09 - तुदादिगणे इतोऽपि विशेषधातवः
अस्मिन् पाठे तुदादिगणीयाः अवशिष्टविशेष-धातवः उपस्थाप्यन्ते | स्मारणार्थं विशेषधातुः नाम तादृशधातुः यस्य अङ्गस्य साधनकार्यं केवलं गणसम्बद्ध-सामान्यसूत्राणि अधिकृत्य न भवति अपि तु विशिष्टसूत्राणि अधिकृत्य भवति |
1.धात्वादेशः
a. पा-आदिधातूनां धात्वादेशः (द्वौ धातू स्तः)
तुदादौ धातुद्वयम्— षद्ऌ, शद्ऌ |
पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदां, पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः (७.३.७८) = पा घ्रा ध्मा इत्यादीनां स्थाने पिब, जिघ्र, धम एते आदेशाः भवन्ति शिति परे | केवलं शिति परे इति धेयम् |अतः पिबति परन्तु पास्यति इति | पाश्च घ्राश्च ध्माश्च ... सद् च तेषामितरेतरद्वन्द्वः पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदः, तेषां पा-घ्रा-ध्मा-स्था-स्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदाम् | पिबश्च जिघ्रश्च धमश्च … सीदश्च तेषामितरेतरद्वन्द्वः पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः | पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदाम् षष्ठ्यन्तं, पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः प्रथमान्तं, द्विपदमिदं सूत्रम् |ष्ठिवुक्लमुचमां शिति (७.३.७५) इत्यस्मात् शिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्— पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदां अङ्गस्य पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः शिति |
षद्ऌ + श → सद् + अ → पा-घ्रा-ध्मा (७.३.७८) इत्येनेन सीद-आदेशः → सीद + अ → अतो गुणे (६.१.९७) इत्यनेन अपदान्तात् अतः गुणे पूर्वपरयोः पररूपम् एकादेशः → सीद इति अङ्गम् → सीद + ति → सीदति
षद्ऌ विशरणगत्यवसादनेषु इति धातुः भ्वादौ अपि तुदादौ अपि भवति | उभयत्र रूपाणि समानानि | स्वरार्थः एव अयं धातुः पुनः पाठितः यतोहि शबनुदात्तः, शः तु उदात्तः | भेदः अस्ति आच्छीनद्योर्नुम् (७.१.८०) इत्यनेन तुदादौ शतरि स्त्रीयां नुम्-विकल्पः | पुंसि सीदन्, स्त्रियां सीदन्ती/सीदती | स्वरार्थः एव अयं धातुः पुनः पाठितः यतोहि शबनुदात्तः, शः तु उदात्तः |
शद्ऌ + श → शद् + अ → पा-घ्रा-ध्मा (७.३.७८) इत्यनेन शीय-आदेशः → शीय + अ → अतो गुणे (६.१.९७) → शीय इति अङ्गम् → शीय + ते → शीयते ( अत्र शदेः शितः (१.३.६०) इत्यनेन आत्मनेपदित्वं विधीयते )
शद्ऌ शातने इति धातुः भ्वादौ अपि तुदादौ अपि भवति | उभयत्र रूपाणि समानानि | स्वरार्थः एव अयं धातुः पुनः पाठितः यतोहि शबनुदात्तः, शः तु उदात्तः |
अतो गुणे (६.१.९७) = अपदान्तात् अतः गुणे पूर्वपरयोः पररूपम् एकादेशः संहितायाम् | गुणः इत्युक्तौ अ, ए, ओ | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम् | उस्यपदान्तात् (६.१.९६) इत्यस्मात् अपदान्तात् अपि च एङि पररूपम्(६.१.९४) इत्यस्मात् पररूपम् इत्यनयोः अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितं सूत्रम्— गुणे अपदान्तात् अतः पूर्वपरयोः एकः पररूपं संहितायाम् |
इदं सूत्रं वृद्धिरेचि (६.१.८८), अकः सवर्णे दीर्घः (६.१.१०१) इत्यनयोः अपवादभूतसूत्रम् |
यथा—
पठ + अन्ति → पठन्ति अतो गुणे (६.१.९७), अत्र अकः सवर्णे दीर्घः इत्यस्य अपवादभूतसूत्रम्
सेव + ए → सेवे अतो गुणे (६.१.९७), अत्र वृद्धिरेचि इत्यस्य अपवादभूतसूत्रम्
b. इष्-धातोः छकारादेशः (एकः धातुः)
तुदादौ इष इच्छायाम् इति धातुः |
इषुगमियमां छः (७.३.७७) = इष्, गम्, यम् एषां छकारादेशः भवति शिति परे | अलोन्त्यस्य (१.१.५२) इत्यनेन छ्-आदेशः अन्तिमवर्णस्य स्थाने न तु पूर्णधातोः स्थाने | इषुश्च गमिश्च यम् च तेषामितरेतरद्वन्द्वः इषुगमियमः, तेषाम् इषुगमियमाम् |इषुगमियमां षष्ठ्यन्तं, छः प्रथमान्तं, द्विपदमिदं सूत्रम् | ष्ठिवुक्लमुचमां शिति (७.३.७५) इत्यस्मात् शिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— इषुगमियमाम् अङ्गस्य छः शिति |
केवलं शिति परे इति धेयम् | अतः इच्छति परन्तु एषिष्यति |
इष् + श → इषुगमियमां छः, अलोन्त्यस्य इत्याभ्यं ष्-स्थाने छ् → इछ् + अ → छे च (६.१.७३) इत्यनेन छकारे परे संहितायां विषये ह्रस्वस्य स्वरस्य तुक्-आगमो भवति | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन इकारस्य अनन्तरं (न तु पूर्वम्) | इछ्+ अ → इत्छ् + अ → स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन तवर्गस्य शकारचवर्गाभ्यां योगे तवर्गस्य क्रमात् चवर्ग आदेशः → इत्छ् + अ → इच्छ् + अ → इच्छ इति अङ्गम् → इच्छ + ति → इच्छति
इष → इष् उपदेशेऽजनुनासिक इत्
इष् + अ → इछ् + अ इषुगमियमां छः (७.३.७७)
इछ् → इत्छ् छे च (६.१.७३), आद्यन्तौ टकितौ (१.१.४६)
इत्छ् → इच्छ् स्तोः श्चुना श्चुः (८.४.४०)
इच्छ् + अ → इच्छ वर्णमेलने
इच्छ + ति → इच्छति
छे च (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्-आगमो भवति | तुक् कित् अस्ति अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | ह्रस्वस्य पिति कृति तुक् (६.१.७०) इत्यस्मात् ह्रस्वस्य, तुक् इत्यनयोः अनुवृतिः | संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ह्रस्वस्य तुक् छे च संहितायाम् |
अत्र इछ् इति स्थितिः | इछ् इत्यस्मिन् 'इ' ह्रस्वस्वरः, अपि च छकारः परोऽस्ति | अतः तुक्-आगमः भवति— किन्तु कुत्र ? प्रथमप्रश्नः अस्ति यत् अयं तुगागमः कस्य आगमः ? ह्रस्वस्वरस्य इति सूत्रेण उक्तम् | तदा इकारात् प्राक् अथवा परमिति जिज्ञासायां सत्याम्, अग्रिमसूत्रेण समाधानम् |
आद्यन्तौ टकितौ (१.१.४६) = टित् च कित् च यस्य आगमः, तस्य क्रमशः आदौ च अन्ते च अवयवः भवति | आगमः टित् चेत् पूर्वम् आयाति; आगमः कित् चेत् अन्ते आयाति | आदिश्च अन्तश्च आद्यन्तौ इतरेतरद्वन्द्वः, टश्च कश्च टकौ, इतरेतरद्वन्द्वः,टकौ इतौ ययोः तौ टकितौ, बहुव्रीहिः | आद्यन्तौ प्रथमान्तं, टकितौ प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— आद्यन्तौ टकितौ |
तुक् कित् अस्ति अतः अनेन सूत्रेण 'इछ्' इत्यस्मिन् इकारात् परमायाति | तुक्-आगमे ककारः उकारः च इत्-सज्ञकौ वर्णौ; तकारः एव अवशिष्यते | अतः इछ् → इत्छ् |
2. सम्प्रसारणिनः धातवः (4 धातवः)
तुदादिगणे चत्वारः सम्प्रसारणिनः धातवः—
ओव्रश्चू छेदने (कर्तयति) → व्रश्च्
प्रच्छ ज्ञीप्सायाम् → प्रच्छ्
भ्रस्ज् पाके (to fry, parch, roast) → भ्रस्ज्
व्यच व्याजीकरणे (वञ्चयति) → व्यच्
ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) = ग्रह्, ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तम्, ङिति सप्तम्यन्तम्, च अव्ययम्, त्रिपदमिदं सूत्रम् | वचिस्वपियजादीनां किति (६.१.१५) इत्यस्मात् किति इत्यस्य अनुवृत्तिः; ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात् सम्प्रसारणम्इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्— ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च सम्प्रसारणम् |
व्रश्च् → व्रश्च् + श → व्रश्च् + अ → ग्रहि ज्या इत्यनेन सम्प्रसारणम् → वृश्च् + अ → वृश्च इति अङ्गम् → वृश्च + ति → वृश्चति
प्रच्छ् → प्रच्छ् + श → ग्रहि ज्या इत्यनेन सम्प्रसारणम् → पृच्छ् + अ → पृच्छ इति अङ्गम् → पृच्छ + ति → पृच्छति
भ्रस्ज् → भ्रस्ज् + श → भ्रस्ज् + अ → ग्रहि ज्या इत्यनेन सम्प्रसारणम् → भृस्ज् + अ → स्तोः श्चुना श्चुः → भृश्ज् + अ → झलां जश् झशि → भृज्ज् + अ → भृज्ज इति अङ्गम् → भृज्ज + ति/ते → भृज्जति, भृज्जते
व्यच् → व्यच् + श → व्यच् + अ → ग्रहि ज्या इत्यनेन सम्प्रसारणम् → विच् + अ → विच इति अङ्गम् → विच + ति → विचति
क्त प्रत्यये परे (किति इत्यस्य उदाहरणम्)—
व्रश्च् → वृक्णः
प्रच्छ् → पृष्टः
भ्रस्ज् → भृष्टः
व्यच् → विचितः
इग्यणः सम्प्रसारणम् (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक् प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— यणः इक् सम्प्रसारणम् |
सम्प्रसारणाच्च (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् परम् अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७७) इत्यस्मात् अचि, अमि पूर्वः (६.१.१०७)इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्तिः भवति | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्— सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |
न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति | न अव्ययपदं, सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— न सम्प्रसारणे सम्प्रसारणम् |
3.नुमागमः (8 धातवः)
एतावता अस्माभिः दृष्टं यत् धातुः इदित् चेत्, नुमागमस्य प्रसक्तिः | यथा वदि-धातुः इदित् (ह्रस्व-इकारः इत् यस्य सः) अस्ति अतः इदितो नुम् धातोः (७.१.५८) इति सूत्रेण नुमागमः विहितः | वदि → वद् → वन्द् → वंद् → वन्द् इति भवति |परन्तु तुदादिगणे कश्चन अन्तर्गणः अस्ति (मुचाद्यन्तर्गणः) यत्र धातुः इदित् नास्ति चेदपि नुमागमः विधीयते |
मुचाद्यन्तर्गणः
अस्मिन् अन्तर्गणे अष्टौ धातवः सन्ति— मुच्, सिच्, विद्, खिद्, पिश्, कृत्, लिप्, लुप्
मुच्ऌ मोक्षणे (मुक्तीकरणे) → मुच्
षिच क्षरणे (सिञ्चने) → सिच्
विद्ऌ लाभे (प्राप्तौ)→ विद्
खिद परिघाते (खिन्नः भवति, दुःखम् अनुभवति) → खिद्
पिश अवयवे (भागविभागीकरणे) → पिश्
कृती छेदने (कर्तयति) → कृत्
लिप उपदेहे (लेपने) → लिप्
लुप्ऌ छेदने (कर्तयति) → लुप्
मुच् + श → मुच् + अ →
शे मुचादीनाम् (७.१.५९) = मुचादीनां नुमागमः भवति शे परे | मुच् आदिर्येषां ते मुचादयः, तेषां मुचादीनाम् | शे सप्तम्यन्तं, मुचादीनां षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | इदितो नुम् धातोः (७.१.५८) इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१)इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मुचादीनाम् अङ्गस्य नुम् शे |
मिदचोऽन्त्यात्परः (१.१.४७) = यः मित् अस्ति, सः अच्-वर्णेषु अन्त्यात् परः आयाति, अपि च अयं मित् यस्य वर्ण-समुदायस्य, तस्य अन्तिमावयवो भवति | म् इत् यस्य सः मित्, बहुव्रीहिः | मित् प्रथमान्तम्, अचः षष्ठ्यन्तम्, अन्त्यात् पञ्चम्यन्तम्,परः प्रथमान्तम्, अनेकपदमिदं सूत्रम् | आद्यन्तौ टकितौ (१.१.४६) इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः | अस्मिन् सूत्रे 'अचः' षष्ठीविभक्तौ; "अचः अन्त्यात्" इत्यस्य अर्थः निर्धारणम्— नाम "सर्वेषु स्वरेषु अन्तिमः, तस्मात्" | अत्र अचः एकवचने यतोहि अनेन अच्-जातिः इति इष्टम् | आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्) | जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् (१.२.५८) = जाति-आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् | तर्हि 'अचः' एकवचने चेदपि सार्वत्रिक-बहुवचनार्थकः | इत्थञ्च षष्ठीविभक्तेः अर्थः 'स्थाने' इति न; षष्ठी स्थानेयोगा (१.१.४९) इति सामान्यम्, इदं सूत्रं विशेषः | अनुवृत्ति-सहितसूत्रम्— मित् अचः अन्त्यात् परः अन्तः |
अनेन सूत्रेण नुम् "यस्य वर्ण-समुदायस्य, तस्य अन्तिमावयवो भवति", इत्युक्तम् | अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे | ज्ञान-शब्दः बहुवचने 'ज्ञानानि' भवति | ज्ञान + इ [शि-प्रत्ययः, लशक्वतद्धिते (१.३.८) इत्यनेन 'इ' अवशिष्यते] → मिदचोऽन्त्यात्परः (१.१.४७) इत्यनेन नुमागमः → ज्ञान + न् + इ → अयं नकारः ज्ञान इति अङ्गस्य वर्ण-समुदायस्य अन्तिमावयवः इति कारणेन सर्वनामस्थाने चासम्बुद्धौ (६.४.८) इत्यनेन अङ्गस्य उपधायाः दीर्घः → ज्ञानान् + इ → ज्ञानानि |यदि नकारः ज्ञान इति अङ्गस्य अन्तिमावयवः नाभविष्यत्, अकारः उपधायां नाभविष्यत्, सर्वनामस्थाने चासम्बुद्धौ (६.४.८) इत्यनेन अकारस्य दीर्घादेशः च नाभविष्यत् |
(प्रश्नः— अत्रोक्तं 'ज्ञान + इ [शि-प्रत्ययः]' | सुबन्तविषये प्रत्ययाः भवन्ति सु, औ, जस् इत्यादयः | तर्हि प्रथमपुरुषस्य बहुवचने 'जस्' इति प्रत्ययः भवेत्; कथं वा 'शि' इति जातम् ? मूलप्रत्ययाः सु, औ, जस् इति तु सत्यम् | किन्तु अनन्तरं प्रत्ययादेशाः भवन्ति— मूलप्रत्ययानां स्थाने आदेशाः भवन्ति | सुबन्तविषये लिङ्गम् अनुसृत्य, कुत्रचित् प्रातिपदिकस्य अन्तिमवर्णम् अनुसृत्य च आदेशाः भिद्यन्ते | नपुंसकलिङ्गे जश्शसोः शिः (७.१.२०) इत्यनेन नपुंसकात् अङ्गात् जस्-स्थाने शि-आदेशः | अनेन नपुंसकलिङ्गे, प्रथमपुरुषस्य बहुवचने इकारः आयाति—वनानि, वारीणि, मधूनि, जगन्ति, कर्माणि, धनूंषि, मनांसि |)
नुम् आगमः मित् अस्ति (मकारः इत् यस्य सः), अतः नुम् अचः अन्त्यात् परम् आयाति |
उदा—
मुचऌ → मुच् उपदेशेऽजनुनासिक इत्
मुच् → मुन्च् शे मुचादीनाम्
मुन्च् → मुंच् नश्चापदान्तस्य झलि
मुंच् → मुञ्च् अनुस्वारस्य ययि परसवर्णः
मुञ्च् + श → मुञ्च इति अङ्गम्
मुञ्च + ति → मुञ्चति
धेयं यत् श-विकरणप्रत्ययः यत्र न विहितः, तत्र नुमागमो न भवति | मुच् + क्त → मुक्तः |
षिच → सिच् + श → सिन्च् + अ → सिंच् + अ → सिञ्च् + अ → सिञ्च इति अङ्गम् → सिञ्च + ति → सिञ्चति
विद्ऌ → विद् + श → विन्द् + अ → विंद् + अ → विन्द् + अ → विन्द इति अङ्गम् → विन्द + ति → विन्दति
खिद → खिद् + श → खिन्द् + अ → खिंद् + अ → खिन्द् + अ → खिन्द इति अङ्गम् → खिन्द + ति → खिन्दति
पिश → पिश् + श → पिन्श् + अ → पिंश् + अ → पिंश इति अङ्गम् → पिंश + ति → पिंशति
कृती → कृत् + श → कृन्त् + अ → कृंत् + अ → कृन्त् + अ → कृन्त इति अङ्गम् → कृन्त + ति → कृन्तति
लिप → लिप् + श → लिन्प् + अ → लिंप् + अ → लिम्प् + अ → लिप्म इति अङ्गम् → लिम्प + ति → लिम्पति
लुप्ऌ → लुप् + श → लुन्प् + अ → लुंप् + अ → लुम्प् + अ → लुम्प इति अङ्गम् → लुम्प + ति → लुम्पति
अनुस्वारादेशः— नश्चापदान्तस्य झलि |
नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम्इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |
परसवर्णादेशः— अनुस्वारस्य ययि परसवर्णः |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनुस्वारस्य ययि परसवर्णः संहितायाम् |
4.सन्धिकार्यम् (2 धातू)
ओलस्जी व्रीडायाम् (लज्जितो भवति) → लस्ज्
टुमस्जो शुद्धौ (निर्मलो भवति, स्वच्छो भवति, स्नानं करोति; जले निमग्नो भवति) → मस्ज्
ओलस्जी → लस्ज् उपदेशेऽजनुनासिक इत्
लस्ज् → लश्ज् स्तोः श्चुना श्चुः (८.४.४०)
लश्ज् → लज्ज् झलां जश् झशि (८.४.५३)
लज्ज् + श → लज्ज इति अङ्गम्
लज्ज + ते → लज्जते
झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— झलां जश् झशि संहितायाम् |
टुमस्जो → मस्ज् → मश्ज् → मज्ज् → मज्ज् + अ → मज्ज इति अङ्गम् → मज्ज + ति → मज्जति
5.आय प्रत्ययः (1 धातुः)
तुदादौ विच्छ गतौ → विच्छ् इति धातुः |
गुपूधूपविच्छिपणिपनिभ्य आयः (३.१.२८) = गुपू, धूप, विच्छ, पण, पन, एतेभ्यः धातुभ्यः आय-प्रत्ययो भवति स्वार्थे | गुपूश्च धूपश्च विच्छिश्च पणिश्च पनिश्च तेषामितरेतरद्वन्द्वः गुपूधूपविच्छिपणिपनयः, तेभ्यः गुपूधूपविच्छिपणिपनिभ्यः |गुपूधूपविच्छिपणिपनिभ्यः पञ्चम्यन्तम्, आयः प्रथमान्तं, द्विपदमिदं सूत्रम् | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः; धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— गुपूधूपविच्छपणिपनिभ्यः धातुभ्यः आयः प्रत्ययः परश्च |
विच्छ् + आय → विच्छाय → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा → विच्छाय इति धातुः → कर्त्रर्थे सार्वधातुके परे तुदादिभ्यः शः (३.१.७७) ( विच्छिरयं तुदादौ पाठः, तत्सामर्थ्यात् आयप्रत्ययान्तात् अपि श-विकरणो भवति, न तु शप् इति पदमञ्जर्याम् उक्तम्) → विच्छाय + अ → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः पररूपम् एकादेशः → विच्छाय इति अङ्गम् → विच्छाय + ति → विच्छायति
अत्र आय-प्रत्ययो भवति स्वार्थे इत्युक्तं स्पष्टीकरणार्थं यथा णिच्-प्रत्ययः चुरादिगणे; इमौ प्रत्ययौ धातोः स्वस्य अर्थपोषणं करोति नान्यत् किमपि | नाम अनयोः प्रत्यययोः संयोजनेन धातोः अर्थः न परिवर्तते | केवलं रूपस्य साधनार्थम् अयं आय-प्रत्ययः उपयुज्यते पाणिनिना; धातुः अस्ति विच्छ्, रूपम् अस्ति विच्छायति— तस्य साधनार्थम् आय-प्रत्ययः अपेक्षितः |
अस्मिन् सूत्रे अवशिष्टाः धातवः भ्वादिगणे; भ्वादिगणस्य पाठे तेषां विवरणम्— गोपायति, धूपायति, पणायति, पनायति |
6.विकरणप्रत्यय-विकल्पः (1 धातुः)
वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः (३.१.७०) = भ्राश्, भ्लाश्, भ्रमु चलने, क्रम्, क्लम्, त्रस्, त्रुट्, लष्, एतेभ्यः श्यन् विकल्पेन भवति, कर्त्रर्थके प्रत्यये परे | भ्रशश्च भ्लाशश्च भ्रमुश्च क्रमुश्च, क्लमुश्च, त्रसिश्च त्रुटिश्च लष् च तेषां समाहारद्वन्द्वः भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलष्, तस्मात् भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः | वा अव्ययपदं, भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | दिवादिभ्यः श्यन् (३.१.६९) इत्यस्मात् श्यन् इत्यस्य अनुवृत्तिः, कर्तरि शप्(३.१.६८) इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः, सार्वधातुके यक् (३.१.६७) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातुभ्यः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः धातुभ्यः श्यन् प्रत्ययः परश्च वा कर्तरि सार्वधातुके |
तुदादौ त्रुट् → श-प्रत्यये त्रुटति, विकल्पेन श्यन्-प्रत्यये त्रुट्यति |
अस्मिन् सूत्रे त्रुट्-धातुः तुदादिगणे, त्रसीँ (उद्वेगे) इति धातुः दिवादिगणे, अवशिष्टाः सर्वे धातवः भ्वादिगणे सन्ति | इत्थं च विशिष्टसूत्रेण श्यन् इति विकरणप्रत्ययः विहितः; श्यन्-अभावे शप् इति सामान्यं भ्वादौ, श इति सामान्यं तुदादौ |
इति तुदादिगणे समग्रं तिङ्-सम्बद्धं सार्वधातुकप्रकरण-चिन्तनं समाप्तम् |
Swarup – May 2013 (updated August 2015)