02 - प्रातिपदिकत्वम्‌

From Samskrita Vyakaranam
06A---sArvadhAtukaprakaraNaM-kRutsu/02---prAtipadikatvam
Jump to navigation Jump to search
ध्वनिमुद्रणम्‌
2019 वर्गः
१) prAtipadikatvam_2019-11-19
२) अर्थवदधातुरप्रत्ययः-प्रातिपदिकम्‌-iti sUtre-niShedhaH_+_paryudAsa-prasajya-pratiShedhau_2019-11-26  
2014 वर्गः
१) prAtipadikatvam_2014-10-01



प्रातिपदिकं नाम किम्‌ अपि च केन प्रातिपदिकत्वं सिध्यति इति विषये चिन्तनं भवतु | संस्कृतभाषायां पदं द्विविधम्‌— सुबन्तं तिङन्तञ्च | यस्य पदस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तत्‌ सुबन्तम्‌; यस्य पदस्य अन्ते तिङ्‌-प्रत्ययः अस्ति, तत्‌ तिङन्तम्‌ |


सुप्तिङन्तं पदम्‌ (१.४.१४) = सुबन्तानां तिङन्तानां च पदसंज्ञा भवति |


तर्हि यस्य पदस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तत्‌ सुबन्तम्‌; यस्य पदस्य अन्ते तिङ्‌-प्रप्रत्ययः अस्ति, तत्‌ तिङन्तम्‌ | एकविंशतिः सुप्‌-प्रत्ययाः सन्ति; अष्टादश तिङ्‌-प्रत्ययाः सन्ति |


तिङन्तपदम्‌


धातुभ्यः तिङ्‌-प्रत्ययानां योजनेन तिङन्तपदम्‌— नाम क्रियापदम्— निष्पन्नम्‌ |


लाधिकार-प्रसङ्गे धातुतः लस्य (ल्‌ इत्यस्य) स्थाने अष्टादश तिङ्‌-प्रत्ययाः विहिताः |



लस्य (३.४.७७) = अधिकारसूत्रम्‌ इदम्‌ | षष्ठ्यन्तम्‌ | अकारः उच्चारणार्थः | ३.४.७८ - ३.४.११२ पर्यन्तम्‌ अस्य अधिकारः | प्रत्येकस्मिन्‌ सूत्रे उपविश्य वदति यत्‌ तत्तत्सूत्रे यः प्रत्ययः विहितः, सः लस्य (ल्‌ इत्यस्य) स्थाने विहितः |


तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ (३.४.७८) = तिङन्तपदानां साधनार्थं मूले अष्टादश तिङ्‌ प्रत्ययाः भवन्ति | लस्य इत्यनेन ल्‌ इत्यस्य स्थाने एते अष्टादश विहिताः | तिप्‌ तस्‌ झि, सिप्‌ थस्‌ थ, मिप्‌ वस्‌ मस्‌‍, त आताम् झ, थास्‌ आथाम्‌ ध्वम्‌, इड्‌ वहि महिङ्‌ इति अष्टादश तिङ्‌ प्रत्ययाः | ति‌प्‌ इत्यस्मात्‌ आरभ्य महिङ्‌ पर्यन्तम्‌, आहत्य तिङ्‌-प्रत्ययाः इत्युच्यते |


तर्हि क्रियापदस्य निर्माणार्थं धातुतः तिङ्‌-प्रत्ययाः विहिताः |


सुबन्तपदम्‌


नामपदस्य निर्माणार्थं का गतिः ? तत्र प्रातिपदिकात्‌ सुप्‌-प्रत्ययाः विहिताः | अत्र मूलविचारः एवं यत्‌ तदा सुप्‌-प्रत्ययाः आगन्तुं योग्याः यदा पूर्वं स्थितस्य भागस्य प्रातिपदिकसंज्ञा भवति | प्रातिपदिकसंज्ञा नास्ति चेत्‌ सुप्‌-प्रत्ययाः न विहिताः | अतः सुबन्तपदस्य निर्माणार्थं प्रातिपदिकम्‌ अत्यावश्यकम्‌ | सारांशः एवं यत्‌ प्रातिपदिकं तद्‌ अस्ति यस्मात्‌ सुप्‌-प्रत्ययाः विहिताः |


सुप्‌-प्रत्ययाः सङ्ख्यया एकविंशतिः, ते च एते—


स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) =स्वौ-जसमौट्-छष्टाभ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसि-भ्याम्-भ्यस्-ङसोसाम्-ङ्योस्-सुप्‌

सु जस्‌
अम्‌ औट्‌ शस्‌
टा भ्याम्‌ भिस्‌
ङे भ्याम्‌ भ्यस्‌
ङसि भ्याम्‌ भ्यस्‌
ङस्‌ ओस्‌ आम्‌
ङि ओस्‌ सुप्‌


अधुना प्रातिपदिकसंज्ञा कथं कुत्र सिद्धा इति अग्रे अवलोकयाम | प्रातिपदिक-विधायक-सूत्रद्वयम्‌ अस्ति, परिभाषा च एका |


प्रातिपदिकविधायकसूत्रे द्वे


१. अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) = अर्थवत्‌ शब्दस्वरूपं यत्‌ धातुः, प्रत्ययः, प्रत्ययान्तं च नास्ति, तस्य प्रातिपदिकसंज्ञा भवति | अर्थः अस्य अस्ति इति अर्थवत्‌, मतुप्‌-प्रत्ययः | न धातुः अधातुः, न प्रत्ययः अप्रत्ययः, नञ्तत्पुरुषः| अर्थवत्‌ प्रथमान्तम्‌, अधातुः प्रथमान्तम्‌, अप्रत्ययः प्रथमान्तं, प्रातिपदिकं प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं पूर्णम्‌— अर्थवद्‌ अधातुः अप्रत्ययः प्रातिपदिकम्‌ |


अस्मिन्‌ सूत्रे वस्तुतः अप्रत्यय-पदस्य द्विवारम्‌ आवृत्तिः | अप्रत्ययः अप्रत्ययः | प्रथमवारं "प्रत्ययः न स्यात्‌" इत्यर्थः | द्वितीयवारं "प्रत्ययान्तं न स्यात्‌" इत्यर्थः | तत्र प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति; अनेन अप्रत्ययान्तम्‌ इत्यर्थः निष्पन्नः | (अत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति (परिभाषा #२७) इत्यनया परिभाषया तदन्तविधि-प्रतिषेधः न भवति यतोहि प्रत्यय-विशेषस्य (सुप्‌, तिङ्‌, कृत्‌, इत्यादीनां) संज्ञा इति प्रसङ्गो नास्ति | अनया परिभाषया संज्ञासूत्रेण यदा प्रत्ययनामकरणं भवति तदा सा संज्ञा केवलं प्रत्ययस्य न त तदन्तस्य |)


अनेन सूत्रेण संस्कृतभाषायां यत्‌ किमपि शब्दस्वरूपम्‌ अर्थवत्‌ अस्ति— परन्तु धातुभिन्नं, प्रत्ययभिन्नं, प्रत्ययान्तभिन्नं च— तत्‌ प्रातिपदिकम्‌ | यत्र व्युत्पत्ति-प्रक्रिया नास्ति— यत्र प्रकृति-प्रत्ययः सम्बन्धो नास्ति अतः "प्रत्ययान्तं" नास्ति— तत्र अनेन सूत्रेण प्रातिपदिकसंज्ञा | यत्र व्युत्पत्ति-प्रक्रिया अस्ति— प्रकृतिः अस्ति यस्याः प्रत्ययः विहितः— तत्र अग्रिमेण सूत्रेण प्रातिपदिकसंज्ञा (कृत्तद्धितसमासाश्च) | अतः अत्र मार्गद्वयम्‌ अस्ति— अव्युत्पन्नशब्दानां, व्युत्पन्नशब्दानाञ्च |


२. कृत्तद्धितसमासाश्च (१.२.४६) = कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इत्यस्मात्‌ अर्थवत्‌, प्रातिपदिकम्‌ इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— अर्थवन्तः कृत्तद्धितसमासाः च प्रातिपदिकानि |


अनेन सूत्रेण—

१) धातुतः कृत्‌-प्रत्ययस्य विधानेन यत्‌ रूपं निष्पन्नं तत्‌ प्रातिपदिकम्‌ (कृदन्तम्‌) |

२) धातुभिन्न-प्रकृतितः प्रत्ययस्य विधानेन यत्‌ रूपं निष्पन्नं तत्‌ प्रातिपदिकम्‌ (तद्धितान्तम्‌) |

३) पदानि यत्र समस्यन्ते तत्र नूतनतया निष्पन्नरूपं प्रातिपदिकम्‌ (समासः) |


धेयं यत्‌ यद्यपि अस्मिन्‌ सूत्रे "कृत्‌" “तद्धित" इत्युक्तम्‌, तथापि कृत्‌-प्रत्ययः तद्धित-प्रत्ययः इर्यर्थो न अपि तु येषां रूपाणाम्‌ अन्ते इमे प्रत्ययाः सन्ति | वैयाकरणैः उक्तं यत्‌ अर्थवत्‌ इत्यस्य अनुवृत्तिः अस्ति— कृत्‌-प्रत्ययाः तद्धित-प्रत्ययाः स्वयं नार्थवन्तः; यदा प्रकृतेः विहिताः तदा व्युत्पन्नं रूपम्‌ अर्थवत्‌ अतः अस्मिन्‌ सूत्रे कृत्‌ इत्युक्ते कृदन्तम्‌, अपि च तद्धित इत्युत्क्ते तद्धितान्तम्‌ |


इदम्‌ अपि धेयं यत्‌ अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ इति सूत्रेण प्रत्ययान्तस्य प्रातिपदिकसंज्ञा निषिध्यते | तदा कृत्तद्धितसमासाश्च इति सूत्रेण उक्तं यत्‌ कृदन्तानि तद्धितान्तानि च प्रातिपदिकसंज्ञकानि | अतः प्रथमं सूत्रं सामान्यसूत्रं, द्वितीयसूत्रं विशेषसूत्रम्‌ | द्वितीयं च प्रथमस्य अपवादः |


अन्ततः कृत्तद्धितसमासाश्च इति सूत्रेण समासः प्रातिपदिकसंज्ञकः | परन्तु समासः अर्थवान्‌, अधातुः, अप्रत्ययः, अप्रत्ययान्तः— अतः अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ इति सूत्रेण प्रातिपदिकसंज्ञा प्राप्यते | तर्हि "समासः" इति किमर्थम्‌ उक्तम्‌ कृत्तद्धितसमासाश्च इति सूत्रे ? आवश्यकता का ? उत्तरम्‌ अस्ति, अनेन एकाधिक-शब्दस्वरूपैः अर्थपूर्णरूपं भवति चेत्‌, समासः एव स्यात्‌ न तु वाक्यम्‌ | नो चेत्‌ अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ इति सूत्रेण "रामः आपणं गच्छति" इत्यस्यापि प्रातिपदिकसंज्ञा भवति स्म | अतः "समासः" इत्यस्य कथनेन नियमयति— restriction क्रियते |


पुंसि नपुंसके च प्रकृति-प्रत्यययोः संयोजनेन यत्‌ शब्दस्वरूपं निष्पन्नं, तस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च इति सूत्रेण | अपि च यः कोऽपि व्युत्पन्नशब्दः मूले स्त्रीलिङ्गे अस्ति, तस्यापि प्रातिपदिकसंज्ञा अनेन सूत्रेण | यथा महिला-शब्दः मूलतः स्त्रियाम्‌ एव अपि च व्युत्पन्नशब्दः अतः अनेन सूत्रेण प्रातिपदिकसंज्ञा | परन्तु छात्रा-शब्दः मूल-पुंलिङ्ग-छात्रशब्दात्‌ आगतः, अतः अनेन सूत्रेण न | व्युत्पन्न-छात्रशब्दस्य प्रातिपदिकसंज्ञा अनेन सूत्रेण; तदा स्त्री-प्रत्ययस्य संयोजनेन छात्रा भवति | छात्रा-शब्दस्य प्रातिपदिकसंज्ञा अधः स्थित-परिभाषया भवति |


अधिकारसूत्राणि


अधिकारसूत्रम्‌ इत्युक्तौ तादृशं सूत्रं यस्य पूर्ण-रूपेण अनुवृत्तिः भवति बहुषु सूत्रेषु | नाम स्वयं कार्यं न करोति, अपि तु अपरेषु सूत्रेषु उपविश्य तेषाम्‌ अर्थं पूरयति |


१. प्रत्ययः (३.१.१) = [अधिकारः ३.१.१ - ५.४.१६०] तृतीयः चतुर्थः पञ्चमः इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित्‌ विधानं भवति, तत्र तत्र प्रत्ययः आगत्य वदति यत्‌ यस्य विधानं सञ्जातं, तस्य प्रत्यय-संज्ञा भवति | एषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति, तत्र सर्वत्र अस्य सूत्रस्य अधिकारः | ३.१.१ – ५.४.१६० इत्येषु यत्र यत्र विधानम्‌ अस्ति, तत्र तत्र प्रत्येकं सूत्रस्य अर्थे एवम्‌ अन्वयः यत्‌ यत्‌ विहितं, तस्य प्रत्यय-संज्ञा भवति |


२. परश्च (३.१.२) = [अधिकारः ३.१.१ – ५.४.१६०] एषु एव त्रिषु अध्यायेषु यत्र यत्र प्रत्ययः इत्यनेन प्रत्यय-संज्ञा भवति, तत्र तत्र परश्च इति सूत्रम्‌ अपि उपविश्य वदति यत्‌ अयं प्रत्ययः प्रकृतेः अनन्तरम्‌ आयाति |


३. ङ्याप्प्रातिपदिकात्‌ (४.१.१) = [अधिकारः ४.१.१ – ५.४.१६०] | चतुर्थे पञ्चमे चाध्याययोः यावन्तः प्रत्यायाः विहिताः, ते सर्वे प्रातिपदिकेभ्यः, ङ्यन्तेभ्यः, आबन्तेभ्यः वा आयान्ति | ङ्यन्तरूपाणि आबन्तरूपाणि च स्त्रीलिङ्गरूपाणि इति | तर्हि आहत्य चतुर्थे पञ्चमे चाध्याययोः सर्वाणि सुबन्तविधायकसूत्राणि सन्ति; तेषु सर्वेषु यत्‌ किमपि विहितं, प्रत्ययः इत्यनेन यः विहितः, तस्य नाम प्रत्ययः | अपि च यः विहितः, सः सर्वत्र प्रातिपदिकात्‌, ङ्यन्तात्‌, आबन्तात्‌ वा विहितः भवति |


सूत्रस्य पदविच्छेदः—ङी च, आप्‌ च, प्रातिपदिकञ्च, तेषां समाहारद्वन्द्वः, ङ्याप्प्रातिपदिकम्‌, तस्मात्‌ ङ्याप्प्रातिपदिकात्‌ | ङ्याप्प्रातिपदिकात्‌ पञ्चम्यन्तम्‌ एकपदमिदं सूत्रम्‌ | त्रयः स्त्री-प्रत्ययाः सन्ति यैः ई-कारः विहितो भवति— ङीप्‌, ङीष्‌, ङीन्‌ च | अस्मिन्‌ सूत्रे "ङी" इत्यस्य कथनेन त्रयाणाम्‌ अपि ग्रहणं भवति | त्रयः स्त्री-प्रत्ययाः सन्ति यैः आ-कारः विहितो भवति— टाप्‌, डाप्‌, चाप्‌ च | अस्मिन्‌ सूत्रे "आप्‌" इत्यस्य कथनेन त्रयाणाम्‌ अपि ग्रहणं भवति |


परिभाषा


अधः एका परिभाषा अस्ति | परिभाषाः अत्यन्तं पुरातनाः; तेषां लेखकाः अस्माभिर्न ज्ञायन्ते परन्तु व्याकरणलोके तासां दृढा मान्यता अस्ति |


प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्‌ (परिभाषा #७१) = यस्य रूपस्य प्रातिपदिकसंज्ञा भवति द्वाभ्यां प्रातिपदिकसंज्ञा-विधायक-सूत्राभ्याम्‌ (अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌, कृत्तद्धितसमासाश्च), तस्मात्‌ प्रातिपदिकात्‌ यानि लिङ्गविशिष्ट-रूपाणि व्युत्पन्नानि भवन्ति स्त्रीत्व-बोधक-प्रत्ययानां योजनेन, तेषाम्‌ अपि ग्रहणं भवति प्रातिपदिकसंज्ञया | यथा 'कर्तृ' इत्यस्य प्रातिपदिकसंज्ञा भवति, अतः 'कर्त्री' इत्यस्यापि प्रातिपदिकसंज्ञा भवति | तथा च 'छात्र' इत्यस्य प्रातिपदिकसंज्ञा भवति, अतः 'छात्रा' इत्यस्यापि प्रातिपदिकसंज्ञा भवति |


अनेन प्रातिपदिकस्य विधानार्थं सर्वाणि यन्त्राणि अस्माकं पुरतः सन्ति— द्वे सूत्रे, एका परिभाषा च | प्रातिपदिकम्‌ अस्माकम्‌ आधारः अस्ति अष्टाध्याय्याः चतुर्थे पञ्चमे च अध्याययोः, यत्र सुबन्तपदानां निष्पादनार्थं सर्वे प्रत्ययाः विहिताः सन्ति | तेषु सुप्‌-प्रत्ययाः प्रमुखाः | अधः त्रयाणाम्‌ अधिकारसूत्राणां समर्थनेन सुप्‌-प्रत्ययानां विधानार्थम्‌ अर्थपूर्णं वाक्यं सिद्धम्‌—


स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) = प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्याप्प्रातिपदिकात्‌ (४.१.१) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— ङ्याप्प्रातिपदिकात्‌ स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ प्रत्ययः परश्च |


अधुना प्रातिपदिकस्य आधारः कः, कथं भवति इति अस्माभिः ज्ञातम्‌ | अग्रिमेषु पाठेषु प्रातिपदिकस्य आधारेण कथं सुप्‌-प्रत्ययाः युज्यन्ते सुबन्तपदस्य निष्पादनार्थम्‌, इति अवलोकयिष्यामः |




Swarup – Sept 2014


परिशिष्टम्‌


आलोचनक्रमे मनसि प्रश्नः उदेति यत्‌ अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इत्यनेन कीदृशकार्यं विधीयते अपि च अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६) इति सूत्रयोः कीदृशसम्बन्धः |


प्रथमतया अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इति सूत्रं स्वीकुर्मः | प्रश्नः अस्ति यत्‌ अनेन सूत्रेण केवलं यस्य प्रातिपदिकसंज्ञा भवति तत्‌ सूच्यते, अथवा यस्य प्रातिपदिकसंज्ञा न भवति तदपि सूच्यते ? नाम अत्र निषेधः भवति न वा ?


केषाञ्चित्‌ मनसि स्यात्‌ यत्‌ "अत्र केवलं प्रातिपदिकसंज्ञा-ग्रहणस्य विषयः— नाम प्राप्तिः, न तु निषेधः" | एवं भवति चेत्‌, यः अर्थवान्‌ किन्तु धातुः नास्ति, प्रत्ययः नास्ति, प्रत्ययान्तश्च नास्ति, तस्य प्रातिपदिकसंज्ञा भवति | परन्तु यः धातुः अथवा प्रत्ययः अथवा प्रत्ययान्तः अस्ति, तस्य प्रातिपदिकसंज्ञा निषिध्यते इति नास्ति |


तथा अस्ति चेत्‌, अस्मिन्‌ सूत्रे शक्तिः न स्यात्‌ | प्राप्तिरपि अस्ति, निषेधः अपि अस्ति | एवं नास्ति यत्‌ "धातोः प्रातिपदिकसंज्ञा भवितुमर्हति, केवलम अनेन सूत्रेण न" | तथैव एवं नास्ति यत्‌ "प्रत्ययस्य प्रातिपदिकसंज्ञा भवितुमर्हति, केवलम अनेन सूत्रेण न" | अथवा "प्रत्ययान्तस्य प्रातिपदिकसंज्ञा भवितुमर्हति, केवलम अनेन सूत्रेण न" | त्रिभिरपि प्रातिपदिकसंज्ञा निषिध्यते | ‘अधातुः' इत्यस्य कथनेन पर्युदासः इति प्रतिषेधः | तथैव अप्रत्ययः, अप्रत्ययान्तः अपि | अनेन शक्तिरागच्छति यत्‌ 'धातुः' अस्ति चेत्‌, प्रातिपदिकसंज्ञा न भवति, प्रत्ययः अस्ति चेत्‌, प्रातिपदिकसंज्ञा न भवति, प्रत्ययान्तः अस्ति चेत्‌, प्रातिपदिकसंज्ञा न भवति | केवलं धातुभिन्नस्य, प्रत्ययभिन्नस्य, प्रत्ययान्तभिन्नस्य च प्रातिपदिकसंज्ञा भवति |


अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इयनेन यस्य प्रातिपदिकसंज्ञा अपेक्षिता तस्य विधिः, यस्य च न भवे‌त्‌ तस्य निषेधः | नञ्‌ इत्यनेन त्रयाणां व्यावृत्तिः | अयं निषेधार्थः प्रतीतः, गम्यः | अधातुरप्रत्ययः इति शब्दे निहितमस्ति | शब्दस्य अर्थशक्त्या अयं बोधो जायते |


एते त्रयः अपि—धातुः, प्रत्ययः, प्रत्ययान्तः—अर्थवन्तः | परन्तु धातोः प्रातिपदिकसंज्ञा भवति इति चेत्‌, समस्या जायते | हन्‌-धातोः लङ्‌-लकारे प्रथमपुरुषैकवचने 'अहन्‌' इति रूपस्य नकारलोपः भविष्यति न लोपः प्रातिपदिकान्तस्य (८.२.७) इति सूत्रेण | प्रत्ययः अपि अर्थवान्‌ अतः तस्य प्रातिपदिकसंज्ञा-निषेधः आवश्यकः | प्रत्ययाः चतुर्विधाः— सुप्‌, तिङ्‌, कृत्‌, तद्धितः च | प्रत्ययान्तानां प्रातिपदिकसंज्ञा भवति चेत्‌, सुबन्तेभ्यः तिङन्तेभ्यश्च सुप्‌-प्रत्ययविधानम्‌ आरप्स्यते | अतः अस्य सर्वस्य निवारणार्थं, स्पष्टीकरणार्थं च एषां त्रयाणां प्रातिपदिकसंज्ञा-निषेधः भवति | अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इति सूत्रेण संज्ञा-प्राप्तिरपि अस्ति, संज्ञा-निषेधः अपि अस्ति | नञ्‌ इत्यस्य कथनेन निषेधः | स च निषेधः द्विविधः; अग्रे उच्यते |


प्रत्ययान्तानाम्‌ अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इत्यनेन प्रातिपदिकसंज्ञा-निषेधः भवति इति कारणतः एव कृत्तद्धितसमासाश्च (१.२.४६) इत्यस्य आवश्यकता अस्ति | अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इत्यनेन चतुर्णामपि प्रत्ययान्तानां प्रातिपदिकसंज्ञा-निषेधः— सुबन्तानां, तिङन्तानां, कृदन्तानां, तद्धितान्तानाञ्च | तदा कृदन्तानां, तद्धितान्तानां प्रातिपदिकसंज्ञा-साधनार्थम्‌ अपवादभूतसूत्रं कृत्तद्धितसमासाश्च (१.२.४६) दीयते | अनेन फलितार्थो भवति यत्‌ सुबन्तान्‌ तिङन्तान्‌ च त्यक्त्वा प्रत्ययान्तानां प्रातिपदिकसंज्ञा भवति | अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इत्यनेन यदि प्रत्ययान्तनिषेधो न स्यात्‌, तर्हि एतादृशः अर्थः स्पष्टतया न जायेत |


अधुना नञ्‌ इत्यस्य कथनेन द्विविध-प्रतिषेधः भवति— पर्युदासः च प्रसज्यः च | अधातुः, अप्रत्ययः, अप्रत्ययान्तः इत्येतादृशनिषेधः पर्युदासः इत्युच्यते | ‘अधातुः' इत्यस्य कथनेन नञ्‌ इत्यस्य इङ्गितमस्ति |


आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मिन्‌ यत्‌ नञ्‌ भवति, तत्‌ प्रसज्यप्रतिषेधः | अत्र यदि वदामः यत्‌ अस्य अर्थः एवं यत्‌ उपदेशावस्थायां एजन्तधातोः आत्वादेशः 'अशिति प्रत्यये परे', तर्हि 'अशिति प्रत्यये परे' इत्यस्य कथनेन पर्युदासप्रतिषेधः भवति | यदि वदामः यत्‌ "उपदेशावस्थायाम्‌ एजन्तधातोः आत्वादेशः | शिति प्रत्यये परे न भवति", तर्हि प्रसज्यप्रतिषेधः | 'अशिति प्रत्यये परे' इत्यस्य अर्थः एवं यत्‌ तादृशप्रत्ययः परः भवेत्‌ यः शित्‌ नास्ति— नाम कश्चन प्रत्ययः अपेक्षितः; स च प्रत्ययः शित्‌ न भवेत्‌ | परः शित्‌ प्रत्ययः नास्ति, शून्यमस्ति, तर्हि एजन्तस्य आत्वं न भवति | यङ्लुकि गै धातुतः यङः लुक्‌ भवति; अस्यां दशायां अशित्‌-प्रत्ययः परः नस्ति अतः आत्वं न भविष्यति | ‘प्रत्ययः भवेत्‌, शित्‌ न स्यात्‌', तदा कार्यं जायते | इति चेत्‌ समस्या, यतोहि यङ्लुकि प्रत्ययः एव नास्ति अतः आत्वं न भविष्यति | किन्तु आत्वम्‌ अपेक्षितम्‌ | अतः अत्र प्रसज्यप्रतिषेधः न तु पर्युदासः |


अत्र अस्माकम्‌ इष्टः अर्थः अस्ति यत्‌ "एजन्तधातूनाम्‌ आत्वं भवति— सदैव | शिति प्रत्यये परे न भवति |“ इति कृत्वा प्रसज्यप्रतिषेधस्य वदनार्थं वाक्यद्वयं प्रयोक्तव्यं— एकः विधिः यस्य किमपि नियमनं नास्ति, तदा पृथक्तया तस्य निषेधः | एवं वदामः चेत्‌ प्रत्ययः नास्ति चेदपि आत्वं भवति | अतः यङ्लुकि एजन्तानाम्‌ आत्वम्‌ |


आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— एचः धातोः आत्‌ उपदेशे अशिति |


प्रसज्यप्रतिषेधकृतनञ्‌ भवति, पर्युदासप्रतिषेधकृतनञ्‌ भवति | अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इति सूत्रे पर्युदासप्रतिषेधः अस्ति | अतः धातोः, प्रत्ययस्य, प्रत्ययान्तस्य च प्रातिपदिकसंज्ञा न भवति | रम्‌ + घञ्‌ → राम-शब्दः | इति कृदन्तरूपम्‌ | अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इत्यनेन राम-शब्दस्य प्रातिपदिकसंज्ञा-निषेधो भवति | तदा कृत्तद्धितसमासाश्च (१.२.४६) इति अपवादभूतसूत्रेण अस्य प्रातिपदिकसंज्ञा जायते |


महाभाष्ये प्रसज्यप्रतिषेधस्य दृष्टान्तो दीयते | कोऽपि वदति, “अब्राह्मणम्‌ आनय" | यः ब्राह्मणः नास्ति, तम आनयतु | तदा अस्य श्रवणेन अन्यः काञ्चित्‌ मृत्तिकाम्‌ आनीतवान्‌ | उक्तवान्‌ च इयं ब्राह्मणो नास्ति | अनेन चिन्त्यते चेत्‌ बिडालः, कुक्कुरः, यं कमपि आनेतुं शक्यते यः ब्राह्मणः न स्यात्‌ | परन्तु यः प्रार्थनाम्‌ अकरोत्‌, तस्य आशयः एवम्‌ आसीत्‌ यात्‌ एकः मनुष्यः आनेतव्यः | तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम् | यः ब्राह्मणः न स्यात्‌, किन्तु ब्राह्मणसदृशः | सादृश्यम्‌ अपेक्षितम्‌ | “अब्राह्मणम्‌ आनय" इत्यस्य कथनेन यः आनीयते सः मनुष्यः भवेत्‌ | एवमेव "अशिति प्रत्यये परे" इत्यस्य कथनेन यः परः अस्ति, सः प्रत्ययः भवेत्‌ | अशित्‌ इत्युक्तौ शिद्भिन्नः प्रत्ययः | पर्युदासार्थं सादृश्यम्‌ अपेक्षितम्‌ |


एचः आत्वं तु भवति यङ्लुकि अपि, यत्र प्रत्ययः एव नास्ति, अतः अस्यां दशायां पर्युदासः न कर्तव्यः | अपि तु प्रसज्यप्रतिषेधः आवश्यकः |


अधुना अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इति सूत्रे पर्युदासप्रतिषेधो वर्तते | ‘अधातुः', ‘अप्रत्ययः', अप्रत्यनान्तः' | आदेच उपदेशेऽशिति (६.१.४५) इति स्थितौ पर्युदासप्रतिषेधः वक्तव्यः चेत्‌, 'अशित्‌' इत्यस्य कथनेन सादृश्यम्‌ इत्युक्तौ कश्चन प्रत्ययः अपेक्षितः यः शिद्भिन्नः स्यात्‌ | अत्र, अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इति स्थितौ ‘अधातुः' इत्युक्तौ धातुः न स्यात्‌, किन्तु भवेत्‌ किम्‌ ? शब्दः | यः अर्थवान्‌ | त्रिषु अपि—धातौ, प्रत्यये, प्रत्ययान्ते—अर्थवत्त्वम्‌ अस्ति | एतादृशशब्दः अपेक्षितः यः अर्थवान्‌ परन्तु धातुः, प्रत्ययः, प्रत्ययान्तश्च न स्यात्‌ | साम्यमपि अपेक्षितं, भिन्नत्वमपि अपेक्षितम्‌ | आहत्य तस्मिन्‌ शब्दत्वम्‌ अपेक्षितं, परन्तु धातुत्वं, प्रत्ययत्वं, प्रत्ययान्तत्वं च न भवेत्‌ | शब्दः इत्युक्तौ यः उच्चारितो भवति | भूयोधर्मवत्त्वं—यावत्‌ शक्यं समानं स्यात्, परन्तु तद्भिन्नत्वम्‌ अपि स्यात्‌ | तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम् | “अब्राह्मणम्‌ आनय", तर्हि क्षत्रियः आनेतव्यः | न तु शिलाखण्डः | भूयोधर्मवत्त्वं—बिडालो वा कुक्कुरो वा चेत्‌ पर्याप्तं नास्ति |


पर्युदासप्रतिषेधे सादृश्यम्‌ अपेक्षितं; प्रसज्यप्रतिषेधे सादृश्यं नापेक्षितम्‌ |


तर्हि प्रकृतौ अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इति सूत्रे पर्युदासप्रतिषेधो वर्तते | स च प्रतिषेधः निषेध एव | नञ्‌ इत्यस्य कथनेन निषेधेन पृथक्‌ करोति, भिन्नतां करोति |


०२ - प्रातिपदिकत्वम्‌.pdf Swarup Bhai, Nov 30, 2019, 3:07 PM v.2