05 - अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः
प्रत्ययानां स्वभावः कः, अपि च प्रक्रिया कीदृशी इत्यनयोः ज्ञानेन यौ कावपि प्रकृतिप्रत्ययौ अस्माकं पुरतः स्यातां, द्वयोः संयोजनेन किम् उत्पद्यते इति सौकर्येण नैपुण्येन च जानीयाम | अधस्तने चित्रे च समग्रसंस्कृतभाषायां प्रक्रियाः काः अपि च प्रत्ययाः के इति निरूपितं भवति | अनेन चित्रेण, पाणिनेः लघुत्वसिद्धान्तेन अस्माकं कः लाभः अपि च दीक्षितपुष्पामात्रा कथम् इदं विज्ञानं प्रक्रिया नाम्ना व्यवहारे आनीतम्, इति अस्माभिः स्पष्टतया बुध्यते | तर्हि अग्रे, अत्र किं किम् अस्तीति परिशीलयाम |
एतदाधारेण च कीदृशकार्याणि सम्भवन्ति इत्यस्य चिन्तनार्थम् अस्माकं वर्गस्य नूतन-सदस्यः शुकवनम्-महोदयः सुन्दररीत्या चित्रं निर्मितवान्—
2016
अचो ञ्णिति (७.२.११५) = अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अचः अङ्गस्य नाम न केवलम् अच् इत्यङ्गस्य, अपि तु अजन्तस्य अङ्गस्य | अलोऽन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः | ञ् च ण् च ञ्णौ, ञ्णौ इतौ यस्य तत् ञ्णित्, तस्मिन् ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अचः अङ्गस्य वृद्धिः ञ्णिति |
अत उपधायाः (७.२.११६) = उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे | अतः षष्ठ्यन्तम्, उपधायाः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः; अचो ञ्णिति (७.२.११५) इत्यस्मात् ञ्णिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति |
सार्वधातुकार्धधातुकयोः (७.३.८४) = सार्वधातुकार्धधातुकयोः परयोः इगन्तस्य अङ्गस्य इकः गुणः स्यात् |
पुगन्तलघूपधस्य च (७.३.८६) = सार्वधातुकार्धधातुकयोः परयोः पुगन्तस्य लघूपधस्य च अङ्गस्य इकः गुणः स्यात् |
सार्वधातुकमपित् (१.२.४) = सार्वधातुकं यदपित् तद् ङिद्वत् भवति |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः (गुणः वृद्धिः) न भवति |
अभ्यासः—
१. प्रत्येकं धातुम् आदाय इमानि रूपाणि परिशील्य निष्पादयतु— लट्-लकारस्य प्रथमपुरुषैकवचनान्तरूपं, क्त्वा-प्रत्ययान्तं रूपं, णिच्-प्रत्ययान्तधातोः लट्-लकारस्य प्रथमपुरुषैकवचनान्तरूपं, तुमुन्-प्रत्ययान्तं रूपम् | प्रत्येकस्यां स्थितौ धातुः कीदृशः (इगन्तधातुः, इगन्तभिन्न-अजन्तधातुः, लघु-इगुपधधतुः, अदुपधधातुः) अपि च प्रत्ययः कीदृशः (सार्वधातुकं पित्, सार्वधातुमपित्, आर्धधातुकं कित्-ङित्, आर्धधातुकं ञित्-णित्, आर्धधातुकं कित्-ङित् ञित्-णित्-भिन्नः) इति वक्तव्यम् |
- भ्वादिगणे नी-धातुः
- स्वादिगणे चि-धातुः [एकवचने, द्विवचने च]
- जुहोत्यादिगणे दा-धातुः
- भ्वादिगणे गै-धातुः
- दिवादिगणे माङ् माने इति धातुः
- भ्वादिगणे बुध्-धातुः
- तुदादिगणे लिख्-धातुः
- भ्वादिगणे पठ्-धातुः
- तुदादिगणे चल्-धातुः
२. एतान् एव धातून् (नी, चि, दा, गै, मा, बुध्, लिख्, पठ्) आदाय, एतेषां प्रत्ययानां संयोजनेन कथम् अपि च किं रूपम् उत्पद्यते इति चिन्तयतु | प्रत्येकस्यां स्थितौ धातुः कीदृशः (इगन्तधातुः, इगन्तभिन्न-अजन्तधातुः, लघु-इगुपधधतुः, अदुपधधातुः) अपि च प्रत्ययः कीदृशः (सार्वधातुकं पित्, सार्वधातुमपित्, आर्धधातुकं कित्-ङित्, आर्धधातुकं ञित्-णित्, आर्धधातुकं कित्-ङित् ञित्-णित्-भिन्नः) इति वक्तव्यम्—
ण्वुल् [अक]
तृच्
क्त
क्तवतु
तव्यत्
अनीयर्
क्तिन्
ल्युट् [अन]
Swarup - July 2016
परिशिष्टाम्
उपर्युक्तं यत् आर्धधातुकप्रत्ययाः त्रिविधाः— कित्-ङित्, ञित्-णित्, कित्-ङित् ञित्-णित्-भिन्नः | एतावता अस्माभिः दृष्टं यत् तुदादिगणे इकः गुणः न भवति; तत्र एकं सूत्रम् उक्तम् आसीत् क्क्ङिति च (१.१.५) | अत्र अस्य सूत्रस्य अर्थः स्थापितः—
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति |
अस्मिन् सूत्रे च कित्-ङित् इत्युक्तं; किन्तु न केवलं कित्-ङित् अपि तु गित् इत्यपि उक्तम् | तर्हि अत्र एकः प्रश्नः उदेति, अत्र उपरितने पाठे 'अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः', 'समग्रदृष्टिः' इत्युक्तम् | समग्रदृष्टिः इति चेत्, गित्-प्रत्ययस्य का गतिः ?प्रक्रियाचिन्तने अस्य किं स्थानम् ?किमर्थं नोक्तम् ?
उत्तरमस्ति यत् सम्पूर्णसंस्कृतभाषायां यानि प्रमुखकार्याणि सन्ति, तेषां सर्वेषां साधनार्थम् उपरि यत् प्रदर्शितं तावदेव आवश्यकम् | गित् नाम्ना कश्चन प्रत्ययः अस्ति, स च एकः एव | सम्पूर्णसंस्कृतभाषायाम् एक एव प्रत्ययः गित्— ग्स्नु | तस्य कृते च एकमेव सूत्रम् | अपि च अनेन ग्स्नु-प्रत्ययेन केवलम् एकः शब्दः निष्पन्नः यस्य साधनार्थं ग्स्नु-प्रत्ययस्य गित्त्वम् आवश्यकम् | तदपि किञ्चित् विवादास्पदं, नाम अन्येन उपायेन, इत्संज्ञकगकारं विनापि, साधयितुं शक्यते | अतः आहत्य अस्माकं यः उपरितनमूलविषयः अस्ति, तस्मिन् गित्-प्रत्ययस्य किमपि स्थानं नास्ति |
अत्र जिज्ञासूनां कृते गित्-प्रत्ययस्य कार्यम् उपस्थाप्यते | परन्तु अस्य बोधः नितराम् अनावश्यकः अस्माकम् उपर्युक्तप्रक्रियायाः समग्रदृष्ट्यर्थम् |
एकं सूत्रम् अस्ति ग्लाजिस्थश्च क्स्नुः (३.२.१३९) | अत्र मूलप्रत्ययः अस्ति 'ग्स्नु’, तदा खरि च (८.४.५५) इत्यनेन चर्त्वं कृत्वा 'क्स्नु' भवति | अनेन ग्ला, जि, स्था, भू इत्येभ्यः चतुर्भ्यः धातुभ्यः ग्स्नु-प्रत्ययः विधीयते | ग्ला + ग्स्नु → ग्ला + स्नु → ग्लास्नु (प्रथमाविभक्तौ एकवचने ग्लास्नुः) | एवमेव जि + स्नु → जिष्णुः, स्था + स्नु → स्थास्नुः, भू + स्नु → भूष्णुः | एषु चतुर्षु जि-धातौ च भू-धातौ च गुणनिषेधः आवश्यकः | ग्ला-धातौ च स्था-धातौ च किमपि कार्यं नावश्यकं, केवलं वर्णमेलनम् | अतः चिन्तयितुं शक्नुमः यत् अत्र प्रत्ययः 'क्स्नु' इत्येव भवति चेत्, क्क्ङिति च (१.१.५) इति सूत्रद्वारा गुणनिषेधः सेत्स्यति, अतः किमर्थं न 'क्स्नु' इत्येव भवतु, ‘ग्स्नु' इत्यस्य का आवश्यकता | ग्स्नु-प्रत्ययं त्यजाम, क्स्नु इत्येव भवतु, अस्मिन् सारल्यम् अस्ति | 'गित्' इति संस्कृतभाषायां मास्तु | किन्तु— अत्र समस्या अस्ति यत् एकं सूत्रं विद्यते घुमास्थागापाजहातिसां हलि (६.४.६६) | अनेन घु, मा, स्था, गा, पा, हा (ओहाक्), सा (षो) एषां धातूनाम् आकारस्य स्थाने ईकारादेशो भवति हलादि-कित्ङित्-आर्धधातुकप्रत्यये परे | तर्हि प्रत्ययः क्स्नु अस्ति चेत्, घुमास्थागापाजहातिसां हलि (६.४.६६) इत्यनेन स्था + क्स्नु → स्थी + स्नु → 'स्थीष्णु' इति अनिष्टं रूपं सेत्स्यति | तस्य निवारणार्थं मूलप्रत्ययः 'ग्स्नु' इति कृतमस्ति | अपि च यदा ग्स्नु इति प्रत्ययः जातः, तस्य गित्त्वे गुणनिषेधक्षमता अपि आवश्यकी जिष्णु, भूष्णु इति द्वयोः साधनार्थम् | एतदर्थम् एव क्क्ङिति च (१.१.५) इति सूत्रे गकारस्य प्रश्लेषः कृतः; नो चेत् अस्मिन् सूत्रे गकारस्य आवश्यकता एव नासीत् | केवलं द्वयोः शब्दयोः कृते (जिष्णु, भूष्णु) क्क्ङिति च (१.१.५) इति सूत्रे गकारः संयोजितः |
आहत्य स्था + स्नु → स्थास्नु इत्यस्य साधनार्थम् एव संस्कृतव्याकरणे गित्त्वं विद्यते | किमपि अन्यत् कारणं नास्ति | एतत् सर्वं दृष्ट्वा मातृभिः निश्चितं यत् प्रक्रियायाः समग्रदृष्ट्यां गित्-प्रत्ययस्य समावेशः मास्तु | तासाञ्च चिन्तनं साधु एव |
काशिकायामपि उक्तं यत् ग्लाजिस्थश्च क्स्नुः (३.२.१३९) इति सूत्रे 'स्था' इत्यनेन 'स्था आ' इति स्वीक्रियते चेत्, नाम तादृशः स्था-धातुः यस्य अन्ते आकारः वर्तते, तदा सवर्णदीर्घसन्धिं कृत्वा 'स्था' इत्येव सूत्रे जायते इति मन्यामहे चेत्, 'स्थीस्नु' इति अनिष्टं रूपम् अनेन एव निवार्येत येन गित्त्वस्य आवश्यकता न स्यात् | नाम प्रत्ययः 'क्स्नु' इत्येव भवतु, गित्त्वं नाम विचारः संस्कृतभाषायां मास्तु इत्यपि कश्चन विचारः वर्तते | अनया दृष्ट्यापि अस्माकं समग्रचिन्तनचित्रे गित्-प्रत्ययस्य औचित्यं सुतरां नास्ति |
---------------------------------
०५ - अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः.pdf (246k) Swarup Bhai, Sep 18, 2019, 11:14 PM v.1
अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः - अभ्यासः pdf