02 - UMD संस्कृतम्
अयं वर्गः अस्माकं माध्यमिकस्तरीयो वर्गः | अधुना प्रगतविषयान् अस्मिन् वर्गे कुर्मः, किञ्च ध्वनिमुद्रणानाम् आरम्भे सरलविषयाः भवन्ति स्म | अतः विभिन्नस्तरीय-विद्यर्थिनः अस्य वर्गस्य ध्वनिमुद्रणानि श्रोतुं शक्नुवन्ति | ये किञ्चिदेव जानन्ति, ते भाषासोपानस्य शृणुयुः; ये अधिकं जानन्ति ते गीताप्रवेशस्य विषयान् शृणुयुः | अस्मिन् वर्गे सन्धि-विषये अधिकसमयो व्यतीतः; येषां सन्धि-विषये अधिकम् अभिरुचिरस्ति, ते अवश्यं शृणुयुः | अत्र पाणिनीयसूत्राणि अपि परिशीलितानि |
भाषासोपानम् इति पुस्तकं भाषाप्रवेशस्य प्रथमभागेन सदृशम् | द्वयोः तौल्यं वर्तते; अमेरिकादेशे एकः शिक्षकगणः इदं पुस्तकं निर्मितवान् | पुस्तकम् अधः नियोजितम् अस्ति; अस्य पुस्तकस्य ध्वनिमुद्रणानि श्रोतुम् इच्छति चेत्, अपि च पुस्तकं पार्श्वे नास्ति चेत्, तर्हि अधः download कृत्वा तस्य उपयोगं करोतु | पुस्तके केचन लेखनदोषाः सन्ति, परञ्च पुस्तकं लाभाय एव |
प्रतिसप्ताहं वर्गात् पश्चात्, तस्य दिनस्य ध्वनिमुद्रणं अत्र स्थाप्यते अपि च अग्रे गत्वा तथैव करिष्यते | शनैः शनैः यानि करपत्राणि मया निर्मितानि तानि सर्वाणि अत्र स्थापयिष्यन्ते | किमपि न प्राप्यते चेत् अथवा कोऽपि प्रश्नः सूचना वा चेत्, अवश्यं मम सम्पर्कं कुर्वन्तु-- स्वरूपः dinbandhu@sprynet.com.
धेयम्-- To listen directly to a file, left-click on it. To download a file to your computer, right click on the file and select "save link as".
भाषासोपानम्
(पुस्तकम् अत्र अस्ति-- pdf download कृत्वा अस्माकं वर्गेण सह पठितुं शक्यते)
भाषाप्रवेशः द्वितीयभागः
(पुस्तकं लभ्यते अत्र)
गीताप्रवेशः, प्रथमभागः
(पुस्तकं लभ्यते अत्र)
ध्वनिमुद्रणेषु यत्र स्वरसन्धि-विषये करपत्रस्य प्रयोगः क्रियमाणः, तत्र इदं करपत्रम् आवश्यकम् | हल्सन्धि-विषये इदं करपत्रम् | विसर्गसन्धि-विषये इदं करपत्रम् | अनुनासिकः अनुस्वारः इत्यनयोर्भेदः इति विषये इदं करपत्रम् | णत्व-विषय़े इदं करपत्रम् [तस्मिन् जालपुटे, अधोभागे एकं करपत्रं, षट् च pdf-पुटाः सन्ति download इत्यर्थम्] |
---------------------------------
Tarka Samgraha Vyakhya.pdf (7840k)Swarup Bhai, May 17, 2015, 5:08 AM v.1
भाषासोपानम्.pdf (1395k)Swarup Bhai, May 10, 2014, 7:27 AM v.1