20 - संयोग-विभागयोः स्वभावप्रसङ्गे पुनः किञ्चित्‌

From Samskrita Vyakaranam
10---nyAyashAstram/20---saMyoga-vibhAgayoH-svabhAva-prasange-punaH-kincit
Jump to navigation Jump to search
ध्वनिमुद्रणानि
2017 वर्गः
१) saMyoga-vibhAgayoH-svabhAva-prasange-punaH-kincit_2017-05-13
२) saMyoga-vibhAgayoH-avadhi-prasange_2017-05-20


द्विनिष्ठत्वं, तस्य च फलम्‌


पूर्वम्‌ उक्तं यत्‌ संयोगः द्विनिष्ठः, विभागश्च द्विनिष्ठः | पृथक्त्वम्‌ एकनिष्ठम्‌ | एकनिष्ठ-द्विनिष्ठयोः वैलक्षण्यात्‌ स्वभावभेदः | द्रव्योत्पत्तेः तदुत्तरक्षणे रूपम्‌, एकत्वं, पृथक्त्वम्‌ इत्यादयः गुणाः जायन्ते | पृथक्त्वं चिरकालं तिष्ठति तदाश्रयद्रव्ये; यावत्‌ तच्च द्रव्यं तिष्ठति, तावत्‌ पर्यन्तं तस्मिन्‌ विद्यमानं पृथक्त्वमपि तिष्ठति | यथा घटे पृथक्त्वम्‌ एकम्‌ एव; यावत्‌ स च घटः न नश्यति, तावत्‌ तस्मिन्‌ तच्च एकमेव पृथक्त्वं तिष्ठति एव |


किन्तु संयोगः विभागः च तथा न स्तः | यस्मिन्‌ काले घटः अपरेण द्रव्येण सह संयुक्तो भवति, तस्मिन्नेव काले घटे संयोगरूपगुणः जायते | घटपुस्तकयोः संयोगः यदा जायते, तस्मिन्‌ समये संयोगः जायते घटे पुस्तके च | अपि च यदा घटपुस्तकयोः विभागो जायते, तदा स च संयोगः नश्यति | एवं कृत्वा एकस्य घटस्य 'जीवने' बहवः संयोगरूपगुणाः जायन्ते, नश्यन्ति च | प्रत्येकं संयोगः कालसम्बद्धः, भिन्नः च | एकस्मिन्‌ घटे संयोगाः नाना भवन्ति; अस्य बहुत्वस्य एकं कारणम्‌ इदम्‌ कालसम्बद्धत्वम्‌ |


संयोग-बहुत्वस्य द्वितीयं कारणं यत्‌ संयोगः द्विनिष्ठः | द्विनिष्ठत्वात्‌ घटपुस्तकयोः संयोगः विलक्षणः, घटपटयोः संयोगः पुनः विलक्षणः | यद्यपि द्वावपि संयोगौ घटे स्तः, किन्तु द्वौ भिन्नौ— घटपुस्तकसंयोगः भिन्नः, घटपटसंयोगः भिन्नः | अनेन एकस्मिन्नेव काले, युगपत्‌ द्वौ भिन्नौ संयोगौ घटे भवितुम्‌ अर्हतः |


विभागः


एवमेव घटपुस्तकयोः विभागः द्विनिष्ठः— अयं विभागः घटे अपि अस्ति, पुस्तके अपि अस्ति | घटपटयोः विभागः अपि द्विनिष्ठः, घटे पटे च | घटपुस्तकयोः विभागः, घटपटयोः विभागः च भिन्नः | यद्यपि विभागद्वयमपि घटे |


संयोगनाशको गुणो विभागः | संयोगनाशकत्वात्‌ विभागः स्वीक्रियते | विभागः इति विलक्षणगुणः किमर्थं स्वीक्रियते इति चेत्‌, संयोगस्य नाशः कल्पनीयः | संयोगः विभागेन नाश्यते; तदर्थमेव विभागः कल्प्यते | अपि च यावत्‌ तस्य कार्यम्‌ आवश्यकं, तावत्‌ कालमेव सः विभागः कल्प्यते— यदा प्रत्ययः विद्यते, तदैव स च विभागः कल्प्यते; अनेन 'विभक्तः' इति प्रत्ययकाले एव भवति |


घटपटयोः संयोगः, तदा तयोः विभागः, पुनः संयोगः, पुनः विभागः इति रीत्या नाना विभागाः स्वीक्रियन्ते | एवञ्च संयोगभेदेन विभागः भिद्यते | घटपटयोः क्रमेण संयोगः, विभागः, संयोगः, विभागः इति स्थितौ प्रथमसंयोगस्य तन्नाशकः विभागः, पुनः द्वितीयसंयोगस्य तन्नाशकः विभागः द्वावपि विभागौ भिन्नौ | अस्य बोधनार्थम्‌ एते गुणाः कियान्‌ कालपर्यन्तं तिष्ठन्ति इति विषये चिन्तनीयम्‌ | यदा संयोगः नाशनीयः, तदा एव विभागः उत्पद्यते |


अनेन बोधो जायते यत्‌ एकस्मिन्‌ द्रव्ये बहवः संयोगाः विभागाः च भवन्ति | एकस्मिन्‌ द्रव्ये पृथक्त्वम्‌ एकं, किन्तु तस्मिन्नेव द्रव्ये संयोगाः विभागाः च बहवः, प्रत्येकं च भिन्नः |


पूर्वम्‌ उक्तं यत्‌ द्रव्योत्पत्तेः तदुत्तरक्षणे पृथक्त्वं जायते; संयोगः अपि तथा— यथा घटः उत्पद्यते संयोगसम्बन्धेन चक्रे | प्रथमं घटोत्पत्तिः, तदुत्तरक्षणे घटचक्रयोः संयोगोत्पत्तिः | घटाकाशयोरपि संयोगो तदुत्तरक्षणे जन्यते | ततः अग्रे च कालान्तरे घटेन सह बहूनां द्रव्याणां कर्मजाः संयोगजाश्च संयोगाः उत्पद्यन्ते | विभागस्तु द्रव्यस्योत्पत्तेः तदुत्तरक्षणे न जायते यतोहि विभागः संयोगनाशकः | प्रथमतया संयोगो भवति, तदनन्तरं क्रियया विभागो जायते |


पृथक्त्वं कालसम्बद्धं च क्रियासम्बद्धं च नास्ति | संयोगः विभागश कालसम्बद्धः | संयोगः क्रियासम्बद्धस्तु न वक्तव्यं यतोहि कर्मजसंयोगोऽपि भवति, अवयवसंयोगजसंयोगोऽपि भवति | अवयवसंयोगात्‌ अवयविनि संयोगः जायते; तादृशे संयोगे क्रिया न निमित्तम्‌ |


घटे एक एव विभागः इति नास्ति | यदा यदा संयोगः नाशनीयः, तदा तदा विभागान्तरं जायते; तदा तदा 'विभक्तः' इति प्रत्ययः भवति | याः याः विभागविषयिण्यः प्रतीतयः जायन्ते, प्रत्येकस्यां प्रतीतौ भिन्नः विभागरूपविषयः | कालान्तरेण विभागो भिद्यते, कालविशेषे एव प्रतीतिः | अवधिभेदेन च विभागो भिद्यते— घटः पठात्‌ विभक्तः, घटः पुस्तकात्‌ विभक्तः | अत्र घटे भिन्नौ विभागौ | अपि च संयोगः यदा न नाशनीयः, तदा विभागो नास्ति एव |


अवधिकत्वम्


घटपटयोः संयोगः भवति, तदा घटः पटात्‌ विभक्तो भवति | यदा यदा च संयोगः नाशनीयः, तदा तदा यः विभागः कल्प्यते, येन द्रव्येण सः संयोगः नाशनीयः, विभागः तदवधिकः | पूर्वमपि दृष्टं यत्‌ संयोगस्य एकस्यां प्रतीतौ एकावधिः— घटावधिकः पटसंयोगः |


किन्तु संयोगस्य विभागस्य च एकावधिकत्वम्‌ इति तु न वक्तव्यम्‌ | द्विनिष्ठत्वात्‌ एकस्य संयोगस्य, अवधिद्वयम्‌ | तन्नाशकविभागोऽपि तथा— द्विनिष्ठत्वात्‌ एकस्य विभागस्य अवधिद्वयम्‌ | हस्तपुस्तकयोः विभागः यदा जायते, हस्ताधिकरणकः विभागः प्रतीयते चेत्‌ पुस्तकमेव अवधिः; पुस्तकाधिकरणकः विभागः प्रतीयते चेत्‌, हस्तः एव अवधिः | एकस्यां प्रतीतौ एकं द्रव्यम्‌ अधिकरणत्वेन भासते, अपरञ्च द्रव्यम्‌ अवधित्वेन भासते | तर्हि एक एव अवधिः भासते; किन्तु विभागस्य अवधिद्वयम्‌ अस्ति द्विनिष्ठत्वात्‌ | यादृशपदार्थद्वयनिष्ठविभागः तदुभयावधिकः अस्ति | आहत्य अवधिद्वयम्‌ अस्ति, किन्तु एकावधिकत्वं प्रतीयते |


तदर्थं विद्याधर्याम्‌ उच्यते— 'वक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वितीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वं किन्तु स्वनाश्यसंयोगाश्रयावधिकत्वमेव हि नियमेन स्वीक्रियते' | स्वनाश्यसंयोगाश्रयावधिकत्वमेव विभागे भवति इत्येवं रीत्या नियम्यते विभागस्थले |


पृथक्त्वं 'द्वितीयादिक्षणे जायमानं स्वाश्रयसमवायिकारणपरम्परायां परमाण्वन्तं यन्मूर्तं तदतिरिक्तावधिकमेव जायते' | धेयं यत्‌ अत्र पृथक्त्वस्य 'तदतिरिक्तावधिकत्वं' भवति | अवयवपरम्परायां घटस्य तदवधिकं पृथक्त्वं न भवति; तद्विहाय तत्तदवधिकत्वं पृथक्त्वे सर्वत्र

|

विभागस्य अपि अवयवपरम्परायां यद्यन्मूर्तं तदतिरिक्तावधिः सम्भवति | वैलक्षण्यम्‌ अस्ति यत्‌ द्रव्ये पृथक्त्वम्‌ एकमेव, तस्य च एते सर्वे अवधयः भवन्ति | विभगस्य एते सर्वे अवधयः सम्भवन्ति, किन्तु एकस्य विशिष्टविभागस्य अवधिद्वयम्‌ एव भवति |


'कुत्र तादृशसावधिकगुणस्य प्रतीतिः सम्भवति', अपि च 'तस्य गुणस्य किं किमवधिकत्वम्‌'— अनयोः प्रश्नयोः अर्थभेदो वर्तते | पृथक्त्वं, विभागः, संयोगः इत्येषां प्रतीतिः कुत्र भवति कुत्र न भवति इति विषये, त्रयाणाम्‌ अपि गुणानां साम्यम्‌ | यत्र पृथगाश्रयाश्रितत्वं द्वयोः द्रव्ययोः, तत्र पृथक्त्वं भवति, तत्र च संयोगो जायते, तत्र च विभागो जायते | पृथगाश्रयाश्रितत्वं नास्ति चेत्‌ न पृथक्त्वस्य, न वा संयोगस्य न वा विभगस्य प्रतीतिः जायते | किन्तु तस्य अर्थः एवं नास्ति यत्‌ त्रायाणाम्‌ अपि गुणानाम् अविधिकत्वविषये साम्यं स्यात्‌ |


Swarup – May 2017


---------------------------------

२० - संयोग-विभागयोः स्वभावप्रसङ्गे पुनः किञ्चित्‌.pdf