05 - हल्-सन्धिः - सूत्रसहिता दृष्टिः
सूत्रेषु विभक्ति-अर्थः
षष्ठीविभक्तिः = स्थाने
सप्तमीविभक्तिः = पूर्वकार्यम्
पञ्चमीविभक्तिः = परकार्यम्
प्रथमाविभक्तिः = आदेशः, आगमः, नामकरणम्
तृतीयाविभक्तिः = संयोजनम्
१. श्चुत्वसन्धिः
स्तोः श्चुना श्चुः (८.४.४०) = सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | यथासंख्यमनुदेशः समानाम् (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम् अनुदेशिनां च यथाक्रमम् उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | स् च तुश्च स्तुः तस्य स्तोः, समाहारद्वन्द्वः | श् च चुश्च श्चुः, तेन श्चुना, समाहारद्वन्द्वः | श् च चुश्च श्चुः, समाहारद्वन्द्वः | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तं, त्रिपदमिदं सूत्रम् | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— स्तोः श्चुना श्चुः संहितायाम् |
भवत् + चक्षुः → भवच्चक्षुः*
यज् + नः → यज् + ञ् + अः → यज्ञः
शात् (८.४.४४) = शकारात् परस्य तवर्गस्य चुत्वं न स्यात् | स्तोः श्चुना श्चुः (८.४.४०) इत्यस्य निषेधकसूत्रम् | शात् पञ्चम्यन्तम् एकपदमिदं सूत्रम् | स्तोः श्चुना श्चुः (८.४.४०) इत्यस्मात् श्चुः इत्यस्य अनुवृत्तिः | तोः षि (८.४.४३) इत्यस्मात् तोः इत्यस्य अनुवृत्तिः | न पदान्ताट्टोरनाम् (८.४.४२) इत्यस्मात् न इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— शात् तोः श्चुः न संहितायाम् |
प्रश् + नः → प्रश्नः |
*धेयं यत् यत्र सन्धिचिन्तनं भवति, सदा ज्ञातव्यं यत् प्रवर्तमानं सन्धिकार्यं पदान्ते अस्ति न वा | अत्र 'भवत् + चक्षु' इति समासस्य प्रसङ्गः; अनयोः पूर्वोत्तरपदयोः सन्धिः करणीयः | तर्हि प्रमुखप्रश्नः भवति यत् 'भवत्' इति पूर्वपदस्य पदसंज्ञा अस्ति न वा | समासस्य लौकिकविग्रहवाक्यं भवति, यथा 'भवच्चक्षुः' इत्यस्य कृते 'भवतः चक्षुः' इति लौकिकविग्रहवाक्यम् | अलौकिकविग्रहः (शास्त्रीयविग्रहवाक्यम्) अपि भवति, यस्य द्वारा समासनिर्माणं सिध्यति | यथा 'भवच्चक्षुः' इत्यस्य 'भवत् ङस् + चक्षु सु' इति भवति | अत्र प्रथमतया समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण | तदा सुप्-प्रत्ययस्य लुक् (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | 'भवत् ङस् + चक्षु सु' इत्यस्मिन् ङस्, सु इत्यनयोः लुक् → भवत् + चक्षु | सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'भवत्' इत्यस्य अन्ते सुप् नास्ति; तर्हि प्रश्नः उदेति यत् तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | इत्थञ्च पर्यवसितं यत्— सन्धिचिन्तनावसरे समासे पूर्वपदस्य पदसंज्ञा भवति | (लुकि सति लुप्तपदम् अधिकृत्य अङ्गकार्यं न भवति, किन्तु पदसंज्ञा इति नामकरणं न तु अङ्गकार्यम् अतः पूर्वपदस्य पदसंज्ञां निमित्तीकृत्य सन्धिकार्यम् इत्यादिकं प्रवर्तनीयम् |) एतदाधारेण—
भवत् + चक्षु → झलां जशोऽन्ते (८.२.३९) → भवद् चक्षु → स्तोः श्चुना श्चुः (८.४.४०) → भवज् चक्षु → खरि च (८.४.५५) → भवच् + चक्षु → वर्णमेलने → भवच्चक्षु → प्रथमाविभक्तौ एकवचने भवच्चक्षुः |
एवमेव अग्रे यत्र कुत्रापि समासः अस्ति, तत्र पूर्वपदस्य पदसंज्ञा मनसि निधाय सन्धिचिन्तनं करणीयम् |
२. ष्टुत्वसन्धिः
ष्टुना ष्टुः (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | यथासंख्यमनुदेशः समानाम् (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम् अनुदेशिनां च यथाक्रमम् उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | ष् च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष् च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम् | स्तोः श्चुना श्चुः (८.४.४०) इत्यस्मात् स्तोः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— स्तोः ष्टुना ष्टुः संहितायाम् |
बालस् + षष्ठः → बालष्षष्ष्ठः
बृहत् + टीका → बृहट्टीका
आकृष् + तः → आकृष्टः
तोः षि (८.४.४३) = तवर्गस्य ष्टुत्वं न स्यात् षकारे परे | ष्टुना ष्टुः (८.४.४१) इत्यस्य निषेधकसूत्रम् | तोः षष्ठ्यन्तं, षि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | ष्टुना ष्टुः (८.४.४१) इत्यसमत् ष्टुः इत्यस्य अनुवृत्तिः | न पदान्ताट्टोरनाम् (८.४.४२) इत्यस्मात् न इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— तोः षि न ष्टुः संहितायाम् |
भवान् + षष्ठः → भवान् षष्ठः [नकारस्य णकारादेशो न भवति]
न पदान्ताट्टोरनाम् (८.४.४२) = पदान्तात् टवर्गात् स्तोः ष्टुः न स्यात् नामः नकारं वर्जयित्वा | ष्टुना ष्टुः (८.४.४१) इत्यस्य निषेधकसूत्रम् | न अव्ययपदं, पदान्तात् पञ्चम्यन्तं, टोः पञ्चम्यन्तम्, अनाम् लुप्तषष्ठीकं पदम्, अनेकपदमिदं सूत्रम् | स्तोः श्चुना श्चुः (८.४.४०) इत्यस्मात् स्तोः इत्यस्य अनुवृत्तिः | ष्टुना ष्टुः (८.४.४१) इत्यस्मात् ष्टुः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदान्तात् टोः स्तोः ष्टुः न, अनाम् संहितायाम् |
षट् + सन्तः → षट् सन्तः [सकारस्य षकारादेशो न भवति]
षट् + तरुणाः → षट् तरुणाः [तकारस्य टकारादेशो न भवति]
परन्तु—
षण् + नाम् → षण्णाम्
षण् + नवतिः → षण्णवतिः
षण् + नगर्यः → षण्णगर्यः
अनेन वार्तिकेन नवतिः नगर्यः इति द्वौ शब्दौ अपि अन्तर्भूतापवादौ— अनाम्नवतिनगरीणामिति वाच्यम् |
३. जश्त्वसन्धिः
पदान्ते जश्त्वम्—
झलां जशोऽन्ते (८.२.३९) = पदान्ते झलः स्थाने जशादेशो भवति | पदात् परे कोऽपि वर्णः स्यात् वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात् परे अच् स्यात् हल् स्यात् वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम् अस्ति चेत् अन्या वार्ता | झल् प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्, ष्, स्, ह् | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश् प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्, ब्, ग्, ड्, द् इति | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | तर्हि पदस्य अन्ते झल्-प्रत्याहारे कश्चन वर्णः अस्ति चेत्, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदस्य अन्ते झलां जशः |
मरुत् + वहति → मरुद् + वहति → मरुद्वहति
झल्-प्रत्याहारे शकारः, सकारः, हकारः अपि सन्ति | तथापि एषां जश्त्वं न भवति यतोहि तत्र बाधकसूत्राणि सन्ति | पदान्ते शकारस्य षकारादेशो भवति व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रेण | पदान्ते सकारस्य रु-आदेशो भवति ससजुषो रुः (८.२.६६) इति सूत्रेण | पदान्ते हकारस्य ढकारादेशो भवति हो ढः (८.२.३१) इति सूत्रेण |
सामान्यतया लोके 'पदान्ते' इत्युक्ते सुबन्तपदस्य अन्ते अथवा तिङन्तपदस्य अन्ते; एतादृशेषु स्थलेषु सुप्तिङन्तं पदम् (१.४.१४) इति सूत्रेण पदसंज्ञा | यथा प्रथमाविभक्तौ 'विद्युत्' इति सुबन्तपदं, तस्य अन्ते च तकारः अतः अत्र पदान्ते झलां जशोऽन्ते (८.२.३९) इत्यनेन तकारस्य स्थाने दकारः, विद्युद् इति भवति | एवमेव तिङन्ते 'अगच्छत्' इत्यस्मिन् तकारः पदान्ते इति कृत्वा तकारस्य स्थाने दकारः, अगच्छद् इति भवति | (तदा उभयत्र वाऽवसाने (८.४.५६) इत्यनेन विकल्पेन चर्त्वादेशः अतः 'विद्युत्', 'अगच्छत्' इति रूपे अपि भवतः |) किन्तु पदसंज्ञा केवलं सुबन्तस्य अथवा तिङन्तस्य इति न | कुत्रचित् सुबन्तप्रक्रियायामपि पदसंज्ञा भवति, इत्युक्ते सुबन्तपदस्य निर्माणावसरे अपि कुत्रचित् पदसंज्ञा भवति | तत्र स्वादिष्वसर्वनामस्थाने (१.४.१७) इति सूत्रेण पदसंज्ञा | अस्य सूत्रस्य अर्थः इत्यादिकम् अत्र नापेक्षितं; केवलं कानिचन उदाहरणानि दीयन्ते यत्र सुबन्तपदस्य तिङन्तपदस्य च अन्ते नास्ति चेदपि पदसंज्ञा भवति इति कारणतः तत्रपि झलां जशोऽन्ते (८.२.३९) इत्यनेन एव जश्त्वं भवति | यथा अत्र 'द्विष्', 'षष्' इत्यनयोः पदसंज्ञा भवति—
द्विष् + भ्याम् → द्विड्भ्याम्
षष् + भिस् → षड्भिः
अधुना 'षडाननः' इति समासः | सुबन्तयोः एव समासो भवति अतः प्रथमतया षष् + जस् + आनन + जस् इति भवति | षष् इति प्रातिपदिकं नित्यं बहुवचनान्तम् | तदर्थं प्रथमाविभक्तौ सु-औ-जस् इत्येषु बहुवचनार्थे जस् इत्येव विधीयते | तदा विशेषणविशेष्यभावे आननशब्दस्य अपि बहुवचनान्तत्वम् | षष् जस् + आनन जस् इति अलौकिकविग्रहः | षष्-शब्दः षकारान्त-सङ्ख्यावाचकः | ष्णान्ता षट् (१.१.२४) इत्यनेन षान्तानां नान्तानां च सङ्ख्यावाचकानां षट्-संज्ञा भवति | (धेयं यत 'षट्-संज्ञा' इति पाणिनेः एका विशिष्टसंज्ञा अस्ति; अस्याः तु षट्-शब्दस्य प्रयोगेणापि षट् इति सङ्ख्यायाः अर्थो नास्ति |) षष् इत्यस्य षान्तसङ्ख्यावाचकत्वात् षट्-संज्ञा | षट्-संज्ञायां षड्भ्यो लुक् (७.१.२२) इत्यनेन षड्भ्यः परयोः जस्-शसोः लुक् स्यात् | तस्मात् षष् इत्यस्य जसः लुक् भवति | षष् जस् → षष् इत्येव सुबन्तं*; सुबन्तत्वात् सुप्तिङन्तं पदम् (१.४.१४) इति सूत्रेण एव पदसंज्ञा | ततः झलां जशोऽन्ते (८.२.३९) इत्यनेन षकारस्य स्थाने डकारः, षड् इति भवति | इदं षडानन-पदं बहुव्रीहिः इति कारणतः अन्ततो गत्वा षड् आननानि यस्य सः षडाननः इति कृत्वा एकवचने पुंलिङ्गे भवति |
षष् + आननः → झलां जशोऽन्ते (८.२.३९) इत्यनेन षकारस्य जश्त्वम् → षडाननः
*षष् इत्यस्य जसः लुक् जातं चेदपि प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इति सूत्रेण प्रत्ययलक्षणं भवति | अतः 'जस्' इति सुप्-प्रत्ययः अधुना न दृश्यते चेदपि षष् सुबन्तम् इति मन्तव्यम् | 'जसः लुक्' इति कारणतः न लुमताऽङ्गस्य (१.१.६३) इत्यनेन 'प्रत्ययलक्षणं न' इति चिन्त्यते चेत्, दोषो भवति | न लुमताऽङ्गस्य (१.१.६३) इत्यनेन यस्मिन् शब्दे 'लु' अस्ति, तेन शब्देन प्रत्ययादर्शनं विहितं चेत् सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात् | परन्तु अत्र अङ्गकार्यस्य विषयो नास्ति; अत्र 'पद' इति संज्ञा-विधानं न तु अङ्गकार्यम् |
एतावता पदान्ते जश्त्वस्य उदाहरणानि दत्तानि आसन् |
अत्र अपदान्ते जश्त्वम्—
झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— झलां जश् झशि संहितायाम् |
उष् + ढि → उड् + ढि → उड्ढि
४. चर्त्वसन्धिः
खरि च (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | झलां जश् झशि (८.४.५३) इत्यस्मात् झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च (८.४.५४) इत्यस्मात् चर् इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— झलां चर् खरि च संहितायाम् |
अनेन सूत्रेण अपदान्ते चर्त्वादेशः नित्यः—
त्यग् + स्यति → खरि च (८.४.५५) → त्यक् + स्यति (→ आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम् → त्यक्ष्यति)
समासे अपि द्वयोः पदयोः संयोजनेन नूतनसमस्तपदस्य निर्माणे सति अपदान्ते चर्त्वादेशः नित्यः—
अस्मद् + पुत्रः → खरि च (८.४.५५) → अस्मत्पुत्रः
वाक्यस्य स्तरे सन्धिः एव वैकल्पिकः; वाक्यस्तरे सन्धिः वक्तुः इच्छा इति चेत्, खरि च (८.४.५५) इत्यनेन चर्त्वं नित्यम्—
सुहृद् पठति → सुहृत्पठति
वाक्यस्य अन्ते परन्तु स्थितिः भिन्ना; तत्र च भिन्नसूत्रेण चर्त्वं विधीयते—
वाऽवसाने (८.४.५६) = अवसाने झलः विकल्पेन चर्-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम् | झलां जश् झशि (८.४.५३) इत्यस्मात् झलां इत्यस्य अनुवृत्तिः | अभ्यासे चर्च (८.४.५४) इत्यस्मात् चर् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अवसाने झलां चरो वा |
वदनावसरे लेखनावसरे च अग्रे कोऽपि शब्दः एव नास्ति चेत् 'अवसानम्' इत्युच्यते | वाक्यस्य अन्ते पूर्णविरामः भवति, अतः तत्र 'अवसान'-संज्ञा भवति | तदर्थं संज्ञासूत्रम् अस्ति—
विरामोऽवसानम् (१.४.११०) = वर्णानाम् अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— विरामः अवसानम् |
यथा—
अस्ति विद्युत् |
अस्मिन् वाक्ये विद्युत् इति पदम् अस्ति; पदान्ते तकारो विद्यते अतः झलां जशोऽन्ते (८.२.३९) इत्यनेन नित्यं दकारादेशो भवति—
विद्युत् → झलां जशोऽन्ते (८.२.३९) → विद्युद्
अधुना अस्मिन्नेव वाक्ये विद्युत्-शब्दः वाक्यस्य अन्ते अस्ति; ततः अग्रे कोऽपि शब्दः नास्ति इति कृत्वा विरामोऽवसानम् (१.४.११०) इत्यनेन अवसान-संज्ञा | तदर्थञ्च वाऽवसाने (८.४.५६) इत्येनन विकल्पेन चर्त्वादेशो भवति—
विद्युत् → तकारः पदान्ते, झलां जशोऽन्ते (८.२.३९) इत्यनेन नित्यं जश्त्वादेशः→ विद्युद् → दकारः अवसाने, वाऽवसाने (८.४.५६) इत्येनन विकल्पेन चर्त्वादेशः → विद्युत् / विद्युद्
५. अनुनासिकसन्धिः
यरोऽनुनासिकेऽनुनासिको वा (८.४.४५) = पदान्तस्य यरः अनुनासिको वा स्यात् अनुनासिके परे | स्थानेऽन्तरतमः इत्यनेन निर्धारणं क्रियते | कार्यं वैकल्पिकं; प्रत्यये परे तु नित्यम् | यर्-प्रत्याहारे हकारं वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | यरः षष्ठ्यन्तं, अनुनासिके सप्तम्यन्तम्, अनुनासिकः प्रथमान्तं, वा अव्ययपदम्, अनेकपदमिदं सूत्रम् | न पदान्ताट्टोरनाम् (८.४.४२) इत्यस्मात् पदान्तात् इत्यस्य अधिकारः, तस्य च विभक्तिपरिमाणः इति कृत्वा षष्ठीविभक्तौ भवति | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— पदान्तस्य यरः अनुनासिकः वा अनुनासिके संहितायाम् |
तस्मात् + न → तस्मान्न (अपक्षे तस्माद्न, झलां जशोऽन्ते (८.२.३९) इत्यनेन)
सुहृद् + मित्रम् → सुहृन्मित्रम्, सुहृद्मित्रम्
वाग् + मूलम् → वाङ्मूलम्, वाग्मूलम्
प्रत्ययानुनासिके परे नित्यं भवति प्रत्यये भाषायां नित्यम् इति वार्तिकेन |
चिद् + मयम् → चिन्मयम्
तद् + मात्रम् → तन्मात्रम्
६. अनुस्वारसन्धिः
मोऽनुस्वारः (८.३.२३) = पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति हलि परे | मः षष्ठ्यन्त्म्, अनुस्वारः प्रथमान्तं, द्विपदमिदं सूत्रम् | हलि सर्वेषाम् (८.३.२२) इत्यस्मात् हलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदस्य मः अनुस्वारः हलि संहितायाम् |
गृहम् + च → गृहं च
नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |
रम् + स्यते → रंस्यते
७. परसवर्णसन्धिः
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनुस्वारस्य परसवर्णः ययि संहितायाम् |
मुं + चति → मुञ्चति
वा पदान्तस्य (८.४.५९) = पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति ययि परे | अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यस्य बाधकसूत्रम्; अनेन पदान्ते परसवर्णादेशः वैकल्पिकः न तु नित्यः | वा अव्ययपदं, पदान्तस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यस्य पूर्णतया अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदान्तस्य अनुस्वारस्य वा परसवर्णः ययि संहितायाम् |
गृहम् + च → गृहञ्च / गृहं च
यकारः, वकारः, लकारः परः चेत्, अनुस्वारस्य स्थाने क्रमेण य्ँ-कारः, व्ँ-कारः, ल्ँ-कारः च भवति |
सम् + यमः → सं + यमः → सय्ँयमः / संयमः
सम् + वादम् → सं + वादम् → सव्ँवादम् / संवादम्
सम् + लापः → सं + लापः → सल्ँलापः / संलापः
धेयं यत् 'सम्' इति उपसर्गः अस्ति, अतः इदं सर्वं कार्यं पदान्ते— मोऽनुस्वारः (८.३.२३), वा पदान्तस्य (८.४.५९) इत्याभ्यां सूत्राभ्याम् |
तोर्लि (८.४.६०) = तवर्गस्य लकारे परे परसवर्णः | तोः षष्ठ्यन्तं, लि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यस्मात् परसवर्णः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— तोः परसवर्णः लि संहितायाम् |
त्, थ्, द्, ध्, एभ्यः परो लकारः अव्यवहितः चेत् जश्त्वं कृत्वा दकारः, तदा तोर्लि (८.४.६०) इत्यनेन लकारादेशः |
तत् + लयः → तद् + लयः → तल् + लयः → तल्लयः |
नकारात् परो लकारः अव्यवहितश्चेत् नकारस्य परसवर्णः अनुनासिकः लकारः भवति |
विद्वान् + लिखति → विद्वाल्ँलिखति |
८. ङमुडागमसन्धिः
ङमो ह्रस्वादचि ङमुण् नित्यम् (८.३.३२) = ह्रस्वात् स्वरात् परः यः ङम्, तदन्तात् पदात् उत्तरस्य अचः ङमुट्-आगमो भवति नित्यम् | ङम्-प्रत्याहारे ङ्, ण्, न् इति वर्णाः अन्तर्भूताः | येन विधिस्तदन्तस्य (१.१.७२) इति सूत्रेण ङमन्तात् पदात् इति फलितार्थो भवति | ङमुट् इत्यस्मिन् टकारः इत्-संज्ञकः, उकारः उच्चारणार्थः, ङम् च प्रत्याहारः; अनेन त्रयः आगमाः ङुट्, णुट्, नुट् च | यथासंख्यमनुदेशः समानाम् (१.३.१०) इत्यनेन पदान्ते क्रमेण ङकारः चेत् ङुडागमः, णकारः चेत् णुडागमः, नकारश्च चेत् नुडागमः | ङमः पञ्चम्यन्तं, ह्रस्वात् पञ्चम्यन्तम्, अचि सप्तम्यन्तं, ङमुट् प्रथमान्तं, नित्यं क्रियाविशेषणं द्वितीयान्तम्, अनेकपदमिदं सूत्रम् | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | पदस्य (८.१.१६) इत्यस्य अधिकारः, विभक्तिपरिणामेन पदात् | अनुवृत्ति-सहितसूत्रं— ह्रस्वात् ङमः पदात् ङमुट् अचि नित्यं संहितायाम् |
कुर्वन् + अस्मि → कुर्वन्नस्मि
९. पूर्वसवर्णसन्धिः
झयो होऽन्यतरस्याम् (८.४.६२) = झयः उत्तरस्य हकारस्य विकल्पेन पूर्वसवर्णादेशो भवति | झयः पञ्चम्यन्तं, हः षष्ठ्यन्तम्, अन्यतरस्यां सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | उदः स्थास्तम्भोः पूर्वस्य (८.४.६१) इत्यस्मात् पूर्वस्य इत्यस्य अनुवृत्तिः; अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यस्मात् सवर्णः इत्यस्य अनुवृत्तिः | अन्यतरस्याम् इत्युक्ते विकल्पेन | अनुवृत्ति-सहितसूत्रं— झयः हः पूर्वस्य सवर्णः अन्यतरस्याम् |
यद्यपि झय् इत्युक्ते सर्वाणि अननुनासिक-वर्गीयव्यञ्जनानि, तथापि अत्र सर्वत्र झलां जशोऽन्ते (८.२.३९) इत्यनेन जश्त्वं कृत्वा तृतीयसदस्यादेशो भवति |
धर्म्यात् + हि → झलां जशोऽन्ते (८.२.३९) → धर्म्याद् + हि
वणिक् + हसति → झलां जशोऽन्ते (८.२.३९) → वणिग् + हसति
तत् + हितम् → झलां जशोऽन्ते (८.२.३९) → तद् + हितम्
अन्यच्च अवधेयं यत् हकारस्य पूर्वसवर्णादेशः सर्वत्र पूर्वतनवर्णस्य वर्गस्य चतुर्थः सदस्यः | नादः, घोषः, संवारः, महाप्राणः इति कारणतः | सामान्यतया सावर्ण्यं ज्ञायते मुखस्य स्थानेन; परन्तु यत्र स्थानेन निर्णयः असम्भवः, तत्र आभ्यन्तरप्रयत्नः प्रयुज्यते; यत्र आभ्यन्तरप्रयत्नेन निर्णयः असम्भवः, तत्र बाह्यप्रयत्नः प्रयुज्यते | हकारस्य स्थानम् अस्ति कण्ठः; किन्तु अननुनासिक-वर्गीयव्यञ्जनेषु एकैकस्मिन् वर्गे सर्वेषां स्थानं समानम् इति कारणतः स्थानेन निर्णयः अशक्यः | हकारस्य आभ्यन्तरप्रयत्नः ऊष्माणः; श्, ष्, स्, ह् इत्येव ऊष्माणाः अतः अनेन निर्णयः असम्भवः | हकारस्य बाह्यप्रयत्नः नादः, घोषः, संवारः, महाप्राणः | नादः, घोषः, संवारः इत्यस्ति वर्गीयव्यञ्जनानां तृतीय-चतुर्थ-पञ्चमाः च सदस्याः; तेषु केवलं चतुर्थसदस्यः महाप्राणः अतः हकारस्य स्थाने तत्तद्वर्गस्य चतुर्थसदस्यादेशो भवति | अत्र बाह्यप्रयत्नः इत्यनेन एव निर्णयः सम्भवति |
जगतः हिताय → समासे कृते → जगत् + हिताय → झलां जशोऽन्ते (८.२.३९) इत्यनेन जश्त्वम् → जगद् + हिताय → झयो होऽन्यतरस्याम् (८.४.६२) इत्यनेन विकल्पेन पूर्वसवर्णादेशः → जगद्धिताय/जिगद्हिताय
अत्र प्रश्नः उदेति यत् झयो होऽन्यतरस्याम् (८.४.६२) इति सूत्रस्य अन्तर्गतानि उदाहरणानि सर्वाणि पदान्ते; अपदान्ते दृष्टान्तो न दीयते | अपि च उच्यते यत् अस्य सूत्रस्य प्रवर्तनात् प्रागेव सर्वत्र झलां जशोऽन्ते (८.२.३९) इत्यस्य कार्यं भवति | झलां जशोऽन्ते (८.२.३९) केवलं पदान्ते प्रसक्तम् | तर्हि अनेन अवगन्तव्यं किं यत् झयो होऽन्यतरस्याम् (८.४.६२) केवलं पदान्ते प्रवर्तते ?
वस्तुतः 'अपदान्ते' इत्युक्ते हकारः कस्यचित् प्रत्ययस्य आदौ भवेत्; एक एव प्रत्ययः हकारादिः— हि-प्रत्ययः | किन्तु झयः परः हि-प्रत्ययो वर्तते चेत् हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यनेन धि-आदेशो भवति; तस्मात् हि-प्रत्यये परे झयो होऽन्यतरस्याम् (८.४.६२) इत्यस्य प्रसक्तिर्नास्ति | वच् + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) → वच् + धि → → वग्धि |
अतः झयो होऽन्यतरस्याम् (८.४.६२) इति सूत्रस्य कार्यं पदान्ते एव | तस्य च व्याख्याने समाधानं द्विधा वक्तुं शक्यते—
१) वा पदान्तस्य (८.४.५९) इत्यस्मात् विभक्तिपरिणामं कृत्वा पदान्तात् इति अनुवृत्तिः स्वीकार्या |
२) लोके अपदान्ते सूत्रस्य न कुत्रापि अवसरः इति कृत्वा सूत्रे 'पदान्ते' इति कथनस्य आवश्यकता नास्त्येव | अनेन लाघवम्— अपदान्ते न प्राप्यते, अतः पदान्ते नोक्तम् |
हुझल्भ्यो हेर्धिः (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | येनविधिस्तदन्तस्य (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम् अन्ते झल् | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— हुझल्भ्यः अङ्गेभ्यः हेः धिः |
पूर्वसवर्णविशेषः— 'उत्थानम्'
उदः स्थास्तम्भोः पूर्वस्य (८.४.६१) = उत्-उपसर्गोत्तरयोः स्था-स्तम्भ-धात्वोः पूर्वसवर्णादेशो भवति | स्था च स्तम्भ् च तयोरितरेतरद्वन्द्वः स्थास्तम्भौ, तयोः स्थास्थम्भोः | उदः पञ्चम्यन्तं, स्थास्तम्भोः षष्ठ्यन्तं, पूर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यस्मात् सवर्णः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— उदः स्थास्तम्भोः पूर्वस्य सवर्णः संहितायाम् |
आदेः परस्य (१.१.५४) = परस्य स्थाने यत् कार्यं विधीयते, तत् आदिमस्य अलः एव स्थाने भवति | पञ्चमीविभक्तौ यत् कार्यं निर्दिष्टं, तत् अग्रिमशब्दस्वरूपस्य आदिमवर्णस्य एव स्थाने न तु सम्पूर्णशब्दस्वरूपस्य | अलोऽन्त्यस्य (१.१.५२) इत्यस्य बाधकसूत्रम् | आदेः षष्ठ्यन्तं, परस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अलोऽन्त्यस्य (१.१.५२) इत्यस्मात् अलः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— परस्य आदेः अलः स्थाने |
झरो झरि सवर्णे (८.४.६५) = हल्-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | हलो यमां यमि लोपः (८.४.६४) इत्यस्मात् हलः, लोपः चेत्यनयोः अनुवृत्तिः | झयो होऽन्यतरस्याम् (८.४.६२) इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम् |
उत् + स्थानम् → झलां जशोऽन्ते (८.२.३९) इत्यनेन पदान्ते झलः स्थाने जशादेशः → उद् + स्थानम् →खरि च (८.४.५५) → उत् + स्थानम् → आदेः परस्य (१.१.५४) इत्यस्य साहाय्येन उदः स्थास्तम्भोः पूर्वस्य (८.४.६१) इत्यनेन पञ्चम्यन्तस्य 'उदः' इत्यस्य अग्रिमशब्दस्य प्रथमवर्णस्य स्थाने पूर्वसवर्णादेशः → 'स्थानम्' इत्यस्य सकारस्य पूर्वसवर्णादेशः, नाम दकारस्य दन्त्यवर्गे (तवर्गे) सकारेण तुल्यः वर्णः → स्थानेऽन्तरतमः (१.१.५०) इत्यनेन सकारस्य स्थाने थकारादेशः* → उत् + थ्थानम् → झरो झरि सवर्णे (८.४.६५) इत्यनेन हल्-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे अतः विकल्पेन थकारलोपः → उत् + थानम् / थ्थानम् → वर्णमेलने → उत्थानम् / उत्थ्थानम्
*सर्वेषां दन्त्यवर्णानां (त्, थ्, द्, ध्, न्, ल्, स् इत्येषां) मुखस्य उच्चारणस्थानं समानमेव | अतः अनेन तेषु, सकारस्य स्थाने कः आदेशः भवेत् इति निर्णेतुं न शक्यते | तदा आभ्यन्तरप्रयत्नेन अपि न शक्यते यतोहि सर्वेषां वर्गीयव्यञ्जनानाम् (अत्र त्, थ्, द्, ध्, न् इत्येषाम्) आभ्यन्तरप्रयत्नः स्पृष्टः; नाम एते वर्णाः स्पर्शाः | तदा लकारस्य आभ्यन्तरप्रयत्नः ईषत्स्पृष्टः, नाम अयम् अन्तःस्थवर्णः | सकारस्य तु ईषद्विवृतः, नाम अयं वर्णः ऊष्माणः | आभ्यन्तरप्रयत्नेन त्, थ्, द्, ध्, न्, ल् इत्येभ्यः सकारः भिन्नः अतः अनेनापि निर्णयो न सम्भवति | किन्तु बाह्यप्रयत्ने समाधानं प्राप्यते— तकारथकारयोः बाह्यप्रयत्नः विवारः, श्वासः, अघोषः; द्वयोः मध्ये थकारः महाप्राणः | सकारः अपि तथैव विवारः, श्वासः, अघोषः, महाप्राणः अतः सकारस्य स्थाने थकारादेशो भवति |
एवमेव उत् + स्तम्भनम् → उत्तम्भनम् / उत्थ्तम्भनम्
१०. छत्वसन्धिः
शश्छोऽटि (८.४.६३) = पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशो भवति अन्यतरस्याम् | शः षष्ठ्यन्तं, छः प्रथमान्तम्, अटि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झयो होऽन्यतरस्याम् (८.४.६२) इत्यस्मात् झयः च अन्यतरस्त्याम् चेत्यनयोः अनुवृत्तिः | वा पदान्तस्य (८.४.५९) इत्यस्मात् पदान्तस्य इत्यस्य अनुवृत्तिः; विभक्तिपरिणामेन 'पदान्तात्' | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अट् प्रत्याहारे सर्वे स्वराः, ह्, य्, व्, र् चान्तर्भूताः | अनुवृत्ति-सहितसूत्रं— पदान्तात् झयः शः छः अटि संहितायम् अन्यतरस्याम् |
धेयं यत् शश्छोऽटि त्रिपादी सूत्रम् अतः प्रथमं जश्त्वं,श्चुत्वं, चर्त्वम् इत्यादिकं करणीयम् | सामान्यतया चर्त्वम् अन्तिमं फलम् अतः यद्यपि झयः उक्तः, परन्तु व्यवहारे शः प्राक् चर् इति सामान्यम् |
तत् + शिवः → झलां जशोऽन्ते (८.२.३९) इत्यनेन पदान्ते झलः स्थाने जशादेशः → तद् + शिवः → स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन शकारस्य प्रभावेण दकारस्य श्चुत्वम् → तज् + शिवः → खरि च (८.४.५५) इत्यनेन झलः स्थाने चरादेशः खरि परे → तच् + शिवः → शश्छोऽटि (८.४.६३) इत्यनेन पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशः अन्यतरस्याम् → तच्छिवः / तच्शिवः
छत्वममीति वाच्यम् इति वार्तिकेन इदं कार्यं न केवलम् अटि परे अपि तु अमि परेऽपि | तत् + श्लोकेन → तच्छ्लोकेन |
११. सत्वसन्धिः
अस्मिन् सन्धौ अनेकसूत्राणि क्रमेण कार्यं कुर्वन्ति | सङ्क्षेपे पदान्त-नकारस्य स्थाने रु, तस्मात् रु इत्यस्मात् पूर्वं च विद्यमानस्वरः विकल्पेन अनुनासिकः; अननुनासिके पक्षे अनुस्वारागमः | तदा रु-स्थाने सकारः |
गच्छन् + तावता → गच्छ + रु + तावता → गच्छँ / गच्छं + रु + तावता → गच्छँ / गच्छं + स् + तावता → गच्छँस्तावता / गच्छंस्तावता
नश्छव्यप्रशान् (८.३.७) = अम्-परे छवि नकारान्तस्य पदस्य रुः स्यात्, न तु प्रशान्-शब्दस्य | छव्-प्रत्याहारे छ्, ठ्, थ्, च्, ट्, त् अन्तर्भूताः | अम्-प्रत्याहारे सर्वे स्वराः, यरलवमनाश्च अन्तर्भूताः | अम्-परे छवि इत्युक्ते कीदृशः छव्? यस्मात् अम्-प्रत्याहारे कश्चन वर्णो विद्यते | येन विधिस्तदन्तस्य (१.१.७२) इति सूत्रेण नः पदस्य इत्युक्ते तादृशपदस्य यस्य अन्ते नकारो भवति | 'पदान्ते' उक्तं 'भवन्ति' इत्यादिषु नकारस्य रुत्वनिवारणार्थम् | अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदस्य अन्तिमवर्णस्य स्थाने रु-आदेशः | नः षष्ठ्यन्तं, छवि सप्तम्यन्तम्, अप्रशान् षष्ठ्यर्थकं प्रथमान्तं, त्रिपदमिदं सूत्रम् | मतुवसो रु सम्बुद्धौ छन्दसि इत्यस्मात् रु इत्यस्य अनुवृत्तिः; पुमः खय्यम्परे इत्यस्मात् अम्परे इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— नः पदस्य रु अम्-परे छवि संहितायाम् अप्रशान् |
क्रमः एवं भवति—
नश्छव्यप्रशान् इत्यनेन पदान्ते न् → रु; उपदेशेऽजनुनासिक इत्, तस्य लोपः इत्याभ्यां रु → र्; अत्रानुनासिकः पूर्वस्य तु वा इत्यनेन विकल्पेन अनुनासिकः ( ँ)-आदेशः; अनुनासिकात् परोऽनुस्वारः इत्यनेन अनुनासिकस्य अपक्षे अनुस्वार-आगमः; खरवसानयोर्विसर्जनीयः इत्यनेन र् → विसर्गः (ः); विसर्जनीयस्य सः इत्यनेन विसर्गः → स् | तदा यथासङ्गं श्चुत्वं ष्टुत्वं च |
यथा—
कस्मिन् + चित् → कस्मि + रु + चित् → कस्मिर् + चित् → कस्मिँ /कस्मिं + रेफः + चित् → कस्मिँ /कस्मिं + ः + चित् → कस्मिँ /कस्मिं + स् + चित् → कस्मिँ /कस्मिं + श्चित् → कस्मिँश्चित् / कस्मिंश्चित्*
एवमेव—
कान् + चित् → काँश्चित् / कांश्चित्
*बोध्यं यत् अत्र समासस्य विषयो नास्ति | 'कस्मिन्' इति पृथक् पदम् अस्ति, चित्/चन अपि पृथक् पदं; तदर्थं 'कस्मिन्' इति पदस्य विभक्तिः इदानीमपि दृश्यते | चित्/चन इति द्वयमपि पदम्, अव्ययञ्च | नश्छव्यप्रशान् (८.३.७) इत्यनेन नकारान्तपदस्य एव नकार-स्थाने सकारः | तर्हि अत्र सन्धिः इत्येव विषयः न तु समासः | यथा संहितायां विषये कयोरपि द्वयोः पदयोः सन्धिः भवति, तथैव अत्र |
तर्हि अत्र सन्धिचिन्तनप्रसङ्गे 'कस्मिन्' तु पदमस्ति इति कारणतः 'कस्मिन् + चित्' इति स्थितौ नश्चापदान्तस्य झलि (८.३.२४) इत्यस्य प्रसक्तिर्नास्ति | एवमेव सर्वत्र चित्/चन प्रसङ्गे चिन्तनीयं भवति | यथा कम् + चित् इति स्थितौ कम् इत्यस्य पदसंज्ञा इति कारणतः मोऽनुस्वारः (८.३.२३) , तदा वा पदान्तस्य (८.४.५९) इति भवति न तु नश्चापदान्तस्य झलि (८.३.२४) अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति | अतः कम् + चित् → कंचित्/कञ्चित् इति रूपद्वयमपि साधु |
अत्रानुनासिकः पूर्वस्य तु वा (८.३.२) = अस्मिन् रु-प्रकरणे, रु-इत्यस्मात् पूर्ववर्ति-स्वरस्य स्थाने अनुनासिकादेशो विकल्पेन भवति | अधिकारसूत्रम्—८.३.२ इत्यस्मात् आरभ्य ८.३.१२ पर्यन्तं यत्र यत्र रुत्वं विहितं, तत्र तत्र रु इत्यस्मात् प्राक् यः वर्णोऽस्ति, तस्य विकल्पेन अनुनासिकादेशो भवति | अस्मिन् रुत्व-प्रकरणे यानि सूत्राणि सन्ति रुत्वविधायकानि, तेषु सूत्रेषु अयम् अर्थः सर्वत्र अन्वेति | अस्मिन् रुत्व-प्रकरणे च रुत्वं विधीयते संहितायाम् एव; पदान्ते रुत्वम् अपरस्मिन् प्रकरणे भवति अतः तत्र प्रकृतसूत्रस्य प्रवर्तनं नास्ति | अत्र अव्ययपदं, अनुनासिकः प्रथमान्तं, पूर्वस्य षष्ठ्यन्तं, तु अव्ययपदं, वा अव्ययपदम्, अनेकपदमिदं सूत्रम् | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अत्रानुनासिकः पूर्वस्य तु वा संहितायाम् |
अनुनासिकात् परोऽनुस्वारः (८.३.४) = यस्मिन् पक्षे अनुनासिकादेशो न भवति, तत्र रु-इत्यस्मात् प्राक् यः वर्णः, तस्य नित्यम् अनुस्वार-आगमो भवति | फलितार्थः अयं यत् अनुनासिकः न भवति चेत्, रोः पूर्वं यः वर्णः, तस्य अनन्तरम् अनुस्वारागमो भवति | अनुनासिकात् इत्युक्ते अनुनासिकं त्यक्त्वा; नाम यस्मिन् पक्षे अनुनासिको न भवति | अनुनासिकात् पञ्चम्यन्तं, परः प्रथमान्तम्, अनुस्वारः प्रथमान्तं, त्रिपदमिदं सूत्रम् | मतुवसो रु सम्बुद्धौ छन्दसि (८.३.१) इत्यस्मात् रुः इत्यस्य पञ्चमीविभक्ति-विपरिणामं कृत्वा रोः इत्यस्य अनुवृत्तिः | अत्रानुनासिकः पूर्वस्य तु वा (८.३.२) इत्यस्मात् पूर्वस्य इत्यस्य पञ्चमीविभक्ति-विपरिणामं कृत्वा पूर्वस्मात् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अनुनासिकात् रोः पूर्वस्मात् परः अनुस्वारः संहितायाम् |
खरवसानयोर्विसर्जनीयः (८.३.१५) = पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अवसानावस्थायाञ्च | खर् च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | रो रि (८.३.१४) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं— पदस्य रः विसर्जनीयः खरवसानयोः संहितायाम् |
विसर्जनीयस्य सः (८.३.३४) = विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ठ्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम् | खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यस्मात् खरि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— विसर्जनीयस्य सः खरि संहितायाम् |
विसर्जनीयस्य सः (८.३.३४) = विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ठ्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम् | खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यस्मात् खरि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— विसर्जनीयस्य सः खरि संहितायाम् |
अत्र प्रश्नः उदेति, किमर्थम् अस्यां प्रक्रियायां सकारः पदान्ते भवति चेत् ससजुषो रुः (८.२.६६) इत्यनेन पुनः रूत्वं न भवति ? यथा—
गच्छन् + तावता → गच्छ + रु + तावता → गच्छँ / गच्छं + रेफः + तावता → गच्छँ / गच्छं + स् + तावता → अत्र ससजुषो रुः (८.२.६६) इत्येनन रु-आदेशः स्यात् | किमर्थं न भवति ?
ससजुषो रुः (८.२.६६) = पदान्ते सकारस्य च सजुष्-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन न केवलं यत् पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— ससजुषोः पदस्य रुः |
ससजुषो रुः (८.२.६६) = पदान्ते सकारस्य च सजुष्-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन न केवलं यत् पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— ससजुषोः पदस्य रुः |
१२. यवलोपसन्धिः
'लोपः शाकल्यस्य (८.३.१९) = अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति अशि परे शाकल्यस्य मतेन | अपूर्वयोः इत्यनेन तादृशवकारयकारौ याभ्यां पूर्वम् अ-वर्णः स्यात् | शाकल्यस्य इत्युक्ते शाकल्यस्य मतेन, नाम इदं विकल्पेन भवति | लोपः प्रथमान्तं, शाकल्यस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | व्योलघुप्रयत्नतरः शाकटयनस्य (८.३.१८) इत्यस्मात् व्योः इत्यस्य अनुवृत्तिः | भोभगोअघोअपूर्वस्य योऽशि (८.३.१७) इत्यस्मात् अपूर्वस्य च अशि चेत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | पदस्य (८.१.१६) इत्यस्य अधिकारः; वचनविपरिणामं कृत्वा तदन्तविधिं कृत्वा पदान्तयोः | अनुवृत्ति-सहितसूत्रम्— अपूर्वयोः पदान्तयोः व्योः लोपः अशि संहितायां शाकल्यस्य |
यथा —
हरे + इह → एचोऽयवायावः (६.१.७७) → हरय् + इह → लोपः शाकल्यस्य (८.३.१९) → हर इह / हरयिह | अत्र आद्गुणः (६.१.८७) इत्यनेन गुणसन्धिः भवति स्म, परन्तु पूर्वत्रासिद्धम् (८.२.१) इत्यनेन आद्गुणः (६.१.८७) इत्यस्य दृष्ट्या लोपः शाकल्यस्य (८.३.१९) इत्यनेन यत् कार्यं कारितं, तत् असिद्धम् |
उभौ + अपि → एचोऽयवायावः (६.१.७७) → उभाव् + अपि → लोपः शाकल्यस्य (८.३.१९) → उभा अपि / उभावपि | अत्र अकः सवर्णे दीर्घः (६.१.१०१) इत्यनेन सवर्णदीर्घसन्धिः भवति स्म, परन्तु पूर्वत्रासिद्धम् (८.२.१) इत्यनेन अकः सवर्णे दीर्घः (६.१.१०१) इत्यस्य दृष्ट्या लोपः शाकल्यस्य (८.३.१९) इत्यनेन यत् कार्यं कारितं, तत् असिद्धम् |
इति परिशीलितं दृष्टान्तद्वयमपि अचि परे; अयं च वस्तुतः प्रमुखविषयः एव | किन्तु जिज्ञासा उदेति, हलि परे का गतिः ? लोपः शाकल्यस्य (८.३.१९) इत्यनेन 'अशि परे' इत्युक्तं; गीताप्रवेशे लिखितमस्ति यत् "विद्यमानस्य अकारपूर्वस्य आकारपूर्वस्य च यकारस्य वकारस्य च स्वरे परे विकल्पेन लोपो भवति | व्यञ्जने परे तु नित्यम् |” सुबोधार्थम् अयं विचारः दोषाय न, किन्तु सम्पूर्णरीत्या अवगमनार्थम् अग्रे पठनीयम्—
लोपः शाकल्यस्य (८.३.१९) इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति अशि परे | एतावता च अस्माभिः दृष्टं किं भवति अचि परे | किन्तु हश्-वर्णाः अपि सन्ति; तेषु परेषु किं भवति ? एतादृशी परिस्थितिः वस्तुतः विरलतया लभ्यते | तथापि अस्य बोधनार्थम् एकम् उदाहरणं पश्येम |
'पुरुषाः गच्छन्ति' इति स्थितौ वस्तुतः मूले 'पुरुषास् गच्छन्ति' इति स्थितिः आसीत् | तर्हि अस्मात् आरभ्य एकवारं किं भवति इति अवलोकयाम—
(बहुवचने पुरुष + जस् → पुरुष + अस् →) पुरुषास् गच्छन्ति → न विभक्तौ तुस्माः (१.३.४) इत्यनेन सकार-लोपः निषिध्यते → ससजुषो रुः (८.२.६६) इत्यनेन स्-स्थाने 'रु' → पुरुषा + रु + गच्छन्ति → रु इत्यस्य उकारस्य इत्-संज्ञालोपश्च → भोभगोअघोअपूर्वस्य योशि (८.३.१७) इत्यनेन आकारोत्तरस्य 'रु'-शब्दस्य रेफस्य यकारादेशः अशि परे → पुरुषाय् + गच्छन्ति → लोपः शाकल्यस्य (८.३.१९) इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति अशि परे → परन्तु हलि सर्वेषाम् (८.३.२२) इत्यनेन हलि परे अयं यकारलोपः नित्यः → 'पुरुषा गच्छन्ति' इति एकमेव रूपम् |
तर्हि एतावता फलितार्थः कः इति चेत्, वकारयकारयोः लोपः विकल्पेन भवति अचि परे; हशि परे नित्यं न तु वैकल्पिकम् | हशि किमर्थम्? यतोहि लोपः शाकल्यस्य (८.३.१९) इत्यनेन अशि परे लोपः वैकल्पिकः; हलि सर्वेषाम् (८.३.२२) इत्यनेन हलि परे नित्यम् | अश् ऊन अच् इत्युक्ते हश्; हश् हलि अस्ति अतः हशि परे चेत् लोपः नित्यः | खरि परे का गतिः? खरि परे इयं परिस्थितिः न सम्भवति; यकारः न उदेति एव | पुरुषास् + चरन्ति → ससजुषो रुः (८.२.६६) इत्यनेन स्-स्थाने 'रु' → खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे → पुरुषाः + चरन्ति → संहितायां विषये विसर्गस्य सकारः तदा स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन श्चुत्वम् → पुरुषाश्चरन्ति
अन्यच्च हलि परे यकारस्य का गतिः इत्युक्तम् | अधुना हलि परे वकारस्य का गतिः? हलि परे वकारो न भवति एव इति कृत्वा यकारस्य चिन्तनम् अलम् | 'वकारान्तपदम्' इति तु तादृशं किमपि नास्ति; तदा सन्धिक्रमेऽपि तादृश्यं किमपि कार्यं नास्ति यस्मात् वकारः सम्भवेत् |
न विभक्तौ तुस्माः (१.३.४) = धातूनां तिङ्-प्रत्ययाः, सुबन्तानाम् (इत्युक्ते नामपदानां) सुप्-प्रत्ययाः—एते सर्वे विभक्तयः इत्युच्यन्ते (विभक्तिश्च इति सूत्रेण) | एषां विभक्तीनां अन्ते यदि तवर्गीयः वर्णः (त्, थ्, द्, ध्, न्), सकारः, अथवा मकारः अस्ति, तर्हि इदं सूत्रं हलन्त्यम् इत्यस्य कार्यं बाधते | हलन्त्यम् इत्यनेन एषां वर्णानाम् इत्-संज्ञा भवति स्म, किन्तु न विभक्तौ तुस्माः इत्यनेन इत्-संज्ञा बाधिता भवति; अनेन इत्-संज्ञा न भवति | यथा सुप्-प्रत्ययाः जस्, भ्याम्, भिस्, अपि च तिङ्-प्रत्ययाः तस्, वस्, मस्—अत्र भ्याम् इत्यस्य मकारः, तस् इत्यस्य सकारः, एषां वर्णानाम् इत्-संज्ञा भवति स्म, किन्तु न भवति |
ससजुषो रुः (८.२.६६) = पदान्ते सकारस्य च सजुष्-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन न केवलं यत् पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— ससजुषोः पदस्य रुः |
खरवसानयोर्विसर्जनीयः (८.३.१५) = पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम् | खर् च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | रो रि (८.३.१४) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं— खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम् |
१३. तुगागमसन्धिः
छे च (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्-आगमो भवति | तुक् कित् अस्ति अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | ह्रस्वस्य पिति कृति तुक् (६.१.७०) इत्यस्मात् ह्रस्वस्य, तुक् इत्यनयोः अनुवृत्तिः | संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— ह्रस्वस्य तुक् छे च संहितायाम् |
यथा—
वृक्षस्य छाया → समासे कृते → वृक्ष + छाया → वृक्ष + तुक् + छाया → वृक्ष + त् + छाया → स्तोः श्चुना श्चुः (८.४.४०) → वृक्ष + च् + छाया → वृक्षच्छाया
पदान्ताद्वा (६.१.७५) = दीर्घात्पदान्तात् छे परे तुग्वा स्यात् | पदान्तात् पञ्चम्यन्तं, वा अव्ययपदं, द्विपदमिदं सूत्रम् | छे च (६.१.७२) इत्यस्मात् छे इत्यस्य अनुवृत्तिः | दीर्घात् (६.१.७४) इत्यस्य पूर्णतया अनुवृत्तिः | ह्रस्वस्य पिति कृति तुक् (६.१.७०) इत्यस्मात् तुक् इत्यस्य अनुवृत्तिः | संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— दीर्घात् पदान्तात् तुक् छे वा संहितायाम् |
यथा—
मात्रा + छन्दः → पदान्ताद्वा (६.१.७५) → मात्राछन्दः (अथवा) → मात्रा + तुक् + छन्दः → स्तोः श्चुना श्चुः (८.४.४०) → मात्रा + च् + छन्दः → मात्राच्छन्दः / मात्राछन्दः
१४. द्वित्वम्
अनचि च (८.४.४७) = अचः परस्य यरो द्वे वा स्तः न त्वचि | न अच्, अनच् नञ्तत्पुरुषः, तस्मिन् अनचि | अनचि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | यरोऽनुनासिकेऽनुनासिको वा (८.४.४५) इत्यस्मात् यरः, वा इत्यनयोः अनुवृत्तिः | अचो रहाभ्यां द्वे (८.४.४६) इत्यस्मात् अचः, द्वे इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अचः यरः द्वे वा अनचि च संहितायाम् |
सुधी + उपास्यः → इको यणचि (६.१.७६) → सुध्य् + उपास्यः → अनचि च (८.४.४७) इत्यनेन यरः वा द्वित्वम् → सुध्ध्य् + उपास्यः → झलां जश् झशि (८.४.५३) इत्यनेन जश्त्वम् → सुद्ध्य् + उपास्यः → सुद्ध्युपास्यः / सुध्युपास्यः
हल्-सन्धीनां क्रमः कथं ज्ञायते?
पूर्वत्रासिद्धम् (८.२.१) = अनेन सूत्रेण अष्टाध्यायी इति ग्रन्थः भागद्वये विभजितः | प्रथमाध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः; अष्टमाध्यायस्य द्वितीयः, तृतीयः, चतुर्थश्च पादाः मिलित्वा द्वितीयभागः | प्रथमभागस्य नाम सपादसप्ताध्यायी; द्वितीयभागस्य नाम त्रिपादी | अनेन सूत्रेण यानि सूत्राणि सपादसप्ताध्याय्यां सन्ति, तानि प्रति त्रिपाद्यां स्थितानि सूत्राणि असिद्धानि | अपि च त्रिपाद्यां यानि सूत्राणि पूर्वं सन्ति, तानि प्रति परं स्थितानि सूत्राणि असिद्धानि | सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम् | त्रयाणां पादानां समाहारः त्रिपादी (द्विगुसमासः) | सप्तानाम् अध्यायानां समाहारः सप्ताधायी; पादेन सहिता, सपादसप्ताध्यायी | पूर्वस्मिन् इति पूर्वत्र | न सिद्धम्, असिद्धम् | पूर्वत्र अव्ययम्, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम् | इदं सूत्रम् अधिकारसूत्रम्; अष्टाध्याय्याः अन्तपर्यन्तं प्रवर्तते |
(पूर्वत्रासिद्धम् (८.२.१) इत्यस्य कार्यं द्विविधं— शास्त्रासिद्धं, कार्यासिद्धं च | द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत्, परत्रिपादिसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रासिद्धम् इत्युच्यते | पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत्, तर्हि तत्पश्चात् सपादसप्ताध्यायिसूत्रं वा पूर्वत्रिपादिसूत्रं वा आयाति चेत्, तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव यतः तेन परत्रिपादिसूत्रेण यत् किमपि क्रियते तत् पूर्वत्रासिद्धम् इत्यनेन असिद्धम्; इदं कार्यासिद्धम् इत्युच्यते |)
हल्-सन्धि-सूत्राणि सर्वाणि त्रिपाद्याम् | अतः एकत्र हल्-सन्धि-विधायकसूत्रद्वयम् आयाति चेत्, परसूत्रस्य असिद्धत्वात् पूर्वसूत्रम् आगत्य कार्यं करोति | यत् + जायते → झलां जशोऽन्ते (८.२.३९), स्तोः श्चुना श्चुः (८.४.४०) एकत्र आयातः → स्तोः श्चुना श्चुः इत्यस्य असिद्धत्वात् झलां जशोऽन्ते पूर्वं भवति → यद् + जायते → स्तोः श्चुना श्चुः इत्यनेन श्चुत्वम् → यज् + जायते → यज्जायते | एवमेव सर्वाणि हल्-सन्धि-सूत्राणि |
हल्-सन्धिः - सूत्रक्रमः
सन्धिः | सूत्रसंख्या | सूत्रम् | लघु संख्या | |
१ | जश्त्वसन्धिः | ८.२.३९ | झलां जशोऽन्ते | ६७ |
२ | यवलोपसन्धिः | ८.३.१९ | लोपः शाकल्यस्य | ३० |
३ | अनुस्वारसन्धिः | ८.३.२३ | मोऽनुस्वारः | ७७ |
८.३.२४ | नश्चापदान्तस्य झलि | ७८ | ||
४ | ङमुडागमसन्धिः | ८.३.३२ | ङमो ह्रस्वादचि ङमुण् नित्यम् | ८९ |
५ | श्चुत्वसन्धिः | ८.४.४० | स्तोः श्चुना श्चुः | ६२ |
६ | ष्टुत्वसन्धिः | ८.४.४१ | ष्टुना ष्टुः | ६४ |
७ | अनुनासिकसन्धिः | ८.४.४५ | यरोऽनुनासिकेऽनुनासिको वा | ६८ |
८ | चर्त्वसन्धिः | ८.४.५५ | खरि च | ७४ |
९ | परसवर्णसन्धिः | ८.४.५८ | अनुस्वारस्य ययि परसवर्णः | ७८ |
८.४.५९ | वा पदान्तस्य | ८० | ||
८.४.६० | तोर्लि | ६९ | ||
१० | पूर्वसवर्णसन्धिः | ८.४.६२ | झयो होऽन्यतरस्याम् | ७५ |
११ | छत्वसन्धिः | ८.४.६३ | शश्छोऽटि | ७६ |
परिशिष्टं— पदान्ते नकारः, ततः अग्रे शकारः
सन् + शम्भुः → चत्वारि रूपाणि— सञ्छम्भुः, सञ्च्छम्भुः, सञ्च्शम्भुः, सञ्शम्भुः |
सन् + शम्भुः → शि तुक् (८.३.३१) इत्यनेन तुक्-आगमः विकल्पेन → सन् + त् + शम्भुः → स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन तकारस्य चुत्वादेशः → सन् + च् + शम्भुः → स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन नकारस्य चुत्वादेशः → सञ् + च् + शम्भुः → शश्छोऽटि (८.४.६३) इत्यनेन झयः उत्तरस्य शकारस्य अटि परे छकारादेशः विकल्पेन → सञ् + च् + छम्भुः → झरो झरि सवर्णे (८.४.६५) इत्यनेन हल्-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे → सञ् + छम्भुः → सञ्छम्भुः इति प्रथमं रूपम् |
झरो झरि सवर्णे (८.४.६५) इत्यनेन विकल्पेन चकारस्य लोपो न भवति चेत् सञ्च्छम्भुः इति द्वितीयरूपं; शश्छोऽटि (८.४.६३) इत्यनेन विकल्पेन छकारादेशो न भवति चेत् सञ्च्शम्भुः इति तृतीयं रूपं; शि तुक् (८.३.३१) इत्यनेन विकल्पेन तुक्-आगमो न भवति चेत् सञ्शम्भुः इति चतुर्थरूपम् |
एवमेव यत्र यत्र पदान्ते नकारः ततः अग्रे शकारः, तत्र सर्वत्र वैकल्पिकरूपचतुष्टयम् | पश्यन् + शृण्वन् | गच्छन् + शिक्षकः |
शि तुक् (८.३.३१) = पदान्तस्य नकारस्य विकल्पेन तुक्-आगमो भवति शकारे परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः 'नः पदस्य' | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन तुक् आगमः पदान्तनकारस्य अनन्तरम् | शि सप्तम्यन्तं, तुक् प्रथमान्तं, द्विपदमिदं सूत्रम् | नश्च (८.३.३०) इत्यस्मात् नः इत्यस्य अनुवृत्तिः | हे मपरे वा (८.३.२६) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— नः पदस्य तुक् शि वा संहितायाम् |
झरो झरि सवर्णे (८.४.६५) = हल्-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | हलो यमां यमि लोपः (८.४.६४) इत्यस्मात् हलः, लोपः चेत्यनयोः अनुवृत्तिः | झयो होऽन्यतरस्याम् (८.४.६२) इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम् |
अस्माकं सुब्रह्मण्य-महोदयः अत्र इदं सन्धिप्रक्रियाचिन्तनं चित्रेण निरूपितवान्—
अस्माकं शीतल-भगिनी सुन्दररीत्या वर्णानां स्थानानि प्रयत्नान् च कोष्ठकरूपेण निरूपितवती—
Swarup – March 2014 (additions October 2017)
हल्-सन्धिः - सूत्रसहिता दृष्टिः.pdf
आवश्यकानि सूत्राणि pdf, सन्धीनाम् अभ्यासः pdf, हल्-सन्धेः अभ्यासः pdf