१००) = ङित्-लकारस्य स्थाने यः परस्मैपद-ह्रस्व-इकारान्त-तिङ्प्रत्ययः, तस्य अन्त्य-इकारस्य लोपो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन इकारान्तः इत्यर्थः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य (इकारस्य) लोपः न तु पूर्णप्रत्ययस्य | इतः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इतश्च लोपः परस्मैपदेषु (३.४.९७) इत्यस्मात् लोपः, परस्मैपदेषु इत्यनयोः अनुवृत्तिः | नित्यं ङितः (३.४.९९) इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ङितः लस्य इतः परस्मैपदस्य लोपः |
तस्थस्थमिपां तान्तन्तामः (३.४.१०१) = "तस्, थस्, थ, मिप्" ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्, तम्, त, अम्" एते आदेशाः | तश्च थश्च थश्च मिप् च तेषामितरेतरद्वन्द्वः तस्थस्थमिपः, तेषां तस्थस्थमिपाम् | ताम् च तम् च तश्च अम् च तेषामितरेतरद्वन्द्वः तान्तन्तामः | तस्थस्थमिपां षष्ठ्यन्तं, तान्तन्तामः प्रथमान्तं, द्विपदमिदं सूत्रम् | नित्यं ङितः (३.४.९९) इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ङितः लस्य तस्थस्थमिपां तान्तन्तामः |
झोऽन्तः (७.१.३) = प्रत्ययस्य झकार-अवयवस्य स्थाने अन्त्-आदेशः भवति | झः षष्ठ्यन्तम्, अन्तः प्रथमान्तम्, द्विपदमिदं सूत्रम् | आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (७.१.२) इत्यस्मात् प्रत्ययस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य प्रत्ययस्य झः अन्तः |
नित्यं ङितः (३.४.९९) = ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन सकारान्तः इत्यर्थः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य (सकारस्य) लोपः न तु पूर्णप्रत्ययस्य | नित्यं द्वितीयान्तं क्रियाविशेषणम्, ङितः षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | स उत्तमस्य (३.४.९८) इति सूत्रस्य पूर्णतया अनुवृत्तिः; इतश्च लोपः परस्मैपदेषु (३.४.९७) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ङितः लस्य सः उत्तमस्य नित्यं लोपः |
अत्र प्रश्नः उदेति यत् अस्मिन् सूत्रे 'नित्यं' किमर्थम् उक्तम् ? उत्तरम् अस्ति अस्माकम् अष्टाध्यायी-सूत्रपाठे | पुस्तके पश्यतु-- इदं सूत्रं ३.४.९९ किल; तस्मात् पूर्वं ३.४.९६-तमे सूत्रे प्रथमं पदम् अस्ति 'वा' [वैतोऽन्यत्र = वा ऐतः अन्यत्र] | वा नाम विकल्पेन; अग्रिमयोः द्वयोः सूत्रयोः अपि तस्य अनुवृत्तिः प्रवर्तमाना | अतः वा-शब्दः अनयोः सूत्रयोः (३.४.९७, ३.४.९८) आगत्य उपविशति | अधुना अस्माकं सूत्रम् अस्ति ३.४.९९; अस्मिन् सूत्रे यः सकारलोपः विहितः, सः वैकल्पिकः नास्ति | अतः 'वा' इति अनुवृत्तिं स्थगयितुं, "नित्य"-शब्दः अत्र प्रयुक्तः | नाम केवलम् "अत्र कार्यं वैकल्पिकं नास्ति" इति सूचयितुं, नित्यम् इत्यस्य प्रयोगः कृतः |
संयोगान्तस्य लोपः (८.२.२३) = यस्य पदस्य अन्ते संयोगोऽस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य | संयोगः अन्ते अस्ति यस्य तत् संयोगान्तं, बहुव्रीहिः, तस्य संयोगान्तस्य | संयोगान्तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगान्तस्य पदस्य लोपः |
**धेयं यत् अत्र इतश्च (३.४.१००), तस्थस्थमिपां तान्तन्तामः (३.४.१०१) इति द्वयोः सूत्रयोः प्रसक्तिः | सूत्रद्वयमपि ङित्सु एव प्रवर्तते किन्तु तस्थस्थमिपां तान्तन्तामः (३.४.१०१) इत्यनेन ङित्सु यदि मिपः स्थाने अमादेशः न स्यात् तर्हि सूत्रस्य तत् दलं व्यर्थं भविष्यति इति कृत्वा मिपः स्थाने अमादेशः भवति |
परस्मैपदे विधिलिङ्-लकारस्य तिङ्-प्रत्यय-सिद्धिः
मूलम्—
तिप् तस् झि
सिप् थस् थ
मिप् वस् मस्
चुटू ( १.३.७) = प्रत्यस्य आदौ चवर्गीयः (च्, छ्, ज्, झ्, ञ्), अथवा टवर्गीयः (ट्, ठ्, ड्, ढ्, ण्) वर्णः भवति चेत्, तस्य वर्णस्य इत्-संज्ञा भवति | यथा ण्वुल् → वु अवशिष्यते |
नियमाः—
१. लङ्-लकारस्य कृते ये त्रयः नियमाः उक्ताः, ते नियमाः सर्वेषु ङित्सु लकारेषु उपयुक्ताः | विधिलिङ् ङित्-लकारः अस्ति अतः अत्र अपि एषां त्रयाणां प्रसक्तिः | (इतश्च इति इ-लोपः, तस्थस्थमिपां तान्तन्तामः इति "ताम्, तम्, त, अम्" एते आदेशाः, नित्यं ङितः इति वसि मसि च सकारलोपः |)
२. झि-स्थाने जुस्-आदेशः | जकारस्य इत्-संज्ञा लोपश्च | उस् अवशिष्यते |
३. अस्मिन् लकारे प्रमुखं कार्यम् इदं यत् यासुट् आगमः भवति प्रत्ययात् प्राक् | तत्र अनुबन्धलोपे सति "यास्" इति शिष्यते | यास् इत्यत्र सार्वधातुके यः लिङ्लकारः तस्य अनन्त्यस्य सकारस्य लोपः भवति लिङः सलोपोऽनन्तस्य ( ७.२.७९) इत्यनेन | अतः या इति अवशिष्यते |
३ a) यदि अङ्गम् अदन्तं तर्हि तस्य यासुडागमस्य सकारस्य लोपानन्तरं, या इत्यस्य स्थाने इय् इति आदेशः | यथा पठ् + अ + या + त् → पठ् + अ + इय् + त् → पठ (इति अङ्गम्) + इत् (इति सिद्ध-तिङ्प्रत्ययः) → पठेत् |
३ b) अनदन्तेषु इय्-आदेशः न भवति | यथा चिनु + यास् + त् → चिनुयात्
४. लिङः तकारथकारयोः सुडागमः भवति | यासुडागमः लिङ्लकारम् आश्रित्य प्रवर्तते, सुडागमः तु तकारथकारयोः भवति, द्वयोः च निमित्तभेदः वर्तते इति कृत्वा यासुडागमनेन सुडागमः न बाध्यते | लिङ्लकारे परस्मैपदप्रत्ययेषु आत्मनेपदप्रत्ययेषु च यः तकारः अथवा थकारः वर्तते, तस्य सुट्-आगमः भवति | तिप् तस्, थस्, थ, त, आताम्, थास्, आथाम् इत्येतेषां प्रत्ययानां सुडागमः भवति | सुडागमस्य सकारस्य लोपः भवति लिङः सलोपोऽनन्त्यस्य (७.२.७९) इत्यनेन |
५. यदा इय्-आदेशः भवति तदा वलादिषु* प्रत्ययेषु परेषु यकारलोपः भवति | पठ + इय् + त् → पठेत् | अजादिषु तु यथावत् | पठ + इय् + उः → पठेयुः |
*वलादिषु प्रत्ययेषु इदं कार्यं भवति, नाम यकारं विहाय हलादिषु | अधः अपि वलादिः-अजादिः (अवलादिः) इति प्रदर्श्यते |
तर्हि नियमान् अनुसृत्य कार्यम् एवम्—
तिप् → पकारलोपः → ति → इ-लोपः → 'त्' → अदन्ताङानां कृते यास् इत्यस्य सकारस्य लोपानन्तरं या-स्थाने इय् → इय् + त् → तकारस्य सुडागमः → इय् + स् त → सकारस्य लोपः → 'इय् +त्', 'त्' वलादिः अतः यकारलोपः, इत् इति विधिलिङ् प्रत्ययः निष्पन्नः |
तस् → ताम्-आदेशः → इय्-आगमः → इय् + ताम् → तकारस्य सुडागमः → इय् +स् ताम् → सकारस्य लोपः → ताम् वलादिः अतः इय् इत्यस्य य-लोपः → इ + ताम्, 'इताम्' इति विधिलिङ् प्रत्ययः निष्पन्नः |
झि → जुस्-आदेशः → उस् शिष्यते → उस् अजादिः (अवलादिः) अतः इय् इत्यस्य य्-लोपो न → इयुस् → स्-स्थाने 'रु', उ इत्यस्य इत्-संज्ञा, र्-स्थाने विसर्गः → 'इयुः' इति विधिलिङ् प्रत्ययः निष्पन्नः |
सिप् → पकारलोपः → सि → इ-लोपः → 'स्' वलादिः अतः यकारलोपः, इ शिष्यते → इ + स् → इस् → रुत्वविसर्गौ → 'इः' इति विधिलिङ् प्रत्ययः निष्पन्नः |
थस् → तम्-आदेशः → तम् → इय् + तम् → तकारस्य सुडागमः → इय् + स् तम् → सकारस्य लोपः → तम् वलादिः अतः इय् इत्यस्य य-लोपः 'इतम्' इति विधिलिङ् प्रत्ययः निष्पन्नः |
थ → त-आदेशः → इय् + त → तकारस्य सुडागमः → इय् + स् त → सकारस्य लोपः → इय् + त → त वलादिः अतः इय् इत्यस्य य-लोपः 'इत' इति विधिलिङ् प्रत्ययः निष्पन्नः |
मिप् → अम्-आदेशः → अम् अजादिः (अवलादिः) अतः इय् इत्यस्य य्-लोपो न → 'इयम्' इति विधिलिङ् प्रत्ययः निष्पन्नः |
वस् → सकारलोपः → व वलादिः अतः इय् इत्यस्य य-लोपः → इ + व → 'इव' इति विधिलिङ् प्रत्ययः निष्पन्नः |
मस् → सकारलोपः → म वलादिः अतः इय् इत्यस्य य-लोपः → इ + म → 'इम' इति विधिलिङ् प्रत्ययः निष्पन्नः |
विधिलिङि सिद्ध-प्रत्ययाः—
इत् इताम् इयुः
इः इतम् इत
इयम् इव इम
झेर्जुस् (३.४.१०८) = लिङ्-लकारस्य झि इत्यस्य स्थाने जुस्-आदेशो भवति | झेः षष्ठ्यन्तं, जुस् प्रथमान्तं, द्विपदमिदं सूत्रम् | झोऽन्तः (७.१.३) इत्यस्य अपवादः | लिङः सीयुट् (३.४.१०२) इत्यस्मात् लिङः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— लिङः लस्य झेः जुस् |
'यासुट् परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) = लिङ्-लकारस्य परस्मैपदि-प्रत्ययानां यासुट्-आगमो भवति; स च आगमो ङिद्वत् | विधिसूत्रम् अतिदेशसूत्रं च | लिङः सीयुट् (सामान्यसूत्रं किन्तु अनेन आत्मनेपदानां एव कृते) इत्यस्य अपवादः | आद्यन्तौ टकितौ (१.१ .४६) इत्यनेन यासुट्, प्रत्ययात् प्राक् आयाति | यासुट् प्रथमान्तं, परस्मैपदेषु सप्तम्यन्तम्, उदात्तः प्रथमान्तं, ङित् प्रथमान्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | लिङः सीयुट् (३.४.१०२) इत्यस्मात् लिङः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— लिङः लस्य परस्मैपदानां यासुट् उदात्तः ङित् च |
सुट् तिथोः ( ३.४.१०७) = लिङः तकारथकारयोः सुट् स्यात् | लिङ्लकारे तकारस्य, थकारस्य च सुडागमः भवति | सुडागमे उकारः उच्चारणार्थः, सकारः एव अवशिष्यते | आद्यन्तौ टकितौ ( १.१.४६) इत्यनेन तकारस्य थकारस्य च आदौ सुडागमः भवति | तिश्च थ् च तिथौ तयोः तिथोः | तकारोत्तरवर्ती इकारः उच्चारणार्थः | सुट् प्रथमान्तं, तिथोः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | लिङः सीयुट् (३.४.१०२) इत्यस्मात् लिङः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— लिङः तिथोः सुट् |
अतो येयः (७.२.८०)* = अदन्तात् अङ्गात् सार्वधातुकप्रत्ययस्य यास्-आगमस्य या इत्यस्य स्थाने इय्-आदेशो भवति | तदन्तविधिः— येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अदन्तात् अङ्गात् | अतः पञ्चम्यन्तं, या लुप्तषष्ठीकं पदम्, इयः प्रथमान्तं (इय् + अकारः उच्चारणार्थः), त्रिपदमिदं सूत्रम् | रुधाधिभ्यः सार्वधातुके (७.२.७६) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः (अत्र पञ्चम्यन्तं भवति, अङ्गात्) | अनुवृत्ति-सहितसूत्रम्— अतः अङ्गात् सार्वधातुकस्य या (इति स्थाने) इयः |
लोपो व्योर्वलि (६.१.६६) = वल्-प्रत्याहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपो भवति | व् च य् च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— व्योः लोपः वलि |
*अत्र (अतो येयः ७.२.८०) 'येयः' इति रूपस्य संरचना-विषये इतोऽपि वक्तव्यम् | 'या + इयः' इति अस्ति | 'या' लुप्तषष्ठीकं पदम् इति उपरि दत्तम् | 'याः' तु यास्-आगमस्य सकारस्य लिङः सलोपोऽनन्त्यस्य ( ७.२.७९) इत्यनेन लोपानन्तरं या इत्यस्य षष्ठीविभक्त्यन्तं रूपम् अभविष्यत्— 'याः इयः' इति | अधुना 'याः' इत्यस्य षष्ठ्यन्तलोपार्थम् एकं सूत्रम् अस्ति सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः (७.१.३९), येन छन्दसि (नाम वेदे) एतादृशलोपः (लुक्) विधीयते | अष्टाध्यायी-सम्बन्धे "छन्दोवत् सूत्राणि भवन्ति" इति मत्वा अस्य सूत्रस्य प्रसक्तिः भवति अत्रैव | तर्हि अधुना षष्ठ्यर्थे या इत्येव भवति |
इदमपि वाच्यं यत् बहुकालात् वैयाकरणानां विवादः प्रवर्तते अस्मिन् विषये | केचन वदन्ति यत् 'यः' एव या इत्यस्य षष्ठीविभक्त्यन्तं रूपम्— यथा द्वितीयविभक्तौ बहुवचने विश्वपा + शस् → विश्वपा + अस् → आतो धातोः (६.४.१४०) इत्यनेन आ-लोपः → विश्वप् + अस् → विश्वपः इति रीत्या पदस्य आ-लोपः भवति | एवं चेत् तर्हि या + इयः → यः + इयः → विसर्गसन्धिः → य + इयः | साधारणतया अत्र गुणसन्धिः आद्गुणः (६.१.८७) न भवति यतोहि विसर्गसन्धिः असिद्धः भवति पूर्वत्रासिद्धम् (८.२.१) इत्यनेन | परन्तु अस्मिन् पक्षे ते वैयाकरणाः वदन्ति यत् अत्र "गुणसन्धिः भवति" | पुनः अन्ये वैयाकरणाः वदन्ति यत् सूत्रं स्वयम् 'अतो यासियः' इत्यस्ति न तु 'अतो येयः' | अत्र 'यासियः' इति षष्ठी तत्पुरुषसमासः |
इति सार्वधातुकलकाराणां परस्मैपदिधातूनाम् अदन्त-अङ्गानां कृते सिद्ध-प्रत्ययाः समाप्ताः |
आत्मनेपदिधातूनाम् अदन्त-अङ्गानां कृते सिद्ध-प्रत्ययाः
आत्मनेपदिधातूनां मूल-तिङ्प्रत्ययाः
त आताम् झ
थास् आथाम् ध्वम्
इड् वहि महिङ्
अत्र सिद्धान्तः— आत्मनेपद-विषये, टित्-लकारेषु* ङित्-लकारेषु पृथक्तया भिन्न-कार्याणि भवन्ति | तानि कानि इति अग्रे पश्यामः | अन्यच्च अधः लिखितेषु नियमेषु के सामान्याः, के विशेषाः इति सदा मनसि निधाय अग्रे गच्छेम |
*यथा टित् लकाराः नाम टकारः इत् येषां ते (लट्, लिट्, लुट्, लृट्, लोट्), तथैव ङित् लकाराः नाम ङकारः इत् येषां ते (लङ्, लिङ्, लुङ्, लृङ्) |
आत्मनेपदे लट्-लकारस्य तिङ्-प्रत्यय-सिद्धिः
नियमाः—
१. टित्-लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकारः | 'टि' इति एका संज्ञा अस्ति | कस्यापि अंशस्य अन्तिम-स्वरस्य, अपि च तस्य स्वरस्य अनन्तरं हल्-वर्णः अस्ति चेत् तर्हि मिलित्वा तयोः, 'टि'-संज्ञा भवति | यथा राम इति शब्दः, अत्र मकारोत्तर-अकारस्य टि-संज्ञा | तथैव हरि-शब्दे इकारस्य टि-संज्ञा | मनस् इत्यस्मिन् 'अस्' इत्यस्य टि-संज्ञा | यथा "त" इति प्रत्ययः— अत्र टि-भागः 'अ' अस्ति; तस्य स्थाने एकारः → "ते" इति भवति | अङ्गम् अदन्तं स्यात् अनदन्तं वा स्यात्, उभयत्र इदं कार्यं विधीयते |
२. अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वं स्यात् | नाम यदि अङ्गम् अदन्तम् अस्ति, तर्हि तत्र आत्मनेपदसंज्ञकप्रत्ययेषु यः आकारः अस्ति, तस्य स्थाने इकारः भवति | 'आताम्' 'आथाम्' अनयोः स्थितस्य आकारस्य स्थाने 'इ' | अङ्गम् अनदन्तं चेत् आकारस्य स्थाने इ-आदेशः न भवत्येव | किन्तु अङ्गम् अदन्तम् अस्ति चेत्, तर्हि टित्सु ङित्सु उभयत्र इ-आदेशः भवति | वस्तुतः इय्-आदेशः भवति, तदा यकारस्य लोपः वल्-प्रत्याहारे परे |
३. मध्यमपुरुषस्य थासः स्थाने 'से' आदेशः | अयम् आदेशः टित्सु लकारेषु भवति |
नियमान् अनुसृत्य कार्यम् एवम्—
त → 'अ' इति टि-भागः, तस्य स्थाने एकारः → "ते" इति लट् प्रत्ययः निष्पन्नः |
आताम् → आम् इति टि-भागः, तस्य स्थाने एकारः → आते → अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वम्, 'आ'-स्थाने 'इ' → "इते" इति लट् प्रत्ययः निष्पन्नः | (इय्-आदेशः, तदा य्-लोपः |)
झ → 'झ्' स्थाने अन्त् आदेशः → अन्त् + अ → 'अ' इति टि-भागः, तस्य स्थाने एकारः → "अन्ते" इति लट् प्रत्ययः निष्पन्नः |
थास् → टित्सु 'से' आदेशः → "से" इति लट् प्रत्ययः निष्पन्नः |
आथाम् → आम् इति टि-भागः, तस्य स्थाने एकारः → आथे → अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वम्, 'आ'-स्थाने 'इ' → "इथे" इति लट् प्रत्ययः निष्पन्नः | (इय्-आदेशः, तदा य्-लोपः |)
ध्वम् → 'अम्' इति टि-भागः, तस्य स्थाने एकारः → "ध्वे" इति लट् प्रत्ययः निष्पन्नः |
इड् → 'ड्' इत्यस्य इत्-संज्ञा लोपः च → 'इ' इति टि-भागः, तस्य स्थाने एकारः → "ए" इति लट् प्रत्ययः निष्पन्नः |
वहि → 'इ' इति टि-भागः, तस्य स्थाने एकारः → "वहे" इति लट् प्रत्ययः निष्पन्नः |
महिङ् → 'ङ्' इत्यस्य इत्-संज्ञा लोपः च → 'इ' इति टि-भागः, तस्य स्थाने एकारः → "महे" इति लट् प्रत्ययः निष्पन्नः |
लटि सिद्ध-प्रत्ययाः—
ते इते अन्ते
से इथे ध्वे
ए वहे महे
तर्हि तावत् एव— टित्-लकारेषु टेः स्थाने एत्वं, थासः स्थाने से, अदन्तम् अङ्गं चेत् आकारस्य स्थाने इकारः |
टित आत्मनेपदानां टेरे (३.४.७९) = टित्-लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशो भवति | टितः षष्ठ्यन्तम्, आत्मनेपदानां षष्ठ्यन्तं, टेः षष्ठ्यन्तम्, ए लुप्तप्रथमान्तम्, अनेकपदमिदं सूत्रम् | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— टितः लस्य आत्मनेपदानां टेः ए |
अचोऽन्त्यादि टि (१.१.६४) = अचां मध्ये यः अन्त्यः, सः आदिः यस्य तत् टि-संज्ञकं स्यात् | अन्ते भवः अन्त्यः, अन्त्यः आदिर्यस्य सः अन्त्यादिः बहुव्रीहिः | अचः षष्ठ्यन्तम्, अन्त्यादिः प्रथमान्तं, टि प्रथमान्तं, त्रिपदमिदं सूत्रम् | अत्र अचः एकवचने यतोहि अनेन अच्-जातिः इति इष्टम् | आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्) | जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् (१.२.५८) = जाति-आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् | सूत्रं स्वयं सम्पूर्णम्— अचः अन्त्यादि टि |
आतो ङितः (७.२.८१) = अदन्तात् अङ्गात् परस्य सार्वधातुक-ङित्-प्रत्ययस्य आकारस्य स्थाने इय्-आदेशो भवति | (अनदन्ताङ्गेषु न भवति; अनदन्ताङ्गेषु आते, आथे इत्येव भवतः |) आतः षष्ठ्यन्तं, ङितः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | रुधाधिभ्यः सार्वधातुके (७.२.७६) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | अतो येयः (७.२.८०) इत्यस्मात् अतो, इयः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अतः अङ्गात् ङितः सार्वधातुकस्य आतो इयः |
वस्तुतः आतो ङितः (७.२.८१) इत्यनेन इय्-आदेशः भवति, तदा लोपो व्योर्वलि (६.१.६६) इति सूत्रेण य्-इत्यस्य लोपः वल्-प्रत्याहारे परे |
थासः से (३.४.८०) = टित्-लकारस्य थास्-स्थाने से-आदेशो भवति | थासः षष्ठ्यन्तं, से लुप्तप्रथमान्तं, द्विपदमिदं सूत्रम् | टित आत्मनेपदानां टेरे (३.४.७९) इत्यस्मात् टितः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— टितः लस्य थासः से |
आत्मनेपदे लोट्-लकारस्य तिङ्-प्रत्यय-सिद्धिः
नियमाः—
१. परस्मैपदे लटि यत्र यत्र 'इ', लोटि तत्र तत्र 'उ'; तथैव आत्मनेपदे लटि यत्र यत्र 'ए', तत्र तत्र लोटि 'आम्' आदेशः भवति | वस्तुतः क्रमः एवमस्ति— टित्सु टि-भागस्य एत्वं भवति | लोट् अपि टित् अस्ति, अतः अत्रापि टिभाग-स्थाने एकारः आयाति | तदा लोटि एकारस्य स्थाने आम् इति आदेशः भवति |
२. अत्र कश्चन विशेषः नियमः अस्ति | उपरि सामान्यनियमः दत्तः— 'ए'-स्थाने आम् | अस्माभिः चिन्तनीयम् अयम् एकारः कस्मात् परः अस्ति | एकारः सकारात् परः चेत्, ए-स्थाने 'व' भवति न तु 'आम्' | यथा लोट् टित् अस्ति अतः थासः से (३.४.८०) इत्यनेन "थासः स्थाने से”, तदा सकारोत्तरस्य एकारस्य स्थाने 'व'-आदेशः | पुनः एकारः वकारात् परः चेत्, ए-स्थाने 'अम्' न तु 'आम्' अथवा 'व' | यथा ध्वम्
→ ध्वे → ध्वम् |
३. उत्तमपुरुषस्य एकारस्य स्थाने ऐकारादेशः भवति |
४. लोट्-लकारस्य उत्तमपुरुषस्य आडागमः भवतीति तु पूर्वमेव उक्तं (परस्मैपदस्य लोटि उक्तम्; आत्मनेपदे अपि अस्य प्रसक्तिः) |
५. "अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वं स्यात्”, इत्यस्य नियमस्य प्रसक्तिः भवति टित्सु अपि ङित्सु अपि, अङ्गम् अदन्तम् अस्ति चेत् |
नियमान् अनुसृत्य कार्यम् एवम्—
त → 'अ' इति टि-भागः, तस्य स्थाने एकारः → ते → एकारस्य स्थाने आम्-आदेशः → त् + आम् → "ताम्" इति लोट् प्रत्ययः निष्पन्नः |
आताम् → अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वम्, 'आ'-स्थाने 'इ' → इताम् → आम् इति टि-भागः, तस्य स्थाने एकारः → इते → एकारस्य स्थाने आम् आदेशः → "इताम्" इति लोट् प्रत्ययः निष्पन्नः |
झ → 'झ्' स्थाने अन्त् आदेशः → अन्त् + अ → 'अ' इति टि-भागः, तस्य स्थाने एकारः → अन्ते → एकारस्य स्थाने आम्-आदेशः → "अन्ताम्" इति लोट् प्रत्ययः निष्पन्नः |
थास् → टित्सु 'से' आदेशः → से → एकारस्य स्थाने आम्-आदेश-प्राप्तिः → आम् प्रबाध्य 'व' आदेशः → "स्व" इति लोट् प्रत्ययः निष्पन्नः |
आथाम् → अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वम्, 'आ'-स्थाने 'इ' → "इथाम्" → आम् इति टि-भागः, तस्य स्थाने एकारः → इथे → एकारस्य स्थाने आम् आदेशः → "इथाम्" इति लोट् प्रत्ययः निष्पन्नः |
ध्वम् → 'अम्' इति टि-भागः, तस्य स्थाने एकारः → ध्वे → एकारस्य स्थाने आम्-आदेश-प्राप्तिः → आम् प्रबाध्य 'अम्' आदेशः → "ध्वम्" इति लोट् प्रत्ययः निष्पन्नः |
इड् → 'ड्' इत्यस्य इत्-संज्ञा लोपः च → 'इ' इति टि-भागः, तस्य स्थाने एकारः → एकारस्य स्थाने आम्-आदेश-प्राप्तिः → आम् प्रबाध्य ऐ आदेशः → ऐ → उत्तमपुरुषस्य आडागमः → आ + ऐ → "ऐ" इत्येव लोट् प्रत्ययः निष्पन्नः |
वहि → 'इ' इति टि-भागः, तस्य स्थाने एकारः → वहे → एकारस्य स्थाने ऐ आदेशः → वहै → उत्तमपुरुषस्य आडागमः → आ + वहै → "आवहै" इति लोट् प्रत्ययः निष्पन्नः |
महिङ् → 'ङ्' इत्यस्य इत्-संज्ञा लोपः च → 'इ' इति टि-भागः, तस्य स्थाने एकारः → महे → एकारस्य स्थाने ऐ आदेशः → महै → उत्तमपुरुषस्य आडागमः → आ + महै → "आमहै" इति लोट् प्रत्ययः निष्पन्नः |
लोटि सिद्ध-प्रत्ययाः—
ताम् इताम् अन्ताम्
स्व इथाम् ध्वम्
ऐ आवहै आमहै
आमेतः (३.४.९०) = लोट्-लकारस्य एकारस्य स्थाने आम्-आदेशो भवति | आम् प्रथमान्तं, एतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | लोटो लङ्वत् (३.४.८५) इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— लोटः लस्य एतः आम् |
सवाभ्यां वामौ (३.४.९१) = लोट्-लकारस्य सकारात् वकारात् च, एकारस्य स्थाने क्रमेण व, अम् इत्यनयोः आदेशो भवति | आमेतः (३.४.९०) इत्यस्य अपवादः | सश्च वश्च तयोरितरेतरद्वन्द्वः सवौ, ताभ्यां सवाभ्याम् | वश्च अम् च तयोरितरेतरद्वन्द्वः वामौ | सवाभ्यां पञ्चम्यन्तं, वामौ प्रथमान्तं, द्विपदमिदं सूत्रम् | लोटो लङ्वत् (३.४.८५) इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः | आमेतः (३.४.९०) इत्यस्मात् एतः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— लोटः लस्य सवाभ्यां एतः वामौ |
आडुत्तमस्य पिच्च (३.४.९२) = लोट्-लकारस्य लस्य स्थाने यः उत्तमपुरुष-प्रत्ययः भवति, तस्य आट्-आगमो भवति, अपि च तस्य पित्त्वं भवति | आद्यन्तौ टकितौ इत्यनेन आट्-आगमः प्रत्ययात् प्राक् आयाति | आड् प्रथमान्तम्, उत्तमस्य षष्ठ्यन्तम्, पित् प्रथमान्तम्, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | लोटो लङ्वत् (३.४.८५) इत्यस्मात् सूत्रात् लोटः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— लोटः लस्य उत्तमस्य आट् पित् च |
एत ऐ (३.४.९३) = लोट्-लकारस्य उत्तमपुरुषस्य एकारस्य स्थाने ऐकार-आदेशो भवति | एतः षष्ठ्यन्त्म्, ऐ लुप्तप्रथमान्तं, द्विपदमिदं सूत्रम् | आमेतः (३.४.९०) इत्यस्य अपवादः | लोटो लङ्वत् (३.४.८५) इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः | आडुत्तमस्य पिच्च (३.४.९२) इत्यस्मात् उत्तमस्य इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— लोटः लस्य उत्तमस्य एतः ऐ |
आटश्च (६.१.८९) = आडागमात् अचि परे पूर्वपरयोः वृद्धिरेकादेशो भवति | आटः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | वृद्धिरेचि (६.१.८७) इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम् |
आत्मनेपदे लङ्-लकारस्य तिङ्-प्रत्यय-सिद्धिः
नियमाः—
१. लङ् टित् नास्ति अतः टित आत्मनेपदानां टेरे (३.४.७९) "टेः स्थाने एत्वम्”, थासः से (३.४.८०) "थासः स्थाने से”, अस्य नियमद्वयस्य प्रसक्तिः नास्ति |
२. "अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वं स्यात्”, इत्यस्य नियमस्य प्रसक्तिः भवति टित्सु अपि ङित्सु अपि, अङ्गम् अदन्तम् अस्ति चेत् | आतो ङितः (७.२.८१) इत्यनेन इय्-आदेशः, तदा लोपो व्योर्वलि (६.१.६६) इत्यनेन वल्-आदिप्रत्यये परे यलोपः |
नियमान् अनुसृत्य कार्यम् एवम्—
त → किमपि कार्यं नास्ति | "त" इति लङ् प्रत्ययः निष्पन्नः |
आताम् → टित्सु टेः एत्वं किन्तु लङ् ङित् अतः टि-भागः 'आम्' इत्येव तिष्ठति → अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वम्, 'आ'-स्थाने 'इ' → "इताम्" इति लङ् प्रत्ययः निष्पन्नः |
झ → 'झ्' स्थाने अन्त् आदेशः → अन्त् + अ → "अन्त" इति लङ् प्रत्ययः निष्पन्नः |
थास् → टित्सु से आदेशः किन्तु लङ् ङित् अतः थास् इत्येव तिष्ठति → रुत्वविसर्गौ → "थाः" इति लङ् प्रत्ययः निष्पन्नः |
आथाम् → अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वम्, 'आ'-स्थाने 'इ' → "इथाम्" इति लङ् प्रत्ययः निष्पन्नः |
ध्वम् → किमपि कार्यं नास्ति | "ध्वम्" इत्येव लङ् प्रत्ययः निष्पन्नः |
इड् → 'ड्' इत्यस्य इत्-संज्ञा लोपः च → अग्रे किमपि कार्यं नास्ति → "इ" इत्येव लङ् प्रत्ययः निष्पन्नः |
वहि → किमपि कार्यं नास्ति |"वहि" इत्येव लङ् प्रत्ययः निष्पन्नः |
महिङ् → 'ङ्' इत्यस्य इत्-संज्ञा लोपः च → अग्रे किमपि कार्यं नास्ति → "महि" इत्येव लङ् प्रत्ययः निष्पन्नः |
लङि सिद्ध-प्रत्ययाः—
त इताम् अन्त
थाः इथाम् ध्वम्
इ वहि महि
आत्मनेपदे विधिलिङ्-लकारस्य तिङ्-प्रत्यय-सिद्धिः
नियमाः—
१. यथा परस्मैपदे विधिलिङ्-लकारे 'यासुट्' आगमः भवति, तथैव आत्मनेपदे 'सीयुट्' इति आगमः भवति | अत्र अनुबन्धलोपे 'सीय्' इति अवशिष्यते | 'सीय्' इत्यत्र वर्तमानस्य सकारस्य अपि लोपः क्रियते विधिलिङि | आशीर्लिङि तु सकारलोपः न क्रियते |
२. यदा 'सीय्' इति आगमः भवति, सकारलोपश्च भवति तदा 'ईय्' इति शिष्यते | तत्र वर्तमानस्य यकारस्य लोपो भवति हलादौ प्रत्यये परे | अजादौ तु यथावत्तिष्ठति |
३ लिङः तकारथकारयोः सुडागमः भवति | सुडागमस्य सकारस्य लोपः भवति लिङः सलोपोऽनन्त्यस्य (७.२.७९) इत्यनेन |
४. 'झ'-प्रत्ययस्य स्थाने 'रन्' आदेशः |
५. उत्तमपुरुषस्य 'इ' प्रत्ययस्य स्थाने 'अ' आदेशः |
नियमान् अनुसृत्य कार्यम् एवम्—
त → ईय् इति आगमः, ईय् + त → तकारस्य सुडागमः → ईय्+ स् त → सकारस्य लोपः → ईय् + त् → व्यञ्जने परे यकारस्य लोपः → "ईत" इति विधिलिङ् प्रत्ययः निष्पन्नः |
आताम् → ईय् इति आगमः, स्वरे परे यकारस्य लोपः न → ईय् +आताम् → तकारस्य सुडागमः → ईय्+ आ स् ताम् → सकारस्य लोपः → "ईयाताम्" इति विधिलिङ् प्रत्ययः निष्पन्नः |
झ → 'झ' स्थाने रन् आदेशः → ईय् इति आगमः, व्यञ्जने परे यकारस्य लोपः → ई + रन् → "ईरन्" इति विधिलिङ् प्रत्ययः निष्पन्नः |
थास् → टित्सु से आदेशः किन्तु लङ् ङित् अतः थास् इत्येव तिष्ठति → ईय् इति आगमः, ईय् + थास् → थकारस्य सुडागमः → ईय्+ स् थास् → सकारस्य लोपः → ईय् + थास् → व्यञ्जने परे यकारस्य लोपः → ई + थास् → रुत्वविसर्गौ → "ईथाः" इति विधिलिङ् प्रत्ययः निष्पन्नः |
आथाम् → ईय् इति आगमः, थकारस्य सुडागमः → ईय्+ आ स् थाम् → सकारस्य लोपः → ईय् + आथाम् → स्वरे परे यकारस्य लोपः न → "ईयाथाम्" इति विधिलिङ् प्रत्ययः निष्पन्नः |
ध्वम् → ईय् इति आगमः, व्यञ्जने परे यकारस्य लोपः → ई + ध्वम् → "ईध्वम्" इति विधिलिङ् प्रत्ययः निष्पन्नः |
इड् → 'ड्' इत्यस्य इत्-संज्ञा लोपः च → उत्तमपुरुषस्य 'इ' प्रत्ययस्य स्थाने 'अ' आदेशः → ईय् + अ → "ईय" इति विधिलिङ् प्रत्ययः निष्पन्नः |
वहि → ईय् इति आगमः, व्यञ्जने परे यकारस्य लोपः → ई + वहि → "ईवहि" इत्येव विधिलिङ् प्रत्ययः निष्पन्नः |
महिङ् → 'ङ्' इत्यस्य इत्-संज्ञा लोपः च → महि → ईय् इति आगमः, व्यञ्जने परे यकारस्य लोपः → ई + महि → "ईमहि" इत्येव विधिलिङ् प्रत्ययः निष्पन्नः |
लिङः सीयुट् (३.४.१०२) = लिङ्-लकारस्य सीयुट्-आगमो भवति | इदं सूत्रं सामान्यसूत्रम् | तस्य अपवादः यासुट् परमैपदेषूदात्तो ङिच्च (३.४.१०३); अनेन लिङः सीयुट् इत्यस्य कार्यं नार्हति परस्मैपदेषु, अतः लिङः सीयुट् केवलम् आत्मनेपदेषु इति फलितः अर्थः | लिङः षष्ठ्यन्तं, सीयुट् प्रथमान्तं, द्विपदमिदं सूत्रम् | टकार-उकारयोः इत्-संज्ञा लोपश्च | सीय् अवशिष्यते | टित् अतः आद्यन्तौ टकितौ इत्यनेन तिङ्-प्रत्ययस्य आदौ उपविशति | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— लिङः लस्य सीयुट् |
सुट् तिथोः ( ३.४.१०७) = लिङः तकारथकारयोः सुट् स्यात् | लिङ्लकारे तकारस्य, थकारस्य च सुडागमः भवति | सुडागमे उकारः उच्चारणार्थः, सकारः एव अवशिष्यते | आद्यन्तौ टकितौ ( १.१.४६) इत्यनेन तकारस्य थकारस्य च आदौ सुडागमः भवति | तिश्च थ् च तिथौ तयोः तिथोः | तकारोत्तरवर्ती इकारः उच्चारणार्थः | सुट् प्रथमान्तं, तिथोः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | लिङः सीयुट् इत्यस्मात् लिङः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— लिङः तिथोः सुट् |
लिङः सलोपोऽनन्त्यस्य (७.२.७९) = सार्वधातुकलिङः अनन्त्यस्य सकारस्य लोपो भवति | अन्ते भवः अन्त्यः, न अन्त्यः अनन्त्यः; तस्य अनन्त्यस्य | लिङः षष्ठ्यन्तं, स लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम्, अनन्त्यस्य षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | रुधाधिभ्यः सार्वधातुके (७.२.७६) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः, विभक्तिपरिणामं कृत्वा सार्वधातुकस्य | अङ्गस्य (६.४.१) इत्यस्य अधिकारः (अत्र पञ्चम्यन्तं भवति, अङ्गात्) | अनुवृत्ति-सहितसूत्रम्— अङ्गात् सार्वधातुकस्य लिङः अनन्त्यस्य स-लोपः |
झस्य रन् (३.४.१०५) = लिङ्-लकारस्य झ-प्रत्ययस्य स्थाने रन्-आदेशो भवति | झोऽन्तः इत्यस्य अपवादः | रन् अनेकाल् अतः अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन सम्पूर्ण-झ-प्रत्ययस्य स्थाने भवति | रन् इत्यस्मिन् नकार-लोपः भवति स्म हलन्त्यम् इत्यनेन, परन्तु न विभक्तौ तुस्माः इत्यनेन नकारः तिष्ठति | झस्य षष्ठ्यन्तं, रन् प्रथमान्तं, द्विपदमिदं सूत्रम् | लिङः सीयुट् (३.४.१०२) इत्यस्मात् लिङः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— लिङः लस्य झस्य रन् |
अनेकाल्शित् सर्वस्य (१.१.५५) = आदेशः अनेकाल् (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः) अथवा शित् चेत्, तर्हि सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | (यस्य स्थाने आदेशः आदिष्टः, सः स्थानी |) इदं सूत्रम् अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः; अनेकः अल् यस्य सः अनेकाल् बहुव्रीहिः; शकारः इत् यस्य सः शित् बहुव्रीहिः; अनेकाल् च शित् च अनेकाल्शित् समाहारद्वन्द्वः | अनेकाल् प्रथमान्तं, शित् प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अनेकाल्शित् सर्वस्य स्थाने |
इटोऽत् (३.४.१०६) = लिङ्-लकारस्य स्थाने यः इट्-आदेशः, तस्य स्थाने अत्-आदेशो भवति | इटः षष्ठ्यन्तम्, अत् प्रथमान्तं, द्विपदमिदं सूत्रम् | लिङः सीयुट् (३.४.१०२) इत्यस्मात् लिङः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— लिङः लस्य इटः अत् |
विधिलिङि सिद्ध-प्रत्ययाः—
ईत ईयाताम् ईरन्
ईथाः ईयाथाम् ईध्वम्
ईय ईवहि ईमहि
इति सार्वधातुकलकाराणाम् आत्मनेपदिधातूनाम् अदन्त-अङ्गानां कृते सिद्ध-प्रत्ययाः समाप्ताः |
अभ्यासः
अधः लटि, लोटि, लङि, विधिलिङि च अङ्गं यत्र अदन्तम् अस्ति, तत्र तिङ्-प्रत्ययानां सिद्ध्यर्थं सर्वाणि आवश्यकानि सूत्राणि दत्तानि | प्रत्येकं सूत्रस्य (१) कुत्र-कुत्र प्रसक्तिः, (२) अपरेण सूत्रेण बाधितं चेत् केन, (३) कार्यं च तेन साधितं न वा इति सूचयतु | कुत्र-कुत्र प्रसक्तिः नाम कस्मिन् पदे (परसमैपदे, आत्मनेपदे), केषु लकारेषु, अपि च केषु प्रत्ययेषु | आहत्य प्रसक्तिः कुत्र, बाधा कुत्र, कार्यं च कुत्र | अस्मिन् अभ्यासे पूर्वतन-करपत्रस्यापि आवश्यकता |
ससजुषो रुः (८.२.६६)
खरवसानयोर्विसर्जनीयः (८.३.१५)
झोऽन्तः (७.१.३)
एरुः (३.४.८६)
तस्थस्थमिपां तान्तन्तामः (३.४.१०१)
लोटो लङ्वत् (३.४.८५)
मेर्निः (३.४.८९)
आडुत्तमस्य पिच्च (३.४.९२)
नित्यं ङितः (३.४.९९)
सेर्ह्यपिच्च (३.४.८७)
अतो हेः (६.४.१०५)
तुह्योस्तातङ्ङाशिष्यन्यतरस्याम् (७.१.३५)
इतश्च (३.४.१००)
संयोगान्तस्य लोपः (८.२.२३)
झेर्जुस् (३.४.१०८)
यासुट् परमैपदेषूदात्तो ङिच्च (३.४.१०३)
अतो येयः (७.२.८०)
लोपो व्योर्वलि (६.१.६६)
टित आत्मनेपदानां टेरे (३.४.७९)
अचोऽन्त्यादि टि (१.१.६४)
आतो ङितः (७.२.८१)
थासः से (३.४.८०)
आमेतः (३.४.९०)
सवाभ्यां वामौ (३.४.९१)
एत ऐ (३.४.९३)
लिङः सीयुट् (३.४.१०२)
लिङः सलोपोऽनन्त्यस्य (७.२.७९)
झस्य रन् (३.४.१०५)
अनेकाल् शित्सर्वस्य (१.१.५५)
इटोऽत् (३.४.१०६)
उदाहरणार्थम् अधः चत्वारि सूत्राणि परिशीलितानि | कथं कृतम् अस्ति इति पश्यतु; तदाधारेण अग्रे सर्वाणि उपर्युक्तानि सूत्राणि परिशीलनीयानि |
१. ससजुषो रुः (८.२.६६)
परस्मैपदे तस्, थस्, वस्, मस्
लटि-- कार्यं भवति | तः, थः, वः, मः |
लोटि, लङि, विधिलिङि प्रसक्तिः अस्ति, किन्तु सूत्रं बाधितम्—
लोटि-- तस्, थस् तस्थस्थमिपां तान्तन्तामः (३.४.१०१), वस्, मस् नित्यं ङितः (३.४.९९) | लोटो लङ्वत् (३.४.८५) इत्यनेन अतिदेशः (ङित्सु कार्यम्)
लङि-- तस्, थस् तस्थस्थमिपां तान्तन्तामः (३.४.१०१), वस्, मस् नित्यं ङितः (३.४.९९) |
विधिलिङि-- तस्, थस् तस्थस्थमिपां तान्तन्तामः (३.४.१०१), वस्, मस् नित्यं ङितः (३.४.९९) |
झि-- अत्र कार्यं भवति | झि → झेर्जुस् (३.४.१०८) → उस् → उः
परस्मैपदे लङि, विधिलिङि-- सिप् [ङित्सु इतश्च (३.४.१००) इत्यनेन इ-लोपः] | अवदस् → अवदः |
आत्मनेपदे थास्
लटि, लोटि, लङि, विधिलिङि प्रसक्तिः अस्ति |
लटि लोटि बाधितं थासः से (३.४.८०) इत्यनेन |
लङि, विधिलिङि कार्यं भवति | ङित्सु थासः से (३.४.८०) इत्यस्य प्रसक्तिः नास्ति |
२. खरवसानयोर्विसर्जनीयः (८.३.१५) = यत्र यत्र ससजुषो रुः (८.२.६६) कार्यं करोति, तत्र तत्र अस्य अपि कार्यं भवति |
३. झोऽन्तः (७.१.३) = सर्वत्र प्रसक्तिः अस्ति | परस्मैपदे (झि) आत्मनेपदे (झ) च | लट्, लोट्, लङ्, विधिलिङ् च | कार्यं न भवति यत्र बाधितम् |
कार्यं भवति - परस्मैपदे लट्, लोट्, लङ् | बाधितम्-- विधिलिङि झेर्जुस् (३.४.१०८) इति अपवादः |
कार्यं भवति - आत्मनेपदे लट्, लोट्, लङ् | बाधितम्-- विधिलिङि झस्य रन् (३.४.१०५) इति अपवादः |
४. एरुः (३.४.८६) = लोटः लस्य एः उः | इकारस्य स्थाने उकारः | अतः लोटि एव प्रसक्तिः |
परस्मैपदे-- तिप्, झि, सिप्, मिप् | तिपि झौ च कार्यं भवति | बाधितम्-- सिपि सेर्ह्यपिच्च (३.४.८७) इति अपवादः, मिपि मेर्निः (३.४.८९) इति अपवादः |
आत्मनेपदे-- वहि, महिङ् | उभयत्र बाधितम्-- टित आत्मनेपदानां टेरे (३.४.७९) इत्यनेन | कुतः ? द्वयोः अपि अन्यत्रलब्धावकाशः अस्ति अतः अपवादः नास्ति | अपि च टित आत्मनेपदानां टेरे पूर्वसूत्रम् अतः विप्रतिषेधे परं कार्यम् (१.४.२) इत्यनेन तस्य बलं न सिध्यति | तर्हि कारणं किम् ? नित्यम् | अत्र टित आत्मनेपदानां टेरे इति नित्यं सूत्रम्; एरुः तथा न | कृताकृतप्रसङ्गी यः विधिः भवति, सः नित्यः इत्युच्यते | नित्य-विषये इतोऽपि सूचना अत्र प्राप्यते |
अदन्ताङ्गानां सिद्ध-तिङ्प्रत्ययाः
परस्मैपदिधातूनां मूल-तिङ्प्रत्ययाः आत्मनेपदिधातूनां मूल-तिङ्प्रत्ययाः
तिप् तस् झि त आताम् झ
सिप् थस् थ थास् आथाम् ध्वम्
मिप् वस् मस् इड् वहि महिङ्
परस्मैपदिधातूनां सिद्ध-तिङ्प्रत्ययाः आत्मनेपदिधातूनां सिद्ध-तिङ्प्रत्ययाः
लटि सिद्ध-प्रत्ययाः— लटि सिद्ध-प्रत्ययाः—
ति तः अन्ति ते इते अन्ते
सि थः थ से इथे ध्वे
मि वः मः ए वहे महे
लोटि सिद्ध-प्रत्ययाः— लोटि सिद्ध-प्रत्ययाः—
तु, तात् ताम् अन्तु ताम् इताम् अन्ताम्
०, तात् तम् त स्व इथाम् ध्वम्
आनि आव आम ऐ आवहै आमहै
लङि सिद्ध-प्रत्ययाः— लङि सिद्ध-प्रत्ययाः—
त् ताम् अन् त इताम् अन्त
स् तम् त थाः इथाम् ध्वम्
अम् व म इ वहि महि
विधिलिङि सिद्ध-प्रत्ययाः— विधिलिङि सिद्ध-प्रत्ययाः—
इत् इताम् इयुः ईत ईयाताम् ईरन्
इः इतम् इत ईथाः ईयाथाम् ईध्वम्
इयम् इव इम ईय ईवहि ईमहि
Swarup – April 2013 (Updated May 2015 & Sept 2016)
परिशिष्टम्
अत्र श्रीराममहोदयः अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या परस्मैपदि अदन्ताङ्गानां लङ् च विधिलिङ् चेतनयोः तिङ्-सिद्धिः चित्रत्वेन निरूपितवान् । ततः अधोभागे आत्मनेपदि अदन्ताङ्गानां लट्, लोट्, लङ्, विधिलिङ् इत्येषामपि तिङ्-सिद्धिः चित्रत्वेन निरूपितवान्—
---------------------------------
धेयम्-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.
To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ]
अदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः (सारः).pdf (19k) Swarup Bhai, Oct 19, 2016, 8:36 PM v.1
४ - तिङ्-प्रत्यय सिद्धिः - २.pdf (113k) Swarup Bhai, Apr 19, 2017, 6:25 PM v.1