25 - आद्यपतनासमवायिकारणं गुरुत्वं— दलसार्थक्यम्
ध्वनिमुद्रणानि |
---|
१) uttaradesha-saMyogaM-prati-vibhAgaH-kAraNam_+_gurutvalakShaNe-dalasArthakyam_2018-04-21 |
२) gurutvalakShaNe-dalasArthakyam_+_dvividhalakShaNaM-sAmAnyaM-visheShashca_2018-04-28 |
आद्यपतनासमवायिकारणं गुरुत्वम् | असमवायिकारणं किम् ? असमवायिकारणस्य लक्षणद्वयम् अस्ति— समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणत्वम् इति एकं; समवायसम्बन्धावच्छिन्नकार्यतानिरूपितस्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नकारणत्वम् इति द्वितीयम् | अत्र प्रथमं लक्षणं ग्राह्यम् | गुरुत्वलक्षणे आद्यपतनासमवायिकारणम् इत्यस्ति | तर्हि कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः; कारणतावच्छेदकसम्बन्धोऽपि समवायसम्बन्धो भवति असमवायिकारणे गुरुत्वे |
तदाधारेण लक्षणस्वरूपं किं निर्मीयते प्रथमतः ? कार्यम् आद्यपतनं, कार्यतावच्छेदकधर्मः आद्यपतनत्वम् | कार्यतावच्छेदकसम्बन्धः समवायः | तर्हि समवायसम्बन्धावच्छिन्न-आद्यपतनत्वावच्छिन्नकार्यतानिरूपित-समवायसम्बन्धावच्छिन्नकारणताश्रयत्वं गुरुत्वस्य लक्षणम् इति प्रथमतया आपतति |
विद्याधर्यामपि तथैव साक्षात् लिखितं, पृ०स० ११० इत्यस्मिन्— '...अतः समवायसम्बन्धावच्छिन्न-आद्यपतनत्वावच्छिन्नकार्यतानिरूपित-समवायसम्बन्धावच्छिन्नकारणता गुरुत्वे भवति | तादृशकारणताश्रयत्वं गुरुत्वस्य लक्षणम् |' अनन्तरं किन्तु कार्यतायां समवायसम्बन्धावच्छिन्नत्वस्य निष्कासनानन्तरम् ११२ इति पृष्ठे अस्ति यत्— 'एवं च दोषाभावात् गुरुत्वलक्षणे कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न देयमेव इति भाति' | तर्हि अनेन भ्रमो जायते; गुरुत्वलक्षणे कार्यतायां समवायसम्बन्धावच्छिन्नत्वं देयं वा, न देयं वा ?
तत्र दलचिन्तने कृते सति, आद्यपतनत्वावच्छिन्नत्वानुपादाने अवशिष्यते समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता | तत्र च घटस्य असमवायिकारणकृते कपालद्वयसंयोगातिव्याप्तिः | घटनिष्ठकार्यता समवायसम्बन्धावच्छिन्ना; कपालद्वयसंयोगनिष्ठकारणता समवायसम्बन्धावच्छिन्ना | अतः समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता कपालद्वयसंयोगेऽपि अस्ति | तदर्थं गुरुत्वलक्षणे आद्यपतनत्वावच्छिन्नत्वं योजितम् | आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपित-समवायसम्बन्धावच्छिन्नकारणता इति यदा उच्यते, तदा कपालसंयोगे तन्नास्ति | अनेन कपालसंयोगातिव्याप्तिः वारिता |
अधुना कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न दीयते चेत् को दोषः इति प्रश्नः आयाति | आद्यपतनत्वावच्छिन्नत्वस्य योजनेन कपालसंयोगातिव्याप्तेः वारणत्वात् कार्यतायां समवायसम्बन्धावच्छिन्नत्वं नावश्यकम् | तर्हि लक्षणं भवति आद्यपतनत्वावच्छिन्नकार्यतानिरूपित-समवायसम्बन्धावच्छिन्नकारणता | एवं सति असमवायिकारणस्य सामान्यलक्षणं न गच्छति | कुत्रापि च दोषो नास्ति | यदा कार्यतायाम् आद्यपतनत्वावच्छिन्नत्वं निवेश्यते, तदा समवायसम्बन्धावच्छिन्नत्वं देयं नास्त्येव |
एवं चेत् प्रथमतया किमर्थं कार्यतायां समवायसम्बन्धावच्छिन्नत्वं दत्तम् ? आरम्भे आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपित-समवायसम्बन्धावच्छिन्नकारणता इत्युक्तम् | तत्र नावश्यकं चेत्, किमर्थं कार्यतायां समवायसम्बन्धावच्छिन्नत्वं योजितम् ? तत्तु आपाततः आगतम् | कुतः ? मूले तर्कसङ्ग्रहे गुरुत्वलक्षणं किम् ? आद्यपतन-असमवायिकारणं गुरुत्वम् इति | असमवायिकारणम् इति पदम् अस्ति |
तत्र कोऽपि पृच्छति, तर्हि तत्र 'असमवायि' इति मास्तु, केवलम् आद्यपतनकारणं गुरुत्वम् इति भवतु | तदानीं समवायिकारणम् अपि आगच्छति, असमवायिकारणम् अपि आगच्छति, निमित्तकारणमपि आगच्छति | आद्यपतनकारणं तु स्वयं कन्दुकं, तस्य समवायिकारणत्वात् | निमित्तकारणं दण्डादिकम् | अतः कारणविशेषस्य प्रवेशो नास्ति चेत् त्रिविधकारणानि इति कृत्वा अतिव्याप्तिः | तस्य वारणार्थम् असमवायिकारणं वक्तव्यम् |
अपि च यदा 'असमवायिकारणम्' इति पदं मूलवाक्ये (आद्यपतनासमवायिकारणं गुरुत्वम् इत्यस्मिन्) शृणुमः, तदा झटिति 'लक्षणं किम्' इति प्रश्ने किम् आगच्छति ? असमवायिकारणस्य लक्षणं यदस्ति, प्रथमं लक्षणं, मनसि आगच्छत्येव | समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता | कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः, कारणतावच्छेदकसम्बन्धः समवायसम्बन्धः | अतः प्रथमतया यदा लक्षणस्य ऊहां कुर्मः, तदा असमवायिकारणस्य लक्षणं तस्मिन् योजयित्वा वदामः— आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपित-समवायसम्बन्धावच्छिन्नकारणता | मूलवाक्यानुसारम् असमवायिकारणस्य लक्षणं तस्मिन् आगच्छत्येव | तदनन्तरं यदा विचारयामः, तदा पश्यामः यत् कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न दीयते चेदपि कोऽपि दोषो नास्ति |
यतोहि लक्षणं द्विविधतया चिन्तयितुं शक्यते— सामान्यलक्षणं, विशेषलक्षणं च | यथा प्रथमम् असमवायिकारणस्य सामान्यलक्षणं, तदा कस्यचित् असमवायिकारणलक्षणम् इति विशेषलक्षणम् | यथा 'असमवायिकारणस्य किं लक्षणम्' इति एकः प्रश्नः; द्वितीयप्रश्नः 'घटं प्रति कपालद्वयसंयोगः असमवायिकारणं, कपालद्वयसंयोगात्मकं यदसमवायिकारणं, तस्य किं लक्षणम्' इति द्वितीयप्रश्नः | तर्हि अत्र प्रश्नः द्विविधः | 'असमवायिकारणस्य किं लक्षणम्' इति सामान्यप्रश्नः | तत्र सामान्योत्तरं देयं— समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता | अत्र धर्मस्य प्रवेशो नास्ति | सम्बन्धमात्रप्रवेशः | पुनः यदि पृच्छ्यते कपालद्वयसंयोगनिष्ठं यत् घटासमवयिकारणत्वं, तस्य किं लक्षणम् ? अधुना धर्मस्य प्रवेशं कर्तुं शक्यते | कार्यं कारणं च तथा निर्दिष्टं चेत्, वदामः प्रथमतया घटत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता | किन्तु तदा पश्यामः यत् तत्र कार्यतायां समवायसम्बन्धावच्छिन्नत्वस्य आवश्यकता नास्ति |
अन्यत् उदाहरणम् | द्रव्यस्य किं लक्षणम् ? गुणवत्त्वं द्रव्यस्य लक्षणम् | नाम द्रव्यस्य सामान्यलक्षणम् | अधुना पृथिवी द्रव्यम् अस्ति | तर्हि कोऽपि प्रश्नं कुर्यात्— 'पृथिवी इति द्रव्यस्य किं लक्षणम् ?' पृथिव्याः लक्षणं किम् इति अपृष्ट्वा, पृथिवी-द्रव्यस्य लक्षणं किम् इति | नाम पृथिव्यात्मकद्रव्यस्य लक्षणमिति तात्पर्यम् | न्यायप्रवेशे कोऽपि नूतनः अस्ति चेत् जानाति सः यत् पृथिवी द्रव्यम् अस्ति, अतः, विचिन्त्य तादृशप्रश्नं प्रष्टुं शक्नोति | उत्तरदाने पृथिव्यां कश्चन विशेषो वर्तते यत् अन्येभ्यः द्रव्येभ्यः व्यावर्तयति | स च विशेषः गन्धः |
तर्हि पृथिवी-द्रव्यस्य प्रश्ने सति, उत्तरत्वे प्रथमतया विचारयामः यत् द्रव्यस्य लक्षणं गुणवत्त्वं, पृथिव्यां च गन्धः अस्ति इति कृत्वा 'गुणवत्त्वे सति गन्धवत्त्वं पृथिव्याः लक्षणम्' इति | अस्मिन् लक्षणे कश्चन दोषः अस्ति वा ? अव्याप्तिः, अतिव्याप्तिः, असम्भवः इति त्रिषु दोषेषु अन्यतमदोषो वर्तते किम् ? त्रिषु दोषेषु अव्याप्तिर्वा अतिव्याप्तिर्वा असम्भवो वा नास्ति | किन्तु यदा दलचिन्तनं कुर्मः, तदा पश्यामः यत् वस्तुतः गन्धवत्त्वम् इत्येव पर्याप्तम् | गुणवत्त्वम् इत्यस्य आवश्यकता नास्ति |
तर्हि किमर्थम् आरम्भे गुणवत्त्वस्य निवेशनं कृतम् ? यः उत्तरदाता, सः प्रश्नं दृष्ट्वा उत्तरयति | प्रश्नः कीदृशः ? पृथिवी-द्रव्यस्य किं लक्षणम् इति | प्रश्नम् अधिकृत्य द्रव्यस्य सामान्यलक्षणम् आगच्छति एव | पुनः पृथिव्याः कश्चन विशेषः वक्तव्यः, अन्येभ्यः व्यावर्तकः | इति विचारे उत्तरं दत्तं तात्कालिकरूपेण | 'गुणवत्त्वे सति गन्धवत्त्वं पृथिव्याः लक्षणम्' इति | तादृशप्रश्नः अस्ति चेत् तादृशम् उत्तरं भवेत् इति वस्तुतः नास्ति | परन्तु एतादृशप्रश्ने सति, प्रश्नम् अनुसृत्य कोऽपि तादृशम् उत्तरं ददाति चेत्, एवम् उच्यमाने सति अपि सामान्यतया दोषो नास्ति |
अनेन बुद्धं यत् कोऽपि लक्षणं पृच्छति चेत्, तर्हि उत्तरदानप्रयासे तस्य वस्तुनः सामान्यलक्षणं ज्ञायते चेत्, तल्लक्षणं योजयित्वा कमपि अन्यविशेषं योजयित्वा प्रायः दोषो न भवति | किन्तु यदा विचारयामः प्रत्येकं दलस्य प्रयोजनम् अस्ति न वा इति, तदा तु पर्यवसितं किम् ? वस्तुतः गन्धवत्त्वं यत् उक्तं, तत् किमर्थम् उक्तम् ? जलादिभ्यः व्यावर्तनाय | किन्तु पश्चात् चिन्तनावसरे ज्ञातं यत् अयं विशेषः गन्धवत्त्वं न केवलं जलादिकं व्यावर्तयति, अपि तु सर्वेभ्यः अन्येभ्यः व्यावर्तयति | तादृशसामर्थ्यम् अस्ति | अतः अयमेव विशेषः पर्याप्तः | गुणवत्त्वं नापेक्षितम् इति ज्ञात्वा पश्चात् त्यजामः |
मूलं किमस्ति ? आद्यपतनासमवायिकारणं गुरुत्वम् | अनेन गुरुत्वम् असमवायिकारणम् इति अस्माभिः बुद्धम् | तर्हि झटिति किं लक्षणं निर्मीयते ? समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता इति | किन्तु अग्रे सामान्यलक्षणं नापेक्षितं; गुरुत्वरूपस्य विशेषस्य लक्षणं वक्तव्यम् | तर्हि कार्यविशेषः कः ? आद्यपतनम् | अनेन धर्मावच्छेदेकं योजनीयम् | आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपित-समवायसम्बन्धावच्छिन्नकारणता, इति कथनेन त्रिषु दोषेषु कोऽपि दोषो नास्ति | किन्तु यदा विचार्यते, तदा आद्यपतनत्वावच्छिन्न-पद-योजने सति, तस्मिन् तादृशसामर्थ्यम् अस्ति यत् अन्येभ्यः सर्वेभ्यः व्यावर्तयति, यस्मात् कार्यतायां समवायसम्बन्धावच्छिन्नत्वे वैयर्थ्यम् आगतम् | समवायसम्बन्धावच्छिन्नत्वं नावश्यकम् इति चेत्, किमर्थम् आरम्भे संयोजितम् ? प्राप्तम् अस्ति | 'असमवायिकारण'-पद श्रवणे तस्य प्राप्तिरस्ति | अतः दत्तं; परं यदा 'व्यर्थम्' इति बुद्धं, तदा त्यक्तञ्च |
Swarup – April 2018
---------------------------------