01 - सामान्यं विशेषः च

From Samskrita Vyakaranam
10---nyAyashAstram/01---sAmAnyaM-visheShaH-ca
Jump to navigation Jump to search


न्यायशास्त्रे कश्चन सिद्धान्तः— सर्वे पदार्थाः भिन्नाः | एतत्‌ पुस्तकं, तत्‌ पुस्तकं भिन्नं पुस्तकम्‌— द्वयोः पुस्तकयोः विषयः भिन्नः, रूपं भिन्नम्‌ इत्यादिकम्‌ | एवम्‌ एव, विश्वे सर्वाणि वस्तूनि भिन्नानि |


किन्तु यद्यपि एतत्‌ पुस्तकं भिन्नं, तत्‌ पुस्तकं भिन्नं, तथापि द्वे अपि पुस्तके |


तर्हि इमे द्वे पुस्तके एकया दृष्ट्या भिन्ने, अपरया च दृष्ट्या समाने— नाम तयोः मध्ये साम्यम्‌ अस्ति | अतः द्वयोः पुस्तकयोः मध्ये भेदः अपि अस्ति, येन कारणेन द्वे पुस्त्के पृथक्‌ स्तः | अपि च द्वयोः मध्ये साम्यम्‌ अपि अस्ति, येन कारणेन द्वे अपि पुस्तके "पुस्तके" इति वदामः |


अस्मिन्‌ पाठे प्रथमतया द्वयोः पुस्तकयोः (अथवा अन्य-पदार्थयोः) यत्‌ साम्यम्‌ अस्ति तत्‌ पश्यामः | तदा द्वयोः पदार्थयोः मध्ये यः भेदः अस्ति, सः भेदः कः अपि च कथं सिद्धः, इति पश्यामः |


सामान्यम्‌


"समानानां धर्मः सामान्यम्‌ |” सामान्यम्‌ इत्युक्ते जातिः | एतत्‌ पुस्तकं, तदपि पुस्तकं, तदपि पुस्तकम्‌— इयम्‌ एकाकार-प्रतीतिः अस्ति सामान्यं, जातिः च |


धर्मः कः ? धर्मः नाम कस्यचित्‌ पदार्थस्य स्वभावः | यथा पुस्तके पुस्तकत्वं, रूपे रूपत्वं, गमने गमनत्वम्‌ | पुनः काचित्‌ गौः (धेनुः) कपिलरूपवती, अतः गवि (धेनौ) कपिलरूपवत्त्वम्‌‍ अस्ति | कपिलरूपवत्त्वम्‌‍ इति कश्चन धर्मः |


सर्वाः जातयः धर्माः एव | किन्तु सर्वे धर्माः जातयः न भवन्ति | दृष्टान्ते बहूनि पुस्तकानि सन्ति | एषु सर्वेषु पुस्तकेषु कश्चन धर्मः अस्ति— पुस्तकत्वम्‌ | अयं धर्मः पुस्तकत्वं जातिः अपि अस्ति, यतः सर्वेषु पुस्तकेषु समानं पुस्तकत्वं वर्तते | किन्तु अग्रे गत्वा द्रक्ष्यामः यत्‌ आकाशे आकाशत्वम्‌ इति धर्मः अस्ति, स च आकाशत्व-धर्मः, जातिः नास्ति |


आहत्य अत्र मनसि निष्कर्षः भवेत्‌ यत्‌ बहुषु पदार्थेषु समानः धर्मः जातिः इति न्यायशास्त्रे उच्यते | बहुषु पदार्थेषु समानः धर्मः जातिः किमर्थं स्वीकुर्मः इति चेत्‌, तेषु पदार्थेषु विद्यमानं समानत्वम्‌ इति स्वीकुर्मः |


भेदः


द्वौ घटौ स्तः | एषः घटः तस्मात्‌ घटात्‌ भिन्नः | कथम्‌ इति पृष्टे सति, एतस्य घटस्य कपालः तस्य च घटस्य कपालात्‌ भिन्नः | तस्मात्‌ कारणात्‌ एषः घटः अपि तस्मात्‌ घटात्‌ भिन्नः | अयम्‌ अवयवः अन्यस्मात्‌ अवयवात्‌ भिन्नः; अवयव-भेदेन अवयविनौ घटौ भिन्नौ | (अवयवी नाम यस्य अवयवः, सः|)


अधुना परमाणुषु अवयवाः न सन्ति इति बुद्धम्‌ अस्माभिः | तर्हि अवयवरहितेषु परमाणुषु भेदः कथं साध्यते ? विशेषः इति पदार्थस्य स्वीकारे प्रमुखं कारणम्‌ इदम्‌— परमाणूनां परस्पर-भेद-साधनम्‌ |


द्व्यणुक-पर्यन्तम्‌ अवयव-भेदात्‌ अवयवि-भेदः सिद्धः | द्वयोः परमाण्वोः संयोगेन एकं द्व्यणुकं जायते | द्वि + अणुकं, यण्‌-सन्धिं कृत्वा द्व्यणुकम्‌ | द्वौ अणू यस्मिन्‌, तत्‌ द्व्यणुकम्‌ (बहुव्रीहिः), + क-प्रत्ययः | त्रयः अणवः यस्मिन्‌, तत्‌ त्र्यणुकम्‌; एवमेव चतुरणुकं, पञ्चाणुकं, षडणुकं, सप्तानुकम्‌ | तर्हि द्व्यणुक-पर्यन्तं सर्वेषामपि पदार्थानां परस्परभेदसाधनं स्व-अवयव-भेदेन वक्तुं शक्यम्‌ |


न्यायशास्त्रस्य मतानुसारं सर्वे अपि पदार्थाः परस्परं भिन्नाः | किमपि वस्तुद्वयम्‌ इति चिन्तयतु; वस्तुद्वयं समानं न, इति सिद्धान्तः | द्व्यणुक-पर्यन्तम्‌ अयं भेदः साध्यते अवयवभेदात्‌ | अधुना परमाणुद्वयं परस्परभिन्नम्‌ इति वक्तव्यम्‌ | तत्‌ कथं वक्तुं शक्यते ? यतोहि परमाणोः अवयवाः न सन्ति खलु | तदर्थं विशेषः इति पदार्थः स्वीकृतः | सर्वेषु अपि परमाणुषु पृथक्‌-पृथक्‌ विशेष-नामकः कश्चन पदार्थः भवति |


अस्मिन्‌ परमाणौ विशेषः इति पदार्थः | तस्मिन् परमाणौ अन्यः कश्चन विशेषः इति पदार्थः | स च विशेषः किं स्वरूपः ? तस्मिन्‌ प्रसङ्गे किमपि वक्तुं न शक्नुमः | "तस्य परमाणोः विशेषः”; तावदेव | एषां विशेषाणां समानत्वं कदापि वक्तुं न शक्नुमः | यतोहि तेषां अस्तित्वम्‌ एव एतदर्थं यत्‌ सर्वे परमाणवः भिन्नाः | समानत्वं यदि उच्येत, तर्हि विशेष-द्वारा परमाणूनां परस्परभेद-साधनं न शक्ष्यते |


प्रश्नः— किन्तु यथा "पुस्तकत्वम्‌ इत्यस्य कथनेन अपि सर्वाणि पुस्तकानि समानानि सन्ति इति नास्ति”, इति यथा ज्ञातं, तथैव विशेषत्वम्‌ इत्यस्य जातेः कथनेन तस्य अर्थः नास्त्येव यत्‌ सर्वे विशेषाः समानाः |


उत्तरम्— पुस्तकेषु सर्वत्रापि समानः कश्चन धर्मः "पुस्तकत्वं" भवितुम्‌ अर्हति, यतः परस्परभेदः साध्यते अवयव-भेदात्‌ | विशेषेषु यदि समानः "विशेषत्वं" स्वीक्रियेत, तर्हि विशेषेषु समानत्वम्‌ आनीतम्‌; तदा अवयवाभावात्‌ सर्वे अपि विशेषाः समानाः एव | सर्वे विशेषाः समानाः चेत्‌ "एकः परमाणुः द्वितीयात्‌ भिन्नः" इति वक्तुं न शक्ष्यति | अतः विशेषत्वम्‌ इति जातिः नास्ति |


प्रश्नः— अस्तु विशेषभेदात्‌ परमाणुभेदः साधितः | किन्तु द्वयोः विशेषयोः भेदः कथं साध्यते ? इदानीं विशेषे पुनः अन्यं पदार्थं वयं स्वीकर्तुं न शक्नुमः |*


उत्तरम्— तत्र विशेषस्य प्रमुखं लक्षणम्‌ इत्युक्ते स्वतोव्यावर्तकत्वम्‌ | स्वतोव्यावर्तकत्वम्‌ इत्युक्तौ "स्वस्य भेदं स्वयं साधयति" | स्वयम्‌ आत्मानम्‌ अन्यस्मात्‌ पृथक्‌ करोति इत्यर्थः |


परमाण्वोः द्वयोः भेदं विशेषः साधयति | द्वयोः विशेषयोः भेदं कः साधयति इति प्रश्नः |


पुनः उत्तरम्— द्वयोः विशेषयोः भेदं स्वयं साधयति, न तु अन्येन साध्यते | विशेषत्वम्‌ इति जातिः स्वीक्रियेत चेत्‌, तर्हि स्वतोव्यावर्तकत्वम्‌ इति नष्टम्‌ | अतः धर्म-रूपेण विशेषत्वं वक्तुं शक्यं, किञ्च जाति-रूपेण न | तच्च विशेषत्वं प्रत्येकस्मिन्‌ विशेषे भिन्नम्‌ एव | अनया रीत्या एव स्वतोव्यावर्तकत्वम्‌ स्थास्यति |


*प्रश्नः— विशेषे पुनः अन्यं पदार्थं किमर्थं स्वीकर्तुं न शक्नुमः |


उत्तरम्— विशेषे अन्यं पदार्थं स्वीकुर्मः चेत्‌ यस्य द्वारा विशेषाः भिद्यन्ते, तर्हि तस्य भेदार्थं पुनः नूतनपदार्थः अपेक्षितः, तदा पुनः च तस्य भेदार्थं नूतनः पदार्थः | अस्याः क्रीडायाः न कोऽपि अन्तः, अतः अत्र अनवस्था-दोषः इत्युच्यते | तर्हि विशेषः अन्तिमः एव भवेत्‌ |


प्रश्नः— अस्तु, परन्तु परमाणुषु एव स्वतोव्यावर्तकत्वम्‌ अस्ति इति किमर्थं न वदेम ? यदि विशेषे स्वतोव्यावर्तकत्वम्‌ अध्यारोपितं, तर्हि किमर्थं न साक्षात्‌ परमाणुषु स्वतोव्यावर्तकत्वम्‌ अध्यारोपितं भवेत्‌ ? एवं चेत्‌, विशेषस्य काऽपि आवश्यकता न स्यात्‌ |


उत्तरम्— परमाणुषु स्वतोव्यावर्तकत्वं नार्हं यतोहि पार्थिवादि-द्रव्येषु स्वतोव्यावर्तकत्वम्‌ इति गुणः कुत्रापि नास्ति | यथा घटद्रव्यम्‌ | अवयवभेदात्‌ घटेषु भेदः ज्ञायते | अधुना घटः पटात्‌ भिन्नः इति प्रतीतिः एव प्रमाणम्‌ | “अयं घटः" इति ज्ञानम्‌; “अयं पटः" इति ज्ञानम्‌ | तस्मात्‌ ज्ञानद्वयात्‌ भेदः तत्र सिध्यति | परन्तु घटात्‌ घटः भिन्नः कथम्‌ इति चेत्‌, अवयव-भेदात्‌, परस्परघटभेदः | एवं च अनित्य-द्रव्येषु भेदस्य साधनार्थं ज्ञानस्य वा अवयवस्य वा आवश्यकता अस्ति— अतः पार्थिवादि-द्रव्येषु स्वतोव्यावर्तकत्वं नास्ति |


यत्र सामान्यम्‌ (जातिः) सम्भवति, तत्र स्वतोव्यावर्तकत्वं न भवति, “विशेषः" न भवति | “अयं घटः, अयं घटः" इति एकाकार-प्रतीत्या घटे घटत्वम्‌ इति सामान्यं सिद्धम्‌, अतः अनेन स्वतोव्यावर्तकत्वम्‌ इति बाधितम्‌ एव | किन्तु विशेषे जातिः/सामान्यं नाङ्गीक्रियते, अतः तत्र स्वतोव्यावर्तकत्वम्‌ | विशेषः अन्यस्मात्‌ विशेषात्‌ भिन्नः | यदि विशेषे सामान्यं स्वीकृतं तर्हि तस्मिन्‌ परस्परभेदः न सिध्यति |


प्रश्नः— घटद्वयम्‌ अस्ति | भेदः कथं ज्ञायते ? अवयवभेदात्‌ इत्युक्तम्‌ | परन्तु अवयवाः सर्वे समानाः इति भाति; दर्शेनेन कपालाः सर्वे समानाः | तर्हि कथं एभिः समान-अवयवैः घट-भेदः साधयितुं शक्यः ?


उत्तरम्— यतोहि एते अवयवाः (कपालाः, तन्तवः इत्यादयः) अस्मिन्‌ घटे (पटे वा) सन्ति, न तु तस्मिन्‌ |


प्रश्नः— अस्तु, एवं चेत्‌ किमर्थम्‌ अवयवानाम्‌ आवश्यकता घटभेद-साधनार्थम्‌ ? अयं घटः अत्र अस्ति, सः घटः च तत्र | स्थल-भेदात्‌ परस्परभेदज्ञानं खलु |


उत्तरम्— किन्तु तत्रापि प्रश्नः उदेति कथं भेदः आगतः तयोः | अयं घटः अत्र अस्ति, सः च घटः तत्र इति प्रतीत्या प्रकटं यत्‌ घट-भेदः अस्ति इति तु सत्यम्‌ | घट-भेदं ज्ञातुं शक्नुमः, परन्तु कथं भेदः आगतः तयोः, इत्यपि वक्तव्यम्‌ | तस्य भेदस्य प्रतिपादनार्थम्‌ अवयवभेद-कथनस्य आवश्यकता | नाम कथं भेदः आगतः— तत्र प्रयोजकः धर्मः भवेत्‌ | "अस्य अवयवः भिन्नः, तस्य च भिन्नः”; तत्र स्वतोव्यावर्तकत्वं नास्ति |


Swarup – June 2015


०१ - सामान्यं विशेषः च.pdf



---------------------------------