16 - लुट्-लकारः
अनद्यतनकालः
गतरात्रेः अन्तिमप्रहरात् आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम् अद्यतनकालः इत्युच्यते | न विद्यते अद्यतनं यस्मिन् अनद्यतनम् | अनद्यतनभविष्यत्कालस्य विवक्षायां धातुभ्यः लुट्-लकारो विधीयते | यथा 'श्वः देवदत्तः कर्ता' | 'देवदत्तः श्वः भोक्ता' | यदा अद्यतनकालश्च अनद्यतनकालश्च इति अवधिद्वयं विवक्षायाम् अन्तर्भूतं, तदा लृट्-लकारः उपयुज्यते— 'अद्य वा श्वः देवदत्तः करिष्यति’; 'अद्य वा श्वः वा देवदत्तः खादिष्यति' इति |
एकस्मिन् तिथौ अष्टौ प्रहराः वर्तन्ते | एषु चत्वारः प्रहराः दिनस्य, चत्वारः च रात्रेः | प्रथमप्रहरः आरभ्यते सूर्योदयसमये | तर्हि षड्वादने प्रथमप्रहरस्य आरम्भः इति चेत्, प्रातःकालस्य षड्वादनात् सयङ्कालपर्यन्तम् दिनस्य प्रहराः | उक्तं यत् गतरात्रेः अन्तिमप्रहरात् आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम् अद्यतनकालः | गतरात्रेः अन्तिमप्रहरः रात्रौ त्रिवादनात् षड्वादनपर्यन्तम् | आगम्यमानरात्रेः प्रथमप्रहरः इत्युक्ते सयङ्कालस्य षड्वादनात् नववादनपर्यन्तम् | अतः अद्यतनकालः इत्यस्मिन् आहत्य षड्प्रहराः सन्ति | रात्रिवेलायां त्रिवादनात् आरभ्य आगम्यमानरात्रेः नववादनपर्यनम् |
अनद्यतने लुट् (३.३.१५)
अनद्यतने लुट् (३.३.१५) = अनद्यतन-भविष्यत्कालार्थे धातोः लुट्-लकारो भवति | अनद्यतने सप्तम्यन्तं, लुट् प्रथमान्तं, द्विपदमिदं सूत्रम् | भविष्यति गम्यादयः (३.३.३) इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः; भविष्यत्-शब्दस्य 'भविष्यति' इति सप्तम्यन्तं रूपम् | धातोः (३.१.९१), प्रत्ययः (३.१.१), परश्च (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनद्यतने भविष्यति धातोः लुट् प्रत्ययः परश्च |
परिदेवने श्वस्तनी भविष्यदर्थे वक्तव्या (वार्तिकम्)
परिदेवने श्वस्तनी भविष्यदर्थे वक्तव्या (वार्तिकम्) = दुःखार्थे लुट्-लकारः अद्यतनकाले अपि भवति | 'इयं नु कदा गन्ता, या एवं पादौ निदधाति' (एषा कदा गमिष्यति या अनया रीत्या गच्छन्ती अस्ति) | 'अयं नु कदाऽध्येता, य एवम् अनभियुक्तः' (एषः कदा पठिष्यति, यः एवं प्रकारेण अलसः) |
लुटः व्यवहारः कुत्र ?
अनद्यतने लुट् (३.३.१५) इत्यस्य प्रसङ्गे काशिकायां दत्तमस्ति—
"भविष्यति इत्येव। भविष्यदनद्यतनेऽर्थे वर्तमानाद् धातोः लुट् प्रत्ययो भवति। लृटोऽपवादः। श्वः कर्ता। श्वो भोक्ता। अनद्यतने इति बहुव्रीहिनिर्देशः। तेन व्यामिश्रे न भवति। अद्य श्वो वा भविष्यति।"
अस्य अवगमनार्थं प्रथमतया 'अनद्यतने' इति शब्दप्रसङ्गे किञ्चित् वक्तव्यमस्ति | अनद्यतने लुट् (३.३.१५) इति सूत्रम् | अनद्यतने इत्युक्ते 'श्वोभावी' | भविष्यत्सामान्यम् इति नास्ति, केवलं श्वः-कालिकभविष्यत्त्वम् | एतदेव अनद्यतनम् इति भाष्यमतम् | कारणं किम् इति चेत्, यदि भविष्यत्सामान्यं सर्वम् अनद्यतनशब्देन गृह्यते, तर्हि 'अनद्यतने' इति नामकरणं किमर्थम् ?अद्यतनस्य निषेधं करोति इत्युक्ते अद्यतनकालेऽपि भावी वर्तते इति कृत्वा अद्यतनभविष्यत्कालस्य प्रतिषेधं करोति | कथनस्य आशयः एवं यत् अद्यतनभविष्यत्कालस्य समीपकालः एव अनद्यतनकालः इति विवक्षितम् | नाम अद्यतनभविष्यद्भिन्नः अद्यतनभविष्यत्सदृशः | यथा 'अनश्वम् आनय' इति आदेशः प्राप्यते चेत् कश्चित् पक्षी आनीयते किम् ? न, पक्षी नानीयते | अश्वभिन्नः अश्वसदृशः चतुष्पादः पशुविशेषः आनेतव्यः | एवमेव अद्यतनभिन्नः इत्युक्ते अद्यतनभविष्यत्कालस्य निषेधम् इत्यस्य कथनेन अद्यतनभविष्यत्कालसमीपभविष्यत्कालः एव अनद्यतनशब्देन विवक्षणीयः | निषेधः इत्युक्ते अद्यतनभविष्यद्भिन्नत्वे सति अद्यतनभविष्यत्सदृशकालः | अनेन अनद्यतनभविष्यत्कालः नाम श्वः एव | “अद्य भवति, श्वो भविता" | इति भाष्यकारमतम् |
अधुना लोके तु अयं नियमः 'लुट्-लकारः श्वः एव' इति तु अनुस्रियमाणः न वर्तते | मासात् परम् आगमिष्यति चेदपि "कदा आगन्ता" इति व्यवह्रियते | एवं चिरभूतकालेऽपि अनद्यतने लङः व्यवहारः दृश्यते, यथा मासात् पूर्वं चेदपि "सः पाठम् अपठत्" इति प्रयुज्यते | ईदृशस्थले किं कर्तव्यम् इति विचिन्त्य नागेशः वदति कालः अत्यन्तव्यतीतश्चेदपि, मासात्मकः कालः अतीतः चेदपि ह्यः एव अतीतः इति अनुभूयमानम् अस्ति चेत् लङ्-लकारं प्रयोक्तुं शक्यते | कथमिति चेत्, मासे अतीतेऽपि ह्योभूतत्वम् आरोपणीयम् | एवमेव अतीतसंवत्सरस्य काले केवलं ह्योभूतत्वम् आरोपणीयम् |
निदर्शने विद्यार्थिनः विद्यालये पठन्ति; यदा विरामं यच्छन्ति तदा गृहञ्च गच्छन्ति | गृहे उषित्वा मासानन्तरं वदन्ति, “अरे मासः अतीतः ! ह्यः एव आगतवान् अस्मि |” अनेन अतीतमासात्मके काले ह्योभूतत्वं तैः अनुभूयते | मासः अतीतः, किन्तु ह्यः एव आगतवान् इति अनुभवः | एवम् अत्यन्तव्यतीतकालः अस्ति चेदपि नागेशः एतादृशः व्यवहारः असाधुः न इति उक्तवान् | चिरातीतेऽपि ह्योतीतत्वम् |
एवमेव अत्यन्तविलम्बितभविष्यत्यपि श्वोभावित्वम् | यथा निश्चितविवाहः यदा यदा समीपे भविष्यति, तदानीं किं भवति ? तद्विषयकचिन्तनं यदा अतिशयेन क्रियते तदानीं कालः न गच्छन्नेव भाति | अतः श्वोभावी अपि अतीव विलम्बितभावी इतिवत् भासते कदाचित् | अनेन अत्यन्तदूरभावी अपि श्वोभावी इत्यपि कदाचित् भवितुमर्हति, भावनया | लोकेऽपि ईदृशः अनुभवः व्यवहारश्च वर्तते | चिरभाविन्यपि श्वोभावित्वम् | शास्त्रज्ञाः तथापि आरोपं कृत्वा 'सामान्यभूतकाले लुङ्-लकारः प्रयोक्तव्यः, सामन्यजनाः सदा लङ्-लकारस्य व्यवहारं कुर्वन्ति' इति आक्षेपान् कुर्वन्ति | अस्य च समाधानं नागेशेन उक्तं, विशिष्टस्थितिषु |
नागेशस्य आरोपः कथं कल्पितः इति प्रश्ने सति अन्यत् उदाहरणम् अस्ति क्त्वा-प्रत्यये | समानकर्तृकयोः पूर्वकाले (३.४.२१) इत्यनेन क्त्वा-प्रत्ययः | समानः कर्ता ययोः धात्वर्थयोः तत्र पूर्वकाले धात्वर्थे वर्तमानाद् धातोः क्त्वा प्रत्ययो भवति | समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् | स्नात्वा भुक्त्वा पीत्वा व्रजति | 'भुक्त्वा व्रजति' इत्युक्ते भोजनसमनन्तरम् एव व्रजति इति न, नाम तत् आनन्तर्यम् अव्यवहितं न | “सः दशमकक्ष्याम् अधीत्य, शास्त्रिकक्ष्याम् अधीत्य, आचार्यकक्ष्याम् अधीत्य उद्योगं प्राप्तवान् उच्यते चेत्, अव्यवहिततया संजातम् इति वक्तुं न शक्यते | नाम अत्यन्तं व्यवहितः कालः भवति चेदपि तद्व्यवधानम् अव्यवधानं कृत्वा क्त्वा-प्रत्ययः साधुः इति वक्तव्यम् | अतः व्यवहितकालः अपि कदाचित् अन्यथा आरोप्यते इति सिद्धान्तः |
'भुक्त्वा गच्छति' इत्यादिषु स्थितिषु सामान्यतया अव्यवहिततया आनन्तर्यं विवक्षितम् | सूत्रे नोक्तं, किन्तु समानकर्तृकयोः पूर्वकाले (३.४.२१) इत्यनेन समानः कर्ता ययोः तौ समानकर्तृत्कौ | अनेन समानकर्तृकव्यापारद्वयम् इति यदा उच्यते, तदानीं तौ च समानकर्तृत्कौ व्यापारौ प्रत्यासत्तिन्यायेन यदि चिन्त्यते, अव्यवहितौ इति लभ्यते | प्रत्यासत्तिन्यायः नाम प्रत्यासन्ने बुद्धिरन्तरङ्गा भवति | इत्युक्ते समीपवर्तिनि पदार्थे बुद्धिः झटिति प्रवर्तते | धातुव्यापाराश्रयः कर्ता इत्यनेन यदा कोऽपि पचति, पच्-धात्वर्थव्यापाराश्रयः, यदा पाकं कुर्वन् अस्ति तदानीं तस्मिन् कर्तरि गम्-धात्वर्थव्यापाराश्रयत्वं नास्ति खलु | तर्हि सः कर्ता कीदृशः भवति ? प्रकृतधात्वर्थव्यापाराश्रयत्वं कर्तृत्वम् इति उच्यते | अत्र वक्तव्यं यत् प्रत्यासत्तिन्यायः इत्युक्ते प्रत्यासन्ने बुद्धिरन्तरङ्गा भवति | समीपवर्तिनि पदार्थे बुद्धिः शीघ्रं प्रवर्तते | एवं च समानकर्तृकौ तौ व्यापारौ इत्युक्ते प्रत्यासन्नौ एव तौ व्यापारौ ग्राह्यौ | प्रत्यासन्नौ इत्युक्ते अव्यवहितौ | उदाहरणार्थम् 'अद्य विरामः' इत्युक्तम् | तर्हि श्रुत्वा छात्रः पुस्तकं स्यूते संस्थाप्य उत्थाय गन्तुम् उद्युक्तः जातः | तदानीं तस्य बुद्धिः कथं कार्यं करोति इति चेत्, ‘अद्य विरामः' इत्युक्ते अत्रत्यः संस्थायाः एव विरामः | यतः इदानीम् अस्माकं सन्निहिततया इयमेव संस्था अस्ति अतः अत्रैव विरामः इति आशयेन अनेन उक्तम् | इति अवगत्य सः पुस्तकं स्यूते संस्थाप्य गन्तुम् उद्युक्तः |
किन्तु अस्य न्यायस्य विरुद्धन्यायः अपि अस्ति | व्याप्तिन्यायः इति | अनेन बुद्धिः सर्वत्र व्यापिका भवति | अनेन 'अद्य विरामः' इत्युक्तं चेदपि 'कस्य विरामः' इति प्रश्नः उदेति | वित्तकोषस्य विरामो वा ? अथवा देहल्यां सर्वकारविरामो वा, अथवा अपरस्मिन् देशे यन्त्रागारे विरामो वा ? एवं रीत्या कश्चित् पृच्छन्नस्ति इत्युक्ते तस्य बुद्धिः कथं चिन्तयन्ती अस्ति ? अत्र वयं विद्यमानाः सत्यं, किन्तु अत्रैव विरामः इति किमर्थम् ? सर्वदा तथैव वदेत् इति किम् ? अन्यविषयकविरामम् इदनीं किमर्थं न वदेत् ? अन्यविषयकतयापि विरामं वदामः कदाचित् | किन्तु सः विरामः अन्यसंस्थाविषयको वा अथवा अत्र संस्थाविषयको वा इति संशयं प्राप्य सः पृच्छति 'कस्य विरामः ?’ देहल्यां विरामः वा, यन्त्रागारस्य विरामः वा, कस्यचित् विद्यालयस्य विरामः वा इत्येवं तथा पृच्छन्नस्ति इत्युक्ते तस्य बुद्धिः व्यापकतया कार्यं करोति |
एवं च समानकर्तृकयोः पूर्वकाले (३.४.२१) इत्यत्र समानः कर्ता ययोः तौ समानकर्तृकौ इत्यत्र प्रत्यासत्तिः लभ्यते द्विवचनात् | यदि प्रत्यासत्तिः उच्यते तर्हि अव्यवधानं विवक्षितम् इति अर्थः आयाति | यदि प्रत्यासत्तिः न विवक्षिता इति उच्यते, तदानीं व्याप्तिन्यायेन मध्ये व्यवधानम् अस्ति चेदपि व्यवधानम् अविवक्षित्वा पूर्वकालमात्रम् अस्ति इति कृत्वा व्यवहारः | सोऽपि पक्षः अस्ति | अत्र समानकर्तृकयोः इति द्विवचननिर्देशात् तौ व्यापारौ अव्यवहितौ प्रत्यासत्तिन्यायेन बहुशः उच्यते |
आहत्य 'अनद्यतन' इति श्वस्तन्याः च ह्यस्तन्याः संज्ञा | परञ्च लोके तद्विहायोपि प्रयोगः भवति इति दृष्ट्वा नागेशः मध्यमार्गं दत्तवान् | अनेन च लङि मासात् पूर्वम् अपठत् इति व्यवहारः सम्भवति यत्र ह्योभावो वर्तते,यत्र "ह्यः एव पठितवान्" इति अनुभूयते | एवमेव लुटि भविष्यत्कालेऽपि |
लृटः व्यवहारः कुत्र ?
अधुना प्रश्नः अस्ति यत् लृटः स्थानं किम् ? 'अनद्यतन'-शब्दस्य अर्थः कः, भाष्यकारस्य शिक्षा श्वोभावी, नागेशस्य च चिन्तनं यत् अनद्यतने लङि ह्योभावः, अनद्यतने लुटि श्वोभावश्च | अधुनापि मनसि जिज्ञासा वर्तते यत् लृटोऽपवादः इत्यस्य कथनेन 'अपवाद'-शब्दस्य कोऽर्थः ? व्याकरणे, यः अपवादभूतः तस्य एव प्राप्तिः न तु अन्यस्य | अनेन लृटः स्थानं किम् अपि च केन तर्केण ? अपि च भाष्यकारस्य मतमनुसृत्य लुट्-लकारस्य क्षेत्रं श्वः एव इति चेत्, "अग्रिमे सप्ताहे/मासे/वर्षे" इति कस्य लकारस्य क्षेत्रम् ?
लृटोऽपवादः इत्यनेन लुट्-लकारः लृटः अपवादः एव | नाम भविष्यत्सामान्ये विहितः लृट्; अनद्यतनभविष्यद्विशेषे अर्थात् श्वोभाविरूपभविष्यद्विशेषे अयं लुट्-लकारः विधीयते इति हेतोः येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति इति न्यायेन एकः अपरस्य अपवादः | यत्कर्तृकः अवश्यप्राप्तौ सत्यां, नाम यः विधिः अवश्यं प्राप्नोति, एवम् अस्मिन् विधौ प्राप्ते सति पुनः अन्यः विधिः आरभ्यते चेत्, स च पुनः आरभ्यमाणः विधिः अवश्यप्राप्तविधिं बाधते | प्रकृतौ भविष्यत्सामान्ये विहितः लृट् इति कृत्वा लृटः अवश्यप्राप्तिरस्ति | श्वोभविष्यत्यपि भविष्यदेव, एवं तद्भिन्नं भविष्यत्सामान्यमपि भविष्यदेव | अतः भविष्यत्वनिमित्तकतया लृट्-लकारः प्राप्नोति | येन नाप्राप्ते यत्कर्तृक-अवश्यप्राप्तौ सत्यां, लृट्कर्तृक अवश्यप्राप्तौ सत्यां यो विधिरारभ्यते, लुट्-विधिरारभ्यते, अयं लुड्विधिः तस्य, नाम लृटः, लृट्-विधेः बाधकः भवति | अतः "श्वः गमिष्यामि" इति तु न भवतीत्येव |
लृट् भवति कुत्र ? काशिकायाम् ‘अनद्यतने' इति बहुव्रीहिः इति यदा उक्तं तदानीं व्यामिश्रे लुट् न भवति | विग्रहवाक्यम् अस्ति 'अविद्यमानः अद्यतनः यस्मिन् सः'| अद्यतन-अनद्यतनभविष्यतोः संयोगः यत्र भवति तत्र व्यामिश्रः | तत्पुरुषः उच्यते चेत्, विग्रहवाक्यम् अस्ति ‘न अद्यतनः' इत्युक्ते अद्यतनमात्रं न, किन्तु अन्यः अपि भवितुमर्हति | अद्यतनभेदः अद्यतन-अनद्यतनव्यामिश्रे अपि अस्ति | अतः तत्पुरुषः अस्ति चेत्, व्यामिश्रे अपि भवति | इत्युक्ते अद्यतनकालः अस्ति चेत्, एवम् अनद्यतनकालः अस्ति चेत्, नाम अद्यतन-अनद्यतनव्यामिश्रः अस्ति चेत्, तदानीं सः केवलम् अद्यतनः न, अनद्यतनः अपि अस्ति | अतः अद्यतनभेदः अस्ति | अद्यतनभिन्नत्वे सति तत्रापि (व्यामिश्रे) लुट्-लकारः स्यात् | तस्य निवारणार्थं बहुव्रीहिसमासः—'अविद्यमानः अद्यतनः यस्मिन् सः' इत्यनेन अद्यतनस्य निषेधः एव उच्यते | अनेन व्यामिश्रः न सम्भवति |
अद्यतनभविष्यत्-अनद्यतनभविष्यतोः उभयोरपि प्राप्तौ तदानीं लुट् न भवति | यत्र अद्यतनभविष्यत्-अनद्यतनभविष्यतोः मिश्रणम् अस्ति तत्र लृट् | अपि च श्वोभिन्नभविष्यत्कालेऽपि भवति लृट् | परश्वः आरभ्य लृट्-लकारः एव भवति | लुट्-लकारः श्वोभाविन्येव भवति | नागेशस्य कथनमस्ति यत् तद्भिन्नभविष्यत्काले अपि भवितुमर्हति आरोपात् | वस्तुतः परश्वोभावी कालः अस्ति चेत् लुट्-लकारः न प्राप्नोति | किन्तु तादृशे काले अपि श्वोभावित्वम् आरोप्यते, नाम परश्वोभाविनि काले श्वोभावी कालः आरोप्यते अतः कथञ्चित् भावनया तादृशानां प्रयोगाणां समर्थनं कृतम् अस्ति | नो चेत् भाष्यकारस्य मतम् अस्ति यत् लुट्-लकारः नाम केवलं श्वः | परश्वः, अग्रिमे सप्ताहे, अग्रिमे मासे, अग्रिमे वर्षे च लृट्-लकारः | अद्य च परश्वः आरभ्य लृट्-लकारः |
तर्हि एतावता उक्तं यत् 'अनद्यतन' इत्यस्य कथनेन 'अद्यतनस्य निषेधः' नाम 'अद्यतनसमीपकालः' एव सूत्रकारैः विवक्षितः | किन्तु वस्तुतस्तु अयं शब्दः 'अद्यतन' किञ्चित् रहस्यजनकः | एकः प्रश्नः उदेति यत् शास्त्रकारैः 'अनद्यतन' इति एव उक्तं; "श्वः एव”, ‘श्वस्तन' इति वक्तुं शक्तवान् किन्तु नोक्तम् | किमर्थं साक्षात् नोक्तवान् ? उत्तरत्वेन उच्यते यत् सूत्रकारः ज्ञात्वा साङ्केतिकरीत्या उक्तवान् एवम् इच्छन् यत् जनाः चिन्तयेयुः | यथा औतोऽम्शसोः (६.१.९३) इति सूत्रे 'औतः' इत्यनेन "आ + ओतः" इति कथं ज्ञायेत अस्माभिः ? (आ-लुप्तविभक्तिकम्, ओतः पञ्चमी-एकवचनम् |) यावत् व्याख्यानं न पश्यामः तावत् आ-कारः अपि अस्ति इति न ज्ञायते | सूत्रकाराः अस्मान् शिक्षयन्ति; तेषाम् इच्छा अस्ति यत् "चिन्तनं कुर्वन्तु" |
अतः वयम् अनुमानं कृत्वा भावयामः यत् अर्थः एतादृशः स्यात् | नो चेत् अद्य अपि बहवः एतादृशजनाः सन्ति ये चिन्तयन्ति यत् 'अनद्यतन' इत्युक्ते "अद्य त्यक्त्वा अग्रे गत्वा यावत् अस्ति तावत् सर्वम्" | किन्तु तथा सूत्रकारस्य आशयः न स्यात् | अद्यतनं त्यक्त्वा सर्वोऽपि अनद्यतनः भवति चेत्, पुनः भविष्यत्सामान्ये लृट्-लकारः इति कथं वा 'सामान्यम्' वदेम ? अपि च भविष्यत्सामान्ये लृट्-लकारः, अनद्यतने भविष्यत् लुट्-लकारः इति भेदं किमर्थं वक्ष्यति सूत्रकारः ? स्वारस्यम् अत्र नास्ति | नाम "भवान् आगच्छतु, किन्तु अद्य न" इति यदा उच्यते तदा तस्य आशयः अद्यतनभिन्नश्वोभावी इति समीपे एव | दशानां वर्षाणाम् अनन्तरम् इति नार्थः | अद्यतनस्य प्रतिषेधात् अयं समीपकालः इति अर्थः ग्रहीतुं युज्यते इति प्रतिभाति | आहत्य लुट्-लकारस्य व्यवहारः अतीव विशिष्टः न तु लृट्-लकारस्य | लृट्-लकारः सामान्यं न तु लुट्-लकारः | 'अनद्यतन' इत्यनेन "अद्य त्यक्त्वा अग्रे गत्वा यावत् अस्ति सर्वम्" इति स्वीक्रियते चेत्, लुट्-लकारः एव सामान्यं भवति | किन्तु लुट्-लकारः एव विशिष्टः | प्रत्येकं भाषायाम् एकः विशिष्टः व्यवहारः भवति "quite recently completed actions”, अपि च "that which is very soon to take place” इत्यर्थम् | संस्कृतभाषायां तदेव 'अनद्यतन' इत्यनेन उक्तं, नाम अनद्यतनभूते लङ्-लकारः, अनद्यतनभविष्यति लुट्-लकारश्च | एवं कृत्वा "recently finished actions”, “about to come future actions” | यत् ह्यः जातं तदर्थं लङ्-लकारः, यत् श्वः जायमानमस्ति तदर्थं लुट्-लकारः | अथवा यत्र तादृशभावः अध्यारोपितः वर्तते, यथा निश्चितविवाहे |
सारांशत्वेन अस्माकं शुकवनम् महोदयः एतत् कोष्ठकं निर्मितवान्—
पञ्च उपाङ्गानि
यदा आर्धधातुकप्रत्ययः धातुभ्यः विधीयते तदा अङ्गकार्यात् प्राक् पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति | इमानि पञ्च उपाङ्गानि सन्ति—
१) प्रत्ययादेशः
२) धात्वादेशः
३) इडागमः
४) अतिदेशः
५) द्वित्वम् अभ्यासकार्यञ्च
संस्कृतभाषायां द्वित्वं केवलं पञ्चसु स्थलेषु भवति— लिटि, सनि, चङि, यङि, श्लौ | लुट्-लकारे न भवति, अतः अत्र चत्वारि उपाङ्गानि द्रष्टव्यानि |
१) प्रत्ययादेशः
अत्र लुट्-लकारस्य सिद्धतिङ्प्रत्ययानां प्रक्रिया प्रदर्श्यते | मनसि भवेत् यत् पूर्वं कश्चन धातुः अस्ति, ततश्च विवक्षामनुसृत्य लुट्-लकारो विधीयते |
धातुः → अनद्यतने लुट् (३.३.१५) इत्यनेन अनद्यतन-भविष्यत्कालार्थे धातोः लुट्-लकारो भवति
लुट् → उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन उपदेशे उकारः अनुनासिकः अतः तस्य इत्-संज्ञा; हलन्त्यम् (१.३.३) इत्यनेन टकारस्य इत्-संज्ञा; तस्य लोपः (१.३.९) इत्यनेन द्वयोः लोपः → ल् → स्यतासी लृ-लुटोः (३.१.३३) इत्यनेन लुटि परे धातुतः तास्-प्रत्ययः → लस्य (३.४.७७), तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ (३.४.७८) इति द्वाभ्यां सूत्राभ्याम् अष्टादश मूलतिङ्प्रत्ययाः विधीयन्ते |
स्यतासी लृ-लुटोः (३.१.३३)
स्यतासी लृ-लुटोः (३.१.३३) = लृटि लृङि च परे धातुतः स्य; लुटि परे धातुतः तासि भवति | तासेरिकारः उच्चारणार्थः | स्यश्च तासिश्च तयोरितरेतरद्वन्द्वः स्यतासी | लृ च लुट् च तयोरितरेतरद्वन्द्वः लृलुटौ, तयोः लृलुटोः | स्यतासी प्रथमान्तं, लृलुटोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | धातोः (३.१.९१), प्रत्ययः (३.१.१), परश्च (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः परश्च स्यतासी प्रत्ययौ लृलुटोः |
प्रथमपुरुषे लुटः प्रथमस्य डारौरसः (२.४.८५) इत्यनेन परस्मैपदे तिप् → डा, तस् → रौ, झि → रस्; आत्मनेपदे त → डा, आताम् → रौ, झ → रस् |
लुटः प्रथमस्य डारौरसः (२.४.८५)
लुटः प्रथमस्य डारौरसः (२.४.८५) = लुट्-लकारस्य प्रथमपुरुषस्थाने क्रमेण डा, रौ, रस् इत्यादेशाः भवन्ति | परस्मैपदे तिपः स्थाने डा, तसः स्थाने रौ, झि इत्यस्य स्थाने रस् | आत्मनेपदे त-स्थाने डा, आताम्-स्थाने रौ, झ-स्थाने रस् | डश्च रौश्च रश्च तेषामितरेतरद्वन्द्वः, डारौरसः | लुटः षष्ठ्यन्तं, प्रथमस्य षष्ठ्यन्तं, डारौरसः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— लुटः प्रथमस्य डारौरसः |
अनेकाल्शित् सर्वस्य (१.१.५५)
अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन डा-प्रत्ययः अनेकाल् अतः सर्वस्य स्थाने आदेशः भवति | अत्र प्रश्नः उदेति यत् डकारः इत्संज्ञकः इत्यतः 'डा' इति कथम् अनेकाल् उच्येत | परिभाषेन्दुशेखरग्रन्थे परिभाषा अस्ति नानुबन्धकृतमनेकाल्त्वम् (परिभाषा ६) | अनेन यस्य वर्णस्य इत्संज्ञा अस्ति, तेन वर्णेन अनेकाल्त्वं न सिध्यति | अतः एतस्मात् डा इति अनेकाल् न स्यात् | परन्तु ततः अग्रे तस्मिन्नेव ग्रन्थे दत्तमस्ति यत् डादिविषये तु सर्वादेशत्वं विनानुबन्धत्वस्यैवाभावेनानुपूर्व्यात्सिद्धम् | डादिविषये तु सर्वादेशत्वं विनानुबन्धत्वस्यैवाभावेन—तात्पर्यम् एवं यत् यावत् तिपः स्थाने 'डा' नागच्छेत् तावत् तिपि विद्यमानप्रत्ययत्वं डा-आदेशे न भवति | प्रत्ययत्वं डा-आदेशे नास्ति चेत्, चुटू (१.३.७) इत्यस्य प्रसक्तिर्नास्त्येव | अतः इत्संज्ञा नास्ति, अनुबन्धत्वं च नास्ति | अतः 'परस्मैपदे तिप् → लुटः प्रथमस्य डारौरसः (२.४.८५)' इति स्थले डा-आदेशस्य प्रत्ययत्वाभावात् अनुबन्धत्वं नास्ति, तस्माच्च नानुबन्धकृतमनेकाल्त्वम् (परिभाषा ६) इति परिभाषायाः प्रसक्तिर्नास्ति | अनेन अलोऽन्त्यस्य (१.१.५२) इत्यनेन तिपः इकारस्यैव स्थाने डा इति निवार्यते |
अनेकाल्शित् सर्वस्य (१.१.५५) = आदेशः अनेकाल् शित् च चेत्, सर्वस्य स्थाने आदेशः भवति न तु अन्त्यस्य | अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः | अनेकः अल् यस्य सः अनेकाल्, बहुव्रीहिः | श इत् यस्य सः शित्, बहुव्रीहिः | अनेकाल् च शित् च अनेकाल्शित्, बहुव्रीहि-गर्भ-समाहारद्वन्द्वः | अल् इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः; अनेकाल् इत्युक्तौ तादृशः आदेशः यस्मिन् एक एव वर्णः न अपि तु अनेके वर्णाः | अनेकाल् प्रथमान्तं, शित् प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अनेकाल्शित् सर्वस्य स्थाने |
चुटू (१.३.७) = प्रत्ययस्य आदौ चवर्गीयः (च्, छ्, ज्, झ्, ञ्), अथवा टवर्गीयः (ट्, ठ्, ड्, ढ्, ण्) वर्णः भवति चेत्, तस्य वर्णस्य इत्-संज्ञा भवति | चुश्च टुश्च तयोः इतरेतरद्वन्द्वः, चुटू (द्विवचने, गुरु-शब्दः इव) | चुटू प्रथमान्तम्, एकपदमिदं सूत्रम् | वचनविपरिणामं क्रियते | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदी चुटू इतौ |
प्रश्नः अस्ति यत् डा-आदेशस्य प्रत्ययत्वं कदा जायते ? तिप्-प्रत्ययस्य स्थाने आगमनसमये एव जायते, अथवा आगमनात् पूर्वं जायते ? यदा आदेशः प्रक्रियाक्रमेण प्रत्ययस्य स्थाने आगच्छति, तदा स्थानिवद्भावेन प्रत्ययसंज्ञा प्राप्यते इति सामान्यबोधः, नाम नूतनसंज्ञा प्राप्यते यदा स्थाने आगतः; आगमनात् पूर्वं न प्राप्यते | एषः विचारः सिद्धान्तकौमुदीकारस्य दीक्षितस्य मतम्—'डा' इत्यस्य आदेशानन्तरं स्थानिवद्भावेन प्रत्ययः; आदेशात् पूर्वं सः प्रत्ययः न | प्रत्ययः न भवति चेत् अनेकाल्त्वात् सर्वादेशत्वं भवति | सर्वादेशानन्तरं प्रत्ययत्वम् आगतं स्थानिवद्भावेन | अनन्तरं प्रत्ययत्वात् डकारस्य इत्संज्ञायां लोपः इति प्राचीनानाम् आशयः | चुटू (१.३.७) इत्यनेन प्रत्ययस्य आदौ चवर्गीयः अथवा टवर्गीयः वर्णः भवति चेत्, तस्य वर्णस्य इत्-संज्ञा भवति | तदा तस्य लोपः (१.३.९) इत्यनेन इत्संज्ञकवर्णस्य लोपः | अदन्तसर्वनामस्थले जसः शी (७.१.१७) इत्यस्य अपि एवमेव स्थितिः | (सर्व + जस् → सर्व + शी → सर्व + ई → सर्वे |) लिटि परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (३.४.८२) इत्यनेन णलादीनाम् आदेशे अपि इयमेव स्थितिः | तिपः स्थाने णल्-आदेशः—आदेशात् पूर्वं सः प्रत्ययः न, आदेशः एव; लकारस्य एव लोपः, ’ण’ इत्यस्य अनेकाल्त्वात् सर्वादेशः | सर्वादेशस्य अनन्तरं स्थानिवद्भावेन प्रत्ययत्वात् इत्संज्ञा, णकारलोपः | एवञ्च जसः शी (७.१.१७) इति स्थले वा, परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (३.४.८२) इति स्थले वा, लुटः प्रथमस्य डारौरसः (२.४.८५) वा ईदृशी स्थितिः आश्रयणीया इति दीक्षितादीनां प्राचीनानां मतम् | आहत्य इत्संज्ञकत्वम् अनुबन्धत्वं, नाम इत्संज्ञावत्त्वम् अनुबन्धत्वम् |
नागेशभट्टः परिभाषेन्दुशेखरकारः | नागेशादीनां नव्यानां मते तु इत्सज्ञायोग्यत्वमेव अनुबन्धत्वम् | लिटि परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (३.४.८२) इति स्थले प्रथमपुरुषैकवचने तिपः स्थाने णल् | एवमेव उत्तमपुरुषैकवचने मिपः स्थाने णल् | अस्मिन् स्थलद्वये आदेशानन्तरं प्रत्ययसंज्ञा, स्थानिवद्भावेन साधयितुं शक्यते | किन्तु मध्यमपुरुषबहुवचने स्थानी 'थ'-प्रत्ययः | तस्य स्थाने 'अ' इति आदेशः कर्तव्यः | णल् इति स्थले णकारः, अकारः, लकारः, लकारस्य इत्संज्ञायां णकार-अकारौ वर्तेते | परन्तु मध्यमपुरुषबहुवचने आदेशत्वेन 'अ' इति एक एव वर्णः अस्ति | तर्हि अत्र कथं सर्वादेशः इति प्रश्नः; अत्र अनेकाल्त्वं नास्ति | अत्र प्रश्लेषनिर्देशः कर्तव्यः, इत्युक्ते अ + अ इत्यनयोः प्रश्लेषे, अतो गुणे (६.१.९६) इत्यनेन 'अ' | ‘अ' इति आदेशः अनुकार्यरूपः | तस्य अनुकार्यरूपस्य अनुकरणम् एतत् प्रश्लिष्ट-अकारद्वयमपि | अकारयोः पररूपे कृते यत् 'अ' इति जातं, तस्य अनुकरणं सूत्रे कृत्वा परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (३.४.८२) इति सूत्रे तु पररूपनिष्पन्नस्य अनुकरणं कृतवान् पाणिनिः | किन्तु पररूपनिष्पादात् पूर्वं वर्णद्वयमेव अस्ति अतः प्रश्लेषणनिर्देशेन अनेकाल्त्वात् आदेशः इति वक्तव्यम् | तर्हि किं जातम् ? मध्यमपुरुषे प्रश्लेषः अनिवार्यः चेत्, तस्मिन् अनिवार्यत्वे प्रथमपुरुषैकवचनेऽपि प्रश्लेषः एव भवतु | अतः इत्संज्ञावत्त्वम् अनुबन्धत्वं न अपि तु इत्सज्ञायोग्यत्वमेव अनुबन्धत्वम् इति नव्यानां मतम् |
अन्यत् स्थलमस्ति यत्र इत्संज्ञावत्त्वम् अनुबन्धत्वं कार्यं न करोति; निदर्शनात् पूर्वम् एकः सिद्धान्तः उपस्थापनीयः | प्रश्नः अस्ति यत् किञ्चन शब्दस्वरूपं कदा प्रत्ययः भवति ? प्रत्याययति इति प्रत्ययः | एकं शब्दस्वरूपं तदा प्रत्ययः उच्यते यदा तच्च शब्दस्वरूपं प्रत्ययस्य कार्यं करोति | कर्तृकर्मकरणादिरूपम् अर्थं बोधयति, प्रत्याययति इति प्रत्ययः | अतः धातोः (३.१.९१) वा ङ्याप्प्रादिपदिकात् (४.१.१) वा इति अधिकारे भवेत्, ततः प्रत्ययः विधीयते चेदेव प्रत्ययत्वेन अभिमतः | धातोः परत्वेन यावत् पर्यन्तं न भवति, नाम सूत्रावस्थायाम्, उपदेशावस्थायां यावत् तिष्ठति, तावत् पर्यन्तं सः प्रत्ययः नास्ति | अस्ति किम् ? शब्दस्वरूपम् | यावत् राष्ट्रपतेः शपथः न स्वीक्रियते, तावत् सः राष्ट्रपतिः नास्ति | तस्मात् प्राक् सः केवलं मनुष्यसंज्ञकः | एवमेव यावत् स च प्रत्ययः प्रत्ययस्य कार्यं न करोति, तावत् सः किञ्चन शब्दस्वरूपमात्रम् | यथा सुबादयः विधानात् पूर्वं प्रत्ययाः न सन्ति | अतः प्रत्याययति इति प्रत्ययः |
एवमेव यावत् धातोः परतः प्रत्ययो न भवति, तावत् सः धातुः अपि नास्ति | क्रियावाचकः धातुः | क्रियां कदा बोधयति सः ? इति चेत्, स्ववाच्य-अर्थ-आश्रयः अग्रे अस्ति यदा, तदा | क्रियायाः आश्रयबोधकः कश्चन शब्दः परत्र अस्ति चेत्, तदानीं स च 'धातुः'; तदानीं सः क्रियां बोधयति | आश्रयबोधकप्रत्ययं विना अयं ’धातुः’ क्रियां कथं बोधयेत् ? आश्रयं विना क्रिया स्वरूपतः न भवति; क्रियायाः आश्रयाकाङ्क्षा भवति | वयम् उपदेशावस्थायां 'भू'-धातुः, 'गम्'-धातुः इति वदामः, किन्तु वस्तुतः 'गम्' + 'लट्' इति स्थितौ एतावता गम्, धातुः तु नास्ति यतोहि एतावता क्रियां न बोधयति | यः तां क्रियां करोति, स च आश्रयः अपेक्षते | आश्रयः इत्युक्ते आश्रयबोधकप्रत्ययः अपेक्षते | यथा तिप्-प्रत्ययः कर्तृबोधकः | अतः गणपाठे ये धातवः सन्ति, ते धातवः न सन्ति | वयं व्यवहरामः तथा, धातुः इव, भाविधातुत्वं मत्वा | इतःपरं प्रत्ययः यदा आगमिष्यति, तदा आरभ्य सः अपि प्रत्ययः, अयमपि धातुः |
अन्यत् प्रधानस्थानं यत्र इत्संज्ञायोग्यत्वम् अनुबन्धत्वं न अपि तु इत्संज्ञावत्त्वम् अनुबन्धत्वं प्रयुज्यते चेत् समस्या जायते—दा-धातोः च धा-धातोः च एकः 'ण' नामकः कृत्-प्रत्ययः विधीयते | नित्यविधानमिदं, सर्वेभ्यः आकारन्तेभ्यः धातुभ्यः | तदा ददातिदधात्योर्विभाषा (३.१.१३९) इत्यनेन ण-प्रत्ययस्य विकल्पेन बाधकः श-प्रत्ययः अस्ति | अनुवृत्तिसहितसूत्रम्—अनुपसर्गात् ददाति-दधात्योः धात्वोः शः कृत् प्रत्ययः परश्च विभाषा | अनेन श-प्रत्ययस्य पक्षे ददः (दाता इति अर्थे), दधः (धाता इति अर्थे); ण-प्रत्ययस्य पक्षे दायः (दानार्थे), धायः (धायक इति अर्थे) चेति रूपाणि निष्पद्यन्ते | अस्मिन् प्रसङ्गे सूत्रस्य 'विभाषा’ इति शब्दस्य दलसार्थक्यं चिन्तनीयम् | एकं परिभाषासुत्रम् अस्ति वासरूपोस्त्रियाम् (३.१.९४); अनेन कृत्-अधिकारे उत्सर्गापवादसम्बन्धं ज्ञापयति | सूत्रम् अस्ति 'वा असरूपः अस्त्रियाम्'; अर्थः अस्ति यत् औत्सर्गिकप्रत्ययं प्रबाध्य यः अपवादभूतप्रत्ययः विधीयते, स च अपवादभूतप्रत्ययः औत्सर्गिकप्रत्ययसमानरूपकः चेत् नित्यं बाधते; असमानरूपकः चेत् विकल्पेन बाधते | (अपि च प्रत्ययः स्त्रीलिङ्गवाचकः चेत्, अयं नियमः न भवति |)
प्रक्रिया एतादृशी--
श्याद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसश्च (३.१.१४१) इति सामान्यविधिसूत्रं, येन 'ण'-प्रत्ययः विधीयते | ददातिदधात्योर्विभाषा (३.१.१३९) अपवादभूतसूत्रं, येन 'श'-प्रत्ययः विधीयते |
डुदाञ् दाने → श्याद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसश्च (३.१.१४१), ददातिदधात्योर्विभाषा (३.१.१३९) इति सूत्राभ्यां युगपत् 'ण' इति औत्सर्गिकविधानं, 'श' इति विकल्पेन बाधकविधानम् → दा + ण, दा + श → → ण-प्रत्ययस्य पक्षे दायः, श-प्रत्ययस्य पक्षे ददः इति द्वौ शब्दौ निष्पद्येते ।
प्राचीनानां मतम् अनुसृत्य, यया रीत्या आदेशः यदा प्रत्ययस्य स्थाने आदिष्टः तदा स्थानिवद्भावेन आदेशस्य प्रत्ययत्वं जायते, तद्वत् अत्रापि प्रत्ययः यदा विहितः तदा, विधानानन्तरमेव प्रत्ययस्य कार्यं कृत्वा प्रत्ययत्वधर्मं प्राप्नोति । तदा एव इत्संज्ञा च भवति । इत्संज्ञावत्त्वम् अनुबन्धत्वम् इति ।
ददातिदधात्योर्विभाषा (३.१.१३९) इत्यस्य व्याख्यायां दत्तं यत् णप्रत्ययबाधकशप्रत्ययः इति | णप्रत्ययबाधकशप्रत्ययः इति वक्तव्यं चेत् दीक्षितानां मते आदौ तिप्-विधानं, तदा तिपः स्थाने णल् इतिवत् अत्रापि आदौ 'अयं प्रत्ययः' इति कर्तव्यं, तदानीमेव तस्य प्रत्ययत्वम् | नाम प्रथमतया विधानं, तदा प्रत्ययत्वम् | ण इति तदा एव प्रत्ययः | एकवारं यदा ण विहितः, तदा सः ण पुनः न निवर्तते | तर्हि णप्रत्ययबाधकशप्रत्ययः इति कथम् ? ण इति विहितः चेत्, अग्रे प्रक्रियायां गन्तव्यमस्ति | तदा 'श इति अयमपवादः' इति वक्तुं न शक्यते | णप्रत्ययबाधकशप्रत्ययः इति वक्तव्यं चेत् प्रत्ययत्वम् अपेक्षितं; प्रत्ययत्वम् अपेक्षितं चेत्, प्राचीनैः उच्यते यत् धातोः विधातव्यः तदा एव प्रत्ययः | एकवारं प्रत्ययः विहितः, तदा निष्पन्नस्य निवृत्तिर्न भवति अतः 'श' इत्यस्य अवसरः न भवति | तर्हि अयं 'श' बाधकः इति कदा वक्तुं शक्यते ? बुद्ध्या विचिन्त्य भाविप्रत्ययत्वम् आदाय एव, प्रत्ययत्वधर्मः यः अग्रे आगमिष्यति तं धर्मम् इदानीमेव आश्रित्य इत्-संज्ञां कल्पयित्वा द्वयोः (ण, श इत्यनयोः) विधानात् प्रागेव 'अ' इति रूपं भवति | अनेन एव प्रक्रियया विकल्पेन बाधकत्वं जायते | अतः समस्यायाः निवारणार्थं भाविप्रत्ययत्वम् अपेक्षितम्-- विधानात् प्राक् |
अत्र प्रकृतौ ण-प्रत्यये णकारस्य इत्संज्ञा; श-प्रत्यये शकारस्य इत्संज्ञा | वासरूपोस्त्रियाम् (३.१.९४) इत्यनेन प्रत्ययस्य असारूप्यम् अस्ति चेत् विकल्पेन बाधकत्वं; सारूप्यम् अस्ति चेत् नित्यबाधकत्वम् | (असारूप्येण वैकल्पिकबाधकत्वं वाच्यार्थः, सारूप्येण नित्यबाधकत्वं फलितार्थः |) अधुना प्रश्नः अस्ति यत् अनुबन्धेन सह निर्णयः करणीयः वा, अनुबन्धरहिततया निर्णयः करणीयः वा | यथा ण्वुल्-तृच् इति प्रत्ययौ | ण्वुल् इति प्रत्ययः तृच् इति प्रत्ययेन असरूपः | अनुबन्धं विनापि असरूपः | ण-प्रत्ययः, श-प्रत्ययः इति चेत्, अनुबन्धं विना उभयत्र 'अ' इत्येव अवशिष्यते इति कृत्वा सरूपः; सरूपापवादः नित्यं बाधते | अनुबन्धवर्णेन सह पश्यामः चेत् ण-प्रत्ययस्य आनुपूर्वी अन्या अस्ति, श-प्रत्ययस्य आनुपूर्वी अन्या अस्ति ; तस्मात् असरूपः—असरूपात् विकल्पेन बाधते |
वस्तुतः ‘ण'-प्रत्ययस्य विधानानन्तरमेव प्रत्ययत्वम् | ततः परमेव तस्य इत्संज्ञा, लोपः, तदानीम् अकारः अवशिष्यते, नाम 'अ' इति प्रत्ययः उत्पद्यते | प्रत्ययः कदा भवति ? धातोः विहितश्चेत् प्रत्ययसंज्ञा लभ्यते | ददातिदधात्योर्विभाषा (३.१.१३९) विधिसूत्रं, वासरूपोस्त्रियाम् (३.१.९४) परिभाषासूत्रम् | विधानात् प्रागेव निर्णेतव्यः भवति यत् ण, श सरूपो वा असरूपो वा | धातोः विधानात् पूर्वं 'ण' इत्यस्य आनुपूर्वी अन्या, ‘श' इत्यस्य आनुपूर्वी अन्या यतोहि तावता तयोः णकारशकारयोर्लोपः न जातः | अतः असरूपम् एव इदं श-शब्दस्वरूपम् | तथा चेत्, वासरूपोस्त्रियाम् (३.१.९४) इत्यनेन असरूपः अपवादप्रत्ययः उत्सर्गं विकल्पेन एव बाधते | अतः विकल्पः सिद्धः | एवं च विकल्पे सिद्धे ददातिदधात्योर्विभाषा (३.१.१३९) इत्यनेन 'विभाषा' इति सूत्रांशः न संगच्छते | एवम् आदेशानां च शब्दस्वरूपाणां च विधानं कृत्वा प्रत्ययत्वं यदि आनीयते तर्हि 'ण'-प्रत्ययस्य विकल्पेन बाधकः 'श'-प्रत्ययः इति निरूपयितुमेव न शक्यते |
यदि वदामः यत् 'ण'-शब्दस्वरूपं प्रबाध्य श-शब्दस्वरूपे जाते एव तस्य श-शब्दस्वरूपस्य प्रत्ययत्वं, तदानीमेव इत्संज्ञा लभ्यते, तर्हि 'ण'-प्रत्ययस्य 'श'-प्रत्ययः असरूपात् विकल्पेन बाधकः इति उच्यते | विकल्पः सिद्धः एव वासरूपोस्त्रियाम् (३.१.९४) इत्यनेन | ददातिदधात्योर्विभाषा (३.१.१३९) इत्यस्मिन् 'विभाषा' इति सूत्रांशः निरर्थकः |
समस्यायाः निवारणार्थं प्रत्यययोग्यता वक्तव्या | नाम 'ण'-प्रत्यये धातोः कृतश्चेदेव प्रत्ययत्वं भवति, किन्तु धातोः स च प्रत्ययः एतावता न विहितः, अतः तद्योग्यता अस्ति इति कृत्वा तस्य णकारस्य इत्संज्ञायां, शकारस्य च इत्संज्ञायां, द्वयोः इत्संज्ञात्वम् अस्ति इति कृत्वा अनुबन्धत्वम् अस्ति अतः उभयथा अकारः एव अस्ति इति कृत्वा अयम् असरूपः अपवादः न, सरूपः एव | प्रत्ययस्य सारूप्येण नित्यं बाधकत्वं प्राप्नोति | नित्ये बाधके प्राप्ते ददातिदधात्योर्विभाषा (३.१.१३९) इत्यनेन 'विभाषा'-ग्रहणं चरितार्थम् |
समस्यायाः निवारणार्थं प्रत्यययोग्यता वक्तव्या | नाम 'ण'-प्रत्यये धातोः कृतश्चेदेव प्रत्ययत्वं भवति, किन्तु धातोः स च प्रत्ययः न विहितः, अतः तद्योग्यता अस्ति इति कृत्वा तस्य णकारस्य इत्संज्ञायां, शकारस्य च इत्संज्ञायां, द्वयोः इत्संज्ञात्वम् अस्ति इति कृत्वा अनुबन्धत्वम् अस्ति अतः उभयथा अकारः एव अस्ति इति कृत्वा अयम् असरूपः अपवादः न, सरूपः एव | प्रत्ययस्य सारूप्येण नित्यं बाधकत्वं प्राप्नोति | नित्ये बाधके प्राप्ते ददातिदधात्योर्विभाषा (३.१.१३९) इत्यनेन 'विभाषा'-ग्रहणं चरितार्थम् |
नो चेत् प्राचीनैः तत्र "यथार्थस्य स्थाने आदेशः कर्तव्यः" इति सा रीतिः यथा उक्तात् तैः अत्रापि तादृशी रीतिः आश्रयणीया | कथम् ? धातोः ण इति प्रत्ययः कर्तव्यः, एकवारं यादा ण-प्रत्ययः आगतः, तदा उत्पन्नस्य ण-प्रत्ययस्य निवृत्तिर्न भवति | एकवारं ण, एकवरं श इति भवेत्, परन्तु अधुना नित्यत्वेन ण इत्येव प्रत्ययः जातः | उत्पन्नस्य निवृत्तिर्न भवति चेत्, तदानीं विकल्पविधानम् इति न सङ्गच्छते | अतः भाविप्रत्ययत्वमपि प्रत्ययत्वम् | अनेन भाव्यनुबन्धत्वमपि अनुबन्धत्वम् |
आहत्य भाविप्रत्ययत्वम् आदाय पूर्वमेव इत्संज्ञायां लोपे च अकारः एव अस्ति प्रत्ययद्वयेऽपि ण-प्रत्यये श-प्रत्यये च, येन सारूप्यात् नित्यं बाधकत्वं प्राप्नोति | नित्ये बाधके प्राप्ते ददातिदधात्योर्विभाषा (३.१.१३९) इत्यनेन 'विभाषा'-ग्रहणं चरितार्थम् | अतः भाविप्रत्ययत्वम् आदाय निर्वाहः कर्तव्यः |
तर्हि प्रकृते उच्यते यत् यदि इत्संज्ञायोग्यत्वेन अनुबन्धत्वं, तर्हि अनेकाल्त्वाभावे कथं वा सर्वादेशत्वं स्यात् | उत्तरत्वेन उक्तं यत् आनुपूर्व्यात्सिद्धम् | डा इत्यस्य आनुपूर्विणं कृत्वा 'डा + आ'; आनुपूर्वी इत्युक्ते वर्णानां क्रमः | अत्र क्रमः अस्ति डकारः + आकारः | अयं च आकारः दीर्घः अतः अ + अ → आ इति भवितुम् अर्हति; आ + आ → आ इत्यपि भवितुमर्हति | इष्टमस्ति यत् अस्मिन् आदेशे अनेकालः स्युः; तस्य साधनार्थं डकारः गणयितुं न शक्यते चेत्, आकारे वस्तुतस्तु आकारद्वयं वर्तते (तथा कल्पितं, तथा सम्भवति च) इति परिभाषेन्दुशेखरकारः प्रतिपादयति | नाम आकारस्य प्रश्लेषः | (क्क्ङिति च १.१.५ इति सूत्रेऽपि तादृशप्रश्लेषः कृतः गित् इत्यस्य अन्तर्भावार्थम् |) अनेन च डकारं विनापि अनेकाल्त्वं तस्माच्च सर्वादेशत्वं सिद्धम् |
अन्ततो गत्वा 'डादिविषये तु सर्वादेशत्वं विनानुबन्धत्वस्यैवाभावेनानुपूर्व्यात्सिद्धम्' इत्यस्य अर्थः स्पष्टरीत्या वक्तव्यम् | अत्र नागेशेन लिखितं यत् 'सर्वादेशत्वं विना', नाम 'सर्वादेशात् पूर्वम्' | अनुबन्धत्वस्यैवाभावः—सर्वादेशात् पूर्वम् अनुबन्धत्वस्य अभावः, तेन अभावेन आनुपूर्वयात् सिद्धम् इति प्राचीनानां मतम् | तर्हि किमर्थं नव्येन नागेशेन लिखितम् ? अनुरोधेन | परन्तु अन्तिमभागः आनुपूर्व्यात्सिद्धम् इत्यस्मिन् उभयोः मतयोः अन्वयः | एकस्मिन् पाक्षे ड् + आ; अपरस्मिन् पक्षे आ + आ |
आहत्य प्रकृते उभयथा साधयितुं शक्यते—इत्संज्ञकत्वम् अनुबन्धत्वं वा भवतु, इत्सज्ञायोग्यत्वमेव अनुबन्धत्वं वा भवतु, अत्र रूपवैलक्षण्यं नास्ति | उभयत्र आनुपूर्व्यात् अनेकाल्त्वात् सर्वादेशः | किन्तु मार्गः भिन्नः | नागेशस्य सर्वत्र भाविप्रत्ययत्वम् आदाय इदानीमेव प्रत्ययत्वं स्वीक्रियते | भाविधातुत्वम् आदाय इदानीमेव धातुत्वं व्यवह्रीयते | एवं च बहुत्र नागेशस्य मते भाविसंविज्ञानम् आश्रीयते | तर्हि प्रकृते भाविप्रत्ययत्वम् आदाय इति, पक्षे आकार-आकाररूपप्रश्लेषात् एव अनेकाल्त्वं, तस्मात् सर्वादेशः इति नव्यमते वक्तव्यम् |
स्थलद्वये दोषे सति सर्वत्र समीकरणीयम् ?
एतावता अस्माभिः स्थलद्वयं दृष्टं यत्र इत्संज्ञावत्त्वम् अनुबन्धत्वं कार्यं न करोति यस्मात् इत्सज्ञायोग्यत्वमेव अनुबन्धत्वम् इत्यनेन कार्यं साधनीयम् अस्ति—लिट्-लकारस्य मध्यमपुरुषबहुवचने च ददातिदधात्योर्विभाषा (३.१.१३९) इत्यनेन ण-बाधक-श-अपवादः | अधुना प्रश्नः उदेति येत् द्वयोः स्थलयोः कर्तव्यत्वात् अपरेषु सर्वेषु स्थलेषु यत्र इत्संज्ञावत्त्वेन साधुरूपं सिध्यति, तत्र सर्वत्रापि केन तर्केण इत्सज्ञायोग्यत्वेन साधनीयं भवति ?
उत्तरत्वेन उच्यते यत् सूत्रं नाम अल्पाक्षरं च विश्वतोमुखं च |
अल्पाक्षरम् असन्दिग्धं सारवत् विश्वतोमुखम् ।
अस्तोभम् अनवद्यं च सूत्रं सूत्रविदो विदुः ॥
निदर्शने अदादिगणे शप् भवति, तदा शपः लुक् | तर्हि शपः विधानं किमर्थं च लुक् किमर्थं च ? यदि नापेक्षते तर्हि न विधीयेत | अपरस्मिन् निदर्शने आडुत्तमस्य पिच्च (३.४.९२) इत्यनेन लोट्-लकारस्य उत्तमपुरुषस्य प्रत्ययानाम् आट्-आगमो भवति, स च पित् अस्ति | करवाणि, करवाव, करवाम | वस्तुतः मिप् इति एकवचने प्रयोजनं नास्ति, ‘भवानि' इत्यादिषु रूपेषु | अतो दीर्घो यञि (७.३.१०१) इत्यनेन दीर्घत्वं सिध्यति | किन्तु उत्तमपुरुषे द्विवचनबहुवचनयोः च आत्मनेपदे सर्वेषु उत्तमपुरुषवचनेषु च, पञ्चषु स्थलेषु आडागमस्य प्रयोजनम् अस्ति | केवलं मिपि प्रयोजनं नास्ति | तर्हि परस्मैपदेषु एकवचने आडागमः नापेक्षते खलु इति चेत् तत्र आडागमो मास्तु | किन्तु उत्तमपुरुषमध्ये पठितत्वात् तत्रापि आडागमः स्वीक्रियते स्वीक्रियेत च | ‘एकं विहाय' इति उच्यते चेत् असमीचीनम् | सूत्रं नाम यावत् अधिकं सङ्ग्रहकं भवेत्—तस्मिन् सूत्रत्वं सेत्स्यति | अन्यच्च तत्र तत्र निर्देशः नापेक्षितः इति चेत् अनेन ग्रन्थस्य विस्तृतिः भवति |
बहुत्र अनेकाल्त्वात् सर्वादेशः; यत्र च वक्तुं न शक्यते तत्र प्रश्लेषेण निर्देशः क्रियते चेत्, तदपेक्षया सर्वत्र एव तथैव प्रश्लेषेण क्रियते चेत् अनुगतं भवति | यथा पर्जन्यवत् लक्षणप्रवृत्तिः | सूत्रप्रवृत्तियोग्यता यत्र यत्र अस्ति तत्र तत्र सूत्रप्रवृत्तिः भवति | गृहस्य उपरि वृक्षाः न सन्ति अतः तत्र वृष्टिर्मास्तु, क्षेत्रादिषु वृक्षकाः सन्ति अतः तत्रैव वृष्टिर्भवतु इति प्रार्थनां मेघः न शृणोति | स्वप्रवृत्तियोग्यतावत् स्थलम् अस्ति चेत्, मेघः वर्षति एव |
एवमेव अनेकाल्त्वात् सूत्रप्रवृत्तिः इति चेत्, बहुत्र इत्संज्ञावत्त्वम् इत्यनेन अनेकाल्त्वं जायते किन्तु क्वचित् प्रश्लेषेण अनेकाल्त्वं साधनीयं चेत्, तर्हि तदकृत्वा सर्वत्र एव प्रश्लेषः भवतु | नो चेत् कुत्रचित् एकरीत्या, अन्यत्र अन्यरीत्य, एकत्र प्रत्ययसिद्धिरनन्तरमेव इत्संज्ञां कृत्वा अनुबन्धत्वम्, अन्यत्र इत्संज्ञायोग्यत्वेन अनुबन्धत्वम् इति चेत् अनुबन्धत्वे लक्षणदोषो जायते | अनुबन्धत्वं नाम किम् इत्यस्य कृते अनुगतम् एकं लक्षणं न भवति | प्रश्नः उदेति कुत्र इत्संज्ञकत्वम् अनुबन्धत्वं, कुत्र इत्संज्ञायोग्यत्वम् अनुबन्धत्वम् | सदा इत्संज्ञायोग्यत्वेन क्रियते चेत् लक्षणदोषः निवार्यते |
कैश्चित् उच्यते यत् स्थानिवद्भावः युक्तिसङ्गतसिद्धन्तः, तदनुसृत्य करणीयमस्ति | प्राचीनानां मतं किमर्थम् इत्संज्ञकत्वम् अनुबन्धत्वम् ?युक्तिसङ्गतम् इत्यस्मात् | तत्समीचीनमेव, किन्तु सर्वत्र न सङ्गच्छते | अन्यच्च भाविसंविज्ञानम् अपि भवति लोके, तदपि युक्तिसङ्गतम् | यथा छात्राध्यापकः | छात्रश्च असौ अध्यापकश्च, कर्मधारयः | छात्रः कथं वा छात्रः सन् अध्यापकः स्यात् ? किन्तु भवति—भाविसंविज्ञानेन लोकसाधारणव्यवहारः विद्यालयेषु |
अन्यत् निदर्शनं सूत्रशाटकं न्यायः | 'अस्य सूत्रस्य शाटकं वय' | शाटकः चेत्,कथं वा वयनं स्यात् ? शाटकः चेत् न वातव्यः; वातव्यः चेत् न शाटकः | ‘शाटकं वय' इति परस्परं विप्रतिषिद्धम् | किन्तु लोके व्यवहारः अस्ति, यतोहि लोके भाविसंविज्ञानं भवति | एवमेव 'काकशावकः' | शैशवदशायां काकः अस्ति न वा इति न ज्ञायते | अग्रे ज्ञास्यते | तथापि काकात् जातत्वमात्रेण भाविकाकत्वाभिव्यञ्जकधर्मसत्त्वात् इदानीमेव तं काकं व्यवहरन्ति | एवम् 'अन्नं पचति' इति उच्यते | वस्तुतः तण्डुलान् पचति, तदा अन्नं भवति | एवमेव भाविसंविज्ञानात् भावी प्रत्ययः इदानीमेव प्रत्ययः | आहत्य यत्र दोषद्वयमेव प्राप्तं, तत्र समाधानत्वेन सर्वत्र समानरीत्या चिन्तने लाघवम् |
अधुनापि किन्तु प्राचीनानां, दीक्षितानाम् अनुयायिनः विद्यन्ते | तेषां किम् उत्तरं दोषद्वयप्रसङ्गे ? तत्रैव प्रश्लेषः भवतु इति | यत्र दोषः, तत्र परिमार्जनम् | हस्ते व्रणः चेत्, पादे शल्यक्रिया न भवति | यत्र दोषः प्राप्नोति, लिट्-लकारस्य मध्यमपुरुषबहुवचने, तत्र प्रश्लेषः क्रियताम् | यतोहि तत्र अनेकाल्त्वसम्पादनार्थं गत्यन्तरं नास्ति | अतः तत्र प्रश्लेषः भवतु, किन्तु सर्वत्र प्रश्लेषः इति मास्तु | ‘तथा चेत् लाघवं नास्ति' इति आक्षेपे उत्तरत्वेन वदन्ति फलमुखगौरवम् अदोषाय इति | 'वयं गौरवं सहामहे' इति आशयः |
परस्मैपदिसंज्ञकतिङ्प्रत्यय-सिद्धिः
तास् + ति → लुटः प्रथमस्य डारौरसः (२.४.८५), ति-स्थाने डा-आदेशः → तास् + डा → चुटू (१.३.७) इत्यनेन डकारस्य इत्संज्ञा लोपश्च → तास् + आ → टेः (६.४.१४३) इत्यनेन तास्-प्रत्ययस्य डित्-प्रत्यये टि-भागलोपः स्यात् किन्तु धातोः भसंज्ञा न भवति → अत्र टिभागलोपो न भवति चेत्, डा-प्रत्ययस्य डित्त्वं निष्प्रयोजनम् इति कृत्वा डित्त्वसामर्थ्यात् टेः (६.४.१४३) इत्यनेन तास्-प्रत्ययस्य टि-भागलोपः → त् + आ → ता
टेः (६.४.१४३)
टेः (६.४.१४३) = भसंज्ञकस्य अङ्गस्य टि-भागस्य डित्-प्रत्यये परे लोपः भवति ।
यचि भम् (१.४.१८) = सर्वनामस्थानसंज्ञक-प्रत्ययान् अतिरिच्य सु-प्रत्ययात् आरभ्य कप्-प्रत्ययपर्यन्तम् ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परे अस्ति चेत् पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | य् च, अच् च यच् समाहारद्वन्द्वः, तस्मिन् यचि | यचि सप्तम्यन्तं, भम् प्रथमान्तम्, द्विपदमिदं सूत्रम् | स्वादिष्वसर्वनामस्थाने (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः | अनुवृत्ति-सहितसूत्रम्— स्वादिषु असर्वनामस्थाने यचि भम् |
तास् + तस् → लुटः प्रथमस्य डारौरसः (२.४.८५) → तास् + रौ → रि च (७.४.५१) इत्यनेन तास्-प्रत्ययस्य सकारलोपः → तारौ
रि च (७.४.५१)
रि च (७.४.५१) = तास्-प्रत्ययस्य सकारास्य लोपो भवति रेफादौ प्रत्यये परे | रि सप्तम्यन्तं, च अव्ययदं, द्विपदमिदं सूत्रम् | तासस्त्योर्लोपः (७.४.५०) इत्यस्मात् तासः, लोपः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— तासः अङ्गस्य रि लोपः |
तास् + झि → लुटः प्रथमस्य डारौरसः (२.४.८५), झि-स्थाने रस्-आदेशः → तास् + रस् → रि च (७.४.५१) इत्यनेन तास्-प्रत्ययस्य सकारलोपः → ता + रस् → तारस् → ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) → तारः
तास् + सि → तासस्त्योर्लोपः (७.४.५०) इत्यनेन सकारलोपः → तासि
तासस्त्योर्लोपः (७.४.५०)
तासस्त्योर्लोपः (७.४.५०) = तास्-प्रत्ययस्य च अस्-धातोः सकारलोपो भवति सकारे परे । तासस्त्योः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | सः स्यार्द्धधातुके (७.४.४९) इत्यस्मात् सि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— तास्-अस्त्योः अङ्गस्य लोपः सि |
अवशिष्टानां किमपि कार्यं नास्ति, केवलं प्रत्यययोः मेलनम् |
तास् + थः → तास्थः
तास् + थ → तास्थ
तास् + मि → तास्मि
तास् + वः → तास्वः
तास् + मः → तास्मः
आत्मनेपदिसंज्ञकतिङ्प्रत्यय-सिद्धिः
तास् + त → लुटः प्रथमस्य डारौरसः (२.४.८५), त-स्थाने डा-आदेशः → तास् + डा → चुटू (१.३.७) इत्यनेन डकारस्य इत्संज्ञा लोपश्च → तास् + आ → टेः (६.४.१४३) इत्यनेन तास्-प्रत्ययस्य डित्-प्रत्यये टि-भागलोपः स्यात् किन्तु धातोः भसंज्ञा न भवति → अत्र टिभागलोपो न भवति चेत्, डा-प्रत्ययस्य डित्त्वं निष्प्रयोजनम् इति कृत्वा डित्त्वसामर्थ्यात् टेः (६.४.१४३) इत्यनेन तास्-प्रत्ययस्य टि-भागलोपः → त् + आ → ता
तास् + आताम् → लुटः प्रथमस्य डारौरसः (२.४.८५) → तास् + रौ → रि च (७.४.५१) इत्यनेन तास्-प्रत्ययस्य सकारलोपः → तारौ
तास् + झ → लुटः प्रथमस्य डारौरसः (२.४.८५), झ-स्थाने रस्-आदेशः → तास् + रस् → रि च (७.४.५१) इत्यनेन तास्-प्रत्ययस्य सकारलोपः → ता + रस् → तारस् → ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) → तारः
तास् + थास् → थासः से (३.४.८०) इत्यनेन टित्-लकारस्य थास्-स्थाने से-आदेशः → तास् + से → तासस्त्योर्लोपः (७.४.५०) इत्यनेन तास्-प्रत्ययस्य सकारलोपः सकारे परे → तासे
थासः से (३.४.८०)
थासः से (३.४.८०) = टित्-लकारस्य थास्-स्थाने से-आदेशो भवति | थासः षष्ठ्यन्तं, से लुप्तप्रथमान्तं, द्विपदमिदं सूत्रम् | टित आत्मनेपदानां टेरे (३.४.७९) इत्यस्मात् टितः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— टितः लस्य थासः से |
तास् + आथाम् → टित आत्मनेपदानां टेरे (३.४.७९) इत्यनेन टित्-लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशः → तासाथे
टित आत्मनेपदानां टेरे (३.४.७९)
टित आत्मनेपदानां टेरे (३.४.७९) = टित्-लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशो भवति | टितः षष्ठ्यन्तम्, आत्मनेपदानां षष्ठ्यन्तं, टेः षष्ठ्यन्तम्, ए लुप्तप्रथमान्तम्, अनेकपदमिदं सूत्रम् | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— टितः लस्य आत्मनेपदानां टेः ए |
तास् + ध्वम् → टित आत्मनेपदानां टेरे (३.४.७९) इत्यनेन टित्-लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशः → तास् + ध्वे → धि च (८.२.२५) इत्यनेन सकारलोपः → ताध्वे
धि च (८.२.२५)
धि च (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | रात्सस्य (८.२.२४) इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धि च सस्य लोपः |
तास् + इ → टित आत्मनेपदानां टेरे (३.४.७९) इत्यनेन 'टि'-भागस्य एत्वम् → तास् + ए → ह एति (७.४.५२) इत्यनेन सकारस्थाने हकारादेशः → ताहे
ह एति (७.४.५२)
ह एति (७.४.५२) = तासस्त्योः सकारस्य हकारादशो भवति एति परे | हः प्रथमान्तम्, एति सप्तमान्तं, द्विपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः |
तास् + वहि → टित आत्मनेपदानां टेरे (३.४.७९) इत्यनेन 'टि'-भागस्य एत्वम् → तास्वहे
तास् + महि → टित आत्मनेपदानां टेरे (३.४.७९) इत्यनेन 'टि'-भागस्य एत्वम् → तास्महे
स्यतासी लृ-लुटोः (३.१.३३) इति सूत्रे, 'तासि' इति प्रत्यये इकारः
प्रश्नः भवति यत् स्यतासी लृ-लुटोः (३.१.३३) इति सूत्रे, 'तासि' इति प्रत्यये इकारः उच्चारणार्थः नास्ति चेत्, हलन्त्यम् (१.३.३) इत्यनेन तास् इत्यस्य सकार लोपो भविष्यति | अत्र काशिकाकारः प्रतिपादयति यत्—
आत्मनेपदे प्रथमपुरुषैकवचने मन्-धातुः + तास् + त → लुटः प्रथमस्य डारौरसः (२.४.८५) → मन् + तास् + डा → टेः (६.४.१४३) इत्यनेन तास्-प्रत्ययस्य डित्-प्रत्यये, डित्त्वसामर्थ्यात् टि-भागलोपः → मन् + त् + डा → मन्त् + आ → अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन अनिदितां हलन्तानाम् अङ्गानाम् उपधायाः नकारस्य लोपो भवति किति ङिति प्रत्यये परे → उपधायां स्थितस्य नकारस्य लोपः भविष्यति यः अनिष्टः (धेयं यत् अत्र मन्त् इत्यस्य धातुसंज्ञा नास्ति, परन्तु अनिदितां हल उपधायाः क्ङिति (६.४.२४) इति सूत्रे धातुसंज्ञा नापेक्षिता; केवलम् अनिदित् हलन्तम् अङ्गम्) | अस्य नकारलोपस्य निवारणार्थं काशिकायामस्ति—इदित्करणमनुनासिकलोपप्रतिषेधार्थम् | मन्ता | एतदर्थं तासि इदित् इत्युक्तम् |
अत्र च पक्षद्वयं वर्तते | एकस्मिन् पक्षे आभीयशास्त्रं नित्यं स्वीक्रियते, अपरस्मिन् च आभीयशास्त्रम् अनित्यं स्वीक्रियते | टेः (६.४.१४३), अनिदितां हल उपधायाः क्ङिति (६.४.२४)—द्वयमपि आभीयशास्त्रम् | जयादित्यः आभीयशास्त्रम् अनित्यमिति न मन्यते, अतः टेः (६.४.१४३) इत्यनेन यः टि-भागलोपः सः असिद्धः न भवति इति कारणतः नकारस्य लोपः जायमानः इत्यस्मात् तस्य निवारणार्थं तासि इदित् इति मत्वा एव निवारणं सिध्यति | वामनः तु आभीयशास्त्रम् अनित्यमिति मन्यते | अतः टेः (६.४.१४३) इत्यनेन यः टि-भागलोपः सः असिद्धः इति कारणतः तासि इत्यस्य इकारः उच्चारणार्थः इति प्रतिपादयति |
अनिदितां हल उपधायाः क्ङिति (६.४.२४) = अनिदितां हलन्तानाम् अङ्गानाम् उपधायाः नकारस्य लोपो भवति किति ङिति प्रत्यये परे | इत् इत् अस्ति येषाम् ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम् अनिदिताम् | क् च ङ् च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन् क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | श्नान्नलोपः (६.४.२३) इत्यस्मात् न, लोपः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— अनिदितां हलः अङ्गस्य उपधायाः न लोपः क्ङिति |
अन्यः प्रश्नः उदेति यत् प्रथमपुरुषैकवचने
तास् + त → लुटः प्रथमस्य डारौरसः (२.४.८५), त-स्थाने डा-आदेशः → तास् + डा
अस्मिन् प्रसङ्गे किमर्थं न टित आत्मनेपदानां टेरे (३.४.७९) इत्यनेन टित्-लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशो न स्यात् ? डा → डे | उत्तरमस्ति यत् अष्टाध्याय्यां बहुत्र सामान्यं भवति, तदा एव विशेषः | यथा लिङः सीयुट् (३.४.१०२) इत्यनेन लिङ्-लकारस्य प्रत्ययानां सीयुट्-आगमो भवति, इति सामान्यम् | अनेन परस्मैपदे अपि आत्मनेपदे अपि सीयुट्-आगम-विधानम् | तदा यासुट् परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) इत्यनेन लिङ्-लकारस्य परस्मैपदि-प्रत्ययानां यासुट्-आगमो भवति इति विशेषः | अत्र लिङः सीयुट् (३.४.१०२) इति केवलं लिङ्लकारे भवति | तदा पुनः इतोऽपि विशिष्य यासुट् परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) इति केवलं लिङ्लकारे, तत्र पुनः इतोऽपि विशिष्य केवलं परस्मैपदे | परन्तु— अत्र लुटः प्रथमस्य डारौरसः (२.४.८५) इति विशिष्टसूत्रं, केवलं लुट्-लकारे, तत्र पुनः केवलं प्रथमपुरुषे | अधुना टित आत्मनेपदानां टेरे (३.४.७९) इति आगच्छति, सामान्यसूत्रम् | तथा न भवति; अष्टाध्याय्यां प्रथमं सामान्यं, तदा विशेषः | अन्यच्च टिदादेशानां टेः एत्वं न भवति इति नियमः | सर्वत्र— लटि, लिटि, लुटि, लृटि, लेटि इत्येषां स्थाने ये आदेशाः भवन्ति, तेषां पुनः टेरेत्वं न भवति |
परस्मैपदे सिद्धतिङ्प्रत्ययाः
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्र०पु० | ता | तारौ | तारः |
म० पु० | तासि | तास्थः | तास्थ |
उ० पु० | तास्मि | तास्वः | तास्मः |
आत्मनेपदे सिद्धतिङ्प्रत्ययाः
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्र०पु० | ता | तारौ | तारः |
म० पु० | तासे | तासाथे | ताध्वे |
उ० पु० | ताहे | तास्वहे | तास्महे |
धातुः सेट् अस्ति चेत्
परस्मैपदे सिद्धतिङ्प्रत्ययाः सेट्-धातूनाम्
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्र०पु० | इता | इतारौ | इतारः |
म० पु० | इतासि | इतास्थः | इतास्थ |
उ० पु० | इतास्मि | इतास्वः | इतास्मः |
आत्मनेपदे सिद्धतिङ्प्रत्ययाः सेट्-धातूनाम्
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्र०पु० | इता | इतारौ | इतारः |
म० पु० | इतासे | इतासाथे | इताध्वे |
उ० पु० | इताहे | इतास्वहे | इतास्महे |
उदाहरणार्थं दा-धातुः
परस्मैपदे
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्र०पु० | दाता | दातारौ | दातारः |
म० पु० | दातासि | दातास्थः | दातास्थ |
उ० पु० | दातास्मि | दातास्वः | दातास्मः |
आत्मनेपदे
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्र०पु० | दाता | दातारौ | दातारः |
म० पु० | दातासे | दातासाथे | दाताध्वे |
उ० पु० | दाताहे | दातास्वहे | दातास्महे |
अग्रे गत्वा अस्मिन् पाठे प्रत्येकं धातोः कृते केवलं प्रथमपुरुषैकवचनान्तरूपं निर्मीयते यतोहि तद्ज्ञायते चेत् अवशिष्टरूपाणि अपि ज्ञायन्ते |
२) धात्वादेशः
अस्तेर्भूः (२.४.५२) | भविता |
अस्तेर्भूः (२.४.५२)
अस्तेर्भूः (२.४.५२) = आर्धधातुकविवक्षायाम् अदादौ स्थितस्य अस-धातोः स्थाने भू-आदेशो भवति | अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अस्तेः भूः आर्धधातुके |
ब्रुवो वचिः (२.४.५३)
ब्रुवो वचिः (२.४.५३) | वक्ता |
ब्रुवो वचिः (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | इकार उच्चारणार्थः | ब्रुवः षष्ठ्येकवचनं, वचिः प्रथमैकवचनं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ब्रुवः वचिः आर्धधातुके |
चक्षिङ्-धातुः
चक्षिङः ख्याञ् (२.४.५४) | ख्याता | क्शाता |
चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्-आदेशः | किन्तु अत्र भाष्यकारो वदति यत् क्शादिरयमादेशः, इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि च पूर्वत्रासिद्धम् (८.२.१) इति अधिकारे एकं वार्तिकम् अस्ति ख्शाञः शस्य यो वा वक्तव्यः | अनेन ख्शाञ् इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति | फलितार्थः अयं यत् आर्धधातुकप्रत्यये परे चक्षिङ्-धातोः स्थाने ख्याञ्, ख्शाञ् इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्, अपरस्मिन् पक्षे ख्शाञ् |
चक्षिङः ख्याञ् (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ् प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चक्षिङः ख्याञ् आर्धधातुके |
अजेर्व्यघञपोः (२.४.५६)
अजेर्व्यघञपोः (२.४.५६) | अज् → वेता |
अजेर्व्यघञपोः (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ् च अप् च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अजेः वी आर्धधातुके अघञपोः |
एजन्ताः
आदेच उपदेशेऽशिति (६.१.४५) | ध्यै → ध्याता
आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— एचः धातोः आत् उपदेशे अशिति |
यथा— ग्लै → ग्ला, म्लै → म्ला, ध्यै → ध्या, शो → शा, सो → सा, वे - वा, छो → छा |
भ्रस्ज्
भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) | भ्रस्ज् → भर्ष्टा, भ्रष्टा |
भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७)
भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) = भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने विकल्पेन रम्-आगमो भवति आर्धधातुक-प्रत्यये परे | कौमुदीकारः प्रतिपादयति यदत्र 'स्थाने' इत्यपि अस्ति, ‘आगमः' इत्यपि अस्ति; एकस्मिन्नेव सूत्रे उभे कार्ये | नाम 'रेफस्य उपधावर्णस्य च स्थाने’ भवति—स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः; अपि च रम् इति आगमः अस्ति मित्त्वादन्त्यादचः परः | रम् इत्यस्मिन् अकारः उच्चारणार्थः | रश्च उपधा च तयोरितरेतरद्वन्द्वो रोपधे, तयोः रोपधयोः | भ्रस्जः षष्ठ्यन्तं, रोपधयोः षष्ठ्यन्तं, रमश्च प्रथमान्तम्, अन्यतरस्यां सप्त्यम्यन्तम्, अनेकपदमिदं सूत्रम् | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रं— भ्रस्जो रोपधयोः रम् अन्यतरस्याम् आर्धधातुके |
भ्रस्ज् + ता → भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) इत्यनेन भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने, रम्-आगमः च → रेफसकारयोः निवृत्तिः → भज् → रेफः इति आगमः → भर्ज् → भर्ज् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि → भर्ष् + ता → ष्टुना ष्टुः (८.४.४१) → भर्ष्टा
तदभावे—
भ्रस्ज् + ता → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन संयोगाद्योः स्कोः लोपः झलि → भ्रज् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि → भ्रष् + ता → ष्टुना ष्टुः (८.४.४१) → भ्रष्टा
मीञ्, दीङ्
मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०)
मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) | मीञ् → मा → प्रमाता | मिञ् → मा → माता | दीङ् → दा → उपदाता |
मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम् अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित् मतेन अशिति इति अनुवृत्तिः न भवेत् यतोहि कोऽपि शित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम-अलः वर्णस्य स्थाने एच्-आदेशः स्यात् | केषाञ्चित् च मतेन उपदेशे इत्यस्य अनुवृत्तिः न भवेत् | मीनातिश्च मिनोतिश्च दीङ् च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम् | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— मीनातिमिनोतिदीङाम् आत् ल्यपि च एच (एज्निमित्ते प्रत्यये) उपदेशे अशिति |
लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ)
विभाषा लीयतेः (६.१.५१)
विभाषा लीयतेः (६.१.५१) = लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ), इत्यनयोः विकल्पेन आत्वादेशो भवति एचः विषये | नाम ली इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति । ली → ला → विलाता | आत्वाभावे विलेता |
गुहू (संवरणे)
ऊदुपधाया गोहः (६.४.८९)
ऊदुपधाया गोहः (६.४.८९) = गुहू (संवरणे) इति गुह्-धातोः उपधा-गुणादेशं प्रबाध्य ऊत्-आदेशो भवति अजादि-प्रत्यये परे | गुह उपधाया ऊत्स्यात् गुणहेतौ अजादौ प्रत्यये | ऊत् प्रथमान्तम्, उपधायाः षष्ठ्यन्तं, गोहः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— गोहः अङ्गस्य उपधायाः ऊत् अचि |
धेयं यत् अत्र आर्धधातुकत्वस्य निमित्तकत्वं नास्ति एव; केवलम् गुणनिमित्तक-अजादि प्रत्यये परे | अतः लटि अपि भवति— गुह् + शप् + ति → गुह् + अ + ति → उपधागुणस्य प्रसङ्गत्वात् ऊत्-आदेशः → गूह् + अ + ति → गूहति |
आर्धधातुकप्रसङ्गे गुहू-धातुः वेट्; इडागमपक्षे ता-प्रत्ययः अजादिः | अतः गुह् → गूहिता | अजादिप्रत्ययाभावे न ऊत्वम् → गोढा |
अतो लोपः (६.४.४८) | चिकीर्ष → चिकीर्षिता |
अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम् | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |
यस्य हलः (६.४.४९) = हलुत्तरयशब्दलोपो भवति आर्धधातुकप्रत्यये परे | बेभिद्य → बेभिदिता |
क्यस्य विभाषा (६.४.५०) = हलः परयोः क्यच्-क्यङोः प्रत्यययोः लोपो वा स्यादार्धधातुके | समिध्य → समिधिता, समिध्यिता |
कृपेश्च अवकल्कने
कृपेश्च अवकल्कने (विचारं करोति, चिन्तनं करोति) |
कृपो रो लः (८.२.१८)
कृपो रो लः (८.२.१८) | कृप् → पुगन्तलघूपधस्य च (७.३.८६) → कर्प् → कल्प् → कल्पिता आत्मनेपदे / परस्मैपदे तासि च क्लृपः (७.२.६०) इत्यनेन इडागमनिषेधः अतः कल्प्ता |
कृपो रो लः (८.२.१८) = कृप्-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम् | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम् | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तम्, अनेकपदमिदं सूत्रम् | कृपः इत्यस्य द्विवारम् आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्— कृपः उः कृपः रः लः |
कृपो रो लः (८.२.१८) इति सूत्रेण, आहत्य कृप्-धातोः रेफस्य लकारादेशः; कृप्-धातोः ऋकारस्य अंशः यः रेफसदृशः, तस्य स्थाने लकारसदृशादेशो भवति | यत्र कृप्-धातोः उपधायाः गुणः भवति कर्प्, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प् इति फलं; यत्र उपधागुणो न भवति, तत्र कृप् इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप् इति फलम् | दृष्टान्तत्वेन अपरेषु स्थलेषु कथम् अनेन सूत्रेण रूपं सिध्यति इत्यत्र प्रदर्श्यते—
लटि कल्पयति/ते | कृप् + णिच् → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः → कर्प् + इ → कृपो रो लः (८.२.१८) इत्यनेन रेफस्य स्थाने लकारादेशः → कल्प् + इ → कल्पि इति धातुः → कल्पि + शप् → कल्पय इति अङ्गम् → कल्पय + ति → कल्पयति/ते
३) इडागमः
इडागमपाठः पूर्वम् अधीतः | तत्र च सामान्यं ज्ञातम् | नाम, धातुः अपि सेट्, प्रत्ययः अपि इडानुकूलः इति चेत्, इडागमो भवति | तत्र च प्रत्ययप्रसङ्गे प्रमुखसूत्रत्रयम्—आर्धधातुकस्येड्वलादेः (७.२.३५), नेड् वशि कृति (७.२.८), तितुत्रतथसिसुसरकसेषु च (७.२.९) | तिङन्तप्रसङ्गे च तेषु एकमेव—आर्धधातुकस्येड्वलादेः (७.२.३५) |
अग्रे प्रत्येकं प्रत्ययविशेषे केचन विशिष्टनियमाः सन्ति ये केवलं तत्तत्प्रत्यये सम्बद्धाः | तासः प्रसङ्गे तादृशसूत्रद्वयं वर्तते—
तासि च क्लृपः (७.२.६०)
तासि च क्लृपः (७.२.६०) = कृप्-धातोः परस्य परस्मैपदसंज्ञक-तास् च परस्मैपदसंज्ञक-सकारादि-आर्धधातुकप्रत्ययः च अनयोः इडागमो न भवति | नाम, केवलम् आत्मनेपदसंज्ञक-तासः च आत्मनेपदसंज्ञक-सकारादि-आर्धधातुकप्रत्ययस्य इडागमो भवति | कृपू-धातुः उपदेशे आत्मनेपदी, किन्तु लुटि च क्लृपः (१.३.९३) इत्यनेन स्य, सन्, तास् इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृप्-धातुः विकल्पेन परस्मैपदी अपि भवति | सिद्धान्तकौमुद्यां लुटि स्यसनोश्च क्लृपेः परस्मैपदं वा स्यात् | अतः लुटि परस्मैपदे इडागमाभावे 'कल्प्ता' | आत्मनेपदे इडागमे सति 'कल्पिता' | तासि सप्तम्यन्तं, चाव्ययं, क्लृपः पञ्चम्यन्तं, त्रिपदमिदं सूत्रम् | आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यस्य सम्पूर्णसूत्रस्य अनुवृत्तिः | गमेरिट् परस्मैपदेषु (७.२.५८) इत्यस्मात् परस्मैपदेषु इत्यस्य अनुवृत्तिः | न वृद्भ्यश्चतुर्भ्यः (७.२.५९) इत्यस्मात् न इत्यस्य अनुवृत्तिः | ‘च' इत्यनेन सेऽसिचि कृतचृतच्छृदतृदनृतः (७.२.५७) इत्यस्मात् से इत्यस्य सप्तम्यन्तस्य अनुकर्षणम् | अनुवृत्ति-सहितसूर्त्रं— क्लृपः परस्मैपदेषु आर्धधातुकस्येड्वलादेः न तासि से च |
अत्र प्रश्नः उदेति अस्मिन् तासि च क्लृपः (७.२.६०) इति सूत्रे तासि इति पदस्य का आवश्यकता ? अपि च अनुवृत्तिसहितसूत्रे से इत्यस्य का आवश्यकता ? लुटि च क्लृपः (१.३.९३) इत्यनेन स्य, सन्, तास् इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृप्-धातुः विकल्पेन परस्मैपदी अपि भवति, इत्युक्तम्; अन्यत्र कृप्-धातुः आत्मनेपदी | अतः पुनः 'तासि से' इति वदनस्य का आवश्याता ? उत्तरमेवं यत् तासि च क्लृपः (७.२.६०) इति सूत्रं सप्तमाध्याये; तस्य च अर्थपूर्तिः न भवितुम् अर्हति लुटि च क्लृपः (१.३.९३) इति प्रथमाध्यस्थसूत्रेण | अष्टाध्याय्याम् अर्थपूर्तिः भवति अनुवृत्त्या च अधिकारसूत्रेण च | अत्र तादृशः अवसरः नास्ति अतः साक्षात् वदनस्यावश्यकता |
तीषसहलुभरुषरिषः (७.२.४८)
तीषसहलुभरुषरिषः (७.२.४८) = दिवादिगणे इष्-धातुः, सह्, लुभ्, रुष्, रिष् इत्येभ्यः पञ्चभ्यः धातुभ्यः तकारादि-आर्धधातुकप्रत्ययाः विकल्पेन इडागमानुकूलाः | ति सप्तम्यन्तम्, इषसहलुभरुषरिषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् |
तास्-प्रत्ययः तकारादि-आर्धधातुकप्रत्ययः अतः तस्य वा इडागमो भवति एभ्यः पञ्चभ्यः धातुभ्यः—
इष् → एष्टा / एषिता
सह् → सोढा / सहिता
लुभ् → लोब्धा / लोभिता
रुष् → रोष्टा / रोषिता
रिष् → रेष्टा / रेषिता
४) अतिदेशः
अतिदेशसूत्रद्वारा प्रत्ययस्य स्वभावः यथा, तस्मात् भिन्नो भवति | अनेन नूतनलक्षणम् अध्यारोप्यते | अष्टाध्याय्यां प्रथमाध्यायस्य द्विदीयपादस्य आरम्भे प्रायः सर्वाणि अतिदेशसूत्राणि स्थितानि (विरलतया अन्यत्रापि प्राप्यते) | एभिः सूत्रैः त्रयाणां गुणानाम् अध्याहारः— ङित्त्वं, कित्त्वम्, अकित्त्वञ्च | १.२.१ इत्यस्मात् आरभ्य १.२.२६ इति यावत् अतिदेशप्रकरणम् | तस्मिञ्च प्रथमचत्वारि सूत्राणि सामान्यानि; १.२.५ इत्यस्मात् आरभ्य विशिष्टसूत्राणि; इमानि च सर्वाणि आर्धधातुकप्रक्रियायामेव |
सार्वधातुकप्रक्रियायाम् एकमेव अतिदेशसूत्रम्— सार्वधातुकमपित् (१.२.४) | इदञ्च सामान्यम् अतिदेशसूत्रम् | अवशिष्टत्रीणि सामान्यानि अतिदेशसूत्रणि आर्धधातुकप्रक्रियायां भवन्ति | एतावता अतिदेशसूत्रचिन्तनम् अधिकं नापेक्षितम् आसीत् यतोहि सार्वधातुकप्रक्रियायां केवलं सार्वधातुकमपित् (१.२.४) | तदा आर्धधातुकप्रक्रियायां यत्र इडागमो न भवति—प्रेरणार्थे णिच्, कर्मणि भावे यक्, परस्मैपदे आशीर्लिङ्, यङन्ताः, यङ्लुगन्ताः च इत्येते सर्वे अनिडादयः—एषु स्थलेषु अतिदेशसूत्रणि न प्रसक्तानि |
इतः आरभ्यः अतिदेशचिन्तनम् अपेक्षितम् |
यथोक्तम् आर्धधातुकप्रक्रियायां त्रीणि सामान्यानि अतिदेशसूत्राणि | तानि च—
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१)
विज इट् (१.२.२)
विभाषोर्णोः (१.२.३)
इतः अग्रे सर्वत्र एतेषां प्रसङ्गे चिन्तनीयं भवति | लुटि एषां त्रयाणामपि कार्यं भवति | ततः अग्रे अस्मिन् लकारे विशिष्टातिदेशसूत्रणि नापेक्षितानि | (अत्र सामान्यसूत्राणि इत्युक्तं प्रत्ययम् अवलम्ब्य | यत्र यत्र आर्धधातुकप्रक्रिया प्रवर्तते, तत्र सर्वत्र एषां त्रयाणां प्रसक्तिर्भवति | अतः अत्र 'सामान्यसूत्रम्’ इत्युक्तौ प्रतययम् अवलम्ब्य न तु धातुमवलम्ब्य |)
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१)
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) = इङ्-धातोः स्थाने यः गाङ्-धातुः तस्मात् च कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | कुटादिगणे ३५ धातवः सन्ति; सर्वे धातवः तुदादिगणे सन्ति | कुट आदिर्येषां ते कुटादयः, बहुव्रीहिः | गाङ् च कुटादयश्च ते गाङ्कुटादयः, तेभ्यः कुटादिभ्यः | ञ् च ण् च तयोरितरेतरद्वन्द्वः ञ्णौ, ञ्णौ इतौ यस्य स ञ्णित् बहुव्रीहिः, न ञ्णित् अञ्णित्, द्वन्द्वगर्भबहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— गाङ्कुटादिभ्यः अञ्णित् ङित् |
लुटि सिद्धतिङ्प्रत्ययाः सर्वे ञित्-णित्-भिन्नाः इत्यतः गाङ्कुटादिभ्यः धातुभ्यः एते सर्वे ङिद्वत् भवन्ति | ततः सर्वत्र क्क्ङिति च (१.१.५) इति सूत्रेण गुणनिषेधः भवति | एतदेव च गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्य प्रयोजनं— गुणनिषेधः | अत्र प्रश्नः उदेति किमर्थम् उच्यते यत् गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) केवलम् आर्धधातुकप्रक्रियायाम् ? किमर्थं न सार्वधातुकप्रक्रियायाम् अस्य कार्यं स्यात् ? अस्य उत्तरमिदं यत् कुटादिगणः तुदादिगणे कश्चन अन्तर्गणः एव | नाम, सर्वे कुटदिगणीयाः धातवः तुदादिगणे एव | तुदादिगणे विकरणप्रत्ययः श; तस्य च 'श'-प्रत्ययस्य अपित्त्वात् सर्वत्र तुदादिगणे धातौ गुणनिषेधः | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इति सूत्रस्य कार्यं तु गुणनिषेधः एव—यः सार्वधातुकप्रक्रियायां तुदादिगणे सार्वधातुकमपित् (१.२.४) इत्यनेन साधितः—अतः सार्वधातुकप्रक्रियायां तुदादिगणे गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इति सूत्रं निष्प्रयोजनम् | अपि च यथा अग्रे उच्यते, गाङ्-धातुः सार्वधातुकप्रक्रियायां न भवति यतोहि अयं गाङ् इङ्-धातोः स्थाने एव भवति | स च धात्वादेशः लिटि, लुङि, लृङि हि | नाम, केवलम् आर्धधातुकप्रक्रियायाम् |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
व्यचेः कुटादित्वमनसीति वक्तव्यम् इति वार्तिकेन व्यच्-धातोः कुटादित्वं कृत्-प्रत्ययेषु परेषु एव इति कृत्वा लुटि नास्ति |
प्रेरणार्थे णिच्, कर्मणि भावे यक्, परस्मैपदे आशीर्लिङ्, यङन्ताः, यङ्लुगन्ताः च इत्येतेषु अनिडादिषु गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्य कार्यं किमर्थं न जातम् ? णिच् णित् इत्यतः सूत्रस्य प्रसक्तिर्नास्ति; अपरेषु स्थलेषु कित्त्वात् ङित्त्वात् च गुणनिषेधत्वात् गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्य किमपि फलं नास्ति— यक् कित्, परस्मैपदे आशीर्लिङि किदाशिषि (३.४.१०४) इत्यनेन आशिषि लिङ: यासुट् कित्, यङ् च ङित् |
कुटादयः धातवः
कुटादयः धातवः तेषां लुट्-लकाररूपाणि च अत्र प्रदर्श्यन्ते—
पञ्च अजन्तधातवः
धातुः | लुटि प्रथमैकवचने |
गु पुरीषोत्सर्गे | गुता |
कुङ् शब्दे | कुता |
ध्रु गतिस्थैर्ययोः | ध्रुता |
णू स्तवने | नुविता |
धू विधूनने | धुविता |
सर्वत्र क्क्ङिति च (१.१.५) इति सूत्रेण गुणनिषेधः; णू, धू, च सेटौ इत्यतः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन अजादि प्रत्यये परे उवङ्-आदेशः |
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशो भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं 'धातु' शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गं, भ्रू-प्रातिपदिकं च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात् इति अर्थः | श्नुश्च धातुश्च भ्रुश्च तेषाम् इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— य्वोः श्नुधातुभ्रुवाम् अङ्गानाम् इयङुवङौ अचि |
कुटादिगणे हलन्तधातवः
धातुः | लुटि प्रथमैकवचने | धातुः | लुटि प्रथमैकवचने |
डिप क्षेपे | डिपिता | कुच सङ्कोचने | कुचिता |
गुज शब्दे | गुजिता | कुटा कौटिल्ये | कुटिता |
पुट संश्लेषणे | पुटिता | स्फुट विकसने | स्फुटिता |
मुट आक्षेपमर्दनयोः | मुटिता | त्रुट छेदने | त्रुटिता |
तुट कलहकर्मणि | तुटिता | चुट छेदने | चुटिता |
छुट छेदने | छुटिता | जुट बन्धने | जुटिता |
लुट संश्लेषणे | लुटिता | घुट प्रतिघाते | घुटिता |
गुड रक्षायाम् | गुडिता | कुड बाल्ये | कुडिता |
पुड उत्सर्गे | पुडिता | तुड तोडने | तुडिता |
थुड संवरणे | थुडिता | स्थुड संवरणे | स्थुडिता |
स्फुड संवरणे | स्फुडिता | चुड संवरणे | चुडिता |
व्रुड संवरणे | व्रुडिता | क्रुड निमज्जने | क्रुडिता |
छुर छेदने | छुरिता | गुरी उद्यमाने | गुरिता |
स्फुर सञ्चलने | स्फुरिता | स्फुल सञ्चलने | स्फुलिता |
भृड निमज्जने | भृडिता | कृड घनत्वे | कृडिता |
लुटि गाङ् इतस्य प्रसङ्गो नास्ति यतोहि इङ्-धातोः स्थाने गाङ्-आदेशो न भवति लुट्-लकारे |
गाङ् लिटि (२.४.४९) इत्यनेन लिटि, लुङि, लृङि च अयम् आदेशो भवति; लिटि नित्यं, लुङि, लृङि च विकल्पेन |
विज इट् (१.२.२)
विज इट् (१.२.२) = तुदादिगणीय-विज्-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत् भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम् ? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्, इट्-प्रथमान्तं, द्विपदमिदं सूत्रम् | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— विजः इट् ङित् |
यथा—
उद् + विज् + इता → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः सेट् अतः ङिद्वत्; तस्मात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजिता
विभाषोर्णोः (१.२.३)
विभाषोर्णोः (१.२.३) = ऊर्णु-धातुतः विधीयमानाः इडादि-प्रत्ययाः विकल्पेन ङिद्वत् भवन्ति | विभाषा प्रथमान्तम्, ऊर्णोः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | विज इट् (१.२.२) इत्यस्मात् इट् इत्यस्य अनुवृत्तिः | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— ऊर्णोः इट् ङित् विभाषा |
यथा—
ऊर्णु + इता → इता विकल्पेन ङिद्वत् अतः क्क्ङिति च (१.१.५) इत्यनेन एकस्मिन् पक्षे गुणनिषेधः → ऊर्णु + इता → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उकारान्तधातुरूपि-अङ्गस्य उकारस्य स्थाने उवङ् आदेशो भवति अजादि-प्रत्यये परे → ऊर्णुविता
अपक्षे ङिद्वत्त्वं न भवति अतः गुणप्रसङ्गः—
ऊर्णु + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इता → एचोऽयवायावः (६.१.७७) → ऊर्णविता
विज इट् (१.२.२), विभाषोर्णोः (१.२.३) इति द्वे सूत्रे सार्वधातुकप्रक्रियायं किमर्थं न भवति ? द्वेऽपि सूत्रे इडागमम् अवलम्ब्य कार्यं कुरुतः | स च इडागमः सार्वधातुकप्रक्रियायांं न भवति एव |
इति लुट्-लकारस्य अतिदेशकार्याणि समाप्तानि | त्रीणि अपि सूत्राणि सामान्यानि; अग्रे गत्वाऽपि आर्धधातुकप्रक्रियायां सर्वत्र एषां प्राप्तिर्भवति |
तर्हि एतावता अस्माभिः दृष्टं यत् एकवारं यदा तिङ्प्रत्ययाः सिद्धाः, तदा धातु-प्रत्यययोः मध्ये सामान्य-अङ्गकार्यस्य साधनात् पूर्वं त्रीणि कार्याणि द्रष्टव्यानि—
१) धात्वादेशः— प्रसङ्गवशात् धातोः आकृतिः तु न परिवर्तनीया ?
२) इडागमः— धातोः इडागमदृष्ट्या मूलस्वभावः कः ? अपि च विद्यमान-प्रत्ययस्य प्रभावेन अनिट्-धातुः सेट् तु न जायमानः ? अथवा प्रत्ययस्य प्रभावेन सेट्-धातुः तु वेट् न जायमानः ?
३) अतिदेशः— केनचित् अतिदेशसूत्रेण प्रत्ययः ङिद्वत् अथवा किद्वत् इति भवति वा ?
अस्य सर्वस्य परिशीलनानन्तरमेव सामान्यम् अङ्गकार्यं साधनीयम् |
सामान्यम् अङ्गकार्यम्
केनचित् अतिदेशसूत्रेण तास्-प्रत्ययः ङिद्वत् नास्ति चेत्, इगन्तधातूनां च लघूपधधातूनां च इकः गुणादेशो भवति |
इगन्तधातवः
नी + लुट् → नी + तास् + तिप् → नी + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) → नेता
अग्रे गत्वा सर्वत्र सिद्धतिङ्-प्रत्ययः प्रदर्श्यते
हु + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) → होता
कृ + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) → कर्ता
इगन्तधातुः सेट् अस्ति चेत्, यान्तवान्तसन्धिरपि भवति |
शी + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इता → एचोऽयवायावः (६.१.७७) → शय् + इता → शयिता
यु + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → यो + इता → एचोऽयवायावः (६.१.७७) → यव् + इता → यविता
सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्, एकपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन 'इकः अङ्गस्य' इत्युक्ते न केवलम् इक् इति अङ्गं, किन्तु तादृशम् अङ्गं यस्य अन्ते इक्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |
एचोऽयवायावः (६.१.७७) = एचः (ए, ओ, ऐ, औ इत्येषां) स्थाने क्रमेण अय्, अव्, आय्, आव् इत्यादेशाः भवन्ति अचि परे | क्रमेण इत्युक्तं यथासंख्यमनुदेशः समानाम् (१.३.१०) इति परिभाषा सूत्रस्य साहाय्येन | अय् च, अव् च, आय् च, आव् च, तेषाम् इतरेतरद्वन्द्वः, अयवायावः | एचः षष्ठ्यन्तम्, अयवायावः प्रथमान्तं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७६) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— एचः अयवायावः अचि संहितायाम् |
लघूपधधातवः
लिख् → लिख् + इता → पुगन्तलघूपधस्य च (७.३.८६) → लेख् + इता → लेखिता
मिद् →
वृष् →
क्लृप् → अत्र रूपद्वयं यतोहि अयं धातुः स्वभावतः सेट्, किन्तु तासि च क्लृपः (७.२.६०) इति सूत्रेण कृप्-धातोः परस्य परस्मैपदसंज्ञक-तासः इडागमो न भवति | (कृपू-धातुः उपदेशे आत्मनेपदी, किन्तु लुटि च क्लृपः (१.३.९३) इत्यनेन तासि परे अयं कृप्-धातुः विकल्पेन परस्मैपदी अपि भवति |) तर्हि 'क्लृप् + इता’ अपि भवति, 'क्लृप् + ता’ अपि भवति; उभयत्र गुणकार्यम् | कल्पिता/कल्प्ता |
पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघूपधम् | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्, च अव्ययपदं, द्विपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् | अनुवृत्ति-सहितसूत्रम्— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
मृज्-धातोः वृद्धिः
मृज् + ता → मृजेर्वृद्धिः (७.२.११४) → मार्ज् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → मार्ष्टा
मृजेर्वृद्धिः (७.२.११४) = मृज्-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | अङ्गकार्यत्वात् प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकम् अथवा आर्धधातुकं भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम् | इकोगुण्वृद्धी (१.१.३) इत्यस्मात् परिभाषासूत्रात् इकः इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मृजेः अङ्गस्य इकः वृद्धिः |
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, तुक्-सहित-छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श् च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |
मृज्-धातुः वेट्, अतः 'मृज् + इता' इति रूपमपि कल्पनीयम् | अत्रापि वृद्धिकार्यं, किन्तु प्रत्ययः अजादिः अतः हल्सन्ध्यवसरो नास्ति | मार्जिता |
तास्-प्रत्ययः ङिद्वत् चेत् गुणनिषेधः
केनचित् अतिदेशसूत्रेण तास्-प्रत्ययः ङिद्वत् भवति चेत्, गुणकार्यं निषिध्यते |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
अतः ३५ कुटादयः धातवः अपि च विज्-धातुः, आहत्य ३६ धातुभ्यः तास्-प्रत्ययः ङिद्वत् भवति इति कारणतः क्क्ङिति च (१.१.५) इत्यनेन गुणः निषिध्यते |
यथा इगन्तधातुषु—
नू + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्रसक्तिः → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् → तास्-प्रत्ययः ञित्-णित्-भिन्न अतः ङिद्वत् → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → नू + इता → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इकारान्त-उकारान्तधातुरूपि-अङ्गस्य इकारस्य उकारस्य च स्थाने क्रमेण इयङ् उवङ् आदेशो भवति अजादि-प्रत्यये परे → नुव् + इता → नुविता
धू + इता →
गु + ता →
कु + ता →
ऊर्णु + इता → → विभाषोर्णोः (१.२.३) इत्यनेन ऊर्णु-धातुतः विधीयमानाः इडादि-प्रत्ययाः विकल्पेन ङिद्वत् →
लघूपधधातुषु—
डिप् + इता → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणप्रसक्तिः → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् → तास्-प्रत्ययः ञित्-णित्-भिन्न अतः ङिद्वत् → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → डिपिता
एवमेव—
पुट् + इता → पुटिता
स्फुर् + इता →
कृड् + इता →
उद्विज् + इता → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणप्रसक्तिः → विज इट् (१.२.२) इत्यनेन तुदादिगणीय-विज्-धातुतः सर्वे विधीयमानाः सेट्-प्रत्ययाः ङिद्वत् → तास्-प्रत्ययः अत्र इडादिः → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजिता
इदं वर्गीकरणम् अनुसृत्य लुट्-लकारस्य रूपसिद्धिः चिन्तनीया
सामान्यम् अङ्गकार्यं मनसि निधाय सर्वेभ्यः धातुभ्यः लुट्-लकारस्य रूपसिद्धिः इदं वर्गीकरणम् अनुसृत्य चिन्तनीयम्—
१) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषाम् अजन्तधातूनां लुट्-लकारस्य रूपसिद्धिः
२) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां लुट्-लकारस्य रूपसिद्धिः
३) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां वेटाम् अनिटां च हलन्तधातूनां लुट्-लकारस्य रूपसिद्धिः
४) णिजन्तधातूनां लुट्-लकारस्य रूपसिद्धिः
५) सन्नन्तधातूनां लुट्-लकारस्य रूपसिद्धिः
६) यङन्तधातूनां लुट्-लकारस्य रूपसिद्धिः
७) यङ्लुगन्तधातूनां लुट्-लकारस्य रूपसिद्धिः
८) क्यच्, क्यष्, क्यङ्-प्रत्ययान्तधातूनां लुट्-लकारस्य रूपसिद्धिः
अग्रे गत्वा सर्वत्र धातुः सेट् इति चेत्, ‘इडादय-प्रत्ययाः' संयोजनीयाः | पुनः धातुः अनिट् इति चेत्, ‘अनिडादय-प्रत्ययाः' संयोजनीयाः |
१) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषाम् अजन्तधातूनां लुट्-लकारस्य रूपसिद्धिः
आकारान्ताः च एजन्ताः च धातवः
सामान्याः आकारान्तधातवः
यथा जानीमः, सर्वे एकाचः आकारान्तधातवः अनिटः सन्ति | अत्र च किमपि विशिष्टकार्यं न वर्तते |
दा + ता → दाता
परस्मैपदे
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्र०पु० | दाता | दातारौ | दातारः |
म० पु० | दातासि | दातास्थः | दातास्थ |
उ० पु० | दातास्मि | दातास्वः | दातास्मः |
आत्मनेपदे
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्र०पु० | दाता | दातारौ | दातारः |
म० पु० | दातासे | दातासाथे | दाताध्वे |
उ० पु० | दाताहे | दातास्वहे | दातास्महे |
अग्रे गत्वा केवलं प्रथमपुरुषस्य एकवचनान्तरूपं प्रदर्श्यते |
दरिद्रा-धातुः
अनेकाच्-धातवः सर्वे सेटः इति जानीमः | अत्र तादृशः एकः आकारान्तधातुः वर्तते— दरिद्रा-धातुः | तत्र च एकं वार्तिकमस्ति—
दरिद्रातेरार्धधातुके लोपो वक्तव्यः इत्यनेन दरिद्रा-धातोः आर्धधातुके प्रत्यये परे आकारलोपो भवति |
दरिद्रा + इता → दरिद्र् + इता → दरिद्रिता
एजन्तधातवः
आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— एचः धातोः आत् उपदेशे अशिति |
धे + ता → आदेच उपदेशेऽशिति (६.१.४५) → धा + ता → धाता
ध्यै + ता → आदेच उपदेशेऽशिति (६.१.४५) → ध्या + ता → ध्याता
शो + ता → आदेच उपदेशेऽशिति (६.१.४५) → शा + ता → शाता
गै + ता → आदेच उपदेशेऽशिति (६.१.४५) → गा + ता → गाता
इकारान्तधातवः
सामान्याः इकारान्तधातवः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | अपि च श्रि, श्वि इति धातुद्वयं त्यक्त्वा अन्ये सर्वे एकाचः इकारान्तधातवः अनिटः |
जि + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → जे + ता → जेता
चि + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) → चेता
अधि + इ + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) → अधि + ए + ता → अध्येता
श्रि, श्वि इति धातू
इमौ द्वौ धातू सेटौ इति जानीमः |
श्रि + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → श्रे + इता → एचोऽयवायावः (६.१.७७) → श्रयिता
श्वि + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → श्वे + इता → एचोऽयवायावः (६.१.७७) → श्वयिता
डुमिञ् प्रेक्षणे
मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम् अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्व जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित् मतेन अशिति इति अनुवृत्तिः न भवेत् यतोहि कोऽपि शित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम-अलः वर्णस्य स्थाने एच्-आदेशः स्यात् | केषाञ्चित् च मतेन उपदेशे इत्यस्य अनुवृत्तिः न भवेत् | मीनातिश्च मिनोतिश्च दीङ् च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम् | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— मीनातिमिनोतिदीङाम् आत् ल्यपि च एच (एज्निमित्ते प्रत्यये) उपदेशे अशिति |
डुमिञ् + ता → मि + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्रसक्तिः → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → मा + ता → माता
ईकारान्तधातवः
सामान्याः ईकारान्तधातवः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | डीङ्, शीङ् इति धातुद्वयं त्यक्त्वा अन्ये सर्वे एकाचः ईकारान्तधातवः अनिटः |
नी + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → ने + ता → नेता
भी + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) → भेता
क्री + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) → क्रे + ता → क्रेता
डीङ्, शीङ् इति धातू
इमौ द्वौ धातू सेटौ इति जानीमः |
डीङ् + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → डे + इता → एचोऽयवायावः (६.१.७७) → डयिता
शीङ् + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इता → एचोऽयवायावः (६.१.७७) → शयिता
दीधी, वेवी
दीधी, वेवी इति द्वौ धातू अनेकाचौ अतः सेटौ
दीधीवेवीटाम् (१.१.६) = दीधीङ्, वेवीङ् इति धात्वोः च इट् इत्यागमस्य च, एषां गुणः वृद्धिः च न भवतः | दिधीश्च वेवीश्च इट् च तेषामितरेतरद्वन्द्वः दीधीवेवीटः, तेषां दीधीवेवीटाम् | इको गुणवृद्धी (१.१.३) इत्यस्मात् गुणवृद्धी इत्यस्य अनुवृत्तिः | न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— दीधी-वेवी-इटाम् इकः गुणवृद्धी न |
यीवर्णयोर्दीधीवेव्योः (७.४.५३) = यकारादिः च इकारादिः च प्रत्यये परे देधी, वेवी इति धात्वोः ईकारस्य लोपो भवति |
दीधी + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्रसक्तिः → दीधीवेवीटाम् (१.१.६) इत्यनेन गुणनिषेधः → दीधी + इता → यीवर्णयोर्दीधीवेव्योः (७.४.५३) इत्यनेन धातोः ईकारलोपः → दीध् + इता → दीधिता
मीञ् हिंसायां, दीङ् क्षये इति द्वौ धातू
मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम् अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्व जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित् मतेन अशिति इति अनुवृत्तिः न भवेत् यतोहि कोऽपि शित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम-अलः वर्णस्य स्थाने एच्-आदेशः स्यात् | केषाञ्चित् च मतेन उपदेशे इत्यस्य अनुवृत्तिः न भवेत् | मीनातिश्च मिनोतिश्च दीङ् च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम् | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— मीनातिमिनोतिदीङाम् आत् ल्यपि च एच (एज्निमित्ते प्रत्यये) उपदेशे अशिति |
(प्र +) मीञ् + ता → मी + ता → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → प्र + मा + ता → प्रमाता
(उप +) दीङ् + ता → दी + ता → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → उप + दा + ता → उपदाता
लीङ् श्लेषणे ली श्लेषणे इति द्वौ धातू
विभाषा लीयतेः (६.१.५१) =लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ) इत्यनयोः विकल्पेन आत्वादेशो भवति एचः विषये |
ली → ले → ला → विलाता | आत्वाभावे विलेता |
उकारान्तधातवः
सामान्याः उकारान्तधातवः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | यु, रु, नु, स्नु, क्षु, क्ष्णु इत्येतान् धातून् त्यक्त्वा अन्ये सर्वे एकाचः उकारान्तधातवः अनिटः |
हु + ता→ सार्वधातुकार्धधातुकयोः (७.३.८४) → हो + ता → होता
द्रु + ता→ सार्वधातुकार्धधातुकयोः (७.३.८४) → द्रो + ता → द्रोता
षट् सेटः उकारान्तधातवः
यु, रु, नु, स्नु, क्षु, क्ष्णु इत्येते धातवः सेटः
यु + इता →
एवमेव रु, नु, स्नु, क्षु, क्ष्णु |
उकारान्ताः कुटादिधातवः
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) = इङ्-धातोः स्थाने यः गाङ्-धातुः तस्मात् च कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | कुटादिगणे ३५ धातवः सन्ति; सर्वे धातवः तुदादिगणे सन्ति | कुट आदिर्येषां ते कुटादयः, बहुवीहिः | गाङ् च कुटादयश्च ते गाङ्कुटादयः, तेभ्यः कुटादिभ्यः | ञ् च ण् च तयोरितरेतरद्वन्द्वः ञ्णौ, ञ्णौ इतौ यस्य स ञ्णित् बहुव्रीहिः, न ञ्णित् अञ्णित्, द्वन्द्वगर्भो बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— गाङ्कुटादिभ्यः अञ्णित् ङित् |
लुटि सिद्धतिङ्प्रत्ययाः सर्वे ञित्-णित्-भिन्नाः इत्यतः गाङ्कुटादिभ्यः धातुभ्यः एते सर्वे ङिद्वत् भवन्ति | ततः सर्वत्र क्क्ङिति च (१.१.५) इति सूत्रेण गुणनिषेधः भवति |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
गु पुरीषोत्सर्गे
गु + ता → गुता
ध्रु गतिस्थैर्ययोः
ध्रु + ता →
कुङ् शब्दे
कु + ता →
ऊर्णु-धातुः
विभाषोर्णोः (१.२.३) = ऊर्णु-धातुतः विधीयमानाः इडादि-प्रत्ययाः विकल्पेन ङिद्वत् भवन्ति | विभाषा प्रथमान्तम्, ऊर्णोः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | विज इट् (१.२.२) इत्यस्मात् इट् इत्यस्य अनुवृत्तिः | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङिट् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— ऊर्णोः इट् ङिट् विभाषा |
यथा—
ऊर्णु + इता → इता विकल्पेन ङिद्वत् अतः क्क्ङिति च (१.१.५) इत्यनेन एकस्मिन् पक्षे गुणनिषेधः → ऊर्णु + इता → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उकारान्तधातुरूपि-अङ्गस्य उकारस्य स्थाने उवङ् आदेशो भवति अजादि-प्रत्यये परे → ऊर्णुविता
अपक्षे ङिद्वत्त्वं न भवति अतः गुणप्रसङ्गः—
ऊर्णु + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इता → एचोऽयवायावः (६.१.७७) → ऊर्णविता
ऊकारान्तधातवः
सामान्याः ऊकारान्तधातवः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | इडागमपाठे 'सर्वे ऊकारान्तधातवः सेटः' इति अधीतवन्तः |
भू + इता→ सार्वधातुकार्धधातुकयोः (७.३.८४) → भो + इता → एचोऽयवायावः (६.१.७७) → भविता
पू + इता→ सार्वधातुकार्धधातुकयोः (७.३.८४) →
वस्तुतस्तु चत्वारः ऊकारान्तधातवः वेटः इत्यपि ज्ञातवन्तः वेट्-धातुपाठे | एते चत्वारः वेट्-धातवः सन्ति— द्वौ धू-धातू (धूञ् कम्पने स्वादौ क्र्यादौ च), द्वौ सू-धातू ('षूङ् प्राणिगर्भविमोचने' अदादिगणे, ‘षूङ् प्राणिप्रसवे' दिवादिगणे) | धू विधूनने, धूञ् कम्पने चुरादि चेति द्वौ धातू सेटौ |
इडादिपक्षे—
धू + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → धो + इता → एचोऽयवायावः (६.१.७७) → धविता |
एवेमेव सू + इता →
अनिडादिपक्षे—
धू + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) → धो + ता → धोता
एवेमेव सू + ता →
कुटादिधातवः
कुटादिगणे णू स्तवने, धू विधूनने इति द्वौ ऊकारान्तधातवः स्तः | द्वावपि सेटौ; द्वयोरपि कुटादिगणीयत्वस्य गुणनिषेधत्वात् उवङ्-आदेशः |
णू स्तवने → नुविता
धू विधूनने → धुविता
णू + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः प्रसक्तः → क्क्ङिति च (१.१.५) इति सूत्रेण गुणनिषेधः→ नू + इता → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन अजादि प्रत्यये परे उवङ्-आदेशः → न् + उव् + इता → नुविता
एवमेव
धू + इता →
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशो भवति अजादि-प्रत्यये परे |
ब्रू-धातोः वच् इति धात्वादेशः
ब्रू +तास् + तिप् → ब्रुवो वचिः (२.४.५३) इत्यनेन ब्रुवो वचिरादेशो भवति आर्धधातुकविषये → वच् +तास् + तिप् → वच् + ता → चोः कुः (८.२.३०) इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति झलि परे → वक्ता
ब्रुवो वचिः (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | इकार उच्चारणार्थः | ब्रुवः षष्ठ्येकवचनं, वचिः प्रथमैकवचनं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ब्रुवः वचिः आर्धधातुके |
ऋकारान्तधातवः
सामान्याः ऋकारान्तधातवः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | वृङ्,वृञ् इति द्वौ धातू सेटौ; स्वृ-धातुः वेट्; एतान् त्रीन् धातून् विहाय अन्ये सर्वे एकाचः ऋकारान्तधातवः अनिटः |
कृ + ता→ सार्वधातुकार्धधातुकयोः (७.३.८४) → कर् + ता → कर्ता
धृ + ता→ सार्वधातुकार्धधातुकयोः (७.३.८४) →
भृ + ता→ सार्वधातुकार्धधातुकयोः (७.३.८४) →
वृङ्,वृञ् इति द्वौ धातू सेटौ
वॄतो वा (७.२.३८)
वॄतो वा (७.२.३८) = वृ-धातोः ॠकारान्तेभ्यश्च धातुभ्यः इटो वा दीर्घो भवति | वृ इत्यनेन वृङ्वृञोः सामान्येन ग्रहणम् |
वृङ् + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → वर् + इता → वरिता / वरीता
वृञ् + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) →
स्वृ-धातुः वेट्
इडादिपक्षे—
स्वृ + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्वर् + इता → स्वरिता |
अनिडादिपक्षे—
स्वृ + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्वर् + ता → स्वर्ता
ॠकारान्तधातवः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | यथा अधीतवन्तः इडागमपाठे, सर्वे एकाचः ॠकारान्तधातवः सेटः |
तॄ + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → तर् + इता → तरिता → वॄतो वा (७.२.३८) इत्यनेन ॠकारान्तेभ्यश्च धातुभ्यः इटो वा दीर्घो भवति → तरीता | तरिता, तरीता |
शॄ + इता →
जॄ + इता →
गॄ + इता →
इति सर्वेषाम् अजन्तधातूनां लुट-लकारस्य रूपसिद्धिः समाप्ता |
२) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां लुट्-लकारस्य रूपसिद्धिः
हलन्तधातवः आधिक्येन सेटः यथा जानीमः |
यावन्तः हलन्तधातवः सेटः, तेषु ये लघूपधधातवः न, एषां किमपि कार्यं नास्ति— केवलं वर्णमेलनम् |
यथा—
अर्च पूजायाम् → अर्च् → अर्च् + इता → अर्चिता
चर्च परिभाषणहिंसातर्जनेषु → चर्च् → चर्च् + इता → चर्चिता
टुयाचृ याञ्चायाम् → याच् → याच् + इता → याचिता
घट चेष्टायाम् → घट् + इता → घटिता
वन शब्दे → वन् + इता → वनिता
प्रस् विस्तारे → प्रस् → प्रस् + इता → प्रसिता
एवमेव—
पठ् + इता → पठिता
वद् + इता → वदिता
मील् + इता → मीलिता
मूष् + इता → मूषिता
ये सेट्-धातवः लघूपधाः, तेषां पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः भवति |
सेट् इदुपधधातवः
लिख् + इता → पुगन्तलघूपधस्य च (७.३.८६) → लेख् + इता→ लेखिता
मिद् + इता → पुगन्तलघूपधस्य च (७.३.८६) → मेद् + इता→ मेदिता
चित् + इता → पुगन्तलघूपधस्य च (७.३.८६) → चेत् + इता→ चेतिता
कुटादिगणीयः सेट् इदुपधधातुः एकः एव— डिप्-धातुः
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | अतः एभ्यः धातुभ्यः क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधो भवति |
डिप् + इता → डिपिता
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) = इङ्-धातोः स्थाने यः गाङ्-धातुः तस्मात् च कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | कुटादिगणे ३५ धातवः सन्ति; सर्वे धातवः तुदादिगणे सन्ति | कुट आदिर्येषां ते कुटादयः, बहुवीहिः | गाङ् च कुटादयश्च ते गाङ्कुटादयः, तेभ्यः कुटादिभ्यः | ञ् च ण् च तयोरितरेतरद्वन्द्वः ञ्णौ, ञ्णौ इतौ यस्य स ञ्णित् बहुव्रीहिः, न ञ्णित् अञ्णित्, द्वन्द्वगर्भो बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— गाङ्कुटादिभ्यः अञ्णित् ङित् |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
विज्-धातुः
विज इट् (१.२.२) = तुदादिगणीय-विज्-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत् भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम् ? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्, इट्-प्रथमान्तं, द्विपदमिदं सूत्रम् | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— विजः इट् ङित् |
यथा—
उद् + विज् + इता → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः सेट् अतः ङिद्वत्; तस्मात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजिता
सेट् उदुपधधातवः
ये सेट्-धातवः उदुपधाः, तेषां पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः भवति |
मुद् + इता → पुगन्तलघूपधस्य च (७.३.८६) → मोद् + इता→ मोदिता
प्लुष् + इता → पुगन्तलघूपधस्य च (७.३.८६) → प्लोष् + इता→ प्लोषिता
कुटादिगणीयाः सेट्-उदुपधधातवः
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | अतः एभ्यः धातुभ्यः क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधो भवति |
धातुः | लुटि प्रथमैकवचने | धातुः | लुटि प्रथमैकवचने |
कुच सङ्कोचने | कुचिता | ||
गुज शब्दे | गुजिता | कुट कौटिल्ये | कुटिता |
पुट संश्लेषणे | पुटिता | स्फुट विकसने | स्फुटिता |
मुट आक्षेपमर्दनयोः | मुटिता | त्रुट छेदने | त्रुटिता |
तुट कलहकर्मणि | तुटिता | चुट छेदने | चुटिता |
छुट छेदने | छुटिता | जुट बन्धने | जुटिता |
लुट संश्लेषणे | लुटिता | घुट प्रतिघाते | घुटिता |
गुड रक्षायाम् | गुडिता | कुड बाल्ये | कुडिता |
पुड उत्सर्गे | पुडिता | तुड तोडने | तुडिता |
थुड संवरणे | थुडिता | स्थुड संवरणे | स्थुडिता |
स्फुड संवरणे | स्फुडिता | चुड संवरणे | चुडिता |
व्रुड संवरणे | व्रुडिता | क्रुड निमज्जने | क्रुडिता |
छुर छेदने | छुरिता | गुरी उद्यमाने | गुरिता |
स्फुर सञ्चलने | स्फुरिता | स्फुल सञ्चलने | स्फुलिता |
सेट् ऋदुपधधातवः
ये सेट्-धातवः ऋदुपधाः, तेषां पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः भवति |
वृष् + इता → पुगन्तलघूपधस्य च (७.३.८६) → वर्ष् + इता → वर्षिता
हृष् + इता → पुगन्तलघूपधस्य च (७.३.८६) → हर्ष् + इता → हर्षिता
कुटादिगणीयौ सेटौ ऋदुपधधातू द्वौ— कृड्, भृड्
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | अतः एभ्यः धातुभ्यः क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधो भवति |
कृड् + इता → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१), क्क्ङिति च (१.१.५) → कृडिता
भृड् + इता → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१), क्क्ङिति च (१.१.५) → भृडिता
कृप्-धातोः धात्वादेशः च परस्मैपदे इडागमनिषेधः
कृप् + इता → पुगन्तलघूपधस्य च (७.३.८६) → कर्प् + इता → कृपो रो लः (८.२.१८) इत्यनेन् कृप्-धातोः रेफस्य लकारादेशः → कल्प् + इता → कल्पिता आत्मनेपदे (परस्मैपदे तासि च क्लृपः (७.२.६०) इत्यनेन इडागमनिषेधः अतः कल्प्ता |)
कृपो रो लः (८.२.१८) = कृप्-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम् | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम् | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तम्, अनेकपदमिदं सूत्रम् | कृपः इत्यस्य द्विवारम् आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्— कृपः उः कृपः रः लः |
तासि च क्लृपः (७.२.६०) = कृप्-धातोः परस्य परस्मैपदसंज्ञक-तास् च परस्मैपदसंज्ञक-सकारादि-आर्धधातुकप्रत्ययः च अनयोः इडागमो न भवति | नाम, केवलम् आत्मनेपदसंज्ञक-तासः च आत्मनेपदसंज्ञक-सकारादि-आर्धधातुकप्रत्ययस्य इडागमो भवति | कृपू-धातुः उपदेशे आत्मनेपदी, किन्तु लुटि च क्लृपः (१.३.९३) इत्यनेन स्य, सन्, तास् इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृप्-धातुः विकल्पेन परस्मैपदी अपि भवति | सिद्धान्तकौमुद्यां लुटि स्यसनोश्च क्लृपेः परस्मैपदं वा स्यात् | अतः लुटि परस्मैपदे इडागमाभावे 'कल्प्ता' | आत्मनेपदे इडागमे सति 'कल्पिता' | तासि सप्तम्यन्तं, चाव्ययं, क्लृपः पञ्चम्यन्तं, त्रिपदमिदं सूत्रम् | आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यस्य सम्पूर्णसूत्रस्य अनुवृत्तिः | गमेरिट् परस्मैपदेषु (७.२.५८) इत्यस्मात् परस्मैपदेषु इत्यस्य अनुवृत्तिः | न वृद्भ्यश्चतुर्भ्यः (७.२.५९) इत्यस्मात् न इत्यस्य अनुवृत्तिः | ‘च' इत्यनेन सेऽसिचि कृतचृतच्छृदतृदनृतः (७.२.५७) इत्यस्मात् से इत्यस्य सप्तम्यन्तस्य अनुकर्षणम् | अनुवृत्ति-सहितसूर्त्रं— क्लृपः परस्मैपदेषु आर्धधातुकस्येड्वलादेः न तासि से च |
ग्रह्-धातुः
ग्रहोऽलिटि दीर्घः (७.२.३७) = एकाच्-ग्रहेः विहितस्य इटः दीर्घः स्यात् न तु लिटि ।
ग्रह् + इता → ग्रहोऽलिटि दीर्घः (७.२.३७) → ग्रह् + ईता → ग्रहीता
एवमेव ग्रहीतुम् , ग्रहीतव्यम् |
चक्ष्-धातुः
चक्षिङ्-धातुः—
चक्ष्-धातोः ख्या / क्शा इति आदेशौ | यद्यपि चक्ष्-धातुः सेट्, तथापि तस्य ख्या/क्शा इति धात्वादेशौ अनिटौ |
चक्ष् + लुट् → ख्या + ता → ख्याता
चक्ष् + लुट् → क्शा + ता → क्शाता
चक्षिङः ख्याञ् (२.४.५४) | ख्याता | क्शाता |
चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्-आदेशः | किन्तु अत्र भाष्यकारो वदति यत् क्शादिरयमादेशः, इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि चा पूर्वत्रासिद्धम् (८.२.१) इति अधिकारे एकं वार्तिकम् अस्ति ख्शाञः शस्य यो वा वक्तवयः | अनेन ख्शाञ् इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति | फलितार्थः अयं यत् आर्धधातुकप्रत्यये परे चक्षिङ्-धातोः स्थाने ख्याञ्, ख्शाञ् इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्, अपरस्मिन् पक्षे ख्शाञ् |
चक्षिङः ख्याञ् (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ् प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चक्षिङः ख्याञ् आर्धधातुके |
अज्-धातुः
अज्-धातोः वी इति आदेशः | यद्यपि अज्-धातुः सेट्, तथापि तस्य वी इति धात्वादेशः अनिट् |
अज् + लुट् → वी + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) → वे + ता → वेता
अजेर्व्यघञपोः (२.४.५६) | अज् → वेता |
अजेर्व्यघञपोः (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ् च अप् च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अजेः वी आर्धधातुके अघञपोः |
इति भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां लुट्-लकारस्य रूपसिद्धिः समाप्ता |
३) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां वेटाम् अनिटां च हलन्तधातूनां लुट्-लकारस्य रूपसिद्धिः
हलन्तधातुषु १०२ धातवः अनिटः इति जानीमः | अपि च हलन्तधातुषु ३७ धातवः वेटः इत्यस्माभिः दृष्टम् | एतेषु पुनः २४ धातवः ऊदितः, ८ धातवः रधादयः, अपि च एकः निर्-उपसर्गपूर्वक-कुष्-धातुः | सम्प्रति एतेषां सर्वेषां लुट्-लकारान्तरूपं साधयिष्यामः | धेयं यत् तास्-प्रत्ययः तकारादिः अतः सर्वत्र तकारे परे हल्-सन्धिः यथा भवति, तथैव अत्र सर्वत्र चिन्तनीयम् अस्ति |
कवर्गान्तधातवः
धातोः अन्तिमवर्णः ककारः, खकारः, अथवा गकारः चेत्, खरि च (८.४.५५) इत्यनेन चर्त्वं कृत्वा रूपसिद्धिः क्रियते |
एक एव एकाच् कवर्गान्तधातुः शक्
एक एव एकाच् कवर्गान्तधातुः अनिट् अस्ति—
शक् + ता → खरि च (८.४.५५) → शक्ता
खरि च (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | झलां जश् झशि (८.४.५३) इत्यस्मात् झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च (८.४.५४) इत्यस्मात् चर्च इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— झलां चर् खरि च संहितायाम् |
चवर्गान्तधातवः
एकाच्-चकारान्तधातवः - षड् धातवः अनिटः
पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन यथासङ्गं लघूपधधातूनाम् उपधागुणः भवति | तदा सर्वत्र चोः कुः (८.२.३०) इत्यनेन कुत्वं, तदा खरि च (८.४.५५) इत्यनेन चर्त्वम् |
पच् + ता → चोः कुः (८.२.३०) → पक् + ता→ खरि च (८.४.५५) + ता → पक् + ता → पक्ता
वच् + ता →
रिच् + ता →
विच् + ता →
सिच् + ता →
मुच् + ता →
पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघूपधम् | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्, च अव्ययपदं, द्विपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् | अनुवृत्ति-सहितसूत्रम्— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चोः कुः झलि पदस्य अन्ते च |
वेट्-चकारान्तधातवः—तञ्चू, व्रश्च्
तञ्चू, व्रश्च् इत्येतौ द्वौ धातू वेटौ |
तञ्चू-धातुः
इडादिपक्षे—
तञ्च् + इता → तञ्चिता
अनिडादिपक्षे—
अस्य साधनार्थं धेयं यत् वस्तुतस्तु नोपधधातूनां मूले दन्त्यनकारः एव अस्ति |
तन्च् + ता → चोः कुः (८.२.३०) → तन्क् + ता → नश्चापदान्तस्य झलि (८.३.२४) → खरि च (८.४.५५) → तंक् + ता → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → तङ्क्ता
नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनुस्वारस्य ययि परसवर्णः संहितायाम् |
व्रश्च-धातुः
इडादिपक्षे—
व्रश्च् + इता → व्रश्चिता
अनिडादिपक्षे—
व्रश्च् + ता → स्कोः संयोगाद्योरन्ते च (८.२.२९) → व्रच् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → व्रष् + ता → ष्टुना ष्टुः (८.४.४१) → व्रष्टा
प्रश्नः उदेति कथं स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन शकारलोपः यदा सूत्रेण सकारलोपस्य विधानम् | सामान्यतया वदामः यत् 'वस्तुतः अत्र मूले सकारः आसीत्; श्चुत्वसन्धिना एव शकारः जातः' | अस्तु, तत्तु सत्यं; किन्तु अधुना शकारः अस्ति किल न तु सकारः | इति चेत् कथं वा स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन सकारलोपः स्यात् ? अकृतव्यूहाः पाणिनीयाः (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम् इत्यस्मात् व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन श्चुत्वसन्धेः निमित्तचकारस्य जायमानात् नाशात् स्तोः श्चुना श्चुः (८.४.४०) इति सूत्रं न प्रवर्तनीयमेव | अतः सकारः तिष्ठति | व्रस्च् + ता → स्कोः संयोगाद्योरन्ते च (८.२.२९) → व्रच् + ता |
स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श् च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |
ष्टुना ष्टुः (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन |
व्यच्-धातुः
व्यच्-धातुः सेट् | अत्र विशेषवार्ता एवं यत् व्यचेः कुटादित्वमनसीति वक्तव्यम् इति वार्तिकेन व्यच्-धातोः परं यावन्तः अस्-भिन्न-कृत्-प्रत्ययाः सन्ति, ते सर्वे ङिद्वत् भवन्ति | परन्तु तिङ्-प्रत्ययाः तथा न भवन्ति | प्रत्ययः ङिद्वत् अस्ति चेत् व्यच् इति प्रकृतौ सम्प्रसारणं भवति | तिङ्-प्रत्ययाः वार्तिकस्य अन्तर्गते न सन्ति अतः ङिद्वत् न सन्ति | तदर्थं सम्प्रसारणं न भवति | व्यच् + इता → व्यचिता |
छकारान्तधातुः
एकाच्-छकारान्तधातुः - एक एव छकारन्तधातुः अनिट् अस्ति |
च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन शत्वं, तदा व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम्
प्रच्छ्
प्रच्छ् + ता → च्छ्वोः शूडनुनासिके च (६.४.१९) → प्रश् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → प्रष् + ता → ष्टुना ष्टुः (८.४.४१) → प्रष्टा
च्छ्वोः शूडनुनासिके च (६.४.१९) = तुक्-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ् च व् च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श् च ऊठ् च तयोः समाहारद्वन्द्वः शूड् | झलां जशोऽन्ते (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— च्छ्वोः अङ्गस्य शूड् क्विझलोः अनुनासिके च |
जकारान्तधातवः
एकाच्-जकारान्तधातवः - १५ धातवः अनिटः
एषु केचन सामान्याः, केचन च विशेषाः | ये सामान्याः सन्ति ते लघूपधाः चेत् पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं भवति; सामान्यानां सर्वेषां हल्सन्धिः भवति चोः कुः (८.२.३०) च खरि च (८.४.५५) चेति सूत्राभ्याम् |
त्यज् + ता → चोः कुः (८.२.३०) → त्यग् + ता → खरि च (८.४.५५) → त्यक्ता
भज् + ता →
निज् + ता → पुगन्तलघूपधस्य च (७.३.८६) → नेज् + ता → चोः कुः (८.२.३०) → खरि च (८.४.५५) → नेक्ता
विज् + ता →
भुज् + ता →
रुज् + ता →
युज् + ता →
भञ्ज् + ता →
रञ्ज् + ता →
स्वञ्ज् + ता →
सञ्ज् + ता →
विशिष्ट-अनिट्-जकारान्तधातवः
धातौ आगमः
मस्ज् - मस्जिनशोर्झलि (७.१.६०)
सृज् - सृजिदृशोर्झल्यमकिति (६.१.५८)
मस्ज्-धातुः
मस्ज्-धातोः नुमागमः भवति झलादिप्रत्यये परे |
मस्जिनशोर्झलि (७.१.६०) = मस्ज्-धातोः च नश्-धातोः च नुम्-आगमो भवति झालादि-प्रत्यये परे | मस्जिश्च नश् च तयोरितरेतरद्वन्द्वः मस्जिनशौ, तयोर्मस्जिनशोः | मस्जिनशोः षष्ठ्यन्तं, झलि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | इदितो नुम् धातोः (७.१.५८) इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः, येन 'प्रत्यय'-पदस्यापि सूत्रार्थे आक्षेपः | अनुवृत्ति-सहितसूत्रम्— मस्जिनशोः अङ्गस्य नुम् झलि प्रत्यये |
मस्जेरन्त्यात्पूर्व नुम् वक्तव्यः इति वार्तिकेन मस्ज्-धातोः नुम्-आगमः भवति अन्त्यात् वर्णात् पूर्वम् |
मस्ज् + ता → मस्न्ज + ता → स्कोः संयोगाद्योरन्ते च (८.२.२९) → मन्ज् + ता → चोः कुः (८.२.३०) → मन्ग् + ता → नश्चापदान्तस्य झलि (८.३.२४) → मंग् → ता → खरि च (८.४.५५) → मंक् + ता → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → मङ्क्ता
स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |
नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनुस्वारस्य ययि परसवर्णः संहितायाम् |
सृज्-धातुः
सृजिदृशोर्झल्यमकिति (६.१.५८) इत्यनेन सृज्-धातोः अम्-आगमो भवति कित्-भिन्न-झलादि प्रत्यये परे |
सृज् + ता → सृज् + अम् + ता → सृ-अ-ज् + ता → इको यणचि (६.१.७६) → स्रज् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → स्रष् + ता → ष्टुना ष्टुः (८.४.४१) → स्रष्टा
सृजिदृशोर्झल्यमकिति (६.१.५८) = सृज्-धातोः च दृश्-धातोः च अम्-आगमो भवति कित्-भिन्न-झलादि प्रत्यये परे | सृजिश्च दृश्च तयोरितरेत्तरद्वन्द्वः सृजिदृशौ, तयोः सृजिदृशोः | न कित् अकित् नञ्तत्पुरुषः, तस्मिन् अकिति | सृजिदृशोः षष्ठ्यन्तं, झलि सप्तम्यन्तम्, अम् प्रथमान्तम्, अकिति सप्तम्यन्तम्,अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णाम्— सृजिदृशोः अम् झलि अकिति |
धात्वादेशः
भ्रस्ज् - भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७)
अज्-धातुः - अजेर्व्यघञपोः (२.४.५६)
विज्-धातुः - विज इट् (१.२.२)
भ्रस्ज्-धातुः
भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) | भ्रस्ज् → भर्ष्टा, भ्रष्टा |
भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) = भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने विकल्पेन रम्-आगमो भवति आर्धधातुक-प्रत्यये परे | 'रम्' इति आगमे अकारः उच्चारणार्थः; मकारः इत्संज्ञकश्च | कौमुदीकारः प्रतिपादयति यदत्र 'स्थाने' इत्यपि अस्ति, ‘आगमः' इत्यपि अस्ति; एकस्मिन्नेव सूत्रे उभे कार्ये | नाम 'रेफस्य उपधावर्णस्य च स्थाने’ भवति—स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः;अपि च रम् इति आगमः अस्ति मित्त्वादन्त्यादचः परः | रम् इत्यस्मिन् अकारः उच्चारणार्थः | रश्च उपधा च तयोरितरेतरद्वन्द्वो रोपधे, तयोः रोपधयोः | भ्रस्जः षष्ठ्यन्तं, रोपधयोः षष्ठ्यन्तं, रमश्च प्रथमान्तम्, अन्यतरस्यां सप्त्यम्यन्तम्, अनेकपदमिदं सूत्रम् | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रं— भ्रस्जो रोपधयोः रम् अन्यतरस्याम् आर्धधातुके |
भ्रस्ज् + ता → भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) इत्यनेन भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने, रम्-आगमः च → रेफसकारयोः निवृत्तिः → भज् → रेफः इति आगमः → भर्ज् → भर्ज् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि → भर्ष् + ता → ष्टुना ष्टुः (८.४.४१) → भर्ष्टा
तदभावे—
भ्रस्ज् + ता → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन संयोगाद्योः स्कोः लोपः झलि → भ्रज् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि → भ्रष् + ता → ष्टुना ष्टुः (८.४.४१) → भ्रष्टा
अज् - धातुः
अज् + लुट् → वेता |
अजेर्व्यघञपोः (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ् च अप् च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अजेः वी आर्धधातुके अघञपोः |
तुदादिगणीय-विज्-धातुः
विज इट् (१.२.२) = तुदादिगणीय-विज्-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत् भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम् ? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्, इट्-प्रथमान्तं, द्विपदमिदं सूत्रम् | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— विजः इट् ङित् |
यथा—
उद् + विज् + इता → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः सेट् अतः ङिद्वत्; तस्मात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजिता
यज्-धातुः - सन्धिविशेषः
यज् - व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन झलि परे षत्त्वम् |
यज् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → यष् + ता → ष्टुना ष्टुः (८.४.४१) → यष्टा
वेट्-धातवः - अञ्जू, मृजू
अञ्ज्-धातुः
इडादिपक्षे—
अञ्ज् + इता → अञ्जिता
अनिडादिपक्षे—
अन्ज् + ता → चोः कुः (८.२.३०) → अन्ग् + ता → नश्चापदान्तस्य झलि (८.३.२४) → खरि च (८.४.५५) → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → अङ्क्ता
मृज्-धातुः
मृजेर्वृद्धिः (७.२.११४) इत्यनेन मृज्-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे |
इडादिपक्षे—
मृज् + इता → मृजेर्वृद्धिः (७.२.११४) → मार्जिता
अनिडादिपक्षे—
मृज् + ता → मृजेर्वृद्धिः (७.२.११४) → मार्ज् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → मार्ष्टा
मृजेर्वृद्धिः (७.२.११४) = मृज्-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | अङ्गकार्यत्वात् प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकम् अथवा आर्धधातुकं भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम् | इकोगुण्वृद्धी (१.१.३) इत्यस्मात् परिभाषासूत्रात् इकः इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मृजेः अङ्गस्य इकः वृद्धिः |
तवर्गान्तधातवः
तकारान्ताः थकारान्ताः च धातवः सर्वे सेटः
तकारान्ताः थकारान्ताः च धातवः सर्वे सेटः |
एकाच्-दकारान्तधातवः - १५ धातवः अनिटः
एकाच्-दकारान्तधातवः - १५ धातवः अनिटः | एते सर्वे सामान्याः— लघूपधाः चेत् पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं भवति; सर्वेषां हल्सन्धिः भवति खरि च (८.४.५५) इति सूत्रेण |
अद् + ता → खरि च (८.४.५५) → अत् + ता → अत्ता |
पद् + ता →
सद्+ ता →
शद्+ ता →
हद्+ ता →
खिद्+ ता →
छिद्+ ता →
भिद्+ ता →
विद्+ ता →
स्विद्+ ता →
क्षुद्+ ता →
तुद्,+ ता →
नुद् + ता →
स्कन्द + ता →
दकारान्तधातुषु द्वौ धातू वेटौ - क्लिद्, स्यन्द्
क्लिद्-धातुः
इडादिपक्षे—
क्लिद् + इता → पुगन्तलघूपधस्य च (७.३.८६) → क्लेदिता
अनिडादिपक्षे—
क्लिद् + ता → पुगन्तलघूपधस्य च (७.३.८६) → क्लेद् + ता → खरि च (८.४.५५) → क्लेत्ता
स्यन्द्-धातुः
इडादिपक्षे—
स्यन्द् + इता →
अनिडादिपक्षे—
स्यन्द् + ता →
एकाच्-धकारान्तधातवः - १० धातवः
एकाच्-धकारान्तधातवः - १० धातवः अनिटः | एते सर्वे सामान्याः— लघूपधाः चेत् पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं भवति; सर्वेषां हल्सन्धिः भवति झषस्तथोर्धोऽधः (८.२.४०), झलां जश् झशि (८.४.५३) इति सूत्राभ्याम् |
१) झषस्तथोर्धोऽधः इत्यनेन प्रत्ययादौ त्, थ् इत्यनयोः स्थाने धकारादेशो भवति |
झषस्तथोर्धोऽधः (८.२.४०) = झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ् च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम् अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथा | न धा, अधा नञ्तत्पुरुषः, तस्मात् अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्, अधः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |
२) तदा झलां जश् झशि इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशो भवति |
झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— झलां जश् झशि संहितायाम् |
व्यध्
सिध् + ता →
क्रुध्
क्षुध्
बुध्
युध्
शुध्
राध्
साध्
बन्ध्
द्वौ धकारान्तौ वेटौ धातू - सिध्, रध्
सिध्-धातुः
इडादिपक्षे—
सिध् + इता →
अनिडादिपक्षे—
सिध् + ता →
रध्-धातुः
रधिजभोरचि (७.१.६१) इत्यनेन रध्-धातोः, जभ्-धातोः च नुमागमः अजादिप्रत्यये परे | परन्तु—
नेट्यलिटि रधेः (७.१.६२) इत्यनेन रध्-धातोः नुमागमः न भवति लिट्-भिन्नप्रत्यये परे | अतः लुटि रध्-धातोः नुमागमो नास्ति |
इडादिपक्षे—
रध् + इता →
अनिडादिपक्षे—
रध् + ता →
एकाच्-नकारान्तधातवः - द्वौ धातू अनिटौ - मन्, हन्
एकाच्-नकारान्तधातवः - द्वौ धातू अनिटौ | मन्, हन् |
अत्र नश्चापदान्तस्य झलि (८.३.२४), अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्राभ्याम् अनुस्वारः, तदा परसवर्णादेशः |
मन् + ता →
हन् + ता →
Swarup - September 2019
१६_-_लुट्_-लकारः.pdf (file size: 278 KB)