1 - धातुगणाः

From Samskrita Vyakaranam
01---dhAtugaNaparicayah/1---dhAtugaNAH
Jump to navigation Jump to search


ध्वनिमुद्रणानि--
१) dasha-dhAtugaNAH_2019-09-18
२) dasha-dhAtugaNAH_2019-09-16
३) dasha_dhAtugaNAH _2015-09-16`
४) दश धातुगणाः 2014-09-09
५) दश धातुगणाः-2 2014-09-16

दशगणाः


पाणिनीयधातुपाठे धातवः दशसु गणेषु विभक्ताः सन्ति | एते दश गणाः अधः सूचिताः सन्ति; परन्तु सर्वप्रथमं कानिचन नूतन-नामानि अस्माभिः ज्ञातव्यानि | कर्तरिप्रयोगस्य लट्‌-लकारे, क्रियापदं भागत्रये विभज्यते—


पठति = पठ्‌ + अ + ति

पठ्‌ – धातुः [अर्थं निर्दिशति]

अ – विकरण-प्रत्ययः [गणं निर्दिशति]

ति – तिङ्‌-प्रत्ययः [लकारं निर्दिशति] |



अत्र सन्ति धातूनां दश गणाः | पश्यतु कथं भिन्नगणेषु विकरण-प्रत्ययाः भिद्यन्ते | वस्तुतः विकरणप्रत्ययानां भेदेन दश गणाः निर्मीयन्ते |


१. भ्वादिः (प्रथमः गणः = भू इत्यादयः धातवः; “भवति" इत्यादीनि क्रियापदानि)


१. भ्वादिः (प्रथमः गणः = भू इत्यादयः धातवः; “भवति" इत्यादीनि क्रियापदानि) | यस्य गणस्य आदौ भू-धातुः अस्ति, सः भ्वादि-गणः |

विकरण प्रत्ययः शप्‌ → अ

उदा-- खाद्‌ (खादति), पठ्‌ (पठति), क्रीड्‌ (क्रीडति), वद्‌ (वदति); शुच्‌ (शोचति), वृत्‌ (वर्तते); जि (जयति), स्रु (स्रवति), हृ (हरति)

२. अदादिः (द्वितीयः गणः = अद्‌ इत्यादयः धातवः; “अत्ति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः नास्ति [शप्‌ इत्यस्य लुक्‌ (लोपः)]

उदा-- अस्‌ (अस्ति), हन्‌ (हन्ति), वच्‌ (वक्ति); आस्‌ (आस्ते), शी (शेते)

३. जुहोत्यादिः (तृतीयः गणः = हु इत्यादयः धातवः; “जुहोति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः नास्ति [शपः श्लु (लोपः इव)] | लक्षणं = धातोः द्वित्वम्‌ |

उदा-- दा (ददाति), धा (दधाति), भी (बिभेति), हा (जहाति)

४. दिवादिः (चतुर्थः गणः = दिव्‌ इत्यादयः धातवः; “दीव्यति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः श्यन्‌ → य

उदा-- नश्‌ (नश्यति), नृत्‌ (नृत्यति), कुप्‌ (कुप्यति), क्रुध्‌ (क्रुध्यति), तुष्‌ (तुष्यति); मन्‌ (मन्यते), विद्‌ (विद्यते)

५. स्वादिः (पञ्चमः गणः = सु इत्यादयः धातवः;“सुनोति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः श्नु → नु → नो

उदा-- आप्‌ (आप्नोति), चि (चिनोति), शक्‌ (शक्नोति), धू (धूनोति)

६. तुदादिः (षष्ठः गणः = तुद्‌ इत्यादयः धातवः;“तुदति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः श → अ

उदा-- मिल्‌ (मिलति), लिख्‌ (लिखति), क्षिप्‌ (क्षिपति), कृष्‌ (कृषति)

७. रुधादिः (सप्तमः गणः = रुध्‌ इत्यादयः धातवः;“रुणद्धि" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः श्नम्‌ → न

उदा-- छिद्‌ (छिनत्ति), तृद्‌ (तृणत्ति), भिद्‌ (भिनत्ति), भुज्‌ (भुनक्ति) (भुङ्क्ते), युज्‌ (युनक्ति)

८. तनादिः (अष्टमः गणः = तन्‌ इत्यादयः धातवः;“तनोति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः उ → ओ

उदा-- कृ (करोति), तृण्‌ (तृणोति=खादति), सन्‌ (सनोति=ददाति)

९. क्र्यादिः (नवमः गण: = क्री इत्यादयः धातवः; "क्रीणाति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः श्ना → ना

उदा-- ग्रह्‌ (गृह्णाति), ज्ञा (जानाति), अश्‌ (अश्नाति=खादति), वृ (वृणाति), बन्ध्‌ (बध्नाति), सि (सिनाति)

१०. चुरादिः (दशमः गणः = चुर्‌ इत्यादयः धातवः; “चोरयति" इत्यादीनि क्रियापदानि)

स्वार्थे णिच्‌ प्रत्ययः, तदा विकरण प्रत्ययः शप्‌ → अ [अतः आहत्य "अय"]

उदा-- क्षल्‌ (क्षालयति), प्रेष्‌ (प्रेषयति), कथ्‌ (कथयति), गण्‌ (गणयति), चिन्त्‌ (चिन्तयति), भक्ष्‌ (भक्षयति)


1 - dhAtugaNaH.pdf (30k)

Swarup - July 2012