04 - बहुव्रीहिसमासः
बहुव्रीहिसमासे प्रायः अन्यपदस्य प्राधान्यं भवति। अन्यत् पदं समासाघटकं पदम्। समासाघटकपदस्य अर्थः यदि क्रियया अन्वितो भवति तर्हि बहुव्रीहि समासः इति उच्यते। अस्मिन् समासे समस्यमानं पदं प्रायेण प्रथमान्तं भवति अपि च केवलं यं, येन, यैः, यस्मै, याभ्याम्, येभ्यः, यस्मात्, यस्य, येषाम्, यस्मिन् ययोः, येषु इत्यादिनां पदानां प्रयोगं कृत्वा तत्तद् विभक्तिनां बोधः जायते। बहुव्रीहिः प्रायेण विशेषण-विशेषयोः भवति। अतः प्रायः विशेषयस्य (अन्यपदार्थस्य) लिङ्गमेव समस्तपदस्यापि लिङ्गम्।
बहुव्रीहिसमास-सम्बद्धसूत्राणि २.२.२३ इति सूत्रात् आरभ्य २.२.२८ इति सूत्रपर्यन्तं सन्ति।
पीतक्षिरः बालः गच्छति इति उदाहरणे पीतपदस्य क्षीरपदस्य वा अर्थः क्रियया न अन्वेति किन्तु समासाघटकस्य बालपदस्य् अर्थः क्रियय अन्वेति। अतः ‘पीतक्षीर:’ इत्यत्र बहुव्रीहिसमासः।
बहुव्रीहिः समासस्य चत्वारः प्रभेदाः सन्ति – १) समानाधिकरण-बहुव्रीहिः; २) व्यधिकरण -बहुव्रीहिः; ३) तुल्ययोग – बहुव्रीहिः; ४) व्यतिहार -बहुव्रीहिः चेति।
१) समानाधिकरण-बहुव्रीहिः = यदि समस्यमानानां पदानां समानविभक्तिः भवति तर्हि तादृशसमासस्य नाम समानाधिकरणबहुव्रीहिः इति उच्यते। यथा- रामः ईश्वरः यस्य सः = रामेश्वरः।
२) व्यधिकरण -बहुव्रीहिः = यदि समस्यमानानां पदानां समानविभक्तिः न भवति तर्हि तादृशसमासस्य नाम व्यधिकरणबहुव्रीहिः इति उच्यते। यथा- चक्रं पाणौ यस्य सः। चक्रं इति पूर्वपदं प्रथमा विभक्तौ अस्ति, पाणौ इति उत्तरपदं सप्तमी विभक्तौ अस्ति।
३) तुल्ययोग – बहुव्रीहिः =तुल्य इति शब्दस्य अर्थः अस्ति समानः इति अपि च योगः इति शब्दस्य अर्थः अस्ति सम्बन्धः इति। समानसम्बन्धस्य नाम तुल्ययोगः इति । यथा सह पुत्रेण आगतः, सपुत्रः (पुत्रेण सह पिता आगतः इति) इति समस्तपदे तुल्ययोगस्य, समानसम्बन्धस्य सूचकः शब्दः अस्ति -सह इति अव्ययम् । यत्र तुल्ययोगसूचकः शब्दः अन्येन तृतीयान्तेन शब्देन सह समस्यमानः तत्र तुल्ययोगबहुव्रीहिः इति उच्यते।
४) व्यतिहार -बहुव्रीहिः =व्यतिहारः इति शब्दस्य अर्थः अस्ति साध्: अपि च साधकः शब्दयोः व्यत्यासः। यदा एक-सम्बन्धी क्रियां अन्यः पुरुषः करोति अपि च अन्यस्य नियतक्रियां प्रथमपुरुषः करोति तदा कर्मव्यतिहारः इति उच्यते। यथा – केशाकेशि, दण्डादण्डि।
अष्टाध्यायां बहुव्रीहिसमासस्य विषये सप्तसूत्राणि सन्ति। शेषो बहुव्रीहिः (२.२.२३) इति सूत्रात् आरभ्य तेन सहेति तुल्ययोगे (२.२.२८) इति सूत्रं पर्यन्तम्।
1) प्रथमासमासस्य विषये यत् पूर्वम् उक्तम्, तान् विहाय शेषार्थे प्रथमान्तसमासः बहुव्रीहिसंज्ञकः भवति।
शेषो बहुव्रीहिः (२.२.२३) = शेषः प्रथमान्तसमासः बहुव्रीहिसंज्ञकः भवति। एतत् अधिकारसूत्रम् एतस्मात् सूत्रात् आरभ्य चार्थे द्वन्द्वः इति सूत्रात् पूर्वं यानि सूत्राणि सन्ति तत्र सर्वत्र एतस्य सूत्रस्य अधिकारः अस्ति । उक्तादन्यः शेषः भवति। अर्थात् सर्वस्य वदानन्तरं यत् अवशिष्यते तस्य नाम शेषः इति। अव्ययीभावः, तत्पुरुषः, तयोः अनन्तरं यः शेषः द्वन्द्वसमासं विहाय सः बहुव्रीहिः इति स्वीक्रियते। शेषः प्रथमान्तं, बहुव्रीहिः प्रथमान्तं, द्विपदमिदं सूत्रम्। सुबामन्त्रिते पराङ्गवत् स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। विभाषा (२.१.११) इत्यस्य अधिकारः। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। अनुवृत्ति-सहित-सूत्रम्— शेषः सुप् सुपा सह विभाषा बहुव्रीहिः समासः ।
द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४) इत्यादिना यस्य त्रिकस्य विशिष्य समासो नोक्तः स शेषः प्रथमान्तम् इत्यर्थः । अर्थात् तत्पुरुषसमासे द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४) इत्यादिभिः सूत्रैः यस्य त्रिकस्य समासः अनुक्तः सः शेषः इति । इत्युक्तौ प्रथमान्तः एव शेषः। तात्पर्यं यत् द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४) इति सूत्रेण द्वितीयान्तस्य विशेषः समासः उक्तः, तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०) इति सूत्रेण तृतीयान्तस्य विशेषः समासः उक्तः, चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ( २.१.३६) इति सूत्रेण चतुर्थ्यन्तस्य विशेषः समासः उक्तः, पञ्चमी भयेन (२.१.३७) इति सूत्रेण पञ्चम्यन्तस्य विशेषः समासः उक्तः, षष्ठी (२.२.८) इति सूत्रेण षष्ठ्यन्तस्य विशेषः समासः उक्तः, सप्तमी शौण्डैः ( २.१.४०) इति सूत्रेण सप्तम्यन्तस्य विशेषः समासः उक्तः। एतेषु सूत्रेषु तत्तत् विभक्तिनां निर्देशं कृत्वा तत्पुरुषसमासस्य निरूपणं कृतम् अस्ति। किन्तु कस्मिंश्चित् सूत्रे अपि प्रथमान्तस्य निर्देशं कृत्वा समासस्य विधानं न कृतम्। अतः सः प्रथमान्तः हि अत्र शेषः इति उच्यते।
विशेषणं विशेष्येण बहुलम् (२.१.५७) इत्यादिषु सूत्रेषु प्रथमान्तेन सह समासः भवति अनेन कारणेन कथं शेषः इति वक्तुं शक्यते? अस्य समाधानार्थं सूत्रकारेण विशेष्यम् इति शब्दस्य प्रयोगः कृतः । तस्य तात्पर्यं यत् यद्यपि उक्तः विशेषणसमासः प्रथमाविभक्त्यां एव भवति किन्तु प्रथमाविभक्तेः नामग्रहणेन विना अपि सः समासः भवति। अर्थात् द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४) इत्यादिभिः सूत्रैः यथा विभक्तिविशेषस्य उच्चारणं कृत्वा समासः विधीयते तथा विशेषणसमासस्य प्रथमा-विभक्तेः उच्चारणं कृत्वा समासः न विधीयते। अतः प्रथमान्तः एव शेषः।
अत्र त्रिक इति शब्दस्य अर्थः विभक्तिः इति । सुप् अपि च तिङ् विभक्तिषु त्रयाणां वचनानां समूहः अस्ति, तस्य एव त्रिक इति उच्यते। अत्र सुप् त्रिक इत्यस्यैव ग्रहणं भवति न तु तिङ् इत्यस्य त्रिक।
2)अनेकं सुबन्तम् अन्यपदार्थे वर्तमानं सुपा सह समस्यते, बहुव्रीहिश्च समासो भवति। अप्रथमाविभक्त्यर्थे बहुव्रीहिः इति समानाधिकरणानामिति च फलितम् ।
अनेकमन्यपदार्थे (२.२.२४) = अनेकं सुबन्तम् अन्यपदार्थे वर्तमानं सुपा सह समस्यते, बहुव्रीहिश्च समासो भवति। प्रथमार्थम् एकं वर्जयित्वा सर्वेषु विभक्त्यर्थेषु बहुव्रीहिः भवति। न एकम् अनेकम्। अन्यच्च तत्पदमन्यपदम्, तस्यार्थोऽन्यपदार्थस्तस्मिन्। अनेकं प्रथमान्तम्, अन्यपदार्थे सप्तम्यन्तं, द्विपदमिदं सूत्रम्। सुबामन्त्रिते पराङ्गवत् स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। शेषो बहुव्रीहिः (२.२.२३) इत्यस्मात् सूत्रात् बहुव्रीहिः इत्यस्य अनुवृत्तिः। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। अनुवृत्ति-सहित-सूत्रम्— अन्यपदार्थे अनेकं सुप् सुपा सह विभाषा बहुव्रीहिः समासः।
अनेकपदं इत्यस्य तात्पर्यं यत् द्वे पदे भवताम् अथवा अधिकानि पदानि भवन्तु इत्यर्थः। अव्ययीभावसमासे, तत्पुरुषसमासे च द्वयोः पदयोः मध्ये एव समासः भवति, किन्तु बहुव्रीहिः समासे त्रयाणां पदानाम् अपि समासः भवति। शेषशब्देन अप्रथमाविभक्त्यर्थे समानाधिकरणे समासः भवति इत्यर्थः।
अस्मिन् सूत्रे अनेकम् इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति। बहुव्रीहिसमासे समस्यमानानि सर्वाणि पदानि प्रथमान्तानि अनेकम् इति पदेन निर्दिष्टम्। अतः बहुव्रीहिसमासे सर्वेषां पदानाम् उपसर्जनसंज्ञा भवति।
बहुव्रीहि समासे समाससंज्ञा भवति प्राककडारात्समासः (२.१.३) इति सूत्रेण तदनन्तरं पुनः शेषो बहुव्रीहिः (२.२.२३) इति सूत्रेण बहुव्रीहिसंज्ञा अपि भवति। समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण। ' तत्पश्चात् ' सुप्-प्रत्ययस्य लुक् (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन। अनन्तरं सुबुत्पत्तिः।
'१) समानाधिकरणबहुव्रीहिः '
i)द्वितीयानिष्ठ- समानाधिकरण- बहुव्रीहिः –
यथा – प्राप्तं उदकं यं सः = प्राप्तोदकः (ग्रामः)
प्राप्तं उकं यं सः = प्राप्तोदकः (ग्रामः)। अस्य समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखितः अस्ति।
अलौकिकविग्रहवाक्यं → प्राप्त+ सु + उदक+ सु →समाससंज्ञा भवति प्राककडारात्समासः (२.१.३) इति सूत्रेण। पुनः अत्र अनेकमन्यपदार्थे (२.२.२४) इति सूत्रेण बहुव्रीहिसमासः भवति।
प्राप्त+ सु + उदक+ सु → समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण।
प्राप्त+ सु + उदक+ सु →' इदानीं ' सुप्-प्रत्ययस्य लुक् (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन।
प्राप्त+ सु + उदक+ सु →इत्यस्मिन् सु, सु इत्यनयोः लुक् → प्राप्त+उदक→ सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'प्राप्त' इत्यस्य अन्ते सुप् नास्ति; तर्हि प्रश्नः उदेति यत् तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव |
प्राप्त+उदक → अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति। अत्र समासविधायकसूत्रम् अस्ति अनेकमन्यपदार्थे (२.२.२४) । अस्मिन् सूत्रे अनेकम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति।
प्राप्त+उदक → समासे सन्धिः नित्यः। हशि च (६.१.११४) इति सूत्रेण प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि परे → प्राप्तोदक इति प्रातिपदिकम् भवति
प्राप्तोदक → इदानीं लिङ्गस्य वचनस्य च निर्णयः क्रियते। बहुव्रीहि समासः अन्यपदार्थप्रधान्यम् अस्ति अत ग्रामः इति पदम् आश्रित्य प्राप्तोदक इति पदस्य लिङ्गं भवति पुंलिङ्गम्। अतः प्राप्तोदकः ग्रामः इति भवति।
हशि च (६.१.११४) = प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि च | हशि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अतो रोरप्लुतादप्लुते (६.१.११३) इत्यस्मात् अप्लुतात्, अतः, रोः इत्येषाम् अनुवृत्तिः | ऋत उत् (६.१.१११) इत्यस्मात् उत् इत्यस्य अनुवृत्तिः | संहितायाम् (६.१.७१) इत्यस्य अधिकारः अनुवृत्ति-सहितसूत्रम्— अप्लुतात् अतः रोः उत् हशि च संहितायाम् |
ii)तृतीयानिष्ठ – समानाधिकरण – बहुवीहिः –
ऊढः रथः येन सः = ऊढरथः (हयः)- प्रक्रिया चिन्तनीया
iii)चतुर्थीनिष्ठ – समानाधिकरण – बहुवीहिः –
उपहृतः पशुः यस्मै सः = उपहृतपशू रुद्रः - प्रक्रिया चिन्तनीया
दत्तं द्रव्यं यस्मै सः = दत्तद्रव्यः जनः- प्रक्रिया चिन्तनीया
iv)पञ्चमीनिष्ठ – समानाधिकरण – बहुवीहिः –
उद्धृतः ओदनः यस्याः सा = उद्धृतौदना स्थाली - प्रक्रिया चिन्तनीया
v)षष्ठीनिष्ठ – समानाधिकरण – बहुवीहिः –
पीतं अम्बरं यस्य सः = पीताम्बरः विष्णुः - प्रक्रिया चिन्तनीया
सप्तमीनिष्ठ – समानाधिकरण – बहुवीहिः –
वीराः पुरुषाः यस्मिन् सः = वीरपुरुषः ग्रामः - प्रक्रिया चिन्तनीया
'२) व्यधिकरण – बहुव्रीहिः ' -
यदि समस्यमानानां पदानां विभक्तिः भिन्ना भवति तर्हि बहुव्रीहिसमासः न भवति। यथा पञ्चभिर्भुक्तम् इति समस्तपदं न भवति। अत्र पञ्चभिः इत्यत्र तृतीया, भुक्तम् इत्यत्र प्रथमा अस्ति। अतः भिन्नविभक्तिकयोः मध्ये समासः न भवति।
प्रपतितः पर्णः ( यस्मात् सः) प्रपर्णः । अत्र आदौ प्रकर्षेण पतितः इति वाक्ये प्रपतितः इति समासः भवति कुगतिप्रादयः इति सूत्रेण। अनन्तरणं प्रपतितः पर्णः यस्मात् सः अथवा प्रपतितानि पर्णानि यस्मात् सः इति लौकिक-विग्रहवाक्यम्। अलौकिक-विग्रहवाक्यम् अस्ति प्रपतित+जस् + पर्ण+जस्। प्रातिपदिकसंज्ञा, सुप् लुक् सर्वं कृत्वा अकमन्यपदार्थे (२.२.२४) इति सूत्रेण बहुव्रीहिसमासः भवति।अधुना प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः इति वार्तिकेन पूर्वपदस्य प्रपतितस्य उत्तरपदस्य लोपः भवति विकल्पेन भवति चेत् प्रपर्ण इति भवति। अत्र वार्तिकेन साक्षात् समासः अपि भवितुम् अर्हति। अत्र प्रपर्णः इति समस्तपदं सिद्ध्यति। उक्तवार्तिकेन लोपः विकल्पेन भवति। यस्मिन् पक्षे उत्तरपदस्य लोपः न भवति तस्मिन् पक्षे प्रपतितपर्णः अपि भवति। एवमेव विगतो धवो यस्याः सा = विधवा इति भवति। निर्गता जना यस्मात् स निर्जनो प्रदेशः, निर्गता गुणा यस्मात स निर्गुणः, निर्गतं फलं यस्मात् तत् निष्फलं कर्म, निर्गतोऽर्थो यस्मात् तत् निरर्थकम् इत्यादीनि समस्तपदानि भवन्ति।
३) नञ्बहुव्रीहिसमासः
नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः।अनेन वार्तिकेन नञ् इति शब्दस्य विद्यमानार्थे यः शब्दः अस्ति तेन सह समासः भवति अपि च उत्तरपदस्य विकल्पेन लोपः भवति।
यथा—
अविद्यमानः पुत्रः यस्य सः = अपुत्रः। आदु न विद्यमानः इति नञ्तत्पुरुषसमासं कृत्वा अविद्यमान इति भवति। अनन्तरम् अविद्यमानः पुत्रः यस्य इति लौकिकविग्रहवाक्यं भवति। अविद्यमान+सु + पुत्र+सु इति अलौकिकविग्रहवाक्यं भवति। अनेकमन्यपदार्थे (२.२.२४) इत्यनेन समासं कृत्वा अविद्यमानपुत्रः इति भवति। पूर्वपदं अविद्यमान, तस्मिन् यत् उत्तरपदं विद्यमान इति अस्ति तस्य लोपः भवति नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः इति वार्तिकेन। अतः अपुत्रः इति समस्तपदं भवति। यस्मिन् पक्षे लोपः न भवति तस्मिन् पक्षे अविद्यमानपुत्रः अपि भवति।
एवमेव अविद्यमानः नाथः यस्य सः = अनाथः इति भवति। अविद्यमानः क्रोधः यस्य सः = अक्रोधः इति भवति।
अव्ययानां च इति वार्तिकेन अव्ययानाम् अपि उत्तरपदेन सह बहुव्रीहिसमासः भवति। अव्ययानां यदि प्रथमान्तार्थे प्रधानता न भूत्वा अन्यविभक्त्यर्थे प्रधानता भवति तर्हि तस्यां स्थित्याम् अनेकमन्यपदार्थे इति सूत्रेण समासस्य प्राप्तिः न भवति, तस्मिन् सन्दर्भे अस्य वार्तिकस्य आवश्यकता भवति। यथा –
उच्चैः मुखं यस्य सः = उच्चैर्मुखः – अत्र उच्चैस् इति पदम् अधिकरणशक्तिप्रधानम् अस्ति अतः सप्तम्यन्तं पदम् इति स्वीक्रियते। फलितार्थः यत् सप्तम्यन्तं उच्चैस् इति पदस्य मुखम् इति प्रथमान्तपदेन सह सामानाधिकरण्यं नास्ति अनेन कारणेन अनेकमन्यपदार्थे (२.२.२४) इति सूत्रेण समासः न भवति। अतः अव्ययानां च इति वार्तिकेन समासः सिद्धः भवति।
सप्तम्युपमानंपूर्वपदस्योत्तरपदलोपश्च इति वार्तिकेन सप्तम्यन्तं पदं अपि च उपमानवाचिपदं पूर्वपदे अस्ति चेत्, तस्य उत्तरपदेन सह समासः भवति, उत्तरपदस्य लोपः च भवति। सप्तम्यन्तम् उपमानं च पुर्वपदं यस्य तस्य पदान्तरेण समासः उत्तरपदलोपश्च भवतीत्यर्थः ।
यथा—
कण्ठेस्थः कालो यस्य सः = कण्ठेकालः । विग्रहवाक्ये सप्तम्युपमानंपूर्वपदस्योत्तरपदलोपश्च इति वार्तिकेन समासः भवति, कण्ठेस्थ इति शब्दे कण्ठे इति पूर्वपदस्य उत्तरपदम् अस्ति स्थ इति शब्दः। तस्त लोपः भवति। अत्र कण्ठोत्तरविभक्तेः लोपः न भवति अमूर्धमस्तकात् स्वाङ्गादकामे (६.३.१२) इति सूत्रेण। अनेन सूत्रेण सप्तम्याः अकामे उत्तरपदे अलुग् भवति। अतः कण्ठेकालः इति समस्तपदं सिद्ध्यति। कण्ठेस्थः इति अपि समस्तपदमस्ति। कण्ठे तिष्ठति इति विग्रहवाक्यम्। अत्र कण्ठपूर्वकः स्था इति धातुतः सुपि स्थः ( ३.२.४) इति सूत्रेण क प्रत्ययं योजयित्वा धातोः आकारस्य लोपं कृत्वा स्थ इति शब्दः निष्पन्नः भवति। अनेन सूत्रेण सुबन्ते उपपदे तिष्ठतेः कप्रत्ययो भवति। तदा उपपदमतिङ् ( २.२.१९) इति सूत्रेण समासः भूत्वा कण्ठेस्थः इति समासः भवति।
४) उपमानपूर्वपदबहुव्रीहिसमासः -
उष्ट्र्रमुखमिव मुखं यस्य सः = उष्ट्रमुखः । विग्रहवाक्ये सप्तम्युपमानंपूर्वपदस्योत्तरपदलोपश्च इति वार्तिकेन बहुव्रीहिसमासः भवति, उष्ट्र्रमुखमिव इति शब्दे उष्ट्रम् इति पूर्वपदस्य उत्तरपदम् अस्ति मुखम् इति शब्दः। तस्त लोपः भवति। उष्ट्रमुखः इति समस्तपदं भवति। अत्र आदौ उष्ट्रस्य मुखम् इति विग्रहवाक्ये षष्ठीतत्पुरुषसमासं कृत्वा उष्ट्रमुखम् इति समस्तपदं भवति।
सङ्घातविकारषष्ठ्याश्चोत्तरपदलोपश्च इति वार्तिकेन समूहवाचकपदे यत् विकारवाचकपदं अन्ते भवति, तादृशस्य शब्दस्य पदान्तरशब्देन सह बहुव्रीहिसमासः भवति, उत्तरपदस्य लोपः अपि भवति।
यथा—
केशानां सङ्घातश्चूडा यस्य सः = केशचूडः । केशानां समूहः चूडा यस्य तादृशः इति अर्थः । सङ्घातविकारषष्ठ्याश्चोत्तरपदलोपश्च इति वार्तिकेन बहुव्रीहिसमासः भवति सङ्घात +सु इत्यस्य लोपः भूत्वा केशचूडः इति भवति। अत्र चूडा इति शब्दस्य एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण उपसर्जनसंज्ञा विधीयते, तस्य प्रयोजनं पूर्वनिपातत्वं नास्ति परन्तु उपसर्जनसंज्ञकस्य पदस्य ह्रस्वादेशः भवति गोस्त्रियोरुपसर्जनस्य (१.२.४७) इति सूत्रेण। इदानीं ह्रस्वः भूत्वा केशचूड इति भवति। तदनन्तरं सुबुत्पत्तिं कृत्वा केशचूडः भवति।
सुवर्णस्य विकारः अलङ्कारो यस्य स = सुवर्णालङ्कारः। सुवर्णस्य विकारः एव अलङ्कारः यस्य। अत्र सुवर्णस्य विकारः इति षष्ठीतत्पुरुषसमासः भवति। अलौकिक-विग्रहवाक्यं भवति – सुवर्ण +ङस् + विकार + सु, अलङ्कार+सु। सङ्घातविकारषष्ठ्याश्चोत्तरपदलोपश्च इति वार्तिकेन बहुव्रीहिसमासः भवति विकार +सु इत्यस्य लोपः भूत्वा सुवर्णालङ्कारः इति भवति।
[[|]] एकविभक्ति चापूर्वनिपाते (१.२.४४) = विग्रहस्य दशायां यत् पदं नियतविभक्त्यां भवति, तस्य पूर्वनिपातात् भिन्नकार्यस्य करणेन तस्य उपसर्जनसंज्ञा तु भवति किन्तु तस्य पूर्वप्रयोगः न भवति। एक विभक्तिर्यस्य तद् एकविभक्ति, बहुव्रीहिः । पूर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः। न पूर्वनिपातोऽपूर्वनिपातस्तस्मिन्नपूर्वनिपाते, नञ्तत्पुरुषः। एकविभक्तिः प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम्। प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इत्यस्यमात् सूत्रात् समास, उपसर्जनम्, अनयोः पदयोः अनुवृत्तिः भवति। समासे इत्यस्य अर्थः अस्ति समासविग्रहे इति यतो हि तादर्थ्यात् ताच्छब्द्यम् इति नियमेन समासस्य विग्रहः अपि समासः इति पदेन ग्रह्यते। अनुवृत्ति-सहितसूत्रं— एकविभक्ति उपसर्जनं च अपूर्वनिपाते ।
समासस्य विग्रहवाक्ये पदद्वयं वर्तते, तयोः मध्ये एकस्य पदस्य नियतविभक्तः अस्ति, परन्तु अपरं पदं बहुषु विभिक्तिसु व्युत्पादयितुं शक्नुमः। तर्हि नियतविभक्तिकं पदं एव एकविभक्तिकं इति उच्यते। सूत्रस्य आशयः यत् विग्रहवाक्यस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति, तस्य पदस्य पूर्वनिपातात् भिन्नं कार्यं कर्तव्यं चेत् तस्य उपसर्जनसंज्ञा भवति।
अष्टाध्यायां उपसर्जनसंज्ञा विधीयते द्वाभ्यां सूत्राभ्याम्। प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जनसंज्ञा विधीयते, तस्य प्रयोजनम् अस्ति यत् उपसर्जनसंज्ञकस्य पदस्य पूर्वप्रयोगः भवति। एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण या उपसर्जनसंज्ञा विधीयते, तस्य प्रयोजनं पूर्वनिपातत्वं नास्ति परन्तु उपसर्जनसंज्ञकस्य पदस्य ह्रस्वादेशः भवति गोस्त्रियोरुपसर्जनस्य (१.२.४७) इति सूत्रेण।
गोस्त्रियोरुपसर्जनस्य (१.२.४८) = उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति। गोश्च स्त्री च तयोरितरेतयोगद्वन्द्वओ गोस्त्रियौ, तयोर्गिस्त्रियोः। गोस्त्रियोः षष्ठ्यन्तम्, उपसर्जनस्य षष्ठ्यन्तम् द्विपदमिदं सूत्रम्। ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रात् प्रातिपदिकस्य, ह्रस्वः च अनयोः पदयोः अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रम्— गोस्त्रियोः उपसर्जनस्य प्रातिपदिकस्य ह्रस्वः ।
उदा-
मालाम् अतिक्रान्तः = अतिमालः (एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण माला इति शब्दस्य उपसर्जनसंज्ञा भवति अपि च गोस्त्रियोरुपसर्जनस्य (१.२.४८) इति सूत्रेण माला इति स्त्रिलिङ्गशब्दस्य ह्रस्वत्वं भवति) ।
दिशोर्मध्ये = अपदिशम् (एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण दिशा इति शब्दस्य उपसर्जनसंज्ञा भवति अपि च गोस्त्रियोरुपसर्जनस्य (१.२.४८) इति सूत्रेण माला इति स्त्रिलिङ्गशब्दस्य ह्रस्वत्वं भवति) ।
स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु ( ६.३.३४) = भाषितपुंस्कशब्दात् यदा ऊङ्प्रत्ययः न विहितः चेत्, तदा तादृशस्य स्त्रीवाचकशब्दस्य पुंशब्दस्यैव रूपं भवति परन्तु समानाधिकरणे पूरणार्थकप्रत्ययान्तः अथवा प्रियादिः स्त्रीलिङ्गशब्दे, उत्तरपदे परे न भवति। अर्थात् यः शब्दः स्त्रीलिङ्गे, पुंलिङ्गे च प्रयुक्तः अस्ति, तथा च तयोः अनन्तरम् ऊङ् प्रत्ययः न विहितः चेत्, तदा स्त्रीलिङ्गवाचकशब्दः पुंलिङ्गवत् भवति। परन्तु उत्तरपदे पूरणीसंख्यावाचकः स्त्रीलिङ्गशब्दः अथवा प्रियादिगणे पठितः स्त्रीलिङ्गशब्दः अस्ति चेत् पुंवद्भावः न भवति। पुंसि इति पुंवत्। भाषितः पुमान् येन स भाषितपुंस्कः बहुव्रीहिः। तस्मात् भाषितपुंस्काद्। न ऊङ् ऊङोऽभावः अनूङ्। भाषितपुंस्काद् अनूङ् यस्यां सा भाषितपुंस्कादनूङ् तस्य। निपातनात् पञ्चमी इत्यस्य अलुक् अपि षष्ठी इत्यस्य लुक् भवति। अतः भाषितपुंस्कादनूङ् लुप्तषष्ठीकं पदम्। स्त्रियाः षष्ठ्यन्तं, पुंवद् अव्ययपदं, भाषितपुंस्कादनूङ् लुप्तषष्ठ्यन्तं, समानाधिकरने सप्तम्यन्तं, स्त्रियाः सप्तम्यन्तं, पूरणीप्रियादिषु सप्तम्यन्तं, अनेकपदमिदं सूत्रम्। अलुगुत्तरपदे ( ६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः अस्ति। अनुवृत्ति-सहित-सूत्रम्— स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे उत्तरपदे स्त्रियाम् अपूरणीप्रियाऽऽदिषु ।
यथा—
सुन्दरी भार्या यस्य सः = सुन्दरभार्यः । अत्र अनेकमन्यपदार्थे (२.२.२४) इत्यनेन बहुव्रीहिसमासः क्रियते। स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु (६.३.३४) इति सूत्रेण सुन्दरी इति पदस्य पुंवद्भावः भवति। यतो हि सुन्दरी इति शब्दः भाषितपुंस्कपदम् अस्ति। अपि च उत्तरपदं भार्या इति स्त्रीलिङ्गपदं अस्ति परन्तु उत्तरपदं पूरणप्रत्ययान्तं अथवा प्रियादि-पदं नास्ति । तदनन्तरं गोस्त्रियोरुपसर्जनस्य (१.२.४८) इति सूत्रेण उपसर्जनसंज्ञकस्य भार्या इति स्त्रिलिङ्गशब्दस्य ह्रस्वत्वं भवति । अतः सुन्दरभार्यः इति समस्तपदं भवति।
नद्यृतश्च (५.४.१५३) = नद्यन्तात् बहुव्रीहेः ऋकारान्तात् च कप् प्रत्ययो भवति। नदीसंज्ञक-उत्तरपदे, ह्रस्वऋकारान्त-उत्तरपदे बहुव्रीहेः समासान्तः कप् प्रत्ययः भवति। नदी च ऋत् च तयोः समाहारद्वन्द्वो नद्यृत्, तस्मात् नद्यृतः। नद्यृतः पञ्चम्यन्तं, चाव्ययम्। समासान्ताः (५.४.६८), ङ्याप्प्रातिपदिकात् (४.१.१), प्रत्ययः (३.१.१), परश्च (३.१.२), एतेषां सूत्राणाम् अधिकारः। उरः प्रभृतिभ्यः कप् ( ५.४.१५१) इत्यस्मात् सूत्रात् कप् इत्यस्य अनुवृत्तिः । बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् (५.४.१३३) इत्यस्मात् सूत्रात् बहुव्रीहौ इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहित-सूत्रं— बहुव्रीहौ नद्यऋत् च ङ्याप्प्रातिपदिकात् कप् समासान्तः प्रत्ययः परश्च।
यथा—
बह्व्यः कुमार्य: यस्य सः = बहुकुमारीकः देशः
बहु बन्धूः यस्य सः = बहुबन्धूकः।
सुन्दरी पत्नी यस्य सः = सन्दरीपत्नीकः।
न कोपधायाः (६.३.३७) = कोपधायाः स्त्रियाः पुंवद्भावो न भवति। ककार उपधा यस्याः सा कोपधा, तस्याः कोपधा, तस्याः कोपधायाः। नाव्ययं, कोपधायाः षष्ठ्यन्तम्। स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु इत्यस्मात् सूत्रात् स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् अनयोः पदयोः अनुवृत्तिः भवति। अलुगुत्तरपदे (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहित-सूत्रं— कोपधायाः स्त्रियाः न पुंवद्भाषितपुंस्कादनूङ् उत्तरपदे ।
यथा— पाचिकाभार्यः। रसिकाभार्यः । कारिकाभार्यः। मद्रिकाभार्यः। वृजिकाभार्यः। मद्रिकाकल्पा। वृजिकाकल्पा। मद्रिकायते। वृजिकायते। मद्रिकामानिनी। वृजिकामानिनी।
५)संख्यापूर्वपदबहुव्रीहिसमासः
संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये (२.२.२५) = सङ्ख्येये या सङ्ख्या वर्तते तया सह अव्ययाऽसन्नादूराधिकसङ्ख्याः समस्यन्ते बहुव्रीहिश्च समासो भवति।अव्ययम्, आसन्नम्, अदूरम्, अधिकं संख्या इत्यादिनां शब्दानां सङ्ख्येये इत्यस्मिन् अर्थे या संख्या वर्तते तया सह विकल्पेन बहुव्रीहिसमासः भवति। अव्ययं च आसन्नश्च अदूरश्च अधिकश्च संख्या चेति अव्यासन्नादूराधिकसंख्याः इतरेतरयिगद्वन्द्वः। संख्यया तृतीयान्तम्, अव्ययासन्नादूराधिकसंख्याः प्रथमान्तं, संख्येये सप्तम्यन्तम्। सुबामन्त्रिते पराङ्गवत् स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। शेषो बहुव्रीहिः (२.२.२३) इत्यस्मात् सूत्रात् बहुव्रीहिः इत्यस्य अनुवृत्तिः। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। अनुवृत्ति-सहित-सूत्रं— संख्येये अव्ययासन्नादूराधिकसंख्याः सुपः संख्यया सुपा सह विभाषा बहुव्रीहिः समासः।
एतौ द्वौ शब्दौ संख्यया तथा संख्या- एक, द्वि, त्रि इत्यादिनां शब्दानां ग्रहणं कुरुतः। तदनुसारं संख्येयार्थे संख्याबोधकशब्दः अव्ययवाची शब्दः एवम् आसन्नम् इत्यादभिः शब्दैः सह समासं प्राप्य बहुव्रीहिसमासः भवति।
संस्कृतभाषायां सङ्ख्याः अर्थद्वयं बोधयन्ति- सङ्ख्यं सङ्ख्येयं चेति। सङ्ख्येयः सङ्ख्यया परिच्छिन्नं वस्तु बोधयति। सः च विशेष्यनिघ्नः भवति। यथा एकः पुरुषः, एका महिला, एकं पुष्पम् इत्यादि। किन्तु आदश सङ्ख्येयार्थकत्वम् एव। विशंत्याद्याः तु सङ्ख्यां सङ्ख्येयं च बोधयन्ति। सङख्येयबोधकता यथा – विंशति पुरुषाः, नवतिः पुस्तकानि, त्रिंशत् महिलाः इत्यादयः। सङ्ख्याबोधकता यथा- पुरुषाणां विंशतिः, पुस्तकानां नवतिः महिलानां त्रिंशत् इत्यादयः। तात्पर्यं यत् – विशेषणत्वेन सङ्ख्येयार्थत्वेन उपयुज्यमानाः विंशत्याद्याः सङ्ख्याः नित्यैकवचनान्ताः। सङ्ख्यार्ह्ते उपयुज्यमानानां द्विवचन्बहुवचनान्तता सम्भवति। यस्य द्विवचनान्तता अस्ति सा विशेषणत्वेन उपयोक्तुं न शक्या।
यथा—
दशानां समीपे ये सन्ति ते उपदशाः। दश-संख्या समीपे या संख्या अस्ति तां संख्यां वयम् उपदशाः इति वदामः। तादृशी संख्या न नव अस्ति न वा एकादशः। अलौकिक-विग्रहवाक्यं – दशन् +आम् +उप – अव्ययीभावसमासं बाधयित्वा संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये (२.२.२५) इति सूत्रेण बहुव्रीहिसमासः भवति। सुब्लुक् भूत्वा दशन्+उप इति भवति। प्रथमान्त-अव्ययपदेन निर्षिटं उप शब्दस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इत्यनेन उपसर्जनसंज्ञां कृत्वा उपसर्जनं पूर्वम् ( २.२.३०) इत्यनेन तस्य पूर्वनिपातः भवति । उपदशन् इति भवति। बहुव्रीहौ संख्येये डजबहुगणात् ( ५.४.७३) इति सूत्रेण डच् इति समासान्तप्रत्यय; विधीयते। एतत् सूत्रं वदति - यस्य बहुव्रीहिसमासस्य उत्तरपदं "बहु" तथा "गुण" एतौ शब्दौ विहाय कश्चन अन्यः सङ्ख्यावाचकः शब्दः अस्ति, तस्मात् "डच्" इति समासान्तप्रत्ययः भवति । उपदशन्+डच् → डच् इति प्रत्ययस्य अनुबन्धलोपानन्तरम् अ इति अवशिष्यते।
उपदशन्+अ → अत्र टेः (६.४.१४३) इत्यनेन भसंज्ञकस्य अङ्गस्य टि-भागस्य डित्-प्रत्यये परे लोपः भवति । उपदशन् इत्यस्य टि भागः अस्ति अन् इति, तस्य लोपः भवति। उपदश्+ अ → उपदश इति भवति। प्रातिपदिकात् सुबुत्पत्तिं कृत्वा उपदशाः इति रूपं सिद्धं भवति। दशन् इति शब्दः नित्यबहुवचनान्तशब्दः अस्ति।
धेयं यत् – विशंतिः इत्यादयः शब्दाः संख्या, संख्येय अनयोः अर्थे भवन्ति अपि च नित्य-एकवचनान्ताः भवन्ति। विंशतिः इत्यस्मात् आरभ्या नवति इति शब्दपर्यन्तं एते शब्दाः नित्य-स्तत्रीलिङ्गे भवन्ति।
विंशति ब्राह्मणाः, त्रिंशत् छात्राः, ब्राह्मणानां विंशतिः इत्यादयः । विंशतिः इत्यादयः शब्दाः संख्यायाः बोधकाः अतः द्विवचने अपि च बहुवचने अपि भवन्ति। यथा गवां द्वे विंशती। अस्मिन् वाक्ये चतुर्विंशतेः गवां बोधनं भवति।एवमेव गवां तिस्रः विंशतयः इति वाक्य अस्ति। एतत् वाक्यं षष्ठी गाः बोधयति।
संख्यायाः विषये अमरकोशस्य निम्नलिखितः प्रमाणिकः श्लोकः प्रसिद्धः अस्ति।
विंश्त्याद्याः सदैकत्वे संख्याः संख्येयसंख्ययोः।
संख्यार्थे द्विबहुत्वे स्तः तासु चाऽऽनवतेः स्त्रियः॥
अर्थात् विंशतिः इत्यादयः शब्दाः संख्यावाची संख्येय अपि च संख्यार्थे सदा एकवचनान्तः भवन्ति । परन्तु संख्यार्थे द्विवचनान्तः अपि बहुवचनान्तः च भवन्ति। विंशति इत्यस्मात् आरभ्य नवतिः पर्यन्तम् एते सर्वे शब्दाः नित्यस्त्रीलिङ्गे भवन्ति।
बहुव्रीहौ संख्येये डजबहुगणात् (५.४.७३) = बहुव्रीहिसमासस्य उत्तरपदं "बहु" तथा "गुण" एतौ शब्दौ विहाय कश्चन अन्यः सङ्ख्यावाचकः शब्दः अस्ति चेत्, तस्मात् गणनायां गम्यमानायां "डच्" इति समासान्तप्रत्ययः भवति ।
शेषादिविभाषा (५.४.१५४) = यस्माद् बहुव्रीहेः समासान्तः प्रत्ययः न विहितः सः शेषः तस्मात् विकल्पेन कप् प्रत्ययः भवति। यथा – महद् यशः यस्य सः =महायशस्कः/ महायशाः (यशस् इति प्रातिपदिकम्) ।
ति विंशतेर्डिति (६.४.१४२) = भसंज्ञकस्य "विंशति" शब्दस्य "ति" इत्यस्य डित्-प्रत्यये परे लोपः भवति । ड् इत् यस्य सः डित्, तस्मिन् डिति। ति इति लुप्तविभक्तिकं पदं, विशंतेः षष्ठ्यन्तं, डिति सप्तम्यन्तम्। अल्लोपोऽनः (६.४.१३४) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रं– विंशतेः ति लोपः डिति।
यथा—
i) विंशतेः आसन्नाः = आसन्नविंशाः । अलौकिकविग्रहवाक्यं – विंशति+ङस् + आसन्न+जस् → संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये (२.२.२५) सूत्रेण बहुव्रीहिसमासः भूत्वा, समासप्रयुक्तस्य प्रातिपदिकस्य सुप् प्रत्ययस्य लुक् भवति → विंशति+ आसन्न भवति। आसन्न इति शब्दः प्रथमान्ते अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इत्यनेन उपसर्जनसंज्ञां कृत्वा उपसर्जनं पूर्वम् ( २.२.३०) इत्यनेन तस्य पूर्वनिपातः भवति । आसन्नविंशति इति भवति। बहुव्रीहौ संख्येये डजबहुगणात् ( ५.४.७३) इति सूत्रेण डच् इति समासान्तप्रत्यय; विधीयते। एतत् सूत्रं वदति - यस्य बहुव्रीहिसमासस्य उत्तरपदं "बहु" तथा "गुण" एतौ शब्दौ विहाय कश्चन अन्यः सङ्ख्यावाचकः शब्दः अस्ति, तस्मात् "डच्" इति समासान्तप्रत्ययः भवति । आसन्नविंशति+डच् → डच् इति प्रत्ययस्य अनुबन्धलोपानन्तरम् अ इति अवशिष्यते।आसन्नविंशति+अ → अत्र ति विंशतेर्डिति (६.४.१४२) इत्यनेन भसंज्ञकस्य अङ्गस्य ति-भागस्य डित्-प्रत्यये परे लोपः भवति । आसन्नविंश+अ → अत्र अतो गुणे (६.१.९७) इति सूत्रेण अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्। अतः आसन्नविंशः इति रूपं सिद्धं भवति।
ii)त्रिंशतः अदूराः = अदूरत्रिंशाः । यथा पूर्वं कार्याणि भवन्ति। अन्ते अदूरत्रिंशत्+ डच् इति प्रत्ययस्य अनुबन्धलोपानन्तरम् अ इति अवशिष्यते। अदूरत्रिंशत्+अ → अत्र टेः (६.४.१४३) इत्यनेन भसंज्ञकस्य अङ्गस्य टि-भागस्य डित्-प्रत्यये परे लोपः भवति । अदूरत्रिंशत् इत्यस्य टि भागः अस्ति अत् इति, तस्य लोपः भवति। अदूरत्रिंश+ अ → अत्र अतो गुणे (६.१.९७) इति सूत्रेण अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्। अतः अदूरत्रिंश इति प्रातिपदिकात् सुबुत्पत्तिं कृत्वा उपदशाः इति रूपं सिद्धं भवति प्रथमाबहुवचने।
iii) द्वौ वा त्रयो वा = द्वित्राः । अलौकिकविग्रहवाक्यं – द्वि+औ +त्रि+जस् → संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये (२.२.२५) सूत्रेण बहुव्रीहिसमासः भूत्वा, समासप्रयुक्तस्य प्रातिपदिकस्य सुप् प्रत्ययस्य लुक् भवति → द्वि+ त्रि भवति। बहुव्रीहौ संख्येये डजबहुगणात् ( ५.४.७३) इति सूत्रेण डच् इति समासान्तप्रत्यय; विधीयते। एतत् सूत्रं वदति - यस्य बहुव्रीहिसमासस्य उत्तरपदं "बहु" तथा "गुण" एतौ शब्दौ विहाय कश्चन अन्यः सङ्ख्यावाचकः शब्दः अस्ति, तस्मात् "डच्" इति समासान्तप्रत्ययः भवति । द्वित्रि+डच् → डच् इति प्रत्ययस्य अनुबन्धलोपानन्तरम् अ इति अवशिष्यते।द्वित्रि+अ → अत्र टेः (६.४.१४३) इत्यनेन भसंज्ञकस्य अङ्गस्य टि-भागस्य डित्-प्रत्यये परे लोपः भवति । द्वित्रि इत्यस्य टि भागः अस्ति इकारः, तस्य लोपः भवति। द्वित्र्+अ → द्वित्र इति प्रातिपदिकात् सुबुत्पत्तिं कृत्वा द्वित्राः इति रूपं सिद्धं भवति प्रथमाबहुवचने। द्वित्राः आनीयन्ताम्- अस्मिन् वाक्ये द्वौ अपि आनयितुं शक्नुमः अथवा त्रीन् अपि आनयितुं शक्नुमः । यदि द्वयोः आनयनम् एव भवति कथं बहुवचनप्रयोगः भवति? अस्य समाधानं महाभाष्ये उच्यते यत् अनिश्चये बहुवचनं प्रयोक्तव्यम् अर्थात् अनिश्चयस्य कारणेन बहुवचनस्य प्रयोगः करणीयः।
iv)द्विरावृत्ता दश = द्विदशाः, अर्थात् विंशतिरित्यर्थः । अलौकिकविग्रहवाक्यं – द्वि+औ +दशन्+जस् → संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये (२.२.२५) सूत्रेण बहुव्रीहिसमासः भूत्वा, समासप्रयुक्तस्य प्रातिपदिकस्य सुप् प्रत्ययस्य लुक् भवति → द्वि+ दशन् भवति। बहुव्रीहौ संख्येये डजबहुगणात् ( ५.४.७३) इति सूत्रेण डच् इति समासान्तप्रत्यय; विधीयते। एतत् सूत्रं वदति - यस्य बहुव्रीहिसमासस्य उत्तरपदं "बहु" तथा "गुण" एतौ शब्दौ विहाय कश्चन अन्यः सङ्ख्यावाचकः शब्दः अस्ति, तस्मात् "डच्" इति समासान्तप्रत्ययः भवति । द्विदशन्+डच् → डच् इति प्रत्ययस्य अनुबन्धलोपानन्तरम् अ इति अवशिष्यते।द्विदशन्+अ → अत्र टेः (६.४.१४३) इत्यनेन भसंज्ञकस्य अङ्गस्य टि-भागस्य डित्-प्रत्यये परे लोपः भवति । द्विदशन् इत्यस्य टि भागः अस्ति अन् इति भागः तस्य लोपः भवति। द्वितदश्+अ → द्विदश् इति प्रातिपदिकात् सुबुत्पत्तिं कृत्वा द्विदशाः इति रूपं सिद्धं भवति प्रथमाबहुवचने।
दिङ्नामान्यन्तराले (२.२.२६) = दिङ्नामानि सुबन्तानि अन्तराले वाच्ये समस्यन्ते, बहुव्रीहिश्च समासो विकल्पेन भवति। अन्तराले इत्युक्ते दिशानां मध्यार्थे गम्यमाने, दिशानां नामानां परस्परं विकल्पेन बहुव्रीहिश्च समासः भवति। ।दिशां नामानि दिङ्नामानि। दिङ्नामानि प्रथमान्तम्, अन्तराले सप्तम्यन्तम्। सुबामन्त्रिते पराङ्गवत् स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। शेषो बहुव्रीहिः (२.२.२३) इत्यस्मात् सूत्रात् बहुव्रीहिः इत्यस्य अनुवृत्तिः। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। अनुवृत्ति-सहित-सूत्रं— अन्ताराले दिङ्नामानि सुपः सुपा सह विभाषा बहुव्रीहिः समासः।
यथा—
दक्षिणस्याश्च पूर्वस्याश्च दिशोऽन्तरालं =दक्षिणपूर्वा। दक्षिणदिशः अपि च पूर्वदिशः मध्यभागः इति अर्थः।
तत्र तेनेदमिति सरूपे (२.२.२७) तत्र इति सप्तम्यन्ते सरूपे पदे तेनेति च तृतीयान्ते इदम् इति एतस्मिन्नर्थे समस्येते, बहुव्रीहिश्च समासो भवति।ग्रहणस्य विषये सप्तम्यन्तस्य प्रयोगः भवति तथा प्रहारणस्य विषये समानरूपस्य तृतीयान्तस्य पदस्य एतत् युद्धं प्रवृत्तं इत्यस्मिन् अर्थे विकल्पेन समासः भवति। कर्मव्यतिहारं( परिवर्तनं) द्योतयितुं बहुव्रीहिसमासः भवति। अस्मिन् सूत्रे विशेषप्रकारस्य बहुव्रीहिसमासः भवति। सूत्रे तत्र इति पदं द्वयोः सप्तम्यन्तयोः पदयोः बोधकः अस्ति। एवमेव तेन इति पदं द्वयोः तृतीयान्तयोः पदयोः बोधकः अस्ति। सरूपे इति पदं प्रथमा विभक्तेः द्विवचने प्रयुक्तम् अस्ति। सरूपे इति पदम् इत्यस्य विशेषणम् अस्ति। समानं सूपं ययोस्ते सरूपे, बहुव्रीहिः। तत्र अव्ययपदं तेन तृतीयान्तम्, इदं प्रथमान्तम्, इति अव्ययं, सरूपे सप्तम्यन्तम्। सुबामन्त्रिते पराङ्गवत् स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। शेषो बहुव्रीहिः (२.२.२३) इत्यस्मात् सूत्रात् बहुव्रीहिः इत्यस्य अनुवृत्तिः। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। अनुवृत्ति-सहित-सूत्रं— तत्र सरूपे इदं सुप् तेन सुपा सह विभाषा बहुव्रीहिः समासः।
यथा—
केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तं =केशाकेशि। परस्पराणां केशानां ग्रहणेन एतत् युद्धं प्रवृत्तम् अस्ति। एतस्मिन् अर्थे समासः क्रियते केशाकेशि इति शब्दः उत्पन्नः। केशेषु केशेषु – अत्र द्वयोः सप्तम्यन्तपदयोः समानरूपम् विद्यते। अलौकिकविग्रहवाक्यं – केश+सुप्+केश+सुप् → तत्र तेनेदमिति सरूपे (२.२.२७) सूत्रेण बहुव्रीहिसमासः भूत्वा, समासप्रयुक्तस्य प्रातिपदिकस्य सुप् प्रत्ययस्य लुक् भवति → केश+केश भवति। इच् कर्मव्यतिहारे (५.४.१२७) इति सूत्रेण कर्मव्यतिहारे यो बहुव्रीहिः तस्मादिच् प्रत्ययो भवति। इच् प्रत्यये इकारः अवशिष्यते → केश+केश+इ भवति। तत्पश्चात् यस्येति च ( ६.४.१४८) इति सूत्रेण भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति । अतः अकारस्य लोपानन्तरं केश+केश्+इ → केश+केशि भवति। अन्येषामपि दृश्यते ( ६.३.१३७) इति सूत्रेण अन्येषाम् अपि दीर्घो दृश्यते, स शिष्टप्रयोगादनुगन्तव्यः। यस्य दीर्घत्वं विहितं, दृश्यते च प्रयोगे, तदनेन कर्तव्यम्। अतः केशाकेशि इति भवति। तिष्ठद्गुप्रभृतीनि च ( २.१.१७) इति सूत्रेण तिष्ठद्गुप्रभृतीनि शब्दरूपाणि अव्ययीभावसंज्ञानि भवन्ति। अतः अव्ययिभावः ( २.१.५) इति सूत्रण अव्ययीभावसंज्ञा भवति। अव्ययीभावश्च (२.४.१८) अव्ययीभावश्च समासो नपुंसकलिङ्गो भवति।केशाकेशि इत्यस्मात् सुबुत्पत्तिं कृत्वा, तदनन्तरम् अव्ययादाप्सुपः ( २.४.८२) इत्यनेन अव्ययात् परस्य आप्-प्रत्ययानाम् सुप्-प्रत्ययानाम् च लुक्-भवति । अस्मात् सूत्रात् सुप् इत्यस्य लुक् भवति।केशाकेशि इति समस्तपदं सिद्धं भति।
एवमेव दण्डैश्च दण्डैश्च प्रहृत्य इदं युद्धं प्रवृत्तं = दण्डादण्डि।
मुष्टिभिश्च मुष्टिभिश्च प्रहृत्य इदं युद्धं प्रवृत्तं =मुष्टीमुष्टि।
यस्येति च (६.४.१४८) = भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति । इश्च अश्च यम्, समाहारद्वन्द्वः तस्य यस्य। यस्य षष्ठ्यन्तम्, ईति सम्प्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्। भस्य (६.४.१२९) इत्यस्य अधिकारः । ढे लोपोऽकद्र्वाः ( ६.४.१४७) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः ।अङ्गस्य (६.४.१) इत्यस्य अधिकारः । नस्तद्धिते (६.४.१४४) इत्यस्मात् सूत्रात् तद्धिते इत्यस्य अनुवृत्तिः। अनुवृत्ति-सहितसूत्रम्— भस्य अङ्गस्य यस्यच लोपः ईति तद्धिते ।
६) सहपूर्वपदबहुव्रीहिसमासः
तेन सहेति तुल्ययोगे (२.२.२८) = तुल्ययोगे वर्तमानं तेन इति तृतीयान्तेन सह समस्यते, बहुव्रीहिश्च समासो भवति। सह इति अव्ययं तुल्ययोगे वर्तमाने सति तस्य तृतीयान्तेन सुबन्तेन सह बहुव्रीहिसमासः भवति विकल्पेन। तुल्ययोगः इति शब्दः विशेषार्थं सूचयति। तदनुसारेण द्वयोः क्रिययोः एकत्र साधयतः अव्ययस्य तृतीयान्तेन प्रातिपदिकेन सह समासः क्रियते। तुल्ययोगेन युगपत्कालिक-क्रियां ज्ञातुं शक्नुमः। तुल्येन योगस्तुल्ययोगस्तस्मिन् तुल्ययोगे। तेन तृतीयान्तं, सह अव्ययम्, इति अव्ययं, तुल्ययोगे सप्तम्यन्तम्। सुबामन्त्रिते पराङ्गवत् स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। शेषो बहुव्रीहिः (२.२.२३) इत्यस्मात् सूत्रात् बहुव्रीहिः इत्यस्य अनुवृत्तिः। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। अनुवृत्ति-सहित-सूत्रं— तुल्ययोगे सह सुप् तेन सुपा सह विभाषा बहुव्रीहिः समासः।
यथा—
पुत्रेण सह = सपुत्रः, पिता सहपुत्रः वा आगतः। अलौकिकविग्रहवाक्यं – पुत्र+ टा +सह → तेन सहेति तुल्ययोगे (२.२.२८) सूत्रेण बहुव्रीहिसमासः भूत्वा, समासप्रयुक्तस्य प्रातिपदिकस्य सुप् प्रत्ययस्य लुक् भवति, सह इति शब्दस्य पुर्वनिपातः भूत्वा→ सह+ पुत्र भवति । वोपसर्जनस्य (६.३.८२) इति सूत्रेण सह शब्दस्य स्थाने विकल्पेन स इति आदेशः भूत्वा सपुत्र इति प्रातिपदिकम्। सुप् प्रत्ययं योजयित्वा सपुत्रः इति पदं निष्पन्नम्। यस्मिन् पक्षे स इति आदेशः न भवति तस्मिन् पक्षे सहपुत्रः इति तिष्ठति।
वोपसर्जनस्य (६.३.८२) = बहुवृहिसमासस्य अवयवे सह शब्दस्य स्थाने विकल्पेन स इति आदेशः भवति उत्तरपदे परे। वा अव्ययम्, उपसर्जनस्य तृतीयान्तं। अलुगुत्तरपदे (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः। सहस्य सः संज्ञायाम् (६.३.७८) इत्यस्मात् सूत्रात् सहस्य सः, इत्यनयो पदयोः अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रं— उपसर्जनस्य सहस्य सः वा उत्तरपदे।
यथा -सपुत्रः, सहपुत्रः।
प्रकृत्याऽऽशिष्यगोवत्सहलेषु (६.३.८३) = बहुवृहिसमासस्य अवयवे सह शब्दस्य प्रकृतिभावः भवति आशीर्वादार्थे।
यथा- स्वस्ति राज्ञे सहपुत्राय। पुत्रेण सहित राज्ञः कल्याणं भवतु। अत्र सहपुत्र इति एव समासः भवति। सह स्थाने स इति आदेश; विकल्पेन न भवति प्रकृत्याऽऽशिष्यगोवत्सहलेषु (६.३.८३) इत्यनेन।सह इति शब्दः प्रकृतिभावे तिष्ठति यतोहि स्वस्ति इति शब्दः आशीर्वादार्थे अस्ति।
सप्तमीविशेषणे बहुव्रीहौ (२.२.३५) =सप्तम्यन्तं विशेषणं च बहुव्रीहिसमासे पूर्वं प्रयोक्तव्यम्। सप्तमी च विशेषणञ्च तयोरितरेतरयोगद्वन्द्वः सप्तमीविशेषणे। सप्तमीविशेषणे प्रथमान्तं, बहुव्रीहौ सप्तम्यन्तं, द्विपदं सूत्रम्। उपसर्जनं पूर्वम् (२.२.३०) इत्यस्यमात् सूत्रात् पूर्वम् इत्यस्य अनुवृत्तिः । प्राककडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रं—सप्तमीविशेषणे पूर्वं बहुव्रीहौ समासे ।
यथा – कण्ठे कालः यस्य सः = कण्ठकालः । अलौकिकविग्रहवाक्यं – कण्ठ+ङि+काल+सु → अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः इति वार्तिकेन बहुव्रीहिसमासः भवति। कण्ठे इति सप्तम्यन्तपदस्य पूर्वप्रयोगः भवति सप्तमीविशेषणे बहुव्रीहौ (२.२.३५) इति सूत्रेण। प्रातिपदिकसंज्ञा विधीयते, सुप् प्रत्ययस्य लुक् भवति परन्तु हलदन्तात् सप्तम्याः संज्ञायाम् ( ६.३.९) इति सूत्रेण सप्तमी-विभक्तेः अलुक् भवति, अर्थात् लुक् इति कार्यस्य निषेधः भवति। उत्तरपदे विद्यमानस्य सु इति प्रत्ययस्य लुक् भवति तत्र बाधा नास्ति। कण्ठेकालः इति समस्तपदं सिद्धम्।
कण्ठे नीलः यस्य सः = नीलकण्ठः । यथापूर्वं प्रक्रिया चिन्तनीया।
चित्राः गावः यस्य सः = चित्रगुः अत्र अनेकमन्यपदार्थे (२.२.२४) इत्यनेन बहुव्रीहिसमासः क्रियते। स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु (६.३.३४) इति सूत्रेण चित्र इति पदस्य पुंवद्भावः भवति। यतो हि चित्र इति शब्दः भाषितपुंस्कपदम् अस्ति। अपि च उत्तरपदं गो इति स्त्रीलिङ्गपदं अस्ति परन्तु उत्तरपदं पूरणप्रत्ययान्तं अथवा प्रियादि-पदं नास्ति । तदनन्तरं गोस्त्रियोरुपसर्जनस्य (१.२.४८) इति सूत्रेण उपसर्जनसंज्ञकस्य गो इति स्त्रिलिङ्गशब्दस्य ह्रस्वत्वं भवति । अतः चित्रगुः इति समस्तपदं भवति।
हलदन्तात् सप्तम्याः संज्ञायाम् (६.३.९) = हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति। यथा -युधिष्ठिरः। त्वचिसारः।
अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः इति वार्तिकेन यत्र भिन्नविभक्तिनां पदानाम् अपि समासः भवति, केवलं समानाधिकरणस्य अर्थात् समानविभक्तिकत्वस्य एव आवश्यकता नास्ति।
सर्वनामसंख्ययोरुपसंख्यानम् इति वार्तिकेन बहुव्रीहिसमासे सर्वनामसंज्ञक-शब्दस्य, संख्यावाचक-शब्दस्य च पूर्वनिपातः भवतः।
यथा – सर्वः श्वेतो यस्य सः = सर्वश्वेतः । अत्र सर्व इति सर्वनामसंज्ञक-शब्दस्य पूर्वनिपातः जातः सर्वनामसंख्ययोरुपसंख्यानम् इति वार्तिकेन।
त्रयः शुक्लाः यस्य सः = त्रिशुक्लः। अत्र त्रय इति संख्यावाचक-शब्दस्य पूर्वनिपातः जातः सर्वनामसंख्ययोरुपसंख्यानम् इति वार्तिकेन।
द्वौ अन्यौ यस्य सः = द्व्यन्यः। सर्वनामसंज्ञक-शब्दस्य, संख्यावाचक-शब्दस्य च यदा परस्परं बहुव्रीहिसमासः भवति तदा संख्यावाचकस्य पूर्वनिपातः भवति मिथोऽनयोः समासे संख्या पूर्वं शब्दपरविप्रतिषेधात् इति वार्तिकेन।
संख्याया अल्पीयस्याः इति वार्तिकेन यदा द्वयोः संख्यावाचकयोः समासः भवति चेत् तदै अल्पवाचिनः संख्यावाचकस्य पूर्वनिपातः भवति। यथा -द्वौ वा त्रयो वा = द्वित्राः । अल्पसंख्यावाची द्वि शब्दस्य पूर्वनिपातः भवति।
द्वौ च दश च = द्वादश। अल्पसंख्यावाची द्वि शब्दस्य पूर्वनिपातः भवति। द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः इति वार्तिकेन आत्वं भूत्वा द्वादशः इति समस्तपदं भवति।
वा प्रियस्य इति वार्तिकेन यदा प्रिय-शब्देन सह बहुव्रीहिसमासः भवति तदा प्रिय शब्दस्य विकल्पेन पूर्वनिपातः भवति। यथा – गुडः प्रियो यस्य सः = गुडप्रियः, प्रियगुडः।
'निष्ठा (२.२.३६) ' = बहुव्रीहिसमासे निष्ठाप्रत्ययान्त-शब्दस्य पूर्वप्रयोगः भवति ।निष्ठा प्रथमान्तमेकपदमिदं सूत्रम्। तत्र प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति; अनेन निष्ठाप्रत्ययान्तम् इत्यर्थः निष्पन्नः | सप्तमीविशेषणे बहुव्रीहौ (२.२.३५) इत्यस्यमात् सूत्रात् बहुव्रीहौ इत्यस्य अनुवृत्तिः भवति। उपसर्जनं पूर्वम् (२.२.३०) इत्यस्यमात् सूत्रात् पूर्वम् इत्यस्य अनुवृत्तिः भवति। । प्राककडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रं—निष्ठा पूर्वं बहुव्रीहौ समासे ।
क्तक्तवतू निष्ठा (१.१.२६) इति सूत्रेण क्त प्रत्ययः अपि च क्तवतु प्रत्ययः, तौ द्वौ प्रत्ययौ निष्ठासंज्ञकौ स्तः। निष्ठा (२.२.३६) इति सूत्रेण बहुव्रीहिसमासे क्त्प्रत्यययान्तस्य, क्तवतुप्रत्ययान्तस्य च पूर्वनिपातः भवति।
यथा –
कृतं कृत्यं येन सः – कृतकृत्यः ।
युक्तओ योगो यस्य सः = युक्तयोगः।
जातिकालसुखादिभ्यः परा निष्ठा वाच्या- अनेन वार्तिकेन जातिवाचक: शब्दः, कालवाचकः शब्दः, सुखादिगणपठितः शब्दः यदि समासस्य घटकः अस्ति तर्हि तत्र निष्ठाप्रत्ययान्त-शब्दस्य परप्रयोगः भवति। इदं वार्तिकं निष्ठा (२.२.३६) इति सूत्रस्य अपवादः अस्ति। यथा – सारङ्गो जग्धो यया = सारङ्गजग्धी। अत्र जग्ध इति प्रातिपदिकं क्तप्रत्ययान्तम् अस्ति। जग्ध इति शब्दस्य निष्ठा (२.२.३६) इति सूत्रेण प्राप्तस्य पूर्वनिपातस्य बाधकम् अस्ति जातिकालसुखादिभ्यः परा निष्ठा वाच्या इति वार्तिकम्। अनेन वार्तिकेन निष्ठान्तस्य परनिपातनं भवति यतो हि सारङ्ग-शब्दः जातिवाचकः अस्ति।
वाहिताग्न्यादिषु (२.२.३७) = आहिताग्न्यादिषु निष्ठाप्रत्ययान्तं पूर्वं वा प्रयोक्तव्यम्। आहितागिनरादिर्येषां ते आहितागन्याद्यस्तेषु आहितागन्यादिषु। वाव्ययम्, आहितागन्यादिषु सप्तम्यन्तम्। निष्ठा (२.२.३६) इत्यस्य संपूर्णा अनुवृत्तिः । सप्तमीविशेषणे बहुव्रीहौ (२.२.३५) इत्यस्यमात् सूत्रात् बहुव्रीहौ इत्यस्य अनुवृत्तिः भवति। उपसर्जनं पूर्वम् (२.२.३०) इत्यस्यमात् सूत्रात् पूर्वम् इत्यस्य अनुवृत्तिः भवति। । प्राककडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रं— आहिताग्न्यादिषु निष्ठा पूर्वं बहुव्रीहौ समासे वा ।
आहिताग्नादिगणे एते शब्दाः पठिताः – आहिताग्नि, जातपुत्र, जातदन्त, जातश्मश्रु, तैलपीत, घृतपीत, मद्यपित, ऊढभार्य। अयं गणः आकृतिगणः अस्ति।
यथा – आहिताः अग्नयः येन सः = आहिताग्निः, अन्याहितः।
प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ इति वार्तिकेन बहुव्रीहिसमासे आयुधवाचक-शब्दस्य परे निष्ठान्तस्य सप्तम्यन्तस्य पदस्य परप्रयोगः भवति।
असिः उद्यतः येन सः = अस्युद्यतः।
दण्डः पाणौ यस्य सः = दण्डपाणिः । अलौकिकविग्रहवाक्यं – दण्ड+सु+पाणि+ङि → अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः इति वार्तिकेन बहुव्रीहिसमासः भवति। पाणि इति सप्तम्यन्तपदस्य पूर्वप्रयोगः भवति सप्तमीविशेषणे बहुव्रीहौ (२.२.३५) इति सूत्रेण। परन्तु प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ वार्तिकेन तस्य परनिपातः भूत्वा दण्डपाणिः इति समस्तपदं सिद्धं भवति । प्रातिपदिकसंज्ञा विधीयते, सुप् प्रत्ययस्य लुक् भवति परन्तु हलदन्तात् सप्तम्याः संज्ञायाम् ( ६.३.९) इति सूत्रेण सप्तमी-विभक्तेः अलुक् भवति, अर्थात् लुक् इति कार्यस्य निषेधः भवति। उत्तरपदे विद्यमानस्य सु इति प्रत्ययस्य लुक् भवति तत्र बाधा नास्ति। दण्डपाणिः इति समस्तपदं सिद्धम्।
इति बहुव्रीहिसमासः इति विषयः समाप्तः।
Vidhya March 2020