12 - व्यापारः संस्कारः च

From Samskrita Vyakaranam
10---nyAyashAstram/12---vyApAraH-saMskAraH-ca
Jump to navigation Jump to search
ध्वनिमुद्रणानि
१) gyAnAdhikaraNamAtmA__trayaH-guNAH-indriya-agrAhyAH__vyApAraH_2016-05-21
२) uttaradesha-saMyogaM-prati-vibhAgaH-kAraNam_+_gurutvalakShaNe-dalasArthakyam_2018-04-21


व्यापारः


व्यापारः, लोके माध्यमम्‌ इति वदामः | कारणस्य कार्यस्य च मध्ये अयं व्यापारः माध्यमरूपेण कार्यं करोति | एकस्य फलस्य उत्पत्तौ, कारणम्‌ अपेक्षते; कारणेन साक्षात्‌ एव कार्यं न जायते— मध्ये कश्चन व्यापारः भवति |


यथा कुठारः (परशुः), काष्ठम्‌ | केवलं कुठारः अस्ति चेत्‌ काष्ठं भेत्तुं शक्नुमः वा ? नैव | तदर्थं किं कुर्मः ? हस्तेन कुठारम्‌ उन्नीय काष्ठस्य उपरि त्यजामः | तदा किं भवति ? काष्ठं द्विधा विभक्तं भवति | तर्हि काष्ठविभजनं प्रति कुठारः कारणम्‌ | व्यापारः कः इत्युक्ते उन्नयन-निपातनादिक्रियाः | क्रिया अपेक्षिता अस्ति | अतः मध्ये कश्चन व्यापारः भवति; अत्र क्रिया एव व्यापारः |


अन्यत्‌ उदाहरणं स्वीकुर्मः, घटनिर्माणम्‌ | दण्डेन घटो जायते इत्युच्यते; पूर्वतनदिनेषु एतादृशी पद्धतिः आसीत्‌ | दण्डः घटं प्रति कारणम्‌ | दण्डसत्वे घटसत्वं, दण्डाभावे घटाभावः इति दण्डघटयोः कार्यकारणभावः निश्चीयते | साक्षात्‌ एव दण्डेन घटः उत्पद्यते वा ? इति चेत्‌, दण्डेन चक्रभ्रमणं क्रियते; चक्रभ्रमणेन च पुनः कार्यान्तराणि भवन्ति मध्ये, तेन घटोत्पत्तिर्जायते | तथा च चक्रभ्रमणं व्यापारः | कथम्‌ इति चेत्‌, दण्डजन्यं चक्रभ्रमणं, दण्डजन्यघटजनकञ्च |


तज्जन्यत्वे सति तज्जन्यजनकः व्यापारः इति लक्षणवाक्यम्‌ | तज्जन्यत्वे सति तज्जन्यजनकत्वम्‌ इति व्यापारस्य लक्षणम्‌ | यथा वायोः लक्षणम्‌ अस्माभिः दृष्टं; तत्र रूपरहितत्त्वे सति स्पर्शवत्त्वं वायोः लक्षणम्‌ | केवलं रूपरहितत्त्वं वदामश्चेत्‌ अतिव्याप्तिः (आकाशादिषु); केवलं स्पर्शवत्त्वं वदामश्चेत्‌ पुनः अतिव्याप्तिः (पृथिव्यादिषु) | अतः अत्र दलद्वयं मिलित्वा लक्षणम्‌ इत्यनेन नातिव्याप्तिः | अनेन च दलसार्थक्यं सिध्यति | तर्हि व्यापारस्य लक्षणमपि तथा, दलद्वयम्‌ अपेक्षते— तज्जन्यत्वं तज्जन्यजनकत्वं च |


'तत्‌' इति कारणं; 'तत्‌' पदेन अत्र दृष्टान्ते दण्डः स्वीकार्यः | तज्जन्यं तृतीयातत्पुरुषः; तेन इति दण्डेन, जन्यम्‌ इति चक्रभ्रमणम्‌ | तज्जन्यत्वं—दण्दजन्यत्वं—चक्रभ्रमणे अस्ति | अनेन एकं विशेषणम्‌ आगतम्‌ | किन्तु द्वितीयमपि अपेक्षितम्‌ | तज्जन्यजनकत्वम्‌ अपि चक्रभ्रमणे भवेत्‌ | अत्र 'तत्‌' इति पुनः दण्डः | जन्यम्‌ इति कार्यं, फलम्— अत्र घटः | तर्हि तत्‌ इति दण्डः, जन्यः इति घटः | तेन जन्यः, तज्जन्यः; तस्य जनकः व्यापारः | अत्र जनकं चक्रभ्रमणम्‌ | दण्डेन जन्यः यः घटः, तस्य जनकं चक्रभ्रमणम्‌ | आहत्य तज्जन्यजनकं चक्रभ्रमणं, तज्जन्यजनकत्वं चक्रभ्रमणे | तर्हि अत्र दलसार्थक्यार्थं दलद्वयम्‌ | पदद्वयेऽपि— तज्जन्यत्वं च तज्जन्यजनकत्वं च— व्यापारे समन्वयः कर्तव्यः | अनेन व्यापारस्य लक्षणम्‌ |


सरलरीत्या उच्यते चेत्‌ दण्डः चक्रभ्रमणस्य कारणं; चक्रभ्रमणं च घटस्य कारणम्‌ | दण्डः साक्षात्‌ घटं प्रति कारणं न भवति; चक्रभ्रमणद्वारा एव दण्डः घटं प्रति कारणम्‌ |


प्रत्यक्षसन्दर्भे इन्द्रियं भवति कारणम्‌ | 'अयं घटः' इति ज्ञानं भवति फलम्‌ | मध्ये कश्चन व्यापारः भवति इन्द्रियसन्निकर्षः | 'अयं घटः' इति ज्ञाने चक्षुरिन्द्रियं कारणं, व्यापारद्वारा | तत्र चक्षुरिन्द्रियघटसंयोगरूपसन्निकर्षः इति व्यापारः, 'अयं घटः' इति प्रत्यक्षं फलम्‌ | 'तज्जन्यत्वे सति तज्जन्यजनकः' कथम्‌ इत्युक्तौ चक्षुरिन्द्रियेण चक्षुरिन्द्रिय-घटसंयोगः व्युत्पन्नः— अतः अयं संयोगः चक्षुरिन्द्रियजन्यः | चक्षुरिन्द्रियेण जायमानम्‌ 'अयं घटः' यत्‌ प्रत्यक्षम्‌ अस्ति, तस्य साधनार्थं चक्षुरिन्द्रियघटसंयोगः अपि अपेक्षितम्‌ अतः सोऽपि मध्ये एकं कारणम्‌ अस्ति | तथा च अयं संयोगः तज्जन्यजनकः | चक्षुरिन्द्रियेण 'अयं घटः' इति प्रत्यक्षं जायते, तस्य जनकः अस्ति इन्द्रियसंयोगः, इन्द्रियसन्निकर्षः, अत्र चक्षुरिन्द्रियघटसंयोगः इति व्यापारः |


व्यापारद्वारा आत्मनः त्रयः गुणाः कल्पिताः


प्रकृतौ आत्मनः गुणाः सन्ति बुद्धिः, सुखं, दुःखम्‌, इच्छा, द्वेषः, प्रयत्नः, धर्मः, अधर्मः, संस्कारः | बुद्धिः इत्यस्मात्‌ आरभ्य प्रयत्नपर्यन्तं प्रत्यक्षं मनसा भवति | 'अहं जानामि' इति ज्ञानम्‌ | ज्ञानविषयकं ज्ञानम्‌ | ज्ञानस्य प्रत्यक्षं भवति मनसा | एवेमेव 'अहं सुखी अस्मि', 'अहं दुःखी अस्मि', 'अहं सर्पं द्वेश्मि', 'अहं घटम्‌ इच्छामि' इति ज्ञानानां प्रत्यक्षं भवति मनसा |


धर्मस्य, अधर्मस्य, संस्कारस्य च प्रत्यक्षं न सम्भवति | एते च त्रयः गुणाः अतीन्द्रियाः | मनसा साक्षात्‌ ज्ञातुं न शक्यन्ते | तेषां ज्ञानं न उत्पद्यते प्रत्यक्षेण; परन्तु ते व्यापाराः भवन्ति अतः अनुमानेन तेषाम्‌ अस्तित्वं कल्पयामः | इदानीं कस्यचित्‌ मनुष्यस्य सुखं जायते | कथमित्युक्ते तस्य आत्मनि विद्यमानधर्मेण सुखम्‌ उत्पद्यते | एवमेव तस्य आत्मनि विद्यमानाधर्मेण दुःखं जायते | इति सुखस्य दुःखस्य च मध्ये व्यापारः भवति धर्मः, अधर्मश्च |


अग्रे संस्कारः कस्य व्यापारः इत्युक्तौ स्मरणस्य | यदा अस्माकं प्रत्यक्षज्ञानं भवति, 'अयं घटः' इति ज्ञानं, तदनन्तरं कश्चन संस्कारः उत्पद्यते अस्माकम्‌ आत्मनि | स च संस्कारः कदाचित्‌ 'घटम्‌ अहं दृष्टवान्‌' इति स्मरणं जनयति | इत्थञ्च प्रत्यक्षज्ञानेन जायते संस्कारः; अग्रे स एव व्यापारः स्मरणं जनयति | अनेन संस्कारस्य व्यापारत्वं व्युत्पन्नम्‌ |


एवं रीत्या धर्मः, अधर्मः, संस्कारश्च एते त्रयः गुणाः व्यापाराः भवन्ति | यत्‌ लोके माध्यमं वदामः | कारणस्य कार्यस्य च मध्ये अयं व्यापारः माध्यमरूपेण कार्यं करोति |


एते च त्रयः गुणाः अतीन्द्रियाः | मनसा साक्षात्‌ ज्ञातुं न शक्यन्ते | 'अहं धर्मात्मजः अस्मि' इति कश्चित्‌ वदति, परन्तु तस्य तादृशः अनुभवः तु न भवितुम्‌ अर्हति | धर्मः अस्ति वा अधर्मः अस्ति वा, तस्य फलं दृष्ट्वा एव ज्ञातुं शक्नुमः | कोऽपि अतीव दुःखी अस्ति, इत्यस्य दर्शनेन, वक्तुं शक्नुमः "अहो, सः बहु अधर्मं कृतवान्‌, अतः अधुना दुःखम्‌ अनुभवन्‌ अस्ति" | फलं दृष्ट्वा, तस्य कारणम्‌ अधर्मं वयम्‌ अनुमानेन ज्ञातुं शक्नुमः; न तु प्रत्यक्षेण |


संस्कारः


संस्कारः त्रिविधः— वेगः, स्थितिस्थापकः, भावना चेति | यदा फलं पतति, तदा तस्मिन्‌ वेगः भवति | यदा एकं यानं गच्छति तदा तस्मिन्‌ वेगः भवति | क्रियया सह जायते वेगः | फले पतनक्रिया उत्पन्ना, तदा वेगः उत्पन्नः |


स्थितिस्थापकः इति द्वितीयः कश्चन संस्कारः | सः कटादौ भवति | कटं वयं पुटीकुर्मः; अग्रे पुनः पूर्वरूपेण स्थापयामः | एवमेव rubber band एकवारं दीर्घं कुर्मः, पुनः तत्‌ सङ्क्षिप्तं भवति | एवं रीत्या पूर्वावस्थायाः आपादकं भवति स्थितिस्थापकः इति गुणः | अधुना घटं पुटीकुर्मश्चेत्‌ भग्नः भवति, नष्टः भवति | परन्तु कटं पुटीकुर्मश्चेत्‌, पुनः पूर्वरूपेण स्थापयितुं शक्यते | तादृशेषु वस्तुषु विद्यमानगुणः स्थितिस्थापकः इत्युच्यते | यस्य वस्तुनः तदवस्थां सम्पादयितुं शक्नुमः, एतादृशवस्तुनि भवति स्थितिस्थापकः संस्कारः |


तृतीयः 'भावना' इति संस्कारः आत्मनि भवति | प्रत्यक्षज्ञानेन जायते, स्मरणं जनयति | अनुभवात्मक-ज्ञानेन जायते; स्मरणं जनयति |


आहत्य संस्कारः त्रिविधः— वेगः, स्थितिस्थापकः, भावना चेति | वेगाख्यसंस्कारः पञ्चसु द्रव्येषु भवति— पृथिव्यां, जले, तजसि, वायौ, मनसि | (एषु पञ्चसु क्रियाश्रयत्वम्‌ इति कारणेन मूर्तद्रव्याणि इत्युच्यन्ते |) स्थितिस्थापकाख्यसंस्कारः पृथिव्याम्‌ एव भवति | भावनाख्यसंस्कारः अत्मनि एव भवति |


Swarup – May 2016


---------------------------------

१२ - व्यापारः संस्कारश्च .pdf