11 - द्वित्वम्
2022-वर्गः |
---|
१) yanganta-dhAtavaH---ajAdayaH--अट्-ऋ-अश्-ऊर्णु_+_dasha-lakArAH_+_dvitvacintanam_2022-04-12 |
२) dvitvacintanam---ekAc-bhAge-ke-ke-varNAH-bhaveyuH_2022-04-19 |
द्वित्वप्रसङ्गे पाणिनेः प्रधानतया द्वे सूत्रे वर्तेते—एकाचो द्वे प्रथमस्य (६.१.१), अजादेर्द्वितीयस्य (६.१.२)—ययोः आधारेण द्वित्वप्रक्रिया बोध्या | किन्तु कथं द्वित्वं प्रवर्तनीयम् अस्ति इत्यस्मिन् विषये सर्वेषां मतं समानं नास्ति | अत्र चिन्तनविधिद्वयम् उपस्थाप्यते | प्रथमविधिः मातृभिः दीक्षितपुष्पाभिः पाठ्यते; अस्मिन् विधौ एकाच्-धातूनां प्रक्रिया पृथक्, अनेकाच्-धातूनां प्रक्रिया पृथक् | द्वितीयचिन्तनविधौ सर्वेषां धातूनां द्वित्वपक्रिया समाना |
अत्र प्रसक्तसूत्राणि दीयन्ते—
एकाचो द्वे प्रथमस्य (६.१.१) = अधिकारसूत्रं — प्रथमस्य एकाच्-भागस्य द्वित्वं भवति | जागृ → जा जागृ | पच् → पच् पच् | इ → इ इ | षष्ठाध्यायस्य प्रथमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | एकाचः षष्ठ्यन्तं, द्वे प्रथमान्तं, प्रथमस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— प्रथमस्य एकाचः द्वे |
अजादेर्द्वितीयस्य (६.१.२) = अधिकारसूत्रम् — अजादिधातोः द्वितीयस्य एकाच्-भागस्य द्वित्वं भवति | ऊर्णु → ऊर्णु नु | षष्ठाध्यायस्य प्रथमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | अजादेः षष्ठ्यन्तं, द्वितीयस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— अजादेः द्वितीयस्य (एकाचः द्वे) |
अभ्यासः अभ्यस्तम् इति द्वे संज्ञे—
पूर्वोऽभ्यासः (६.१.४) = द्वित्वानन्तरं, यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम् | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— पूर्वः अभ्यासः द्वयोः |
उभे अभ्यस्तम् (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम् | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्—उभे द्वे अभ्यस्तम् |
अधस्तन-उपस्थापनद्वये यङन्तधातूनाम् उदाहरणानि दीयन्ते, अतः इदं सूत्रमपि साहाय्यकम्—
सन्यङोः (६.१.९) = सन्नन्तस्य यङन्तस्य च धातुरनभ्यासस्य प्रथमस्यैकाच्-अवयवस्य द्वे स्तः; अजादेस्तु द्वितीयस्य | सन् च यङ् च तयोरितरेतरद्वन्द्वः सन्यङौ, तयोः सन्यङोः | सन्यङोः षष्ठ्यन्तम्, एकपदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः, अनभ्यासस्य इत्यनयोः अनुवृत्तिः | एकाचो द्वे प्रथमस्य (६.१.१), अजादेर्द्वितीयस्य (६.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— सन्यङोः धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य अजादेः द्वितीयस्य |
1. प्रथमचिन्तनविधिः—एकाच्-धातूनां प्रक्रिया पृथक्, अनेकाच्-धातूनां प्रक्रिया पृथक्
बहुत्र धातुः एकाच् एव; तथा भवति चेत् समग्रधातोरेव द्वित्वं भवति | यथा जुहोत्यादिगणे मा → मामा, हा → हाहा | यङन्तधातुः सदा अनेकाच् यतोहि औपदेशिकधातौ न्यूनातिन्यूनम् एकः स्वरः अस्त्येव; तदा 'य' इत्यस्य संयोजनेन ‘य' इत्यस्मिन् यः अकारः, सः यङन्तधातोः द्वितीयः अच्-वर्णो भवति | धातुः अनेकाच् चेत्, अपि च हलादिः इति चेत् एकाचो द्वे प्रथमस्य (६.१.१) इत्यनेन प्रथमस्य एकाच्-भागस्य द्वित्वं भवति | धातुः अनेकाच् चेत्, अपि च अजादिः इति चेत् अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वं भवति | एकाच्-भागः इत्युक्ते यदा हि प्रथमः अच्-वर्णः आयाति, स च वर्णः भागस्य अन्तो भवति | नाम, स्वरवर्णः भागस्य अन्तिमवर्णो भवति | अग्रिमवर्णः अग्रिमभागस्य प्रथमवर्णः |
यथा भू + य → भूय इत्यस्य सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातुसंज्ञा → सन्यङोः (६.१.९) इत्यनेन द्वित्वम् → भूय इति धातुः अनेकाच्, हलादिः च अतः प्रथमस्य एकाच्-भागस्य द्वित्वम् → ऊ-कारः स्वरः अतः स च ऊकारः प्रथमभागस्य अन्तिमवर्णः → 'भू' इति प्रथमभागः, तस्य च द्वित्वम् → भू भू य
किन्तु धातुः अजादिः अस्ति चेत् अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वं भवति—
अश् य → अश्य इत्यस्य सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातुसंज्ञा → सन्यङोः (६.१.९) इत्यनेन अजादेः द्वितीयस्य द्वित्वम् → अश्य इति धातौ अश्य इत्यस्य प्रथमः अ-कारः स्वरः अतः स च अकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'श्य' इति द्वितीयभागः, तस्य च द्वित्वम् → 'अ श्य श्य' इति द्वित्वकार्यं समाप्तम् |
(अग्रे, अ श्य श्य → हलादिः शेषः ७.४.६० → अ श श्य → दीर्घोऽकितः ७.४.८३ इत्यनेन अभ्यासस्य दीर्घादेशः → अशाश्य इति यङन्तधातुः → अशाश्यते)
धेयं यत् 'यङ्-प्रत्ययं निमित्तीकृत्य द्वित्वम्' इति वार्ता नास्ति | 'अश् य → अश्य → अ श्य श्य' इत्यस्य दर्शनेन स्पष्टं भवति यत् यङ्-प्रत्ययः द्वित्वकार्यस्य निमित्तं नास्ति; 'य' एव स्थानी, नाम स च 'य' कार्यस्य स्थलम् | अपरेषु द्वित्वप्रसङ्गेषु प्रत्ययः सप्तमीविभक्तौ भवति— लिटि धातोरनभ्यासस्य (६.१.८), श्लौ (६.१.१०), चङि (६.१.११) | एषु लिटि, श्लौ, चङि इति सप्तम्यन्तानि; किन्तु सन्यङोः (६.१.९) इत्यस्मिन् सन्यङोः इति षष्ठ्यन्तं पदम् | यतोहि तस्य एव द्वित्वं भवति | यस्य अन्ते यङ् अस्ति, तस्य द्वित्वं भवति | यङ् तस्मिन् द्वित्वकार्ये अन्तर्भूतमेव |
अस्य च सिद्धान्तस्य फलम् अजादिधातुप्रसङ्गे | सन्यङोः (६.१.९) इत्यस्मिन् सन्यङोः यदि सप्तम्यन्तं स्यात्, नाम द्वित्वस्य निमित्तं स्यात्, तर्हि अश् + य → अश् + अश् + य इति दोषपूर्णरूपं सेत्स्यति | आहत्य वामतः एकाच्-भागः अच्-वर्णेन समाप्यते; फलं तु अजादिधातुप्रसङ्गे; हलादिधातूनां कृते यथाकथमपि करोति चेत् दोषो न भवति, किन्तु सङ्गति-कृते, सामञ्जस्य-कृते सर्वत्र समानरीत्या क्रियते चेत् वरम् | इति कृत्वा अग्रे शीङ्-धातोः शय् + य इति प्रसङ्गे 'श श य्य' इत्येव सम्यक् | एवञ्च सर्वत्र समानरीत्या क्रियते चेत् सारल्यम्, एतदेव मातॄणां मतम् |
न न्द्राः संयोगादयः (६.१.३) = अचः पराः संयोगादयः नदराः द्विर्न भवन्ति | न् च द् च रश्च तेषामितरेतरद्वन्द्वो न्द्राः | संयोगस्य आदयः, संयोगादयः षष्ठीतत्पुरुषः | न अव्ययपदं, न्द्राः प्रथमान्तं, संयोगादयः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अजादेर्द्वितीयस्य (६.१.२) इत्यसमत् अजादेः इत्यस्य अनुवृत्तिः | अच् चासौ आदिश्च अजादिः, तस्मात् अजादेः कर्मधारयः | एकाचो द्वे प्रथमस्य (६.१.१) इत्यसमत् द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति- सहितसूत्रम्— अजादेः संयोगादयः न्द्राः न द्वे |
यथा—
ऊर्णु + यङ् → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) → ऊर्णू + य → ऊ इति प्रथमः एकाच्-भागः, र्णू इति द्वितीयः एकाच्-भागः → अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वम् → न न्द्राः संयोगादयः (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'नू' इत्यस्य एव द्वित्वम् → ऊर्णू नू य इति द्वित्वकार्यं समाप्तम् |
(अग्रे ऊर्णू नू य → गुणो यङ्लुकोः ७.४.८२ → ऊर्णोनूय इति यङन्तधातुः → ऊर्णोनूयते)
उन्द् + सन् → इडागमः, षत्वादेशः → उन्दिष → त्रयः एकाच्-भागाः उ, न्दि, ष → अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वम् → 'न्दि' इति द्वितीयः एकाच्-भागः → न न्द्राः संयोगादयः (६.१.३) इत्यनेन संयोगादि-नकारस्य द्वित्वं न भवति अतः 'दि' इत्यस्य एव द्वित्वम् → प्रथमः तृतीयः च एकाच्-भागौ यथावत् तिष्ठतः → उन्दि + दि + ष → उन्दिदिष
अग्रे अस्ति द्वितीयवविधिः | अयं विधिः द्रोणमहोदयेन उपस्थापितः |
2. द्वितीयचिन्तनविधिः—एकाच्-धातूनाम्, अनेकाच्-धातूनां च प्रक्रिया समाना
द्वित्वचिन्तनम्
एकाचो द्वे प्रथमस्य (६.१.१)
समासः एकोच् यस्मिन् सः एकाच् तस्य एकाच: |
एकाच् नाम - पूर्ववर्तिहल्वर्णाः -------------- अच् -------------- उत्तरवर्तिहल्वर्णाः |
एकाच् -- अच् वर्णस्य पूर्वापरिभूताः हल् वर्णाः स्वीक्रियन्ते |
तर्हि किम् 'अश्' एकाच् अस्ति वा ? यथाश्रुतार्थ-स्वीकारेण अस्ति एव |
पठ् ? एकाच् एव |
A. प्रथमम् उदाहरणम्—'अश्' इति धातुः
अश् + यङ्→ अश्य
अश्य ? अत्र एकाच् व्यक्तयः कति सन्ति ? - द्वौ स्तः |
1. अश्य -- अत्र प्रथमः एकाच् "अश्य्"
’श्य’ -- अत्रापि एकाच् - एषः द्वितीयः एकाच्
2. इदानीं द्वितीयः एकाच् पृथक्कृत्य धातोः पूनर्लेखनम् -
अ + श्य
3. अश्यश्य → द्वित्वम् → अभ्यासस्य हलादिशेष:
4. अशश्य
यथाश्रुतार्थः (विग्रहवाक्यलभ्यार्थः) -- स्वीकरणेन निर्वाहः जायते चेत् किमर्थं भेदादिकम् ( एकाच् धातोः सम्पूर्णस्य द्वित्वम् अन्येषां भिन्नरीत्या) स्वीकरणीयम् ?
B. द्वितीयम् उदाहरणम् —"ऊर्णु" इति धातुः
ऊर्णु + यङ् → ऊर्णु + य (अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) → ऊर्णूय
ऊर्ण् | र्णूय् | य |
एकाच् यस्मिन् सः एकाच् | एकाच् यस्मिन् सः एकाच् | एकाच् यस्मिन् सः एकाच् |
इदानीं द्वितीयम् एकाच् -भागं पृथक्कृत्य →
- ऊ + र्णूय् + अ
- ऊ र् णूय् नूय् अ → अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वम् → न न्द्राः संयोगादयः (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति, अतः 'णूय्' इत्यस्य एव द्वित्वम् |
- ऊ र् णू नूय् अ
- ऊ र् णु नूय् अ → ह्रस्वः (७.४.५९)
- ऊ र् णो नूय् अ → गुणो यङ्लुकोः (७.४.८२)
- ऊर्णोनूयते → कर्तरि शप् (३.१.६८) इत्यनेन धातुतः शप्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे → ऊर्णोनूय + शप् + ते → ऊर्णोनूय + अ + ते → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने एकः पररूपमेकादेशः→ ऊर्णोनूय + ते → ऊर्णोनूयते
पूनश्च एकाच् नाम अच् वर्णस्य पूर्वपरिभूताः हल् वर्णाः स्वीक्रियन्ते।
C. इतोपि उदाहरणम् — "पठ्कप्शप्"
पठ्कप्शप् - अत्र एकाचः के?
पठ्क् | ठ्कप्श् | प्शप् |
एकाच् यस्मिन् सः एकाच् | एकाच् यस्मिन् सः एकाच् | एकाच् यस्मिन् सः एकाच् |
सारांशः
द्वितीयविधौ सर्वेषां धातूनाम्—एकाच्-धातूनाम्, अनेकाच्-धातूनां च—प्रक्रिया समाना | अनेन एकरीत्या लाघवम् अवश्यम् अस्ति | कीदृशमिति चेत्, शरीरकृतं लाघवम् इत्युच्यते | प्रथमविधौ एकाच्-धातूनां प्रक्रिया पृथक्, अनेकाच्-धातूनां प्रक्रिया पृथक् | अनया दृष्ट्या गौरवम् | कीदृशम् ? शरीरकृतं गौरवम् | परन्तु केचन वदन्ति यत् प्रथमविधिः इतोऽपि सुलभः | सौलभ्यं स्वयम् एकप्रकारकलाघवम् | बोधनार्थं यस्मिन् सौलभ्यं वर्तते, तस्मिन् उपस्थितिकृतं लाघवम् अस्ति इत्युच्यते | अधुना सर्वैः परिशीलनीयम् अस्ति, स्वस्य स्वस्य चिन्तनञ्च व्यक्तीकरणीयम् | अस्मासु अन्यः कोऽपि अन्यं विधिं वा लेखितुम् इच्छति चेत्, अवश्यं विलिख्य मह्यं (स्वरूपाय) प्रेषयतु |