11 - चुरादिगणे विशेषधातवः
चुरादिगणे सामान्यकार्यं त्रिभिः सूत्रैः क्रियते इति अस्माभिः दृष्टम् | तानि च अचो ञ्णिति, अत उपधायाः, पुगन्तलघूपधस्य च | इदं कार्यं सामान्यम् इत्युच्यते अस्मिन् गणे | पुनः चुरादिगणे बहवः हलन्तधातवः सन्ति यत्र किमपि कार्यं नार्हति यतः उपधायां ह्रस्व-अकारः (अत्) अपि नास्ति, लघु इक् अपि नास्ति | तान् अपि वयम् अपश्याम | अस्मिन् करपत्रे ये चुरादिगणीयाः धातवः विशेषाः सन्ति, तान् अवलोकयाम |
१. अदन्तधातवः (93 धातवः)
चुरादिगणे त्रिनवतिः धातवः अदन्ताः सन्ति | यथा कथ, गृह, गण, क्षिप— एषाम् अन्ते ह्रस्व-अकारः वर्तते | तस्य अकारस्य लोपः तु भवति, परन्तु उपदेशेऽजनुनासिक इत् इति सूत्रेण इति न | यतोहि एषु धातुषु स च अन्त्यः अकारः अनुनासिकः (अँ) नास्त्येव; अतः इमे अकाराः इत्-संज्ञकवर्णाः न सन्ति | तर्हि एषां धातूनाम् अन्त्यः अकारः कथं लुप्यते ? चुरादिगणे धातुभ्यः णिच्-प्रत्ययः विधीयते, अतः एकं सूत्रम् अस्ति अतो लोपः, यस्य द्वारा अकार-लोपः सिध्यति—
अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |
णिच्-प्रत्ययः आर्धधातुकः अस्ति अतः धातुः अदन्तः चेत्, अतो लोपः (६.४.४८) इत्यस्य प्रसक्तिः भवति |
यथा—
कथ + णिच् → कथ् + इ
गृह + णिच् → गृह् + इ
इदानीं कथ् इति धातुः अस्ति, गृह् इति धातुः अस्ति | अस्यां दशायां कथ्-धातोः उपधायाम् अत् (ह्रस्व-अकारः) इत्यस्य वृद्धिः, अपि च गृह्-धातोः उपधायां लघु-इकः गुणः |
अत उपधायाः (७.२.११६) = उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति |
पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणो भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
अनयोः सूत्रयोः प्रसक्तिः स्यात् | परन्तु अनेन परिभाषा-सूत्रेण लोपः लुप्त-अकारः इव भवति—
अचः परस्मिन् पूर्वविधौ (१.१.५७) = परनिमित्तकः अजादेशः स्थानिवत् भवति, पूर्वविधौ कर्तव्ये | अचः स्थाने यः आदेशः सः अजादेशः | यस्य स्थाने आदेशः विधीयते सः स्थानी | 'अजादेशः स्थानिवत्' नाम यः आदेशः अचः स्थाने विहितः, सः पुनः मूलः अच् इव— 'स्थानिवत्' भवति | पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते | परस्मिन् इति निमित्तसप्तमी | पूर्वविधौ इति विषयसप्तमी | पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः, तस्मिन् पूर्वविधौ | अचः षष्ठ्यन्तं, परस्मिन् सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यस्मात् स्थानिवत्, आदेशः इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ |
इत्थं च चुरादिगणे अदन्तधातुभ्यः णिच्-प्रत्ययः विधीयते, अतः लोपः स्थानिवत् नाम ह्रस्व-अकारः इव | अनेन कारणेन अत उपधायाः इति सूत्रस्य दृष्ट्या कथ्-धातुः 'कथ' इतिवत् दृश्यते | तस्मात् उपधायां थकारः प्रतीयते न तु ह्रस्व-अकारः | अस्यां दशायां किमपि कार्यं न सम्भवति | यथा—
कथ + णिच् → अतो लोपः → कथ् + णिच् → अत उपधायाः इत्यनेन स्थितस्य अतः वृद्धिः भवति स्म → अचः परस्मिन् पूर्वविधौ → कथ् धातोः अन्त्यः लोपः अत् इव दृश्यते → अत उपधायाः इति सूत्रेण "कथ" दृश्यते इति कारणतः उपधायाम् अधुना थकारः वर्तते → अतः वृद्धिः न भवति |
चुरादिगणे अदन्तेषु धातुषु एतादृशी गतिः सर्वत्र—
कथ् + णिच् → कथि + शप् → कथयति/ते
गण् + णिच् → गणि + शप् → गणयति/ते
क्षिप् + णिच् → क्षिपि + शप् → क्षिपयति/ते
पुट् + णिच् → पुटि + शप् → पुटयति/ते
गृह् + णिच् → गृहि + शप् → गृहयति/ते
प्रश्नः उदेति यदि कथ इति धातोः उपदेशावस्थायां धात्वन्ते स्थितः अत् अनुनासिको न, तर्हि किमर्थं अतो लोपः (६.४.४८) इत्यस्य स्थाने अचो ञ्णिति (७.२.११५) इत्यनेन अतः वृद्धिः न स्यात् ? द्वयोः सूत्रयोः अन्यत्रलब्धावकाशः अस्ति, अपि च अचो ञ्णिति (७.२.११५) इति परसूत्रम् | अतो लोपः (६.४.४८) इत्यस्य निमित्तम् 'आर्धधातुके परे', अतः यावन्तः आर्धधातुकप्रत्ययाः सन्ति ते च पराः चेत्, अतो लोपः (६.४.४८) इत्यस्य अवकाशः | अतः अचो ञ्णिति (७.२.११५) इत्यस्य परत्वात् वृद्धिः भवेत् |
प्रत्युत्तरम् एवं यत् 'आर्धधातुके' इत्यनेन विषयसप्तमी मन्यते चेत्, अतो लोपः (६.४.४८) इत्यस्य कार्यं भविष्यति; 'आर्धधातुके' इत्यनेन परसप्तमी मन्यते चेत्, परत्वात् अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः | विषयसप्तमी नाम यदा हि विचारः आयाति यत् आर्धधातुकप्रत्ययः आगमिष्यति, तदा हि तेन निर्दिष्टं कार्यं सिध्यति— आर्धधातुकप्रत्ययस्य आगमनात् प्रागेव | 'आर्धधातुके' इति यदा विषयः उदेति यत् आर्धधातुकप्रत्ययः आगम्यमानः— तावता प्रत्ययः शारीरिकरूपेण पुरतः नास्ति, केवलम् आगम्यमानः— तदानीम् अतो लोपः (६.४.४८) इत्यनेन अतः लोपो भवति | अचो ञ्णिति (७.२.११५) इत्यस्मिन् परसप्तमी अतः ञित् णित् प्रत्ययः शारीरिकरूपेण पुरतः स्थितः चेदेव कार्यं सेत्स्यति | अत्र बहुसंख्यता विषयसप्तमीं मन्यते; अस्मिन् पक्षे कथयति इति रूपम् | परन्तु केचन परिगणिताः वदन्ति यत् अत्र परसप्तमी स्यात्; तेषां मतेन कथायति इति रूपम् |
*अतो लोपः (६.४.४८) इति सूत्रे प्रश्नः उदेति किमर्थम् उपदेशे इत्युक्तम् | उत्तरम् एवं यत् अनुवृत्तौ उपदेशे इति यदि नाभविष्यत्, तर्हि कासुचित् स्थितिषु (अनुपदेशावस्थायाम्) इष्टं रूपं न प्राप्स्यत् | यथा— भ्वादिगणे अय् गतौ इति धातुः; उदाहरणार्थं कश्चन आर्धधातुक-प्रत्ययः अस्ति क्विप् |
अय् + क्विप् → अनुबन्धलोपे → अय् + व् → लोपो व्योर्वलि (६.१.६५) इत्यनेन यकार-लोपः → अ + व् → अतो लोपः (६.४.४८) इत्यनेन अ-लोपः, वेरपृक्तस्य (६.१.६६) इत्यनेन व्-लोपः → शून्यम् अवशिष्यते |
अतः उपदेशे नास्ति चेत् इष्टं रूपं न प्राप्यते | उपदेशे अस्ति चेत् अ-लोपः न भवति यतोहि 'अ' इति उपदेश-अवस्थायां नास्ति |
अ + व् → ह्रस्वस्य पिति कृति तुक् (६.१.७०) इत्यनेन तुक्-आगमः → अत् + व् → वेरपृक्तस्य (६.१.६६) इत्यनेन व्-लोपः → अत् इति इष्टं रूपं प्राप्तम् |
२. कृप्-धातोः विधिः
कृपेश्च अवकल्कने (विचारं करोति, चिन्तनं करोति) |
कृपो रो लः (८.२.१८) = कृप्-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम् | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम् | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तं, अनेकपदमिदं सूत्रम् | कृपः इत्यस्य द्विवारम् आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्— कृपः उः कृपः रः लः |
यत्र कृप्-धातोः उपधायाः गुणः भवति कर्प्, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प् इति फलम्; यत्र उपधागुणो न भवति, तत्र कृप् इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप् इति फलम् |
लटि कल्पयति/ते | कृप् + णिच् → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः → कर्प् + इ → कृपो रो लः (८.२.१८) इत्यनेन रेफस्य स्थाने लकारादेशः → कल्प् + इ → कल्पि इति धातुः → कल्पि + शप् → कल्पय इति अङ्गम् → कल्पय + ति → कल्पयति/ते
लिट्-लकारे गुणनिषेधत्वात् ऋकारस्य उदाहरणम्—
लिटि चकॢपे | कृप् + ए → द्वित्वम् अभ्यासकार्यम् च → चकृप् + ए → कृपो रो लः (८.२.१८) इत्यनेन ऋकारस्य स्थाने ऌकारादेशः → चकॢप् + ए → चकॢपे
प्रश्नः उदेति यदि रेफस्य स्थाने लकारस्तु भवति एव, तर्हि किमर्थं मूलधातौ उपदेशावस्थायां कॢप् न स्यात् ? उतरम् अस्ति यत् वेदे तस्य ऋकारस्य महत्त्वं वर्तते | वेदे उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम् इङ्गितम् | अतः वेदे अयं धातुः ऋदुपदधातुः भवेत् |
३. कॄत्-धातोः विधिः
कॄत संशब्दने = प्रसिद्धं करोति, उद्घोषणं करोति, गुणं प्रसारयति |
उपधायाश्च (७.१.१०१) = धातोरुपधाभूतस्य ॠतः इत्स्यात् | धातोः उपधायां स्थितस्य दीर्घ-ॠकारस्य स्थाने ह्रस्व-इकारादेशो भवति | उपधायाः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम् | ॠत इद्धातोः (७.१.१००) इत्यस्य सूत्रस्य पूर्णतया अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ॠतः धातोः अङ्गस्य इत् उपधायाश्च |
अनेन कॄत् धातोः ॠकारस्य ह्रस्व-इकारादेशः भवति |
स्मारणार्थं यत्र धातुः ऋकारान्तः, तत्र ॠत इद् धातोः (७.१.१००) इत्यनेन ऋकारस्य स्थाने इकारादेश | यथा तुदादिगणे अस्माभिः दृष्टम्— कॄ-धातोः ॠकारः → इ आदेशः, कॄ → कि → उरण् रपरः इत्यनेन रपरः → किर् → किर् + अ + ति → किरति |
ॠत इद् धातोः (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति (किति ङिति प्रत्यये परे) | कित्-ङित् भिन्नप्रत्ययः परे चेत्, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | ॠतः षष्ठ्यन्तम्, इत् प्रथमान्तम्, धातोः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन ॠतः इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम् | अनुवृत्ति-सहितसूत्रम्— ॠतः धातोः अङ्गस्य इत् |
चुरादिगणे कॄत्-धातुः—
कॄत् → कित् उपधायाश्च (७.१.१०१)
कित् → किर्त् उरण रपरः (१.१.५१)
किर्त् → कीर्त् उपधायां च (८.२.७८)
कॄत् + णिच् → कीर्ति इति धातुः
कीर्ति + शप् → कीर्तय इति अङ्गम्
कीर्तय + ति/ते → कीर्तयति/कीर्तयते
उरण् रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति | ऋकारेण त्रिंशत्-प्रकारकः ऋकारः भवति इति बोध्यम् | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्, अण् प्रथमान्तम्, रपरः प्रथमान्तम्, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— उः स्थाने अण् रपरः |
[सत्वं, नत्वं, नुमागमः] उपधादीर्घः |
उपधायां च (८.२.७८) = धातूनां यौ उपधाभूतौ रेफवकारौ हल्परौ, ताभ्यां प्राक् वर्तमानस्य इकः दीर्घादेशो भवति | सूत्रार्थे 'उपधा'-शब्दः र्वोः इत्यस्य विशेषणं; र्वोः तु षष्ठीद्विवचने अतः 'उपधायां' अपि तथा षष्ठीद्विवचने यद्यपि सूत्रे सप्तम्येकवचनं दत्तमस्ति | उपधायां सप्तम्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम् | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः; मूलसूत्रे 'र्वोः' षष्ठ्यन्तं 'धातोः' इत्यस्य विशेषणं तदन्तविधिः इति कृत्वा धात्वन्ते इत्यर्थः; अत्र 'र्वोः' इत्यनेन सम्बन्धषष्ठी 'इकः' इत्यनेन सह | हलि च (८.२.७७) इत्यस्मात् हलि इत्यस्य अनुवृत्तिः; विभक्तिपरिणामेन षष्ठ्यन्तं 'हलः' 'धातोः' इत्यस्य विशेषणं, तदन्तविधिश्च | अनुवृत्ति-सहितसूत्रम्— हलः धातोः उपधयोः र्वोः उपधायाः इकः दीर्घः |
कुर्द भ्वादौ = क्रीडति, नृत्यति
कुर्द → कुर्द् उपदेशेऽजनुनासिक इत्
कुर्द् → कूर्द् उपधायां च
कूर्द् + शप् + ते → कूर्दते
तथैव खुर्द → खूर्द्, गुर्द → गूर्द् |
४. ज्ञपादयः मितः
सामान्यतया अत उपधायाः (७.२.११६) इति सूत्रेण उपधायाम् अत् (ह्रस्व-अकारः) अस्ति चेत्, तस्य वृद्धिः भवति— अकारस्य स्थाने आकारः— ञिति णिति प्रत्यये परे | परन्तु एकः अन्तर्गणः वर्तते यस्य नाम अस्ति 'मित्' | चुरादिगणे षट् मित्-धातवः सन्ति | तेषाम् उपधायाम् अत उपधायाः इति सूत्रेण अतः (ह्रस्व-अकारस्य) वृद्धिः तु भवति, परन्तु पुनः मितां ह्रस्वः इति सूत्रेण उपधायां स्थितः आकारः ह्रस्वः भवति |
मितां ह्रस्वः (६.४.९२)= मित्-धातूनाम् उपधायाः स्वरः ह्रस्वः भवति, णिच्-प्रत्यये परे | मित् कश्चन अन्तर्गणः | भ्वादिगणे घटादयः उपगणः मित्-अन्तर्गणे सन्ति, अपि च चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे सन्ति | मितां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपमिदं सूत्रम् | ऊदुपधाया गोहः (६.४.८९) इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः | दोशो णौ (६.४.९०) इत्यस्मात् णौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मितां अङ्गानाम् उपधायाः ह्रस्वः णौ |
अत उपधायाः (७.२.११६) = उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे | अतः षष्ठ्यन्तम्, उपधायाः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः; अचो ञ्णिति (७.२.११५) इत्यस्मात् ञ्णिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति |
ज्ञप् + णिच् → ज्ञप् + इ → अत उपधायाः (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः णिति प्रत्यये परे→ ज्ञापि → मितां ह्रस्वः (६.४.९२) इत्यनेन उपधायाः स्वरः ह्रस्वः णिचि → ज्ञपि इति धातुः → ज्ञपि + शप् → ज्ञपय इति अङ्गम् → ज्ञपय + ति → ज्ञपयति/ते
षट् धातवः— ज्ञप, यम, चह, रह, बल, चिञ्
ज्ञप ज्ञानज्ञापन-मारणतोषणे = सूचयति, जयति, मारयति, प्रसन्नः भवति
यम परिवेषणे = नियमयति, नियन्त्रणं करोति
चह परिकल्कने = वञ्चयति
रह त्यागे = त्यजति, जहाति
बल प्राणने = जीवति; पोषणं करोति
चिञ् चयने = सङ्ग्रहणं करोति
ज्ञप → ज्ञप् + इ → ज्ञापि → ज्ञपि → ज्ञपय → ज्ञपयति/ते
यम → यम् + इ → यामि → यमि → यमय → यमयति/ते
चह → चह् + इ → चाहि → चहि → चहय → चहयति/ते
रह → रह् + इ → राहि → रहि → रहय → रहयति/ते
बल → बल् + इ → बालि → बलि → बलय → बलयति/ते
चिञ् → चि + इ → अचो ञ्णिति → चै + इ → चायि → चयि → चयय → चययति/ते
५. पदव्यवस्था
सामान्यतया चुरादिगणे धातवः उभयपदिनः सन्ति णिचश्च (१.३.७४), शेषात्कर्तरि परस्मैपदम् (१.३.७८) इति सूत्रद्वयेन | परन्तु चुरादौ अपवादभूत-अन्तर्गणद्वयं वर्तते, यत्र धातवः आत्मनेपदिनः सन्ति |
आकुस्मादात्मनेपदिनः (आकुस्मीयाः) = 39 नित्य-आत्मनेपदिनः धातवः
एषु प्रायः न कोऽपि धातुः प्रसिद्धः लोके |
यु → यावयते (निन्दां करोति)
चित् → चेतयते (चिन्तनं करोति)
गन्ध् → गन्धयते (दुःखं प्रापयति, मारयति)
कुस्म् → कुस्मयते (अयोग्यरूपेण, कुत्सितरूपेण हसति)
आगर्वादात्मनेपदिनः = 10 अदन्ताः आवर्गीयाः नित्य-आत्मनेपदिनः धातवः
इमे धातवः अदन्ताः, नाम तस्मिन् समूहे सन्ति यस्मिन् धातोः अन्ते अननुनासिकः अत्, अतो लोपः (६.४.४८) इत्यनेन अतः लोपः, अचः परस्मिन् पूर्वविधौ (१.१.५७) इति परिभाषया पूर्वविधिः न भवति, यस्मात् अत उपधायाः (७.२.११६), पुगन्तलघूपधस्य च (७.३.८६) इत्यनयोः अवकाशो न भवति |
पद गतौ → पद् → पदयते
कुह विस्मापने → कुह् → कुहयते
मृग अन्वेषणे → मृग् → मृगयते
गृह ग्रहणे → गृह् → गृहयते
वीर विक्रान्तौ → वीर् → वीरयते
शूर विक्रान्तौ → शूर् → शूरयते
स्थूल परिबृंहणे → स्थूल् → स्थूलयते
सत्र सन्तान-क्रियायाम् → सत्र् → सत्रयते
अर्थ याचने → अर्थ् → अर्थयते
गर्व माने → गर्व् → गर्वयते
द्वयोः गणयोः अपि धातवः नित्य-आत्मनेपदिनः | भेदः अयं यत् आकुस्मादात्मनेपदिधातुषु यत्र यत्र उपधायां लघु इक् वा लघु अकारः (अत्) अस्ति, तत्र तत्र यथासामान्यं गुणः वृद्धिः वा भवति एव | किन्तु आगर्वादात्मनेपदिनः यतः अदन्तधातवः, अतः तत्र उपधायां लघु इक् वा लघु अकारः (अत्) अस्ति चेदपि अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन गुणः वृद्धिः च न भवतः |
ये धातवः आकुस्मादात्मनेपदिनः अपि आगर्वादात्मनेपदिनः अपि न सन्ति, ते सर्वे णिचश्च इति सूत्रेण उभयपदिनः एव, यथा चोरयति / चोरयते इत्यादीनि रूपाणि |
६. वैकल्पिकाः णिजन्तधातवः (149 धातवः)
इमे धातवः वैकल्पिकाः णिजन्तधातवः |
अतः
- धातुः + णिच् + शप् (चुरादिगणे)
वा
- धातुः + केवलं शप् (भ्वादिगणे इव)
यथा—
युज् + णिच् + शप् → योजय → योजयति/योजयते
वा
युज् + शप् → योज → योजति
यदा कदापि कर्तरि सार्वधातुके परे विशिष्ट-विकरणप्रत्ययः नोक्तः, तदा शप् इति विकरणप्रत्ययः भवति एव | शप् तु सामान्यम् | एते वैकल्पिकाः णिजन्तधातवः पाणिनिना भ्वादिगणस्य धातुपाठे नोक्ताः, किञ्च मातृभिः उच्यते यत् भ्वादिगणे भवन्तु यतोहि एषां कृते किमपि विशिष्टविधायकसूत्रं नापेक्षितम् | यथा भ्वादिगणे कर्तरि शप् (३.१.६८) इत्यनेन शप् विहितः, तथैव अत्रापि— न कोऽपि भेदः | अपरेषु स्थलेषु अस्माभिः दृष्टं यत् कश्चन धातुः कस्मिंश्चित् धातुगणे नास्ति चेदपि, तस्य गणस्य विकरणप्रत्ययः विधीयते विशिष्टसूत्रेण | अत्र तथा किमपि नास्ति; भ्वादिवत् कर्तरि शप् (३.१.६८) इत्यनेन कार्यं सिध्यति— अतः इमे भ्वादिगणीयाः भवन्तु इति मातॄणां मतम् |
कर्तरि शप् (३.१.६८) = धातुतः शप्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | कर्तरि सप्तम्यन्तं, शप् प्रथमान्तं, द्विपदमिदं सूत्रम् | सार्वधातुके यक् (३.१.६७) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके |
इमे वैकल्पिकाः णिजन्तधातवः पञ्चसु विभागेषु विभक्ताः सन्ति—आकुस्मीयाः; आस्वदीयाः; आधृषीयाः युजादयः च; णिजन्ताश्चुरादयः; इदितः उदितः च | एते अन्तर्गणाः सन्ति; एकैकस्य लक्षणं भिन्नम् | यथा आस्वदीय-अन्तर्गणे यत्र धातुः सकर्मकः, तत्र णिच् भवति; यत्र धातुः अकर्मकः, तत्र णिच् न भवति | चुरादिगणे धातुः उदित् चेत्, इत्-संज्ञक-उकारस्य अन्यत् फलं नास्ति चेत्, णिच्-वैकल्पिकम् इति सूचयति | एषु पञ्चसु सर्वत्र णिजभावे धातुः परस्मैपदी एव भवति |
आकुस्मीयाः धातवः (आकुस्मादात्मनेपदिनः) द्विविधाः— केचन नित्यणिजन्ताः, अन्ये 'वा णिजन्ताः' अपि | ये 'वा णिजन्ताः' सन्ति, ते णिच्-अभावे शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदिनः एव |
परिसमाप्तिः
चत्वारः धातुगणाः सन्ति यत्र अङ्गम् अदन्तं भवति; ते भ्वादिगणः, दिवादिगणः, तुदादिगणः, चुरादिगणः च | एषां गणानां कृते अधुना सार्वधातुकलकाराणां पाठः परिसमाप्तः | आहत्य एषु चतुर्षु गणेषु १७०४ धातवः सन्ति | धातुः सामान्यो वा विशेषो वा, एषां सर्वेषां धातूनां कृते लट्, लोट्, लङ्, विधिलिङ् च तिङन्तरूपाणि अस्माभिः ज्ञातानि | पाणिनीयधातुपाठे आहत्य १९४३ धातवः सन्ति | अतः एतावता १९४३ इत्येषु १७०४ इत्येषां सार्वधातुकलकार-रूपाणि अस्माभिः अवलोकितानि | किञ्चित् पुनस्स्मरणं क्रियते चेत्, ज्ञास्यते यत् बहु किमपि व्यावहारिकं ज्ञानं सम्पादितम् | अवशिष्टाः केवलं २३९ धातवः सन्ति येषाम् अङ्गम् अदन्तं नास्ति; सम्प्रति तेषां सार्वधातुकलकार-रूपाणि परिशीलयिष्यामः |
Swarup – May 2013 (Updated September 2015)
---------------------------------
११ - चुरादिगणे विशेषधातवः.pdf (67k) Swarup Bhai, Mar 31, 2019, 9:00 AM
विप्रतिषेधे परं कार्यम् (१.४.२) pdf, भ्वादिगणः - विशेषधातवः pdf, चुरादिगणीयाः धातवः pdf