धातुगणाः - सूत्रसहित-दृष्टिः
02A----dhAtugaNAH---sUtra-sahita-dRuShTiH
एतावता धातुगणाः अधीताः, मूलयन्त्राणि अपि ज्ञातानि | तत्र पाणिनीयसूत्रं कथं पठनीयम् इति बुद्धम् | अतः सम्प्रति सूत्रसहितदृष्ट्या धातुगणेषु यत् गुणकार्यं प्रवर्तते, तत् पुनः परिशीलनीयम् | कुत्र-कुत्र गुणकार्यं भवति, कुत्र न भवति किमर्थं च, इत्येतत् सर्वं चिन्तनीयम् | अग्रिमेषु चतुर्षु पाठेषु सूत्राणां द्वारा गुणपरिचयः इतोऽपि गभीरः | क्रमेण इमे चत्वारः पाठाः पठ्यन्ताम् —
०१ गुणः, सूत्रसहिता दृष्टिः |
०२ उपधायाम् अपि गुणः - सूत्रसहिता दृष्टिः |
०३ तुदादिगणे न गुणः |
०४ केषु गणेषु गुणः सम्भवति धात्वङ्गे ? |