11 - कालः
ध्वनिमुद्रणानि | |
---|---|
१) kAlaH---paricayaH_+_lakShaNavAkyam_+_upAdhi-nirUpaNam_2016-05-02 | |
२) kAlaH---paricayaH_+_lakShaNavAkyam_+_upAdhi-nirUpaNam_2016-04-30 |
व्यवहारः
न्यायशास्त्रे व्यवहार-शब्दः पारिभाषिकः | ज्ञानजनकशब्दप्रयोगः इत्यर्थः | तत्र मात्रं 'शब्दप्रयोगः' इति नोक्तम् | “गा-गा-गी-गी" इति वदामश्चेत्, अयं शब्दप्रयोगस्तु भवति, किन्तु ज्ञानजनकशब्दप्रयोगः नास्ति | उच्यमानः शब्दः किमपि ज्ञानं जनयेत्— यत्र शब्दप्रयोगेण ज्ञानं निष्पन्नं भवति, तादृशशब्दप्रयोगस्य 'व्यवहारः' इति नाम |
तर्हि “गा-गा-गी-गी" इति शब्दप्रयोगेण किमपि ज्ञानं न निष्पन्नम्, अतः अयं व्यवहारो नास्ति | किन्तु "घटः अतीतः" इति शब्दप्रयोगेण किञ्चिन ज्ञानं निष्पन्नं भवति, अतः अयं व्यवहारः इत्युच्यते |
'घटः अतीतः' इति व्यवहारे कालः कारणम्
अधुना "घटः अतीतः" इति विशिष्टः शब्दप्रयोगः, कालरूपद्रव्यं विना न सम्भवति यतोहि 'अतीतः' इति शब्दस्य कथनार्थं कालस्य अस्तित्वम् अपेक्षितम् | 'भविष्यति', 'अभूत्' इत्यादीनामपि तथैव प्रयोगार्थं कालः आवश्यकः | कालस्य अस्तित्वम् अस्ति चेदेव—कालः भवति चेदेव—'अग्रे भविष्यति', 'श्वः', 'ह्यः', 'परह्यः' इत्यादीनां प्रयोगं कर्तुं शक्नुमः | यदि कालः एव न स्यात्, तर्हि एतादृशशब्दप्रयोग एव न भवति स्म | अतः ईदृशशब्दप्रयोगं प्रति कालः कारणम्— अतीतः, अनागतः, भविष्यति, इत्यादिकम् |
'घटः अतीतः' इति व्यवहारेण एकं ज्ञानं निष्पन्नम्
आहत्य "घटः अतीतः" इत्यस्य कथनेन एकं विशिष्टं ज्ञानं व्युत्पन्नं भवति | कीदृषम् इति चेत्, "घटनिष्ठविशेष्यतानिरूपकम् अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम्" |
ज्ञान-वाक्यस्य बोधार्थं विशेषण-विशेष्य-भावः
स्मर्यतां यत् "घटः अतीतः" इत्यस्मिन् प्रयोगे, अतीतः गुणिवाचकशब्दः— गुणस्य आश्रयं सूचयति | गुणिनि यः गुणः— नाम विशेषणं, 'येन विशिष्यते', इति तु तस्य (अतीतस्य) भावः— अतीतत्वम् | अतीतत्वेन घटः विशिष्यते | यथा 'उन्नतः वृक्षः' इति वाक्ये उन्नतः इत्युक्ते वृक्षः एव; उन्नतशब्देन वृक्षस्य एव सङ्केतः | तथैव "घटः अतीतः" इति वाक्ये अतीतः इत्युक्ते घटः एव | विशेषणं विशेष्यं च द्वौ अपि परस्परभिन्नौ स्याताम् | तर्हि घटः विशेष्यं, अतीतत्वं विशेषणम् |
[अस्य विषयस्य पुनस्स्मरणार्थम् इदं पत्रं पठ्यताम् |]
ज्ञान-रूप-दीपस्य प्रकाशः विषयता
"घटः अतीतः" इति एकं ज्ञानम् | यथा पूर्वम् "अयं घटः" इति ज्ञाने घटः विषयः, 'अयं घटः' इति ज्ञानं च विषयि (इनि-प्रत्ययः नपुंसकलिङ्गे) | घटः इति विषये विषयता; "अयं घटः" इति ज्ञाने विषयिता | विषयता ज्ञानस्य प्रभा | मनसि अस्य चित्रं भवेत्—
अस्य चित्रस्य वर्णनार्थं विभिन्न-रीत्या वाक्यानि रचयितुं शक्यन्ते, विषयतां लक्ष्यीकृत्य, विषयितां लक्ष्यीकृत्य इत्यादिकम् | विशयता-ज्ञानयोः कः सम्बन्धः इति चेत्, घटनिष्ठविषयतानिरूपकं ज्ञानम् इति विशेष-वाक्यम् |
इयं च विषयता-रूपा प्रभा घटे विद्यमाना, ज्ञानेन विना न भवति | अतः अयं विषयता-रूप-प्रकाशः कस्य इति चेत्, ज्ञानस्य एव | अपि च अयं प्रकाशः यत्र पतति, सः ज्ञानस्य विषयः इति उच्यते | यथा 'अयं घटः' इति ज्ञाने, विषयता-रूपा प्रभा घटे पतति अतः घटः ज्ञानस्य विषयः |
दीप-रूप-ज्ञानस्य प्रकाशः विषयता— सा च द्विविधा प्रकारता विशेष्यता
अधुना यत्र अस्मिन् ज्ञाने वस्तुद्वयम् अस्ति, तत्र प्रभाद्वयम् अपि अस्ति | यथा 'भूतलं घटवत् (भूतले घटः)'— 'भूतलम् अधिकरणम्' अपि ज्ञानं, 'घठः आधेयः' अपि ज्ञानम् | भूतलम् एकः विषयः, घटः अन्यः विषयः | भूतले विषयता अस्ति, घाटे अपि विषयता अस्ति | अनयोः द्वयोः विषययोः विषयता भिन्ना, अतः अस्य प्रदर्शनार्थं नामकरणं भिन्नम् | भूतलं विशेष्यं, घटश्च विशेषणम् इति कृत्वा भूतले विद्यमाना विषयता विशेष्यता; घटे विद्यमाना विषयता प्रकारता इति पृथक्तया नामकरणम् |
अपि च यथा 'भूतलं घटवत्' इत्यस्मिन् भूतलं विशेष्यं, घटः विशेषणं, तथैव 'घटः अतीतः' इत्यस्मिन् घटः विशेष्यः, अतीतत्वं विशेषणम् |
एतत् सर्वं मनसि निधाय आहत्य "घटः अतीतः" इति वाक्ये विशिष्टं ज्ञानम् इदम्— "घटनिष्ठविशेष्यतानिरूपकम् अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम्" |
"घटः अतीतः" इत्यस्य कथनेन एतादृशं विशिष्टं ज्ञानं व्युत्पन्नम् इति कृत्वा अस्य ज्ञानस्य कारणम् एव अयं शब्दप्रयोगः | अपि च अयं "घटः अतीतः" इति शब्दप्रयोगः, कालाख्यं द्रव्यं—कालनामकं द्रव्यं—विना न सम्भवति इति कृत्वा एतादृशज्ञानजनकशब्दप्रयोगस्य कारणं कालः | "घटः अतीतः" इत्यस्य कथनेन निष्पनं ज्ञानं प्रति शब्दप्रयोगः कारणं, पुनः शब्दप्रयोगं प्रति कालः कारणम् |
कालस्य लक्षणम्
अधुना लक्षणवाक्यस्य निर्माणार्थं विद्याधरी इति पुस्तके पृ०स० ५५ इत्यस्य चित्रं दृष्ट्वा अत्र अग्रे पठतु—
तर्हि ज्ञाननिष्ठकार्यतानिरूपितकारणता शब्दप्रयोगे; तन्निष्ठकार्यतानिरूपितकारणता, काले | तर्हि अनेन कालस्य किं लक्षणं वक्तुं शक्यते ? अतीतत्वादिप्रकारक-ज्ञानजनकशब्दप्रयोगनिष्ठ-कार्यतानिरूपितकारणताश्रयत्वं कालस्य लक्षणम् | पुनः, अतीतत्वादिप्रकारक-ज्ञाननिष्ठकार्यतानिरूपित-शब्दप्रयोगनिष्ठ-कार्यतानिरूपितकारणताश्रयत्वं कालस्य लक्षणम् |
व्यवहारः इति पदघटितानि अष्टौ लक्षणानि
तर्कसङ्ग्रह-ग्रन्थे व्यवहार इति पदघटितानि अष्टौ लक्षणानि सन्ति | अतीतादिव्यवहारहेतुः कालः, संयुक्तादिव्यवहारहेतुः संयोगः, पृथक्व्यवहारहेतुः पृथक्त्वम्, एकत्वादिव्यवहारहेतुः सङ्ख्या इति एवं व्यवहार-पद-घटितानि अष्ट लक्षणानि सन्ति | धेयं यत् अत्र लक्षणानि व्यवहारशब्दस्य न अपि तु व्यवहार-शब्द-घटितानि— नाम व्यवहार-शब्द-युक्तानि | व्यवहार-शब्द-युक्तानि लक्षणानि अष्ट सन्ति | अपरेषां शब्दानां लक्षणस्य कथनावसरे, व्यवहार-शब्दस्य प्रयोगः कृतः | तेषु शब्देषु अन्यतमशब्दः अस्ति कालः | कालस्य लक्षणं व्यवहार-पदघटितं, व्यवहार-पद-युक्तम्— अतीतादिव्यवहारहेतुः कालः |
अतः आदौ व्यवहारशब्दस्य समीचीनबोधः स्यात् | तदनन्तरं अष्टानां लक्षणानाम् अध्ययने सौलभ्यं भवति | धेयं यत् सर्वत्र, सर्वेषु अष्टसु लक्षणेषु, व्यवहार-शब्दस्य अयमेव अर्थः— ज्ञानजनकशब्दप्रयोगः | एकत्वादिव्यवहारहेतुः सङ्ख्या इत्युक्ते एकत्वरूप-ज्ञानजनकशब्दप्रयोगानुकूलगुणः सङ्ख्या | एवं रीत्या सर्वत्र व्यवहार-शब्दस्य अयमेव अर्थः— ज्ञानजनकशब्दप्रयोगः |
Swarup – May 2016
---------------------------------