12 - तिङन्तेषु हल्सन्धिकार्याणि - सङ्ग्रहः

From Samskrita Vyakaranam
< 06 - सार्वधातुकप्रकरणम्‌ (अनदन्तम्‌ अङ्गम्‌)6---sArvadhAtukaprakaraNam-anadantam-aGgam/12---tinganteShu-halsandhi-kAryANi---saMgrahaH
Jump to navigation Jump to search
ध्वनिमुद्रणानि
2018-वर्गः
१) dhAtu-pAThe-hal-sandhi-samagra-cintanam-1_sakAre-pare_2018-08-29
२) dhAtu-pAThe-hal-sandhi-samagra-cintanam-2_takAre-thakAre-ca-pare_2018-09-05
३) dhAtu-pAThe-hal-sandhi-samagra-cintanam-3_sa-ta-tha-cintanam_+_dhakAre-pare_2018-09-12
४) dhAtu-pAThe-hal-sandhi-samagra-cintanam-4_dhakAre-pare_+_vishiShTAbhyAsaH---लोलुञ्च्‌-लटि_2018-09-19
2015-वर्गः
१) dhAtu-pAThe hal-sandhi-saMgrahaH-1__2015-07-01
२) dhAtu-pAThe_hal-sandhi-saMgrahaH-1_sakArAdi-pare_2015-07-08
३) dhAtu-pAThe_hal-sandhi-saMgrahaH-2_takArAdi-pare_thakArAdi-pare-ca_2015-07-15
४) dhAtu-pAThe_hal-sandhi-saMgrahaH-3_dhakArAdi-pare_2015-07-22



हलन्तधातुभ्यः प्रमुखतः  स्‌, त्‌, थ्‌, ध् इत्येषु अक्षरेषु परेषु प्रमुखसन्धिकार्याणि भवन्ति | अधः एषां सन्धीनां सङ्ग्रहः |


सकारादौ प्रत्यये परे सन्धिकार्याणि

पूर्ववर्णः आदेशः कार्यम् सूत्रम् उदाहरणम्‌
क्‌ + स् क्‌ + ष् सकारस्य षत्वम्‌ आदेशप्रत्यययोः शक्‌ + स्यति → शक्ष्यति
ख्‌ + स् क्‌ + ष् खकारस्य चर्त्वेन कः खरि च लेलेख्‌ + सि → लेलेक्‌ + सि
सकारस्य षत्वम्‌ आदेशप्रत्यययोः                  → लेलेक्षि
ग्‌ + स्‌ क्‌ + ष् गकारस्य चर्त्वेन कः खरि च तात्वङ्ग्‌ + सि → तात्वङ्क्‌ + सि
सकारस्य षत्वम्‌ आदेशप्रत्यययोः                   → तात्वङ्क्षि
घ्‌ + स्‌ क्‌ + ष् घकारस्य चर्त्वेन कः खरि च जाघघ्‌ + सि → जाघक्‌ + सि
सकारस्य षत्वम्‌ आदेशप्रत्यययोः               → जाघक्षि
च्‌ + स्‌ क्‌ + ष् चकारस्य कुत्वेन कः चोः कुः पच्‌ + स्यति → पक्‌ + स्यति
सकारस्य षत्वम्‌ आदेशप्रत्यययोः                  → पक्ष्यति
छ्‌ + स्‌ क्‌ + ष् छकारस्य शत्वं, व्रश्चादिना च षत्वम्‌ च्छ्वोः शूडनुनासिके प्रच्छ्‌ + स्यति → प्रश्‌ + स्यति
तस्य ककारादेशः व्रश्चभ्रस्जसृज...                 → प्रष्‌ + स्यति
सकारस्य षत्वम्‌ षढोः कः सि                     → प्रक्‌ + स्यति
आदेशप्रत्यययोः                     → प्रक्ष्यति
ज्‌ + स्‌ क्‌ + ष् जकारस्य कुत्वेन गः चोः कुः त्यज्‌ + स्यति → त्यग्‌ + स्यति
तस्य चर्त्वेन कः खरि च                   → स्यक्‌ + स्यति
सकारस्य षत्वम्‌ आदेशप्रत्यययोः                   → त्यक्ष्यति
झ्‌ + स्‌ क्‌ + ष् झकारस्य कुत्वेन गः चोः कुः जझर्झ्‌ + सि → जाझर्घ्‌ + सि
तस्य चर्त्वेन कः खरि च                 → जाझर्क्‌ + सि
सकारस्य षत्वम्‌ आदेशप्रत्यययोः                 → जाझर्क्षि
‌ट्‌ + स्‌ ट्‌ + स्‌ टकारस्य चर्त्वे टकार एव भवति ष्टुना ष्टुः नानट्‌ + सि → नानट्‌षि
ठ्‌ + स्‌ ट्‌ + स्‌ ठकारस्य चर्त्वेन टकारः ष्टुना ष्टुः लोलुण्ठ्‌ + सि → लोलुण्ठ्‌ + षि
खरि च                    → लोलुण्ट्‌षि
ड्‌ + स्‌ ट्‌ + स्‌ डकारस्य चर्त्वेन टकारः ष्टुना ष्टुः जागण्ड्‌ + सि → जागण्ड्‌ + षि
खरि च                   → जागण्ट्‌षि
ढ्‌ + स्‌ क्‌ + स्‌ ढकारस्य ककारादेशः षढोः कः सि लेढ्‌ + सि → लेक्‌ + सि
सकारस्य षत्वम्‌ आदेशप्रत्यययोः               → लेक्षि
त्‌ + स्‌ त्‌ + स्‌ तकारस्य चर्त्वे तकार एव भवति खरि च चाचत्‌ + सि → चाचत्सि
थ्‌ + स्‌ त्‌ + स्‌ थकारस्य चर्त्वेन तकारः खरि च सामन्थ्‌ + सि → सामन्त्‌सि
द्‌ + स्‌ त्‌ + स्‌ दकारस्य चर्त्वेन तकारः खरि च अद्‌ + सि → अत्सि
ध्‌ + स्‌ त्‌ + स्‌ धकारस्य चर्त्वेन तकारः खरि च क्रोध्‌ + स्यति → क्रोत्स्यति
न्‌ + स्‌ ं + स्‌ नकारस्य अनुस्वारादेशः नश्चापदान्तस्य मन्‌ + स्यते → मंस्यते
झलि
प्‌ + स्‌ प्‌ + स्‌ पकारस्य चर्त्वे पकार एव भवति खरि च तप्‌ + स्यति → तप्स्यति
फ्‌ + स्‌ प्‌ + स्‌ फकारस्य चर्त्वेन पकारः खरि च जोगुम्फ्‌ + सि → जोगुम्प्‌सि
ब्‌ + स्‌ प्‌ + स्‌ बकारस्य चर्त्वेन पकारः खरि च लालम्ब्‌ + सि → लालम्प्‌सि
भ् + स्‌ प्‌ + स्‌ भकारस्य चर्त्वेन पकारः खरि च लभ्‌ + स्यते → लप्स्यते
य्‌ + स्‌ स्‌ यकारस्य लोपः लोपो व्योर्वलि जाहय्‌ + सि → जाहसि
र् + स्‌ र् + ष्‌ रेफस्य किमपि कार्यं न, सकारस्य षत्वम्‌ आदेशप्रत्यययोः जागर् + सि → जागर्षि
ल्‌ + स्‌ ल्‌ + ष्‌ लकारस्य किमपि कार्यं न, सकारस्य षत्वम्‌ आदेशप्रत्यययोः पम्फुल्‌ + सि → पम्फुल्षि*
व्‌ + स्‌ स्‌ वकारस्य लोपः लोपो व्योर्वलि अवसरः  नास्ति
श्‌ + स्‌ क्‌ + ष्‌ शकारस्य व्रश्चादिना षः, तस्य ककारादेशः, सकारस्य षत्वम्‌ व्रश्चभ्रस्जसृज... क्रोश्‌ + स्यति → क्रोष्‌ + स्यति
षढोः कः सि                    → क्रोक् + स्यति‌
आदेशप्रत्यययोः                    → क्रोक्ष्यति
ष्‌ + स्‌ क्‌ + ष्‌ षकारस्य ककारादेशः, सकारस्य षत्वम्‌ षढोः कः सि चरीकर्ष + सि → सरीकर्क्‌ + सि
आदेशप्रत्यययोः                   → चरीकर्क्षि
स्‌ + स्‌ स्‌ + स्‌ १. सार्वधातुके सकारे परे न किमपि सः स्यार्धधातुके चकास्‌ + सि → चकास्सि
त्‌ + स्‌ २. आर्धधातुके सकारे परे पूर्वसकारस्य तकारादेशः वस्‌ + स्यति → वत्स्यति
पूर्ववर्णः आदेशः कार्यम् सूत्रम् उदाहरणम्‌
ह्‌ + स् क्‌ + ष्‌ १. हकारस्य ढकारः, तस्य ककारादेशः, सकारस्य षत्वम्‌‍ हो ढः लिह्‌ → लेह्‌ + सि → लेढ्‌ + सि
षढोः कः सि                         → लेक्‌ + सि
आदेशप्रत्यययोः                         → लेक्षि
क्‌ + ष्‌ २. यदि धातुः दकारादि दादेर्धातोर्घः दुह्‌ → दोह्‌ + स्यति → दोघ्‌ + स्यति
तर्हि हकारस्य घकारः एकाचो बशो...                           → धोघ्‌ + स्यति
दकारस्य भष्भावः, घकारस्य खरि च                           → धोक्‌ + स्यति
चर्त्वेन ककारः, सकारस्य आदेशप्रत्यययोः                           → धोक्ष्यति
षत्वम्‌‍
क्‌ + ष्‌ ३. द्रुह्‌, मुह्‌, स्नुह्‌, स्निह्‌ वा द्रुहमुहष्णुहष्णिहाम्‌ मुह्‌ → मोह्‌ + स्यति → मोघ्‌ + स्यति
एषां धातूनां हकारस्य विकल्पेन घकारः, तस्य चर्त्वेन ककारः, सकारस्य षत्वम्‌ खरि च                            → मोक्‌ + स्यति
आदेशप्रत्यययोः                            → मोक्ष्यति
पक्षे ढकारः, तस्य ककारादेशः, सकारस्य षत्वम्‌‍
हो ढः
मोह्‌ + स्यति → मोढ्‌ + स्यति
षढोः कः सि
                 → मोक्‌ + स्यति
आदेशप्रत्यययोः
                 → मोक्ष्यति
क्‌ + ष्‌ ४. नह्‌-धातोः हकारस्य धकारादेशः, तस्य चर्त्वेन तकारः नहो धः नह्‌ + स्यति → नध्‌ + स्यति
खरि च                 → नत्स्यति
पूर्ववर्णाः आदेशः
क्‌, ख्‌, ग्‌, घ्‌‍, च्‌, छ्‌, ज्‌, झ्‌, ढ्‌, श्‌, ष्‌, ह्‌ क्
ट्, ठ्‌, ड्‌ ट्
त्‌, थ्‌, द्‌, ध् त्
प्‌, फ्‌, ब्‌, भ् प्
म्‌, न् अनुस्वारः
य्‌, व् लोपः
र्, ल् न किमपि
स् सार्वधातुके सकारे न किमपि,
आर्धधातुके परे तकारः
पूर्ववर्णः आदेशः कार्यम् सूत्रम् उदाहरणम्‌
क्‌ + त्‌/थ्‌ क्‌ + त्‌/थ्‌ ककारस्य चर्त्वे ककार एव भवति खरि च शक्‌ + ता → शक्ता
ख् + त्‌/थ्‌ क्‌ + त्‌/थ्‌ खकारस्य चर्त्वेन ककारः खरि च लेलेख्‌ + ति → लेलेक्‌ + ति
                 → लेलेक्ति
ग्‌ + त्‌/थ्‌ क्‌ + त्‌/थ्‌ गकारस्य चर्त्वेन ककारः खरि च तात्वङ्ग्‌ + ति → तात्वङ्क्‌ + ति
                  → तात्वङ्क्ति
घ् + त्‌/थ्‌ ग्‌ + ध् तथयोः धकारादेशः, घकारस्य झषस्तथोर्धोऽधः जाघघ्‌ + ति → जाघघ्‌ + धि
जश्त्वेन गकारः झलां जश्‌ झशि                  → जाघग्धि
च्‌ + त्‌/थ् ष्‌ + ट्‌/ठ्‌ १) व्रश्च्‌-धातोः षत्वम्‌, व्रश्चभ्रस्ज... व्रश्च्‌ + ता → व्रष्‌ + ता
तथयोः ष्टुत्वम्‌ ष्टुना ष्टुः               → व्रष्टा
क्‌ + त्‌/थ् २) अन्येषां चकारान्तानां कुत्वेन ककारः चोः कुः पच्‌ + ता → पक्ता
छ् + त्‌/थ् ष्‌ + ट्‌/ठ्‌ १) तुक्‌-सहित-छकारास्य शत्वं, तदा  षत्वम्‌; तथयोः ष्टुत्वम्‌ १) च्छ्वोः शूडनुनासिके प्रच्छ्‌ + ता → प्रष्‌ + ता
२) तुक्‌-रहित-छकारास्य कुत्वं, खकारस्य चर्त्वेन ककारः व्रश्चभ्रस्ज...                → प्रष्टा
क्‌ + त्‌/थ्
ष्टुना ष्टुः वावाञ्छ्‌ + ति → वावांख्‌ + ति
२) चोः कुः                 → वावांक्‌ + ति
    खरि च                 → वावाङ्क्ति
ज् + त्‌/थ् ष्‌ + ट्‌/ठ्‌ १) व्रश्चादिगणे पठितानां षत्वम्‌, व्रश्चभ्रस्ज... यज्‌ + ता → यष् + ता
तथयोः ष्टुत्वम्‌ ष्टुना ष्टुः              → यष्टा
क्‌ + त्‌/थ् २) अन्येषां धातूनां जकारस्य चोः कुः त्यज्‌ + ता → त्यग्‌ + ता
कुत्वेन गः, तस्य चर्त्वेन ककारः खरि च                → त्यक्ता
झ् + त्‌/थ् ग्‌ + ध् तथयोः धकारादेशः, झषस्तथोर्धोऽधः जाझर्झ्‌ + ति → जाझर्झ्‌ + धि
झकारस्य कुत्वेन घकारः, चोः कुः                   → जाझर्घ्‌ + धि
तस्य जश्त्वेन गकारः झलां जश्‌ झशि                   → जाझर्ग्धि
ट् + त्‌/थ् ट्‌ + ट्‌/ठ् तथयोः ष्टुत्वम्‌ ष्टुना ष्टुः नानट्‌ + ति → नानट्टि
ठ् + त्‌/थ् ट्‌ + ट्‌/ठ् तथयोः ष्टुत्वम्‌, ष्टुना ष्टुः लोलुण्ठ्‌ + ति → लोलुण्ठ्‌ + टि
ठकारस्य चर्त्वेन ट्कारः खरि च                   → लोलुण्ट्टि
ड् + त्‌/थ् ट्‌ + ट्‌/ठ् तथयोः ष्टुत्वम्‌, ष्टुना ष्टुः जागण्ड्‌ + ति → जागण्ड्‌ + टि
डकारस्य चर्त्वेन ट्कारः खरि च                   → जागण्ट्टि
ढ् + त्‌/थ् ढ् तथयोः धकारादेशः, झषस्तथोर्धोऽधः लेढ्‌ + ता → लेढ्‌ + धा
धकारस्य ष्टुत्वेन ढकारः, ष्टुना ष्टुः                → लेढ्‌ + ढा
पूर्वढकारस्य लोपः ढो ढे लोपः                → ले + ढा
               → लेढा
पूर्ववर्णः आदेशः कार्यम् सूत्रम् उदाहरणम्‌
त् + त्‌/थ् त्‌ + त्‌/थ् तकारस्य चर्त्वेन तकार एव खरि च चाचत्‌ + ति → चाचत्ति
थ् + त्‌/थ् त्‌ + त्‌/थ् थकारस्य चर्त्वेन तकारः खरि च मामन्थ्‌ + ति → मामन्त्ति
द् + त्‌/थ् त्‌ + त्‌/थ् दकारस्य चर्त्वेन तकारः खरि च अद्‌ + ति → अत्ति
ध् + त्‌/थ् द्‌ + ध् तथयोः धकारादेशः, झषस्तथोर्धोऽधः क्रोध्‌ + ता → क्रोध्‌ + धा
पूर्वधकारस्य जश्त्वेन दकारः झलां जश्‌ झशि                → क्रोद्धा
प् + त्‌/थ् प्‌ + त्‌/थ् पकारस्य चर्त्वेन पकार एव खरि च तप्‌ + ता → तप्ता
फ् + त्‌/थ् प्‌ + त्‌/थ् फकारस्य चर्त्वेन पकारः खरि च जोगुम्फ्‌ + ति → जोगुम्प्ति
ब् + त्‌/थ् प्‌ + त्‌/थ् बकारस्य चर्त्वेन पकारः खरि च लालम्ब्‌ + ति → लालम्प्ति
भ् + त्‌/थ् ब्‌ + ध् तथयोः धकारादेशः, झषस्तथोर्धोऽधः लभ्‌ + ता → लभ्‌ + धा
भकारस्य जश्त्वेन बकारः झलां जश्‌ झशि               → लब्धा
य् + त्‌/थ् त्‌/थ् यकारस्य लोपः लोपो व्योर्वलि जाहय्‌ + ति → जाहति
र् + त्‌/थ् र् + त्‌/थ् किमपि कार्यं न जागर् + ति → जागर्ति
ल् + त्‌/थ् ल् + त्‌/थ् किमपि कार्यं न पम्फुल्‌ + ति → पम्फुल्ति*
व् + त्‌/थ् त्‌/थ् वकारस्य लोपः लोपो व्योर्वलि अवसरः  नास्ति
श् + त्‌/थ् ष्‌ + ट्‌/ठ्‌ शकारस्य व्रश्चादिना षत्वम्‌, व्रश्चभ्रस्ज... क्रोश्‌ + ता → क्रोष्‌ + ता
तथयोः ष्टुत्वम्‌ ष्टुना ष्टुः                → क्रोष्टा
ष् + त्‌/थ् ष्‌ + ट्‌/ठ्‌ तथयोः ष्टुत्वम्‌ ष्टुना ष्टुः चरीकर्ष्‌ + ति → चरीकर्ष्टि
स् + त्‌/थ् स् + त्‌/थ् किमपि कार्यं न चाकस्‌ + ति → चाकस्ति
पूर्ववर्णः आदेशः कार्यम् सूत्रम् उदाहरणम्‌
ह्‌ + त्‌/थ् ढ्‌ १. हकारस्य ढकारः हो ढः लिह्‌ → लेह्‌ + ति → लेढ्‌ + ति
तथयोः धकारादेशः झषस्तथोर्धोऽधः                                           → लेढ्‌ + धि
धकारस्य ष्टुत्वेन ढकारः ष्टुना ष्टुः                                           → लेढ्‌ + ढि
पूर्वढकारस्य लोपः ढो ढे लोपः                                           → लेढि
ग्‌ + ध्‌ २. यदि धातुः दकारादिः, दादेर्धातोर्घः दुह्‌ + ते → दुघ्‌ + ते
तर्हि हकारस्य घकारः झषस्तथोर्धोऽधः                     → दुघ्‌ + धे
तथयोः धकारादेशः झलां जश्‌ झशि                      → दुग्धे
घकारस्य जश्त्वेन गः
ग्‌ + ध्‌ ३. द्रुह्‌, मुह्‌, स्नुह्‌, स्निह्‌ वा द्रुह्‌ → द्रोह्‌ + ता → द्रोघ्‌ + ता
एषां धातूनां हकारस्य द्रुहमुहष्णुहष्णिहाम्‌                                         → द्रोघ्‌ + धा
विकल्पेन घकारः, तथयोः झषस्तथोर्धोऽधः                                         → द्रोग्धा
ढ्‌ धकारादेशः, घकारस्य झलां जश्‌ झशि
द्रुह्‌ → द्रोह्‌ + ता → द्रोढ्‌ + ता
जश्त्वेन गः
हो ढः                     → द्रोढ्‌ + धा
पक्षे हकारस्य ढकारः झषस्तथोर्धोऽधः                                          → द्रोढ्‌ + ढा
ष्टुना ष्टुः                                          → द्रोढा
तथयोः धकारादेशः
ढो ढे लोपः
धकारस्य ष्टुत्वेन ढकारः
पूर्वढकारस्य लोपः
द्‌ + ध्‌ ४. नह्‌-धातोः हकारस्य नहो धः नह्‌ + ता → नध्‌ + ता
धकारादेशः, तथयोः झषस्तथोर्धोऽधः                        → नध्‌ + धा
धकारादेशः, पूर्वधकारस्य झलां जश्‌ झशि                        → नद्धा
जश्त्वेन दः
पूर्ववर्णाः आदेशः
घ्‌, झ्‌, ध्‌, भ् तथयोः धकारादेशः, पूर्वस्य जश्त्वम्‌
ढ्‌ तथयोः धकारादेशः, ष्टुत्वम्‌, ढलोपः
व्रश्चादिसूत्रे पठिताः धातवः, छ्‌, श् षत्वम्‌, तथयोः ष्टुत्वम्‌
क्‌, ख्‌, ग् चर्त्वम्‌
च्‌, ज् कुत्वम्‌, चर्त्वम्‌
ट्‌, ठ्‌, ड्‌ चर्त्वम्‌, तथयोः ष्टुत्वम्‌
त्‌, थ्‌, द् चर्त्वम्‌
प्‌, फ्‌, ब्‌ चर्त्वम्‌
य्‌, व्‌ लोपः
र्, ल्‌ न किमपि
ष्‌ तथयोः ष्टुत्वम्‌
स्‌ न किमपि
ह्‌ ढकारः/घकारः, तथयोः धकारादेशः, ढघयोः जश्त्वम्‌


धकारादौ प्रत्यये परे सन्धिकार्याणि


पूर्ववर्णः आदेशः कार्यम् सूत्रम् उदाहरणम्‌
क्‌ + ध्‌ ग्‌ + ध्‌ ककारस्य जश्त्वेन गकारः झलां जश्‌ झशि शाशक्‌ + धि → शाशग्धि
ख् + ध्‌ ग्‌ + ध्‌ खकारस्य जश्त्वेन गकारः झलां जश्‌ झशि लेलिख्‌ + धि → लेलिग्धि
ग्‌ + ध्‌ ग्‌ + ध्‌ गकारस्य जश्त्वेन गकारः एव झलां जश्‌ झशि तात्वङ्ग्‌ + धि → तात्वङ्ग्धि
घ् + ध्‌ ग्‌ + ध् घकारस्य जश्त्वेन गकारः झलां जश्‌ झशि लालङ्घ्‌ + धि → लालङ्ग्धि
च्‌ + ध्‌ ग् + ध्‌ १) चकारस्य कुत्वेन ककारः, चोः कुः पापच्‌ + धि → पापक्‌ + धि
ककारस्य जश्त्वेन गकारः झलां जश्‌ झशि                              → पापग्धि
ड्‌ + ढ्‌ २) व्रश्च्‌-धातोः व्रश्चादिना व्रश्चभ्रस्ज... वाव्रश्च्‌ + धि → वाव्रष्‌ + धि
षत्वं, धकारस्य ष्टुत्वेन ढकारः, ष्टुना ष्टुः                                → वाव्रष्‌ + ढि
षकारस्य जश्त्वेन डकारः झलां जश्‌ झशि                                 → वाव्रड्ढि
छ् + ध्‌ १) ड्‌ + ढ्‌ १) छकारस्य शत्वं तदा षत्वं, धकारस्य ष्टुत्वेन ढकारः, षकारस्य जश्त्वेन डकारः १) च्छ्वोः शूडनुनासिके १) पाप्रच्छ्‌ + धि → पाप्रष्‌ + धि
व्रश्चभ्रस्ज...                       → पाप्रष्‌ + ढि
ष्टुना ष्टुः                       → पाप्रड्ढि
झलां जश्‌ झशि
२)छकारस्य कुत्वं तदा जश्त्वम्‌
२) चोः कुः २) वावाञ्छ्‌ + धि → वावांख्‌ + धि
२) ग्‌ + ध् झलां जश्‌ झशि                       → वावाङ्ग्धि
ज् + ध्‌ ग् + ध्‌ १) जकारान्तानां कुत्वेन चोः कुः नेनिज्‌ + धि → नेनिग्‌ + धि
गकारः, झलां जश्‌ झशि                               → नेनिग्धि
गकारस्य जश्त्वेन गकारः एव
क्‌ + ध्‌ २) व्रश्चादिगणे पठितानां षत्वं, व्रश्चभ्रस्ज... यायज्‌ + धि → यायष्‌ + धि
धकारस्य ष्टुत्वेन ढकारः ष्टुना ष्टुः                               → यायष्‌ + ढि
षकारस्य जश्त्वेन डकारः झलां जश्‌ झशि                                → यायड्ढि
झ् + ध्‌ ग्‌ + ध् झकारान्तानां कुत्वेन घकारः, चोः कुः जाझर्झ्‌ + धि → जाझर्घ्‌ + धि
ककारस्य जश्त्वेन गकारः झलां जश्‌ झशि                                → जाझर्ग्धि
ट् + ध्‌ ड्‌ + ढ्‌ धकारस्य ष्टुत्वेन ढकारः, ष्टुना ष्टुः लोलुट्‌ + धि → लोलुट्‌ + ढि
टकारस्य जश्त्वेन डकारः झलां जश्‌ झशि                               → लोलुड्ढि
ठ् + ध्‌ ड्‌ + ढ्‌ धकारस्य ष्टुत्वेन ढकारः, ष्टुना ष्टुः पापठ्‌ + धि → पापठ्‌ + ढि
ठकारस्य जश्त्वेन डकारः झलां जश्‌ झशि                             → पापड्ढि
ड् + ध्‌ ड्‌ + ढ्‌ धकारस्य ष्टुत्वेन ढकारः ष्टुना ष्टुः ईड्‌ + ध्वे → ईड्ढ्वे
ढ् + ध्‌ ढ् धकारस्य ष्टुत्वेन ढकारः, ष्टुना ष्टुः तृणेढ्‌ + धि → तृणेढ्‌ + ढि
पूर्वढकारस्य लोपः ढो ढे लोपः                             → तृणेढि
पूर्ववर्णः आदेशः कार्यम् सूत्रम् उदाहरणम्‌
त् + ध्‌ द् + ध्‌ तकारस्य जश्त्वेन दकारः झलां जश्‌ झशि कृन्त्‌ + धि → कृन्द्धि
थ् + ध्‌ द् + ध्‌ थकारस्य जश्त्वेन दकारः झलां जश्‌ झशि मामन्थ्‌ + धि → मामन्द्धि
द् + ध्‌ द् + ध्‌ दकारस्य जश्त्वेन दकारः झलां जश्‌ झशि अद्‌ + धि → अद्धि
ध् + ध् द्‌ + ध् दकारस्य जश्त्वेन दकारः झलां जश्‌ झशि रुन्ध्‌ + धि → रुन्द्धि
प् + ध्‌ ब्‌ + ध्‌ पकारस्य जश्त्वेन बकारः झलां जश्‌ झशि चेक्षिप्‌ + धि → चेक्षिब्धि
फ् + ध्‌ ब्‌ + ध्‌ फकारस्य जश्त्वेन बकारः झलां जश्‌ झशि जोगुम्फ्‌ + धि → जोगुम्ब्धि
ब् + ध्‌ ब्‌ + ध्‌ बकारस्य जश्त्वेन बकारः झलां जश्‌ झशि लालम्ब्‌ + धि → लालम्ब्धि
भ् + ध्‌ ब्‌ + ध् भकारस्य जश्त्वेन बकारः झलां जश्‌ झशि रारभ्‌ + धि → रारब्धि
श् + ध्‌ ड्‌ + ध्‌ शकारस्य व्रश्चादिना षत्वं, व्रश्चभ्रस्ज... नानश्‌ + धि → नानष्‌ + धि
धकारस्य ष्टुत्वेन ढकारः, ष्टुना ष्टुः                              → नानष्‌ + ढि
षकारस्य जश्त्वेन डकारः झलां जश्‌ झशि                              → नानड्ढि
ष् + ध्‌ ड्‌ + ध्‌ धकारस्य ष्टुत्वेन ढकारः, ष्टुना ष्टुः लालष्‌ + धि → लालष्‌ + ढि
षकारस्य जश्त्वेन डकारः झलां जश्‌ झशि                               → लालड्ढि
स् + ध्‌ ध्‌ सकारस्य लोपः धि च वावस्‌ + धि → वावधि
पूर्ववर्णः आदेशः कार्यम् सूत्रम् उदाहरणम्‌
ह्‌ + ध्‌ ढ्‌ १. हकारस्य ढकारः, हो ढः लिह्‌ + धि → लिढ्‌ + धि
धकारस्य ष्टुत्वेन ढकारः ष्टुना ष्टुः                           → लिढ्‌ + ढि
पूर्वढकारस्य लोपः ढो ढे लोपः                           → लिढि
लुप्तढकारात्‌ पूर्वस्य अणः दीर्घः ढ्रलोपे पूर्वस्य दीर्घोऽणः                           → लीढि
१अ. हकारस्य ढकारः, धकारस्य ष्टुत्वेन हो ढः वावह्‌ + धि → वावढ्‌ + धि
ढकारः, पूर्वढकारस्य लोपः, लुप्तढकारात्‌ ष्टुना ष्टुः                             → वावढ्‌ + ढि
पूर्वस्य अकारस्य ओत्वम्‌ ढो ढे लोपः                             → वावढि
(सासह्‌ + धि → सासोढि) सहिवहोरोदवर्णस्य                             → वावोढि
ग्‌ + ध्‌ २. यदि धातुः दकारादिः, दादेर्धातोर्घः दुह्‌ + धि → दुघ्‌ + धि
तर्हि हकारस्य घकारः झलां जश्‌ झशि                        → दुग्धि
घकारस्य जश्त्वेन गः
ग्‌ + ध्‌ २अ. दकारादि-हकारान्तः दादेर्धातोर्घः दिह्‌ + ध्वे → दिघ्‌ + ध्वे
(+ भष्भावः) ध्वे परे, तर्हि हकारस्य एकाचो बशो भष्‌                          → धिघ्‌ + ध्वे
घकारः, आदौ बशः भष्‌ झषन्तस्य स्ध्वोः                          → धिग्ध्वे
तदा घकारस्य जश्त्वेन गः झलां जश्‌ झशि
ग्‌ + ध्‌ ३. द्रुह्‌, मुह्‌, स्नुह्‌, स्निह्‌ एषां धातूनां वा द्रुहमुहष्णुहष्णिहाम्‌ द्रुह्‌ + धि → द्रुघ्‌ + धि
हकारस्य विकल्पेन घकारः झलां जश्‌ झशि                        → द्रुग्धि
घकारस्य जश्त्वेन गः
ढ्‌
हो ढः द्रुह् + धि → द्रुढ्‌ + धि
पक्षे हकारस्य ढकारः,
                        → द्रुढ्‌ + ढि
धकारस्य ष्टुत्वेन ढकारः
ष्टुना ष्टुः                       → द्रुढि
पूर्वढकारस्य लोपः
ढो ढे लोपः                       → द्रूढि
लुप्तढकारात्‌ पूर्वस्य अणः दीर्घः
ढ्रलोपे पूर्वस्य दीर्घोऽणः
द्‌ + ध्‌ ४. नह्‌-धातोः हकारस्य नहो धः नानह्‌ + धि → नानध्‌ + धि
धकारादेशः, पूर्वधकारस्य जश्त्वेन दः झलां जश्‌ झशि                             → नानद्धि


*पम्फुल्‌ + सि → पम्फुल्षि | अत्र प्रश्नः उदेति किमर्थं गुणो न स्यात्‌ |


अस्य अवगमनार्थं यङ्लुगन्तधातुः पम्फुल्‌ कथं निष्पद्यते इति बोध्यम्‌ |


फल् → फल् फल् → प फल् → पम्फल्‌ → पम्फुल्‌ इति यङ्लुगन्तधातुः


अत्र चरफलोश्च (७.४.८७) इत्यनेन अभ्यासस्य नुक्‌-आगमः, तदा उत्परस्यातः (७.४.८८) इत्यनेन अभ्यासात्‌ परस्य ह्रस्व-अकारस्य स्थाने उत्‌-आदेशः | एताभ्यां सूत्राभ्यां पम्फुल्‌ इति यङ्लुगन्तधातुः भवति | उत्‌-आदेशस्य तपरसामर्थ्यात्‌ गुणो न भवति | यदि गुणः इष्यते स्म, ‘उ' इत्यस्य कथनेन पर्याप्तम्‌ आसीत्‌; तदा गुणः अभविष्यत्‌ | गुणकार्यस्य निवारणार्थं तपरकरणं कृतम्‌ | भाव्यमानोऽप्युकारः सवर्णान्‌ न गृह्णाति इति परिभाषा | विधीयमानः यः अण्‌-वर्णः, तस्य सवर्णग्रहणं न भवति | अन्यच्च तपरशास्त्रम्‌ अन्तरङ्गं; गुणकार्यं बहिरङ्गम्‌ | तस्मात्‌ गुणकार्यमत्र असिद्धम्‌ |


चरफलोश्च (७.४.८७) = चर्, फल्‌, इत्यनयोः धात्वोः अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | इदं सूत्रं पृथक्तया उक्तं येन अग्रे केवलं चर्, फल्‌, इत्यनयोः उत्परस्यातः (७.४.८८) इत्यनेन अभ्यासोत्तर-अतः उत्त्वं स्यात्‌ | चरश्च फल्‌ च तोरितरेतरद्वन्द्वः चरफलौ, तयोः चरफलोः | चरफलोः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यस्मात्‌ नुक्‌ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— चरफलोः च अङ्गस्य अभ्यासस्य नुक्‌ यङ्लुकोः |


उत्परस्यातः (७.४.८८) = चर्, फल्‌, इत्यनयोः धात्वोः अभ्यासात्‌ परस्य ह्रस्व-अकारस्य स्थाने उत्‌ आदेशो भवति यङि यङ्लुकि च | उत्‌ प्रथमान्तं, परस्य षष्ठ्यन्तम्‌, अतः षष्ठ्यन्तं, त्रपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य विभक्तिपरिणामं कृत्वा अभ्यासात्‌ इति अनुवृत्तिः | चरफलोश्च (७.४.८७) इत्यस्मात्‌ चरफलोः इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— चरफलोः च अङ्गस्य अभ्यासात्‌ परस्य अतः उत्‌ यङ्लुकोः |


परन्तु—


चर् → चर् चर् → च चर् → चञ्चर् → चञ्चुर् इति यङ्लुगन्तधातुः


चञ्चुर् + ति → हलि च (८.२.७७) → चञ्चूर्ति


अत्र किमर्थं दीर्घत्वं न निवारितम्‌ ?


हलि च (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति हलि परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः अतः र्वोः इत्यनेन येषाम्‌ धातूनाम्‌ अन्ते रेफः वकारश्च, तेषां ग्रहणम्‌ | हलि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः; र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— र्वोः धातोः उपधायाः इकः दीर्घः हलि |


प्रश्नः अस्ति यत्‌ तपकरणस्य सामर्थ्यात्‌ यया रीत्या गुणः निवारितः, किमर्थं न एवमेव चञ्चुर् + ति इति स्थितौ हलि च (८.२.७७) इत्यनेन यः दीर्घादेशः प्रसक्तः, सोऽपि निवारितो भवेत्‌ किल | अत्र किन्तु पूर्वत्रासिद्धम्‌ (८.२.१) इत्यनेन उत्परस्यातः (७.४.८८) इत्यस्य दृष्ट्या हलि च (८.२.७७) इत्यस्य अस्तित्वं नास्ति अतः उत्परस्यातः (७.४.८८) इति सूत्रद्वारा यत्‌ तपकरणस्य सामर्थ्यां, तद्द्वारा बाधा न सम्भ्वति | किमर्थमिति चेत्‌, उच्यते | पूर्वत्रासिद्धम्‌ (८.२.१) इत्यस्य द्विविधं कार्यम्‌ अस्माभिः अधीतं— शास्त्रासिद्धं, कार्यासिद्धञ्च | शास्त्रासिद्धं भवति यत्र सूत्रद्वयं युगपत्‌ प्रसक्तं; तत्र पूर्वसूत्रं प्रति त्रिपाद्यां स्थितं परसूत्रम्‌ असिद्धिम्‌ | अपि च त्रिपाद्यां स्थितस्य परसूत्रस्य कार्यं पूर्वमेव जातमिति चेत्‌, तत्र पूर्वसूत्रं प्रति तच्च कार्यम्‌ असिद्धम्‌ | नाम यद्यपि कार्यं जातं, तथापि न दृश्यते पूर्वसूत्रेण | अधुना अनयोः द्विविधयोः कार्ययोः मध्ये अत्र प्रकृतस्थितिः उभयत्रापि न सङ्गच्छते | यतोहि द्वयोः प्रसक्तिः युकपत्‌ नस्ति अपि च यस्य (उत्परस्यातः (७.४.८८) इत्यस्य) कार्यं जातं; तत्सूत्रं तु हलि च (८.२.७७) प्रति पूर्वसूत्रं न तु परसूत्रम्‌ | तर्हि न शास्त्रासिद्धं, न वा कार्यासिद्धम्‌ |


किन्तु वस्तुतस्तु भाष्यकारेण उच्यते यत्‌ पूर्वत्रासिद्धम्‌ (८.२.१) इत्यस्य एकविधमेव कार्यं वर्तते; द्वैविद्ध्यमिव विभजनं न करणीयम्‌ | यत्र कुत्रापि द्वयोः सूत्रयोर्मध्ये एकं सूत्रं त्रिपाद्यां, तत्र पूर्वत्रासिद्धम्‌ (८.२.१) इति सूत्रप्रसङ्गे चिन्तनीयं भवति | ‘द्विविधमेव, दिविधमेव' इति वदामश्चेत्‌ समस्या भवति, यथा अत्र | अतः शिक्षणस्य आरम्भे सुखबोधार्थं पूर्वत्रासिद्धम्‌ (८.२.१) इत्यस्य द्वैविध्यं बोधनार्थं लाभाय इति तु अस्त्यवश्यं; किन्तु अन्ततोः गत्वा यदा द्विविधं कर्यं बुद्धं, तदा सम्पूर्णकथायाः अवगमनार्थं तच्च द्वैविध्यं त्यक्त्वा इतोऽपि विशालबोधः आपनीयः | यथा अत्र— पूर्वत्रासिद्धम्‌ इत्यनेन हलि च (८.२.७७) इत्यस्य अस्तित्वं नास्ति उत्परस्यातः (७.४.८८) इत्यस्य दृष्टया अतः उत्परस्यातः (७.४.८८), हलि च (८.२.७७) इत्यस्य कार्यं बाधितुं न शक्नोति | तदर्थं हलि च (८.२.७७) कार्यं करोति, रूपं भवति चञ्चूर्ति |


१२ - तिङन्तेषु हल्सन्धिकार्याणि - सङ्ग्रहः.pdf


Swarup - July 2015 (अस्मिन्‌ करपत्रे यानि कोष्ठकानि सन्ति, तानि साक्षात्‌ मातृभिः दीक्षितपुष्पाभिः विरचितानि)




–––––––––––––––––––––––––––


धेयम्‌ -- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [click here] and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.