02 - चुरादिगणे प्रेरणार्थे णिचि च तव्यत्, तुमुन्, तृच् + अनीयर्
तुमुन्, तव्यत्, तृच्
तुमुन्, तव्यत्, तृच् इत्येषां तदन्तानां कृदन्तरूपाणां प्रक्रियासाम्यं, रूपसाम्यं च सर्वत्र |
चुरादिगणे प्रेरणार्थे णिचि च रूपाणि एवं भवन्ति सर्वत्र—
चुर् + णिच् → चोरि इति णिजन्तधातुः | सर्वे णिजन्तधातवः अनेकाचः इति कारणतः सेटः |
चोरि + इट् + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः → चोरे + इ + तव्य → एचोऽयवायावः (६.१.७७) इत्यनेन अयादेशः → चोरय् + इ + तव्य → चोरयितव्य (चोरयितव्यः, चोरयितव्या, चोरयितव्यम्) |
एवञ्च रूपम् एकमेव सर्वत्र चुरादिगणे प्रेरणार्थे णिचि च—
तव्यत् = चोरयितव्य
तुमुन् = चोरयितुम्
तृच् = चोरयितृ (पुंसि चोरयिता)
यथा—क्षालयितव्यम्, रचयितव्यम्, प्रेरणार्थे पाठयितव्यम्, लेखयितव्यम्, दर्शयितव्यम् इत्यादीनि रूपाणि |
अनीयर्
अनीयर् इति प्रत्ययः अनिट्, तस्मात् चोरि + अनीयर् → णेरनिटि (६.४.५१) इत्यनेन णिचः लोपः → चोर् + अनीय → चोरणीयम् |
चुरादिगणे प्रेरणार्थे णिचि च तथा सर्वत्र णिचः लोपः— रचि + अनीयर् → रचनीयम् |
क्षालि → क्षालनीयम्, पाठि → पाठनीयम्
णेरनिटि (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात् णिङ्, णिच् द्वयोः ग्रहणम्; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तं, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अतो लोपः (६.४.४८) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— णेः लोपः अनिटि आर्धधातुके |
Swarup – April 2017
---------------------------------
०२ - चुरादिगणे प्रेरणार्थे णिचि च तव्य्त्, तुमुन्, तृच् + अनीयर्.pdf (25k) Swarup Bhai, May 6, 2017, 7:10 AM