03A - तत्पुरुषसमासः- सामान्यतत्पुरुषस्य सारांशः

From Samskrita Vyakaranam
14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH
Jump to navigation Jump to search
२०२३ ध्वनिमुद्रणानि
1) tatpuruShasamAsaH- punassmaraNam _ 2023-07-22
2) tatpuruShasamAsaH- punassmaraNam_ 2023-07-29
3) tatpuruShasamAsaH-punnassmaraNam_2023-08-05
4) tatpuruShasamAsaH-punnassmaraNam_ 2023-08-12
5) tatpuruShasamAsaH-punnasmaraNam_ 2023-08-19
6) tatpuruShasamAsaH-punnasmaraNam_2023-08-26
7) tatpuruShasamAsaH-punnasmaraNam_2023-09-02
8) tatpuruShasamAsaH-punnasmaraNam_2023-09-09
9) tatpuruShasamaSaH-punnasmaraNam_2023-09-16
10) tatpuruShasamAsaH-punnasmaraNam_ 2023-09-23
11) tatpuruShasamAsaH- abhyAsaH_2023-09-30
12) tatpuruShasamAsaH-punnasmaraNam_ 2023-10-07
13) tatpuruShasamAsaH-punnasmaraNam_2023-10-14
14) tatpuruShasamAsaH-punnasmaraNam_2023-10-28
15) tatpuruShasamAsaH-punnasmaraNam_ 2023-11-04
16) tatpuruShasamAsaH-punnasmaraNam_2023-11-18
17) tatpuruShasamAsaH-punnasmaraNam_2023-11-25
18) tatpuruShasamAsaH-punnasmaraNam_2023-12-02
19) tatpuruShasamAsah-punnasmaraNam_2023-12-09
20) tatpuruShasamAsaH-- abhyAsaH+ punnasmaraNam_ 2023-12-16
21) tatpuruShasamAsaH--punnasmaraNam_2024-01-13
22) tatpuruShasamAsaH--punnasmaraNam_ 2024-01-20
23) tatpuruShasamAsaH-punnasmaraNam_ 2024-01-27
24) tatpuruShasamAsaH- punnasmaraNam_2024-02-03
25) tatpuruShasamAsaH-punnasmaraNam_2024-02-17
26) tatpuruShasaMasaH-punnasmaraNam_2024-02-24
27) tatpuruShasamAsaH-punnasmaraNam_2024-03-02
28) tatpuruShasamAsaH-punasmaraNam _ 2024-03-09
29) tatpuruShasamAsaH-punnasmaraNam_ 2024-03-16
30) tatpuruShasamAsaH- punnasmaraNam_ 2024-03-30
31) tatpuruShasamAsaH-punnasmaraNam_2024-04-06
32) tatpuruShasamAsaH-punnasmaraNam_2024-04-13
33) tatpuruShasamAsaH-punnasmaraNam_2024-04-20

तत्पुरुषसमासः - सामान्यतत्पुरुषस्य सारांशः


तत्पुरुषसमासः

समासे पञ्च प्रभेदाः सन्ति – केवलसमासः, अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वः चेति  | तत्पुरुषसमासे प्रायेण उत्तरपदार्थस्य प्राधान्यं भवति | यथा राजपुरुषः इति षष्ठीतत्पुरुषसमासः, तस्य लौकिकविग्रहः अस्ति राज्ञः पुरुषः इति | अस्मिन् समासे पुरुषः इति उत्तरपदस्य प्राधान्यम् इत्यतः एव अयं समासः तत्पुरुषसमासः इत्युच्यते | अष्टाध्याय्यां तत्पुरुषसमास-सम्बद्धसूत्राणि २.१.२२ इति सूत्रात् आरभ्य २.२.२२ इति सूत्रपर्यन्तं सन्ति | एतानि सर्वाणि सूत्राणि तत्पुरुषः (२.१.२२) इति सूत्रयस्य अधिकारे सन्ति |

 

तत्पुरुषः (२.१.२२)

तत्पुरुषः इति अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः २.१.२२ - २.२.२२ इति सूत्रं पर्यन्तम् अस्ति | अस्मिन् अधिकारे यानि सूत्राणि सन्ति, तेषां सर्वेषां तत्पुरुषसंज्ञा भवति | सूत्रं स्वयं सम्पूर्णम् |


तत्पुरुषसमासस्य प्रभेदाः

तत्पुरुषसमासस्य चत्वारः प्रभेदाः सन्ति— १) सामान्यतत्पुरुषसमासः, २) कर्मधारयः, ३) द्विगुः, ४) नञ्प्रभृतयः चेति |


परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६)

परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) = द्वन्द्वस्य तत्पुरुषस्य च परस्य यत् लिङ्गं तत् भवति  | अनुवृत्ति-सहित-सूत्रं— द्वन्द्वतत्पुरुषयोः परवत् लिङ्गम् |



सामान्य-तत्पुरुषसमासाः

सामान्यतत्पुरुषसमासे विग्रहावस्थायां पूर्वपदे प्रथमाविभक्तिं विहाय अन्यविभक्तीनां प्रयोगः भवति | द्वितीयतत्पुरुषात् आरभ्य सप्तमीतत्पुरुषः पर्यन्तं तत्सम्बद्धसूत्राणि अग्रे विवृतानि | अष्टाध्याय्यां प्रथमातत्पुरुषसमासस्य कृते सूत्रं नोक्तम्  | प्रथमतत्पुरुषः इत्यस्य एकदेशिसमासः इति व्यवहारः अस्ति व्याकरणे | अयं एकदेशिसमासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति |


सामान्य-तत्पुरुष-समासस्य षट् प्रभेदाः सन्ति –

१) द्वितीया-तत्पुरुषसमासः, यथा- कृष्णं श्रितः = कृष्णश्रितः ;

२) तृतीया-तत्पुरुषसमासः, यथा - गुडेन मिश्रः = गुडमिश्रः ;

३) चतुर्थी-तत्पुरुषसमासः, यथा - यूपाय दारु = यूपदारु ;

४) पञ्चमी-तत्पुरुषसमासः, यथा - चोराद् भयम् = चोरभयम् ;

५) सप्तमी-तत्पुरुषसमासः,  यथा - कर्मणि कुशलः = कर्मकुशलः ;

६) षष्ठी-तत्पुरुषसमासः, यथा - राज्ञः पुरुषः = राजपुरुषः |


यः तत्पुरुषसमासः एतेषु प्रभेदेषु अन्यतमः, सः समासः सामान्यतत्पुरुषसमासः इति नाम्ना ज्ञायते | अष्टाध्याय्यां पाणिनिना प्रथम-तत्पुरुषसमासः न उक्तः एव, परन्तु लोके प्रथम-तत्पुरुषः इति व्यवहारः अपि दृश्यते | वस्तुतस्तु लोके यः प्रथमतत्पुरुषसमासः इति व्यवहारः दृश्यते,  सः एव  व्याकरणलोके एकदेशिसमासः इति नाम्ना ज्ञायते |





a)     द्वितीयातत्पुरुषसमासः

द्वितीया-तत्पुरुषसमासस्य विषये षट् सूत्राणि सन्ति – २.१.२४ -२.१.२९ पर्यन्तम् |


१) द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४)

द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न इत्येतैः सुबन्तैः सह विकल्पेन समस्यते | द्वितीयान्तं सुबन्तं श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति | श्रितादिषु गत्यर्थत्वात्कर्तरि क्तप्रत्ययः भवति | अनुवृत्ति-सहित-सूत्रं— द्वितीया सुप् श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः सुब्भिः सह विभाषा तत्पुरुषः समासः  |

उदाहरणानि
कष्णं श्रितः = कष्णश्रितः( कृष्णस्य आश्रयः स्वीकृतः), कृष्णं श्रितः |

नरकं श्रितः = नरकश्रितः, नरकं श्रितः |

रामम् आश्रितः = रामाश्रितः, रामम् आश्रितः |

दुःखम् अतीतः = दुःखातीतः, दुखम् अतीतः  |

कान्तारम् अतीतः (one who is beyond) = कान्तारातीतः, कान्तारम् अतीतः |

कूपं पतितः = कूपपतितः, कूपं पतितः  |

पतितः नरकम् = नरकपतितः, पतितः नरकम् |

ग्रामं गतः = ग्रामगतः, ग्रामं गतः |

तरङ्गम् अत्यस्त: (crossed the tides) = तरङ्गात्यस्तः, तरङ्गम् अत्यस्त: |

सुखं प्राप्तः = सुखप्राप्तः, सुखं प्राप्तः |

सुखम् आपन्नः (प्राप्तः इत्यर्थः) =सुखापन्नः, सुखम् आपन्नः |

दुःखम् आपन्नः = दुःखापन्नः, दुःखम् आपन्नः |

कष्टम् आपन्नः = कष्टापन्नः, कष्टम् आपन्नः |

तुहिनम् ( snow) अत्यस्तः = तुहिनात्यस्तः, तुहिनम् अत्यस्तः |

जीवनं प्राप्तः = जीवनप्राप्तः, जीवनं प्राप्तः |

गर्तं पतितः = गर्तपतितः, गर्तं पतितः |

अस्तं गतः = अस्तगतः, अस्तं गतः |

धनम् आपन्नः = धनापन्नः, धनम् आपन्नः |

कष्टम् आश्रितः = कष्टाश्रितः, कष्टम् आश्रितः |*

शरणम् आगतः = शरणागतः, शरणम् आगतः |*

कृष्णम् आश्रितः = कृष्णाश्रितः, कृष्णम् आश्रितः *


* प्रश्नः उदेति यत् कृष्णाश्रितः, कष्टाश्रितः इत्यादिषु स्थलेषु द्वितीयातत्पुरुषसमासः कथं सिद्ध्यति यतोहि अत्र श्रितः इति पदात् पूर्वम् आ इति उपसर्गः विद्यते ?

अत्र एका परिभाषा वर्तते – कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्  | परिभाषायाः अर्थः अस्ति यत् समासवृतौ कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति | अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य सुबन्तेन सह समासः क्रियते | गतिः इति काचित् संज्ञा वर्तते व्याकरणे | गतिः इत्युक्ते उपसर्गः इत्यर्थः | गतिश्च ( १.४.६०) इत्यनेन प्रादयः क्रियायोगे गतिसज्ञाः स्युः | प्रादिगणे एते द्वाविंशतिः शब्दाः सन्ति – प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति-परि-उप | एते एव प्रादयः इत्युच्यन्ते | प्रादयः क्रियायोगे गतिसज्ञाः उपसर्गाः च स्युः  | गतिपूर्वकस्य उदाहरणम् – कृष्णम् आश्रितः इति विग्रहे सति कृष्णाश्रितः इति द्वितीयातत्पुरुषसमासः सिद्ध्यति | कारकस्य उदाहरणम् अग्रे दीयते |


गम्यादीनाम् उपसङ्ख्यानम्


गम्यादीनाम् उपसङ्ख्यानम् इति वार्तिकेन द्वितीयान्तं सुबन्तं गमी, गामी, बुभुक्षुः इत्येतैः शब्दैः सह समस्यते | गमी, गामी इत्यनयोः पदयोः प्रातिपदिकं नकारान्तम् अस्ति -  गमिन्, गामिन् इति |


ग्रामं गमी = ग्रामगमी ( यः ग्रामः गम्यमानः), ग्रामं गमी  |

वार्तिकस्य उदाहरणानि
ग्रामं गामी = ग्रामगामी, ग्रामं गामी |  ग्रामगामी, ग्रामगामिनौ, ग्रामगामिनः इति रूपाणि प्रथमाविभक्तौ |

अन्नं बुभुक्षुः ( अन्नं खादितुम् इच्छुकः) = अन्नबुभुक्षुः, अन्नं बुभुक्षुः |

मधु पिपासुः = मधुपिपासुः , मधु पिपासुः |

गुरुं शुश्रुषुः = गुरुशुश्रुषुः, गुरुं शुश्रुषुः |



द्वितीयातत्पुरुषसमासस्य अपवादः

द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४) इति सूत्रस्य अपवादः इदं सूत्रम् —

प्राप्तापन्ने च द्वितीयया (२.२.४)

प्राप्तापन्ने च द्वितीयया (२.२.४) = प्राप्त-आपन्न इत्येते पदे द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते, तत्पुरुषश्च समासो भवति | एतत् सूत्रं द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४) इति सूत्रस्य अपवादः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— प्राप्तापन्ने सुपौ द्वितीयया सुपा सह विभाषा तत्पुरुषः समासः, अन्यतरस्याम् |

उदाहरणानि
१) प्राप्तः जीविकां = प्राप्तजीविकः, जीविकाप्राप्तः, प्राप्तः जीविकाम् |

परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रेण द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति  इति कृत्वा समासः स्त्रीलिङ्गे स्यात् यतोहि जीविका स्त्रीलिङ्गे अस्ति | परन्तु द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधः वाच्यः इति वार्तिकेन परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रस्य निषेधः क्रियते इति कारणेन विशेष्यपदमनुसृत्य समासस्य लिङ्गं निर्णीयते |


२) आपन्नो जीविकाम् = आपन्नजीविकः, जीविकापन्नः, आपन्नो जीविकाम् | अलौकिकविग्रहः आपन्न +सु + जीविका +अम्  | यथापूर्वं त्रयः प्रयोगाः सम्भवन्ति – आपन्नजीविकः, जीविकापन्नः, जीविकाम् आपन्नः इति व्यस्तप्रयोगः |



२) स्वयं क्तेन (२.१.२५)

स्वयं क्तेन (२.१.२५) = ‘स्वयम्’ इति अव्ययं क्तप्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति | स्वयम् आत्मना इत्यस्मिन् अर्थे वर्तते  | अनुवृत्ति-सहित-सूत्रम्‌— द्वितीया स्वयम् सुप् क्तेन सुपा सह विभाषा  तत्पुरुषः समासः |

उदाहरणानि
१) स्वयं कृतः = स्वयङ्कृतः, स्वयं कृतः |

२) स्वयं विलीनं ( butter melted by itself) = स्वयंविलीनम् आज्यम् , स्वयं विलीनम् आज्यम् | ३) स्वयं धौतौ पादौ ( feet washed by himself)  = स्वयंधौतौ पादौ, स्वयं धौतौ पादौ  |



३) खट्वा क्षेपे (२.१.२६)

खट्वा क्षेपे (२.१.२६) = खट्वा (cot )  इति द्वितीयान्त-शब्दः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरुषश्च समासो भवति | क्षेपो निन्दा, स: च समासार्थ: एव, तेन विभाषा अधिकारेऽपि नित्यसमासः एव अयम्  | अयं समासः नित्यसमासः यतोहि वाक्येन निन्दा न अवगम्यते | अनुवृत्ति-सहित-सूत्रम्‌— द्वितीया खट्वा सुप् क्तेन सुपा सह क्षेपे तत्पुरुषः समासः |

उदाहरणानि
१) खट्वारूढो जाल्मः |

२) खट्वाप्लुतः (यः कुमार्गं गच्छति)  |


४) सामि (२.१.२७)

सामि (२.१.२७) = सामि इति अव्ययशब्दस्य क्तप्रत्ययान्तेन सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति | सामि इत्यव्ययमेकपदमिदं सूत्रम् | सामि इत्येतदव्ययम् अर्धशब्दपर्यायः अस्ति, तस्य अव्ययसंज्ञा इति कारणेन तस्य द्वितीयया सह सम्बन्धः नास्ति | अनुवृत्ति-सहित-सूत्रं— द्वितीया सामि सुप् क्तेन सुपा सह विभाषा तत्पुरुषः समासः |

उदाहरणानि
१) सामि कृतं = सामिकृतम्, सामि कृतम्  |
२) सामि पीतं = सामिपीतम्, सामि पीतम् |

५) कालाः (२.१.२८)

कालाः (२.१.२८) = कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह विकल्पेन समस्यन्ते , तत्पुरुषश्च समासो भवति | कालाः इति बहुवचननिर्देशः स्वरूपनिरासार्थः | अनुवृत्ति-सहित-सूत्रं— द्वितीयाः कालाः सुपः क्तेन सुपा सह विभाषा  तत्परुषाः समासाः |

उदाहरणानि
१) मासं प्रमितः ( measured) = मासप्रमितः प्रतिपच्चन्द्रः, मासं परिच्छेत्तुम् आरब्धवान् इत्यर्थः |


२) अहः अतिसृताः मुहूर्ताः = अहरतिसृताः मुहूर्ताः ( The six muhurtas which have gone over to the day and become part of the day during Uttarayana),  अहः अतिसृताः मुहूर्ताः |



३) रात्रिम् अतिसृताः मुहूर्ताः  = रात्र्यतिसृताः मुहूर्ताः ( the muhurtas which have gone over to the night during Dakshinayana) |  रात्रौ ये मुहूर्ताः आगच्छन्ति |



४) रात्रिम् सङ्क्रान्ताः = रात्रिसङ्क्रान्ताः ( the muhurtas which have gone over to the night during Dakshinayana) |  रात्रौ ये मुहूर्ताः आगच्छन्ति  |


६) अत्यन्तसंयोगे च (२.१.२९)

अत्यन्तसंयोगे च (२.१.२९) = कालवाचिनः द्वितीयान्ताः शब्दाः अत्यन्तसंयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति | कालाः इत्येव | अक्तान्तार्थं वचनम् | अर्थात् उत्तरपदं सुबन्तं स्यात् परन्तु क्तप्रत्ययान्तं विहाय | अनुवृत्ति-सहित-सूत्रं— अत्यन्तसंयोगे द्वितीयाः कालाः सुपः सुपा सह विभाषा तत्पुरुषः समासः |

उदाहरणानि
१) मुहूर्तं सुखं = मुहूर्तसुखम् | मुहूर्तव्यापि सुखमित्यर्थः (pleasure lasting for a muhurta) | द्विक्षणात्मकं सुखम् |
२) सर्वरात्रं कल्याणी = सर्वरात्रकल्याणी (blissful for the whole night) |

सर्वा चासौ रात्रिः च = सर्वरात्रः इति कर्मधारयसमासः | अत्र विशेषणं विशेष्येण बहुलम् ( २.१.५७) इति सूत्रेण विशेषणपूर्वपदकर्मधारयसमासः भवति | सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः इत्यनेन वार्तिकेन सर्वा इत्यस्य पुंवद्भावः भूत्वा सर्वरात्रि इति भवति |


अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ( ५.४.८७) = तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' ( counted) तथा 'पुण्य' इत्येतेषु कश्चन शब्दः, एकदेशवाचकः शब्दः ( यत्र अवयव-अवयविभावः अस्ति) , संख्यावाचकः शब्दः ( एकं, द्वे, त्रीणि इत्यादीनि) , अथवा अव्ययवाचकः शब्दः ( यथा अति, अपि, इत्यादीनि) अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति | अनुवृत्ति-सहितसूत्रम्‌— सङ्ख्याऽव्ययादेः अहः सर्वैकदेशसंख्यातपुण्यात् च ,  रात्रेः तत्पुरुषस्य प्रादिपदिकात् अच् प्रत्ययः परश्च समासान्तः तद्धितः | यथा - अहोरात्रः, सर्वरात्रः, सङ्ख्यातरात्रः, पुण्यरात्रः, पूर्वरात्रः, अतिरात्रः |



रात्राह्नाहाः पुंसि ( २.४.२९) = यदा समासस्य उत्तरपदं रात्र, अहन्, अह च अस्ति, तथा च समासान्तप्रत्ययः कृतः, तदा द्वन्द्वतत्पुरुषसमासः पुंलिङ्गे भवति | अनुवृत्ति-सहितसूत्रम्‌— द्वन्द्वतत्पुरुषाः रात्राह्नाहाः पुंसि | यथा - पूर्वाह्णः, अपराह्णः, मध्याह्नः, द्व्यहः, त्र्यहः |


संख्यापूर्वं रात्रं क्लीबम् | इदं वार्तिकं नास्ति अपि तु लिङ्गानुशासनस्य सूत्रम् | यस्मिन् समासे संख्यावाचकं पदम् पूर्वपदे अस्ति अपि च उत्तरपदं रात्रशब्दः अस्ति तर्हि समासः नपुंसकलिङ्गे भवति | अयं नियमः रात्राह्नाहाः पुंसि ( २.४.२९) इत्यस्य अपवादः अस्ति | यथा - द्वयोः रात्र्योः समाहारः = द्विरात्रम् | एवमेव त्रिरात्रं, चतूरात्रम् |




b)    तृतीयातत्पुरुषसमासः

१) तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०)

तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०) = तृतीयान्तं तत्कृतेन गुणवचनेन, तत्कृतेन अर्थ-शब्देन च सह विकल्पेन समस्यते, तत्पुरुषसमासश्च भवति |  तृतीयान्तं सुबन्तं, तृतीयान्तार्थेन सम्पादितः गुणवाचिना प्रातिपदिकेन सह एवञ्च अर्थ-शब्देन च सह समस्यते  | प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति, तेन तृतीया इत्युक्ते तृतीयान्तः इति अर्थः भवति | अनुवृत्ति-सहित-सूत्रं— तृतीया सुप् तत्कृतार्थेन गुणवचनेन सुपा सह विभाषा तत्पुरुषः समासः |


तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०) इति सूत्रे तृतीयान्तपदार्थः गुणे, अर्थे च हेतुः स्यात् | अस्य सूत्रस्य अर्थद्वयं वर्तते –

१)     तृतीयान्तं पदं तत्कृतेन गुणवचनेन सह समस्यते |

२)     तृतीयान्तं पदं तत्कृतेन अर्थेन सह समस्यते  |

उदाहरणानि
१)      तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते – पूर्वपदं तृतीयान्तं पदं भवति, उत्तरपदं गुणवाचिशब्दः भवति |

गुणवचनः =  गुणः, क्रिया च सर्वदा द्रव्यम् आश्रित्य एव तिष्ठति | सुन्दरः पुरुषः इति वदामः चेत् सौदर्यम् इति गुणः पुरुषम् आश्रित्य एव तिष्ठति | एवं चालकः पुरुषः इति वदामः चेत् चलनक्रिया तु पुरुषम् आश्रित्य एव भवति | अतः गुणः, क्रिया च सर्वदैव द्रव्यम् आधाररूपेण स्वीकरोति | गुणः यस्मिन् द्रव्ये अस्ति तद्बोधकः शब्दः गुणवचनः अथवा गुणवाचकः इति उच्यते | गुणम् उक्तवान् गुणवचनः |


१) शङ्कुलया (knife) खण्डः ( cut) = शङ्कुलाखण्डः देवदत्तः, शङ्कुलया खण्डः  |



२) किरिणा काणः = किरिकाणः (blinded by a boar), किरिणा काणः | काणत्वम् इत्युक्ते अन्धत्वम् | अन्धत्वम् इति एकः गुणः यस्मिन् पुरुषे वर्तते | काणः = अन्धः, गुणवचनः | काणः नाम काणत्वविशिष्टः पुरुषः इत्यर्थः | काणत्वे कारणं किरिः (वराहः) |



३) पङ्केन ( Slush) कलुषः (  dirty) = पङ्ककलुषः, पङ्केन कलुषः |

४) कुसुमेन ( पुष्पं)  सुरभिः (सुगन्धः) = कुसुमसुरभिः, कुसुमेन सुरभिः | सुरभिगन्धः कुसुमेन उत्पद्यते |

५) बाणेन वेधः (wounded) = बाणवेधः, बाणेन वेधः |

६) निःश्वासेन अन्धः आदर्शः = निःश्वासान्धः, निःश्वासेन अन्धः आदर्शः ( दर्पणम्) |

७) शलाकया काणः = शलाकाकाणः, शलाका काणः |

८) विद्यया मान्यः = विद्यामान्यः, विद्यया मान्यः |

९) मदेन अन्धः = मदान्धः, मदेन अन्धः |

१०) चन्दनेन सुरभिः = चन्दनसुरभिः, चन्दनेन सुरभिः |

११) वातेन शूरः = वातशूरः, वातेन शूरः |

१२) व्रणेन काणः = व्रणकाणः, व्रणेन काणः |

१३) सुधया धवलः = सुधाधवलः, सुधया धवलः |

१४) भस्मना सितः = भस्मसितः, भस्मना सितः |



२)     तृतीयान्तं पदं तत्कृतेन अर्थेन समस्यते  |


१) धान्येन अर्थः = धान्यार्थः | धान्येन हेतुना यत् धनं सम्पादितम् इत्यर्थः | अत्र तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०) इत्यनेन समासः भवति |२) विद्यया अर्थः = विद्यार्थः;

३) पुण्येन अर्थः = पुण्यार्थः

४) हिरण्येन अर्थः = हिरण्यार्थः

५) फलेन अर्थः = फलार्थः

६) गृहेण अर्थः =  गृहार्थः

७) धनेन अर्थः = धनार्थः

८) चौर्येण अर्थः = चौर्यार्थः


२) पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः (२.१.३१)

पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः (२.१.३१) = तृतीयान्तं सुबन्तं पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्ण इत्येतैः सह विकल्पेन समस्यते, तत्पुरुषश्च समसो भवति | अनुवृत्ति-सहित-सूत्रं— तृतीया सुप् पूर्व- सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्णैः सुब्भिः सह  विभाषा  तत्पुरुषः समासः |

उदाहरणानि
पूर्व →  १) मासेन पूर्वः = मासपूर्वः, मासेन पूर्वः, मासात् पूर्वः | देवदत्तः यज्ञदत्तात् मासपूर्वः |

२) संवत्सरेण पूर्वः = संवत्सरपूर्वः, संवत्सरेण पूर्वः, संवत्सरात् पूर्वः |



सदृश →

१) मात्रा = मातृसदृशः, मात्रा सदृशः पुत्रः | २) पित्रा सदृशी = पितृसदृशी, पित्रा सदृशी पुत्री |

३) आकारेण सदृशः = आकारसदृशः आकारेण सदृशः |


सम

१) मात्रा समः = मातृसमः, मात्रा समः पुत्रः |

२) द्रोणेन समः अर्जुनः = द्रोणसमः, द्रोणेन समः |


ऊनार्थ ऊनम् इति शब्दस्य न्यूनम् इति अर्थः | न्यूनम् इत्यस्मिन् अर्थे यानि पदानि सन्ति, तेषां सर्वेषां ग्रहणम्  | १) माषेण ऊनम् = माषोनं तोलकं, माषेण ऊनं तोलकम् | एकः माषः न्यूनः ( less by a particular measure) इत्यर्थः |

२) पादेन ऊनः = पादोनः, पादेन ऊनः |

३) माषेण विकलम् = माषविकलं तोलकं, माषेण विकलं तोलकम्   | विकलम् इति शब्दः ऊनार्थे अस्ति |


कलह

१) वाचा कलहः = वाक्कलहः, वाचा कलहः | चोः कुः (८.२.३०) इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च |



निपुण

१)वाचा निपुणः= वाङ्निपुणः, वाचा निपुणः |

२) आचारेण निपुणः = आचारनिपुणः, आचारेण निपुणः |


मिश्र→

१) गुडेन मिश्रः = गुडमिश्रः |

२) तिलेन मिश्रः = तिलमिश्रः |


श्लक्ष्ण →

१) आचारेण श्लक्ष्णः ( gentle, sincere)  = आचारश्लक्ष्णः, आचारेण श्लक्ष्णः |

२) कुट्टेन श्लक्षणम् = कुट्टश्लक्षणम् , कुट्टेन श्लक्षणम् |



मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम्, मिश्रं चानुपसर्गमसन्धौ इत्यत्रानुपसर्गग्रहणात् इति वार्तिकम् | अर्थात् सूत्रे मिश्र इति शब्दः उक्तः, तस्य द्वारा उपसर्गयुक्तस्य मिश्र-शब्दस्य अपि ग्रहणं भवति | अतः सम्मिश्रः इत्यादीनाम् अपि ग्रहणं भवति | अस्य प्रमाणं स्वरप्रक्रियायाम् इदं सूत्रं मिश्रं चानुपसर्गमसंधौ (६.२.१५४) इति |

गुडेन सम्मिश्रः = गुडसम्मिश्रः, गुडेन सम्मिश्रः |


प्रकृतसूत्रे ऊनम् इति शब्दः उक्तः, तेन सह अन्यसमानार्थकानां शब्दानाम् अपि ग्रहणं क्रियते | परन्तु पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति यतोहि यदि तथा विवक्षितः आसीत् तर्हि सम इति शब्दस्य पृथक्तया उल्लेखः न क्रियते सूत्रे | अतः पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति, केवलम् ऊनम् इति शब्दस्य समानार्थकानां ग्रहणं क्रियते |


पूर्वादिष्ववरस्योपसङ्ख्यानम् इति वार्तिकम् अस्ति | वार्तिकार्थः  – तृतीयान्तं समर्थं सुबन्तम् अवरः (कनिष्ठः, अश्रेष्ठः,  junior) इति सुबन्तेन सह समस्यते | वार्तिके तृतीया इति पदस्य अनुवृत्तिः भवति प्रकृतसूत्रात् | अतः अनेन वार्तिकेन मासेन अवरः = मासावरः (less by a month), मासेन अवरः इति तृतीयातत्पुरुषसमासः भवति | संवत्सरेण अवरः = संवत्सरावरः ( less by a year), संवत्सरेण अवरः | 


३) कर्तृकरणे कृता बहुलम्‌ (२.१.३२)

कर्तृकरणे कृता बहुलम्‌ (२.१.३२) = कर्तरि करणे च या तृतीया, तदन्तं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति | कर्तरि या तृतीयाविभक्तिः, करणे वा या तृतीयाविभक्ति सा कृदन्तेन बहुलं समस्यते | अनुवृत्ति-सहित-सूत्रं— कर्तृकरणे तृतीया सुप् कृता सुपा सह बहुलं  तत्पुरुषः समासः |


भाष्यकारस्य मतानुसारेण बहुलम् इति शब्दस्य प्रयोगेण सूत्रे कृत् इति शब्देन केवलं क्त-प्रत्ययस्यैव ग्रहणं भवति | अतः केवलं क्त-प्रत्ययान्तानां शब्दानाम् उदाहरणानि एव द्रष्टुं शक्यन्ते |


बहुलग्रहणेन कुत्र अप्रवृत्तिः इति चेत् दात्रेण लूनवान् इत्यत्र | दात्रेण लूनवान् = अत्र करणार्थे दात्रेण इति तृतीयान्तस्य शब्दस्य कृत्प्रत्ययान्तेन लूनवान् इति शब्देन सह समासः न भवति | प्रकृतसूत्रे बहुलग्रहणात् क्तवतु, शतृ, शानच्, इत्यादीनां कृदन्तानां योगे तु समासः न भवति |

उदाहरणानि
१) कर्त्रर्थे तृतीया


१) रामेण हतः = रामहतः रावणः | कर्तरि तृतीयायाः कृदन्तेन सह समासः  | राम +टा + हत+सु इति अलौकिकविग्रहवाक्यम् | कर्तृकरणे कृता बहुलम्‌ (२.१.३२) इति सूत्रेण तृतीयातत्पुरुषसमासः | रामहतः रावणः अस्ति | रामहतः इति समासेन कः उक्तः इति चेत् कर्म एव उक्तं भवति यतोहि क्तप्रत्ययः कर्मार्थे अस्ति | अतः रामहतः कः इति चेत् रावणः इत्यर्थः |

२) हरिणा त्रातः = हरित्रातः, हरिणा त्रातः गजेन्द्रः | त्राणक्रियायां हरिः कर्ता |

३) अहिना हतः = अहिहतः ( killed by a snake) परीक्षित्, अहिना हतः |

४) अन्यैः पुष्टा = अन्यपुष्टा (female cuckoo) पिकी, अन्यैः पुष्टा पिकी |

५) परेण भृतः= परभृतः शावकः , परेण भृतः शावकः |

६) प्रज्ञया हीनः = प्रज्ञाहीनः, प्रज्ञया हीनः |

७) परैः भृतः (carried, nourish) = परभृतः शावकः , परैः भृतः शावकः |

८) विद्यया रहितः = विद्यारहितः, विद्यया रहितः |

९) बलिभिः (strength) पुष्टः = बलिपुष्टः, बलिभिः  पुष्टः |

१०) देवेन त्रातः = देवत्रातः, देवेन त्रातः |

११) देवेन खातः (ditch) = देवखातः, देवेन खातः |

१२) चौरैः हृतः (taken)  = चौरहृतः, चौरैः हृतः |

१३) गोतमेन विरचितम् = गोतमविरचितम् |

१४ ) शिवेन त्रातः = शिवत्रातः, शिवेन त्रातः |

१५) शिवया त्रातः = शिवात्रातः, शिवया त्रातः |


करणार्थे तृतीया

१) बाणेन हतः = बाणहतः, बाणेन हतः | करणे तृतीयायाः कृदन्तेन सह समासः | बाणहतः वाली अस्ति | बाणहतः इति समासेन कः उक्तः इति चेत् कर्म एव उक्तं भवति यतोहि क्तप्रत्ययः कर्मार्थे अस्ति | अतः बाणहतः कः इति चेत् वाली इत्यर्थः |

२) नखैः भिन्नः = नखभिन्नः, नखैः भिन्नः | भेदनक्रियायां नखाः करणम् |

३) परशुना छिन्नः = परशुछिन्नः, परशुना छिन्नः |

४) दात्रेण लूनः = दात्रलूनः ( wounded by a knife), दात्रेण लूनः |

५) नखैः निर्भेदः = नखनिर्भेदः, नखैः निर्भेदः  | अत्र भिद् इति धातोः घञन्तरूपम् अस्ति भेदः इति | सामान्यतया घञन्तेन सह समासः न भवति परन्तु बहुलग्रहणात् अत्र अपि समासः दृश्यते |


तप्ते नकुलस्थितम् इति | स्थितमिति भावे क्तप्रत्ययः | नकुलेन स्थितम् इति नकुलस्थितम् इति समासः | अस्मिन् विषये अग्रे क्षेपे (२.१.४७) इति सप्तमीतत्पुरुषसमाससूत्रस्य प्रसङ्गे द्रक्ष्यामः |


४) कृत्यैरधिकार्थवचने (२.१.३३)

कृत्यैरधिकार्थवचने (२.१.३३) = कर्तृकरणयो: या तृतीया, तदन्तं सुबन्तं कृत्यैः सह समस्यते अधिकार्थवचने गम्यमाने विभाषा तत्पुरुषश्च समासो भवति | अस्मिन् सूत्रे कृत्यप्रत्ययाः उक्ताः | तव्यत्तव्यानीयरः (३.१.९६) इत्यस्मात् सूत्रात् आरभ्य ण्वुल्तृचौ ( ३.१.१३३)  इति सूत्रपर्यन्तं  ये प्रत्ययाः उक्ताः ते सर्वे कृत्य-प्रत्ययाः सन्ति | अर्थात् तव्य, तव्यत्, अनीयर्, ण्यत्, यत्, क्यप्, केलिमर् इति आहत्य सप्त कृत्यप्रत्ययाः सन्ति | एते प्रत्ययाः कर्मार्थे अथवा भावार्थे भवन्ति | अधिकार्थवचनम् इत्युक्ते स्तुतेः विषये अथवा निन्दायाः विषये; किमपि आरोपितम्, अधिकं वदनम्, अधिकार्थवचनम् इत्युच्यते | स्तुतिनिन्दाप्रयुक्तमध्यारोपितार्थवचनम् अधिकार्थवचनम् |  पूर्वसूत्रेण अयं समासः प्राप्यते चेद् अपि पाणिनिना पृथक् सूत्रं कृतं यतोहि नियमार्थम् इदं सूत्रम् | अनुवृत्ति-सहित-सूत्रम्‌— कर्तृकरणे तृतीया सुप् कृत्यैः सुब्भिः सह अधिकार्थवचने बहुलं तत्पुरुषः समासः |

उदाहरणानि
१) वातेन छेद्यं तृणम् = वातच्छेद्यं तृणं, वातेन छेद्यं तृणम् |
२) काकैः पेया नदी = काकपेया नदी, काकैः पेया नदी |
३) श्वभिर्लेह्यः कूपः = श्वलेह्यः कूपः, श्वभिर्लेह्यः कूपः |
४) नखैर्छेद्यम् = नखच्छेद्यम् , नखैर्छेद्यम् |
काशिकारस्य मतेन कृत्य-प्रत्ययेन केवलं यत्, ण्यत् इति प्रत्ययोः एव ग्रहणं न तु तव्यदादीनाम् | कृत्यग्रहणे यत्‌-ण्यतोः ग्रहणं कर्तव्यम् | अतः काकैः पातव्या इत्यादिषु समासः न भवति |

५) अन्नेन व्यञ्जनम् (२.१.३४)

अन्नेन व्यञ्जनम् (२.१.३४) = व्यञ्जनवाचि तृतीयान्तं सुबन्तम् अन्नवाचिना सुबन्तेन सह समस्यते, विभाषा तत्पुरुषश्च समासो भवति | अन्नं स्वादुं कर्तुम् उपयोगिनः व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तपदस्य अन्नवाचिना सुबन्तेन सह समासः भवति | व्यञ्जनं संस्कारकः, अन्नं सस्कार्यं भवति | अनयोः मध्ये उपसेचनक्रिया (शाकसूपादिः) भवति येन संस्कार्यसंस्कारकभावः उत्पद्यते | अतः सामर्थ्योत्पादनयोग्यतावशात् समासवृत्तौ अन्तर्भूता उपसेचनक्रिया आक्षिप्यते | स्वादिष्टान्नस्य करणार्थं संस्कारकद्रव्यस्य आवश्यक्ता अस्ति, तस्य नाम व्यञ्जनम् इति | संस्क्रियते गुणविशेषतया क्रियते अनेन इति संस्कारो दध्यादिः | अनुवृत्ति-सहित-सूत्रम्‌—तृतीया व्यञ्जनं सुप् अन्नेन सुपा सह  विभाषा तत्पुरुषः समासः |


उदाहरणानि
१) दध्ना ओदनः = दध्योदनः, दध्ना ओदनः |
२) क्षीरेण ओदनः = क्षीरौदनः, क्षीरेण ओदनः | क्षीरोदनः इति वैदिकप्रयोगः दृश्यते | लोके तु क्षीरौदनः इति रूपं सम्यगस्ति |
३) तक्रेण ओदनम् = तक्रौदनम्, तक्रेण ओदनम् |
४) दध्ना अन्नम् = दध्यन्नम् , दध्ना अन्नम् |
५) सूपेन ओदनः = सूपौदनः, सूपेन ओदनः |
६) क्वथितेन ओदनः = क्वथितौदनः, क्वथितेन ओदनः |
७) पयसा ओदनः = पयओदनः / पययोदनः, पयसा ओदनः |



६) भक्ष्येण मिश्रीकरणम् ( २.१. ३५)

भक्ष्येण मिश्रीकरणम् ( २.१. ३५) = मिश्रीकरणवाचि तृतीयान्तं सुबन्तं पदं भक्ष्यवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो विकल्पेन भवति | मिश्रिकरणं नाम मेलनम् इत्यर्थः अस्ति | भक्ष्यं नाम तादृशपदार्थः यः कठोरः, अवयवयुक्तः भवति, यस्य खादनार्थं हनोः प्रयोगः भवति | यत् वस्तु अन्यपदार्थेन सह मिलित्वा तस्य संस्कारकं भवति, तत् वस्तु एव मिश्रीकरणम् इत्युच्यते | अमिश्रं मिश्रं क्रियते अनेन इति मिश्रीकरणम् | मिश्र्यते खाद्यं द्रव्यम् अनेन इति मिश्रीकरणम् | भक्ष्- धातुतः ण्यत्प्रत्ययं योजयित्वा निष्पन्नः शब्दः भक्ष्यम् इति | अनुवृत्ति-सहित-सूत्रम्‌—तृतीया मिश्रीकरणं सुप् भक्ष्येण सुपा सह  विभाषा तत्पुरुषः समासः |

उदाहरणानि
१) गुडेन (मिश्रिताः) धानाः = गुडधानाः |
२) गुडेन पृथुकाः ( beaten rice) = गुडपृथुकाः |




c) चतुर्थीतत्पुरुषसमासः

चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६)

चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६) = चतुर्थ्यन्तं सुबन्तं तदर्थ-अर्थ-बलि-हित-सुख-रक्षित इत्येतैः सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति | तदर्थः = चतुर्थ्यन्तं पदं, चतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति ( तदर्थः), तद्वाचकपदेन सह समस्यते | तस्मै इदं तदर्थम् | तदर्थः इति पदे तत् इति सर्वनामशब्दः पूर्वं यत् चतुर्थ्यन्तपदम् अस्ति तस्य एव सङ्केतं करोति | अतः तदर्थम् इत्युक्ते चतुर्थ्यन्तार्थम् इत्यर्थः | तदर्थेन प्रकृतिविकारभावे समासो अयम् इष्यते | अर्थात् तदर्थेन केवलं यत्र प्रकृति-विकृतिभावः भवति तत्र एव चतुर्थीतत्पुरुषसमासः भवति | यथा कुण्डलम् (आभरणं) कर्तुमेव हिरण्यम् ( सुवर्णम्) अस्ति | हिरण्यं प्रकृतिः, कुण्डलं तस्य विकृतिः, अतः कुण्डलहिरण्यम् इति समासः | अर्थ-बलि-हित-सुख-रक्षित = एवञ्च चतुर्थ्यन्तं पदम् अर्थ-बलि-हित- सुख-रक्षित च इत्येतैः शब्दैः सह  विकल्पेन समस्यते | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— चतुर्थी सुप् तदर्थ-अर्थ-बलि-हित-सुख-रक्षितैः सुब्भिः सह विभाषा  तत्पुरुषः समासः |


तदर्थः = अस्मिन् सूत्रे तदर्थः इत्युक्ते चतुर्थ्यन्तार्थाय इत्यर्थः | तस्मै इदं तदर्थम् | अर्थात् चतुर्थ्यन्तार्थं यत् वस्तु अस्ति तत् तदर्थं भवति | पूर्वपदे चतुर्थीविभक्त्यन्तः प्रत्ययः अस्ति इति कारणेन तदन्तं पदं चतुर्थ्यन्तं भवति | चतुर्थ्यन्तपदं, तादृशचतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति, तद्बोधकेन शब्देन सह चतुर्थीतत्पुरुषसमासः विकल्पेन भवति | पूर्वपदं चतुर्थ्यन्तं पदम्, उत्तरपदम् चतुर्थ्यन्तार्थं यत् पदम् अस्ति, तद्बोधकं पदम् | तात्पर्यमेवं यत् पूर्वपदं विकृतिः स्यात्, उत्तरपदं प्रकृतिः स्यात् |


तदर्थेन प्रकृतिविकृतिभावः एव गृह्यते, बलिरक्षितग्रहणात् ज्ञापकात् |


चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६) इति सूत्रे तदर्थः इति शब्देन प्रत्येकं तदर्थस्य ग्रहणम् अभीष्टं नास्ति, अपि तु प्रकृतिविकृतिभावरूपस्य तदर्थस्य एव ग्रहणम् इष्टम् |

उदाहरणानि
१) यूपाय दारु = यूपदारु |
तादर्थे चतुर्थी वाच्या इति वार्तिकं चतुर्थी सम्प्रदाने (२.३.१३) इति सूत्रभाष्ये पठितम् | तस्मै इदं तदर्थम् | तदर्थस्य भावः तादर्थ्यं, तस्मिन् तादर्थ्ये | वार्तिकार्थः अस्ति – तादर्थे चतुर्थीविभक्तिः भवति | अर्थात् तस्मिन् प्रयोजने इत्यस्मिन् अर्थे चतुर्थीविभक्तिः भवति | यत् वस्तु प्राप्तुं कोपि किमपि कार्यं करोति तत् तदर्थम् इति वदामः | वार्तिकेन उपकार्योपकारकभावसंबन्धो विवक्षितः | उपकार्यत्वं च बहुविधं जन्यत्वादि |


यथा मुक्तये हरिं भजति इति | मुक्तिं प्राप्तुं हरेः भजनं क्रियते | अत्र मुक्तिः प्रयोजनम् अस्ति, तदर्थम् एव हरेः भजनं क्रियते | मुक्तिः उपकार्यम् अस्ति, हरिभजनम् उपकारकम्  |


२) कुण्डलाय हिरण्यम् = कुण्डलहिरण्यं (सुवर्णं कुण्डलस्य उत्पादनार्थम्) |

मूलं सुवर्णं, तस्य विकारेण कुण्डलं निर्मीयते | प्रकृतिविकृतिभावः अस्ति इति कारणेन अत्रापि चतुर्थीतत्पुरुषसमासः भवति |

३) गृहाय दारु = गृहदारु, गृहाय दारु |

४) कुम्भाय मृत्तिका = कुम्भमृत्तिका, कुम्भाय मृत्तिका |

५) नवनीताय दधि = नवनीतदधि, नवनीताय दधि |

६) दध्ने दुग्धम् = दधिदुग्धम् ,दध्ने दुग्धम् |



अर्थः

प्रकृतसूत्रे अर्थः इत्युक्ते प्रयोजनम् इति अर्थः |


द्विजाय अयं = द्विजार्थः (सूपः) |


वार्तिकम् = अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् इति वार्तिकेन अर्थ-शब्देन सह नित्यसमासः, विशेष्यलिङ्गविधानं च क्रियते | अर्थ-शब्देन सह समासः नित्यः भवति न तु विकल्पेन अपि च अर्थ-शब्दस्य लिङ्गं विशेष्यम् अनुसृत्य भवति | अर्थः इति शब्दस्य प्रयोजनम् इत्यर्थः स्वीक्रियते | चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६) इति सूत्रेण समासः विकल्पेन भवति परन्तु अर्थ-शब्देन सह तु समासः नित्यः इति कारणेन एव वार्तिकम् उक्तम् | नित्यसमासः भवति यतोहि अस्वपदविग्रहः भवति |

द्विजार्थः सूपः |

द्विजाय इयं यवागूः = द्विजार्था यवागूः |

द्विजाय इदं पयः = द्विजार्थं पयः |

तस्मै इदं पुस्तकम् = तदर्थं पुस्तकम् |

शिशवे इदं पयः = शिश्वर्थं पयः |


भोजनार्थं गच्छामि इति वाक्ये भोजनार्थम् इति पदं क्रियाविशेषणम् अस्ति | भोजनाय इदं = भोजनार्थम् इति चतुर्थीतत्पुरुषसमासः अस्ति परन्तु तस्य लिङ्गं नपुंसकलिङ्गे अस्ति यतोहि क्रियाविशेषणम् अस्ति | क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्गञ्च वक्तव्यम् इति वार्तिकेन क्रियाविशेषणं नपुंसकलिङ्गे, द्वितीयाविभक्तौ एकवचने भवति |


बलिः

भूतेभ्यः बलिः = भूतबलिः, भूतेभ्यः बलिः |

पशुभ्यः बलिः = पशुबलिः, पशुभ्यः बलिः |


हितः

हितशब्दस्य योगे तु तादर्थे चतुर्थी वाच्या इति वार्तिकेन चतुर्थी न भवति अपि हितयोगे च इति वार्तिकेन चतुर्थीविभक्तिः भवति | हितयोगे च इति वार्तिकस्य ज्ञापकं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६) इति सूत्रमेव |

गोभ्यः हितम् = गोहितम्  |

प्रजाभ्यः हितम् = प्रजाहितम् |

अश्वेभ्यः हितम् = अश्वहितम् |


सुखम्

गोभ्यः सुखं =गोसुखम् |


रक्षितः

गोभ्यः रक्षितं = गोरक्षितम् |

अश्वेभ्यः रक्षितम् = अश्वरक्षितम् |



d) पञ्चमीतत्पुरुषसमासः

पञ्चमी-तत्पुरुषस्य विषये त्रीणि सूत्राणि सन्ति | क्रमेण अवलोकयाम |

१) पञ्चमी भयेन (२.१.३७)

पञ्चमी भयेन (२.१.३७) = पञ्चम्यन्तं सुबन्तं भय इति सुबन्तेन सह समस्यते विकल्पेन, तत्पुरुषश्च समासो भवति | अनुवृत्ति-सहित-सूत्रं— पञ्चमी सुप् भयेन सुपा सह विभाषा तत्पुरुषः समासः |


भयभीतभीतिभीभिरिति वाच्यम् (भयभीतभीतिभीभि: इति तृतीया, बहुचनम् ) इति वार्तिकेन प्रकृतसूत्रे भयेन इति पदस्य स्थाने भय-भीत-भीति-भी इति वक्तव्यम् आसीत् | अनेन भय-भीत-भीति-भी इत्येतैः शब्दैः सह पञ्चम्यन्तं सुबन्तं समस्यते |

उदाहरणानि
१) चोराद्भयं = चोरभयम्, चोरभयम् 

२) वृकात् भीतः = वृकभीतः, वृकात् भीतः 

३) वृकात् भयम् = वृकभयं, वृकात् भयम्

४) वृकात् भीतिः = वृकभीतिः, वृकात् भीतिः

५) वृकात् भीः = वृकभीः, वृकात् भीः

६) भयाद् भीतः = भयभीतः, भयात् भीतः

७) सिंहाद् भीतिः = सिंहभीतिः, सिंहात् भीतिः |


सूत्रविभागेन अधः दत्तानि पदानि अपि सिध्यन्ति –

१) ग्रामात् निर्गतः = ग्रामनिर्गतः, ग्रामात् निर्गतः |

२) विषयेभ्यः उपरतः = विषयोपरतः, विषयेभ्यः उपरतः |

३) अधर्मात् जुगुप्सा = अधर्मजुगुप्सा, अधर्मात् जुगुप्सा |


२) अपेतापोढमुक्तपतितापत्रस्तैरल्पशः (२.१.३८)

अपेतापोढमुक्तपतितापत्रस्तैरल्पशः (२.१.३८) = कुत्रचित् (अल्पशः) पञ्चम्यन्तं सुबन्तम् अपेत-अपोढ-मुक्त-पतित-अपत्रस्त इत्येतैः सह, तत्पुरुषश्च समासो विकल्पेन भवति | अनुवृत्ति-सहित-सूत्रं— अल्पशः पञ्चमी सुप् अपेत-अपोढ- मुक्त-पतित-अपत्रस्त सुब्भिः सह विभाषा तत्पुरुषः समासः |


अपेत ( अप +इण्+ कर्तरि क्तप्रत्ययः) = departed , अपोढ ( अप+ वह् +क्त) = taken away, removed, carried off , मुक्तः ( मुच् +क्त) = freed , पतितः ( पत् + कर्तरि क्त) = dropped, अपत्रस्तः ( अप+ त्रस् +क्त) = afraid of, fleeing.

उदाहरणानि
१) सुखाद् अपेतः (विमुक्तः) = सुखापेतः (सुखात् दूरम् इत्यर्थः), सुखाद् अपेतः  |

२) दुःखात् अपेतः = दुःखापेतः, दुःखाद् अपेतः  |

३) कल्पनायाः अपोढः ( अपाकृतः) = कल्पनापोढः (कल्पनायाः बाधितः), कल्पनायाः अपोढः |

४) चक्राद् मुक्तः = चक्रमुक्तः (चक्रात् मुक्तिः इत्यर्थः), चक्राद् मुक्तः, चक्रान्मुक्तः |

५) रोगात् मुक्तः = रोगमुक्तः, रोगाद् मुक्तः, रोगान्मुक्तः  |

६) स्वर्गात् पतितः = स्वर्गपतितः, स्वर्गात् पतितः |

७) वृक्षात् पतितः = वृक्षपतितः, वृक्षात् पतितः  |

८) तरङ्गाद् अपत्रस्तः (भीतिः) = तरङ्गापत्रस्तः, तरङ्गाद् अपत्रस्तः |


३) स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन (२.१.३९)

स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन (२.१.३९) = स्तोक-अन्तिक-दूर इत्येवम् अर्थाः पञ्चम्यन्तशब्दाः, पञ्चम्यन्तकृच्छ्रशब्दश्च क्तान्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | स्तोकार्थकः (स्तोकः = अल्पः), अन्तिकार्थकः (अन्तिकः = समीपः), दूरार्थकः तथा कृच्छ्रशब्दः (कष्टम्), एतेषां पञ्चम्यन्त- सुबन्तपदानां क्तप्रत्ययान्तेन सुबन्तेन सह विकल्पेन तत्पुरुषश्च समासो भवति | अनुवृत्ति-सहित-सूत्रं— स्तोकान्तिकदूरार्थकृच्छ्राणि पञ्चम्याः सुपः क्तेन सुपा सह विभाषा तत्पुरुषः समासः |

उदाहरणानि
पञ्चम्याः स्तोकादिभ्यः (६.३.२) = इति सूत्रेण स्तोकादिभ्यः प्रातिपदिकेभ्यः या पञ्चमीविभक्तिः अस्ति, तस्याः लुक न भवति उत्तरपदे परे |

१) स्तोकाद् मुक्तः = स्तोकान्मुक्तः (विभक्तेः अलुक् भवति), स्तोकाद् मुक्तः, स्तोकेन मुक्तः | लघुना आयासेन/अनायासेन मुक्तः इत्यर्थः |


सविशेषणानां वृत्तिर्न वृत्तस्य विशेषणयोगो न इति उक्त्या | अतः सर्वस्मात् स्तोकाद् मुक्तः इत्यत्र समासः न भवति |


२) अल्पान्मुक्तः, अल्पेन मुक्तः | लघुना आयासेन मुक्तः इत्यर्थः


३) कृच्छ्रान्मुक्तः, कृच्छ्रेण मुक्तः | कष्टेन आयासेन मुक्तः इत्यर्थः |
४) कतिपयान्मुक्तः, कतिपयेन मुक्तः | अकृत्स्नेन साधनेन इत्यर्थः |
५) अन्तिकाद् ( समीपात्) आगतः = समासः अन्तिकादागतः, व्यस्तप्रयोगाः अन्तिकाद् आगतः, अन्तिकम् आगतः, अन्तिकेन आगतः, अन्तिके आगतः |
६) अभ्याशाद् (समीपात्) आगतः = अभ्याशादागतः, अभ्याशाद् आगतः, अभ्याशम् आगतः, अभ्याशेन आगतः, अभ्याशे आगतः | अभि + अश् (अशू व्याप्तौ) + घञ् = अभ्याशः ( समीपम् इत्यर्थः) |
७) दूराद् आगतः = दूरादागतः, दूराद् आगतः, दूरम् आगतः, दूरेण आगतः, दूरे आगतः |
८) कृच्छ्राद् ( कष्टात्) आगतः = कृच्छ्रादागतः, कृच्छ्राद् आगतः, कृच्छ्रेण आगतः |
९) विप्रकृष्टाद् ( दूरात्) आगतः = विप्रकृष्टादागतः, विप्रकृष्टाद् आगतः, विप्रकृष्टम् आगतः, विप्रकृष्टेन आगतः, विप्रकृष्टे आगतः |
१०) अल्पात् मुक्तः = अलपान्मुक्तः, अल्पाद् मुक्तः, अल्पेन मुक्तः |
११) कृच्छ्राद् ( कष्टात्) मुक्तः = कृच्छ्रान्मुक्तः, कृच्छ्राद् मुक्तः, कृच्छ्रेण मुक्तः |
१२) कृच्छ्राद् लब्धः = कृच्छ्राल्लब्धः, कृच्छ्राद् लब्धः , कृच्छ्रेण लब्धः|
१३) समीपाद् आगतः = समीपादागतः, समीपाद् आगतः, समीपम् आगतः, समीपेन आगतः, समीपे आगतः  |


e)     सप्तमीत्पुरुषसमासः

१) सप्तमी शौण्डैः (२.१.४०)

सप्तमी शौण्डैः (२.१.४०) = सप्तम्यन्तं पदं शौण्डाऽदिभिः समर्थसुबन्तपदैः सह समस्यते, तत्पुरुषाश्च समासश्च विकल्पेन भवति | शौण्डादिगणे एते शब्दाः सन्ति – शौण्ड, धूर्त, कितव, व्याड, प्रवीण, संवीत, अन्तर् (सामान्यतया अधिकरणार्थे एव पठ्यते ), अधि, पटु, पण्डित, कुशल, चपल, निपुण | अन्तः शब्दः तु अधिकरणप्रधानः एव पठ्यते | अनुवृत्ति-सहित-सूत्रं— सप्तमी सुप् शौण्डैः सुब्भिः सह विभाषा तत्पुरुषः समासः |

उदाहरणानि
१) अक्षेषु शौण्डः (skilled) = अक्षशौण्डः, अक्षेषु शौण्डः |

२) अक्षेषु धूर्तः ( cunning) = अक्षधूर्तः, अक्षेषु धूर्तः |

३) काव्ये निपुणः = काव्यनिपुणः, काव्ये निपुणः |

४) शास्त्रे निपुणः = शास्त्रनिपुणः, शास्त्रे निपुणः |

५) कार्ये कुशलः = कार्यकुशलः, कार्ये कुशलः |

६) तर्के कुशलः = तर्ककुशलः, तर्के कुशलः |

७) गुहायां संवीतः ( covered) = गुहासंवीतः, गुहायां संवीतः |

८) ईश्वरे अधीनः = ईश्वराधीनः, ईश्वरे अधीनः | अस्य प्रक्रिया अग्रे प्रदर्शिता |

९) स्त्रीषु धूर्तः = स्त्रीधूर्तः, स्त्रीषु धूर्तः |

१०) अक्षेषु कितवः ( dishonest) = अक्षकितवः, अक्षेषु कितवः |

११) अक्षेषु व्याडः ( malicious, mischievous) = अक्षव्याडः, अक्षेषु व्याडः |

१२) कर्मणि प्रवीणः = कर्मप्रवीणः, कर्मणि प्रवीणः |

१३) पठने पटुः ( clever) = पठनपटुः, पठने पटुः |

१४) सभायां पण्डितः = सभापण्डितः, सभायां पण्डितः |

१५) वाचि चपलः = वाक्चपलः वाचि चपलः |

१६) शास्त्रे निपुणः = शास्त्रनिपुणः, शास्त्रे निपुणः |

१७) युद्धे निपुणः = युद्धनिपुणः, युद्धे निपुणः |


शौण्डादिगणे अधि इति शब्दः अपि पठितः अतः तेन सह अपि सप्तमीतत्पुरुषसमासः भवति |

१८) अधि ईश्वरे भूः = ईश्वाराधीना भूः, अधि ईश्वरे भूः | अत्र सप्तमी शौण्डैः (२.१.४०) इति सूत्रेण अधि इत्यस्य ईश्वरे इति सप्तम्यन्तेन सह समासः भवति | भूः नाम भूमिः इत्यर्थः | ईश्वरे अधीना भूः इति वाक्ये स्वस्वामिभावसम्बन्धः ज्ञायते | ईश्वरः स्वामी, भूः स्वा इति कारणतः स्वस्वामिभावसम्बन्धः ज्ञायते, अतः अधि इति पदस्य कर्मप्रवचनीयसंज्ञा भवति अधिरीश्वरे ( १.४.९७) इति सूत्रेण | तत्पश्चात् यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ( २.३.९) इति सूत्रेण अधि इति कर्मप्रवचनीययुक्ते ईश्वर इति शब्दात् सप्तमीविभक्तिः भवितुम् अर्हति नो चेत् भू इति शब्दात् अपि सप्तमी भवितुम् अर्हति, परन्तु ईश्वर इति शब्दात् सप्तमीविभक्तिः जायते चेदेव समासः शक्यते | भू इति शब्दात् सप्तमी जायते चेत् समासः न शक्यते | भ्वाधीनः ईश्वरः इति समासः न जायते |


१९) अधि रामे भूः = रामाधीना भूः, अधि रामे भूः |

२०) अधि राजनि प्रजाः = राजाधीनाः प्रजाः, अधि राजनि प्रजाः |

२१) वने अन्तः (अन्तर्) = वनान्तः ( वनप्रदेशः) , वने अन्तः |


अन्तर् इति शब्दः अव्ययम् अस्ति | अन्तर् इति शब्दः तु अधिकरणप्रधाने एव पठ्यते | अन्तर् इति शब्दस्य अधिकरणकत्वमात्रवृत्तित्वे तु विभक्त्यर्थे॑ नित्यमव्ययीभावः | अन्तर् इत्यस्य प्रयोगे तत्सामानाधिकरण्यमेव सप्तम्याः कारणम् | वने इति (मध्ये) = अन्तर्वणम् वसति इति पूर्वपदार्थप्रधान्ये तु `विभक्त्यर्थे यदव्ययम्` अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इत्यनेन अव्ययीभावसमासः एव भवति | अन्तर् इति शब्दः यदा अधिकरणप्रधानः भवति तदा अव्ययीभावसमासः भवति | यथा वने इति = अन्तर्वणम् ( in the middle of the forest) इति अव्ययीभावसमासः विभक्त्यर्थे भवति | रामः अन्तर्वणे/अन्तर्वणम् वसति इति वाक्ये अधिकरणस्य प्राधान्यं यतोहि अधिकरणार्थे अन्तर्वणम् इति समासः निष्पन्नः अस्ति | अतः अन्तर्वणम् इति समासे अन्तर् इति शब्दः अधिकरणमात्रवृत्तिः इति वक्तुं शक्यते | अन्तर्वणम् इत्यत्र णत्वं भवति प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि ( ८.४.५) इति सूत्रेण | अनेन सूत्रेण प्र निरन्तर् शर इक्षु प्लक्ष आम्र कार्ष्य खदिर पीयूक्षा इत्येतेभ्यः उत्तरस्य वननकारस्य संज्ञायामसंज्ञायामपि णकारादेशो भवति | प्र प्रवणे यष्टव्यम् | निर्निर्वणे प्रतिदीयते | अन्तर् अन्तर्वर्णे | शर शरवणम् | इक्षु इक्षुवणम् | प्लक्ष प्लक्षवणम् | आम्र आम्रवणम्। कार्ष्य कार्ष्यवणम् | खदिर खदिरवणम् | पीयूक्षा पीयूक्षावणम् |


अन्तः शब्दोऽत्र पठ्यते, तद्योगेऽवयविनः आधारत्वविवक्षायां सप्तमी, यथा वृक्षे शाखेति, वने अन्तः वनान्तः | अस्य विकल्पितत्वात् अव्ययीभावः अपि भवति, अन्तर्वणम् , वने इति | अत्र 'प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि ( ८.४.५)' इति सूत्रेण णत्वम्।


वने अन्तः (अन्तर्) = वनान्तः ( वनप्रदेशः) इति सप्तमीतत्पुरुषसमासः, विकल्पेन वने अन्तः इत्यपि भवति | वन्तान्तः इत्युक्ते वनप्रदेशः इति अर्थः अधिकरणार्थे नास्ति | यत्र अन्तर् इति आधेयप्रधानः तत्र तत्पुरुषसमासः, यथा वने अन्तः, वनान्तः | यत्र अन्तर् इति अधिकरणप्रधानः तत्र अव्ययीभावसमासः भवति | यथा वने इति = अन्तर्वणम् |


एवमेव अधि इति शब्दः अपि, यदा अधिकरणप्रधानः भवति तदा अव्ययीभावसमासः भवति | यथा स्त्रीषु इति = अधिस्त्रि इति अव्ययीभावसमासः विभक्त्यर्थे भवति | यदि अधि इति शब्दः आधेयप्रधानः भवति तर्हि तत्पुरुषसमासः भवति | यथा अधि ईश्वरे = ईश्वराधीनः इति सप्तमीतत्पुरुषसमासः, विकल्पेन ईश्वरे अधि इति | अस्मिन् वाक्ये ईश्वराधीनः कश्चन पुरुषः इति अवगन्तव्यम् |


२) सिद्धशुष्कपक्वबन्धैश्च (२.१.४१)

सिद्धशुष्कपक्वबन्धैश्च (२.१.४१) = सिद्ध-शुष्क-पक्व-बन्ध इत्येतैः सह सप्तम्यन्तं पदं समस्यते, तत्पुरुषश्च समासो भवति | अस्मिन् सूत्रे ये शब्दाः उक्ताः ते शौण्डादिगणे न सन्ति इत्यतः एव इदं सूत्रं कृतं पाणिनिना | सिद्धः इत्युक्ते उत्पन्नो ज्ञातो वेत्यर्थः | अनुवृत्ति-सहित-सूत्रं— सप्तमी सुप् सिद्धशुष्कपक्वबन्धैश्च सुब्भिः सह विभाषा तत्पुरुषः समासः |

उदाहरणानि
१) साङ्काश्ये( city) सिद्धः ( accomplished, attained) = साङ्काश्यसिद्धः (साङ्काश्ये उत्पन्नः) , साङ्काश्ये सिद्धः | *

२) काम्पिल्ये (देशविशेषः) सिद्धः = काम्पिल्यसिद्धः, काम्पिल्ये सिद्धः |

३) आतपे शुष्कः (dry) = आतपशुष्कः, आतपे शुष्कः |

४) छायायां शुष्कः = छायाशुष्कः, छायायां शुष्कः |

५) स्थाल्यां पक्वः ( matured, cooked) = स्थालीपक्वः , स्थाल्यां पक्वः |

६) कुम्भ्यां पक्वः = कुम्भीपक्वः, कुम्भ्यां पक्वः |

७) घटे पक्वः = घटपक्वः, घटे पक्वः  |

८) चक्रे बन्धः (bond) = चक्रबन्धः, चक्रेबन्धः, चक्रे बन्धः | अस्मिन् समासे बन्धे च विभाषा ( ६.३.१३) इति सूत्रेण बन्धे उत्तरपदे परे पूर्वपदं हलन्तः अथवा अदन्तः चेत् तदा पूर्वपदस्य सप्तम्याः अलुग्भवति विकल्पेन | अतः चक्रेबन्धः, चक्रबन्धः इति रूपद्वयं सिद्धयति समासपक्षे | व्यस्तप्रयोगे तु चक्रे बन्धः इति |

९) हस्ते बन्धः = हस्तेबन्धः, हस्तबन्धः, हस्ते बन्धः |


*सिद्धः इति पदम् अस्मिन् सूत्रे उत्पन्नः, ज्ञातः च इत्यर्थे प्रयुक्तं वर्तते | उत्पन्नः इत्यस्मिन् अर्थे सिध् -धातुः अकर्मकः भवति | अतः कर्तरि, भावे च तस्य प्रयोगः भवति | ज्ञातः इत्यस्मिन्नर्थे अयं धातुः सकर्मकः, अतः केवलं कर्मणि एव प्रयोगः शक्यते | उत्पन्नः इत्यस्मिन् अर्थे कर्तरि वाक्यं भवति साङ्काश्यसिद्धः घटः अयम् | भावे प्रयोगे अनेन घटेन साङ्काश्यसिद्धम् | ज्ञातः इत्यस्मिन्नर्थे सिध्-धातुः सकर्मकः अतः केवलं कर्मणि प्रयोगे एव वाक्यं सम्भवति | वाक्यमेवं भवति - रामेण काव्यं साङ्काश्यसिद्धम् |


३) ध्वाङ्क्षेण क्षेपे (२.१.४२)

ध्वाङ्क्षेण क्षेपे (२.१.४२) = निन्दार्थे वर्तमाने  सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना सुबन्तेन सह विकल्पेन समस्यते | सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना सुबन्तेन सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति क्षेपे गम्यमाने (निन्दार्थस्य ज्ञाने) | ध्वाङ्क्षः नाम काकः इति |  व्याख्यानात् ज्ञायते यत् सूत्रे अर्थग्रहणं क्रियते इत्यतः काकस्य पर्यायपदानाम् अपि ग्रहणं भवति | अयं समासः नित्यः नास्ति यतोहि व्यस्तप्रयोगे अपि निन्दा गम्यते, तदर्थं विग्रहे इव इति शब्दप्रयोगः क्रियते | अनुवृत्ति-सहित-सूत्रं— सप्तमी सुप् ध्वाङ्क्षेण सुपा सह क्षेपे विभाषा तत्पुरुषः समासः |

उदाहरणानि
१) तीर्थे ( गुरुकुले) ध्वाङ्क्षः इव = तीर्थध्वाङ्क्षः | ध्वाङ्क्षः = काकः; काकः इव यः गुरुकुले चिरं न तिष्ठति सः तीर्थध्वाङ्क्षः इत्युच्यते | तीर्थध्वाङ्क्षः नाम अनवस्थितः इत्यर्थः | यथा काकः एकस्मिन् स्थाने न तिष्ठति तथैव यः ब्रह्मचारी / छात्रः एकस्मिन् गुरुकुले वासं कृत्वा न पठति परन्तु यः इतः ततः गच्छति पठनार्थम् | तादृशः चञ्चलतां प्रदर्शयति इत्यतः तस्य तुलना काकेन सह क्रियते |

२) तीर्थे काकः इव = तीर्थकाकः, तीर्थे काकः इव (लोलुपत्वात् ) |

३) तीर्थे वायसः इव = तीर्थवायसः, तीर्थे वायसः इव | वायसः = काकः |


अत्र सर्वत्र तीर्थः नाम गुरुः अथवा गुरुकुलः इत्यर्थः | अतः एव सहपाठिनः इत्यस्य उल्लेखः सतीर्थ्यः इति क्रियते |


४) कृत्यैर्ऋणे (२.१.४३)

कृत्यैर्ऋणे (२.१.४३) = सप्तम्यन्तं पदं कृत्यप्रत्ययान्तैः सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति ऋणे गम्यमाने | अवश्यम्भावितार्थे वर्तमानेन कृत्यप्रत्ययान्तेन सुबन्तेन सह सप्तम्यन्तं सुबन्तं विकल्पेन समस्यते | तव्य, तव्यत्, यत्, अनीयर्, क्यप्, ण्यत्, केलिमर् इत्येते प्रत्ययाः कृत्यप्रत्ययाः सन्ति | अस्मिन् सूत्रे कृत्यप्रत्ययः इत्यनेन केवलं यत् प्रत्ययस्य एव ग्रहणम् इष्यते न तु अन्येषाम् इति उक्तं भाष्ये | ऋणस्य अवधिः निश्चितः चेत् तत्र ऋणशब्दः आवश्यकः | अर्थात् ऋणशब्दः अवश्यम्भावितार्थस्य ( that which is necessary) वाचकः भवति | यत् अवश्यदातव्यं, अवश्यकर्तव्यं भवति तत् ऋणम् इत्युच्यते | ऋणम् इति शब्दस्य ग्रहणं नियोगस्य ( निश्चितकालस्य) उपलक्षणार्थम् | नियोगः नाम निश्चितकालस्य बोधः | यत्र निश्चितकालस्य बोधः भवति तत्र ऋणम् अवश्यकर्तव्यम् अवश्यदातव्यं वा भवति, तत्रैव इदं सूत्रं कार्यं करोति | यत्र अवश्यकर्तव्यम् अवश्यदातव्यम् इत्यस्मिन् अर्थे भवति तत्रैव यत्प्रत्ययान्तेन सह सप्तम्यन्तस्य पदस्य समासः भवति | `कृत्यैः` इति बहुवचनमत्र विवक्षितं, तच्च ऋणग्रहणस्य नियोगोपलक्षणार्थत्वे प्रकृतिभेदेन | अनुवृत्ति-सहित-सूत्रं— सप्तमी सुप् कृत्यैः सुब्भिः सह ऋणे विभाषा तत्पुरुषः समासः |

उदाहरणानि
यत्प्रत्ययेनैव समास इष्यते इति वार्तिकेन प्रकृतसूत्रं यत्प्रत्ययान्तेन सुबन्तेन सहैव भवति न तु अन्येषां कृत्यप्रत्ययानां योगे |


१)  मासे अवश्यं देयम् ऋणम् = मासेदेयम् (ऋणम्), मासे देयम् ऋणम् | यत् ऋणं मासे एव अवश्यं प्रतिदापनीयम् | इदम् अवश्यदातव्यम् इत्यस्य उदाहरणम् | मास + ङि + देय इत्यत्र मास + ङि इत्यस्य सुप्प्रत्ययस्य लुक् न भवति तत्पुरुषे कृति बहुलम् (६.३.१४) इति सूत्रेण | तत्पुरुषे कृति बहुलम् (६.३.१४) इति सूत्रेण तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति |


२) पूर्वाह्णे गेयं = पूर्वाह्णेगेयं सामम् (सामवेदस्य गेयः भागः), पूर्वाह्णे गेयं सामम् | दिनस्य पूर्वभागे गानार्थं योग्यम् अस्ति सामवेदः | अधिकारिणि अवश्यकर्तव्यता अस्ति | अधिकारिणा अवश्यं पूर्वाह्णे सामवेदः गातव्यः वेदानुरोधेन | इदम् अवश्यकर्तव्यम् इत्यस्य उदाहरणम् |

पूर्वम् अह्नः = पूर्वाह्णः | दिनस्य आदिमः भागः | अलौकिकविग्रहः = पूर्व +सु +अहन्+ ङस् | अत्र पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ( २.२.१) इति सूत्रेण एकदेशिसमासः भवति |


३) संवत्सरे देयम् ॠणम् = संवत्सरदेयम् ऋणं, संवत्सरे देयम् ऋणम् |
मासे देया भिक्षा इत्यत्र अयं समासः न भवति यद्यपि देया इति यत्प्रत्ययान्तः शब्दः यतोहि भिक्षा दातव्या इति अनिवार्यता नास्ति | अतः यत्र अवश्यंभावः भवति तत्रैव अयं समासः विधीयते न अन्यत्र |

५) संज्ञायाम् (२.१.४४)

संज्ञायाम् (२.१.४४) = संज्ञायां विषये सप्तयन्तं पदं सुपा सह समस्यते, तत्पुरुषश्च समासो भवति | संज्ञा नाम समुदायस्य उपाधिः (नामकरणं) भवति | सज्ञायाम् इति सप्तम्यन्तमेकपदम् इदं सूत्रम् | यद्यपि विभाषा (२.१.११) इत्यस्य अधिकारः तथापि अयं समासः नित्यः यतो हि विग्रहवाक्येन संज्ञायाः बोधः न जायते; समासानन्तरमेव संज्ञायाः प्रतीतिः उत्पद्यते | संज्ञायाः प्रतीतिः विग्रहवाक्येन न बुद्ध्यते इत्यतः समासाभावपक्षः न भवति | अनुवृत्ति-सहित-सूत्रं—  संज्ञायां सप्तमी सुप् सुपा सह तत्पुरुषः समासः |

उदाहरणानि
१) अरण्येतिलकाः (Wild sesame growing in a forest) | अरण्येतिकलाः इति संज्ञापदम् | संज्ञार्थस्य विवक्षायां संज्ञायाम् (२.१.४४) इति सूत्रेण नित्यसमासः भवति |

२) वनेकिंशुकाः ( anything found unexpectedly) | वन + ङि + किंशुक + जस्  | किंशुकः नाम पलाशवृक्षः इति |

३) अरण्येमाषाः ( black gram found in the forest) |

४) वनेबिल्वकाः (anything found unexpectedly) | बिल्वकः नाम crab, snake इत्यर्थः |

५) कूपेपिशाचकाः

६) वनेहरिद्रकाः ( a kind of yellow sandal tree in the forest) |

७) वनेकशेरुकाः ( a kind of grass in the forest) | कशेरुकः नाम तृणकन्दः |

८) युधिष्ठिरः  | युधि स्थिरः ( युधि संग्रामे स्थिरः) | समासः नित्यः इति स्मर्तव्यम् | अत्र सप्तमीतत्पुरुषसमासः भवति संज्ञायाम् (२.१.४४) इति सूत्रेण |



हलदन्तात्‌ सप्तम्याः संज्ञायाम् (६.३.९) इति सूत्रेण हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति | अनेन सूत्रेण युध् इति हलन्तात् प्रातिपदिकात् उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग्भवति | अतः युधि इति सप्तम्यन्तं रूपं तिष्ठति | उत्तरपदस्य तु विभक्तेः लोपः भवत्येव |


९) गविष्ठिरः | गवि स्थिरः- आकाशे स्थिररूपेण वसन् अत्रिकुलः इति एकः ऋषिः आसीत्, तस्य नाम गविष्ठिरः | अत्र सप्तमीतत्पुरुषसमासः भवति संज्ञायाम् (२.१.४४) इति सूत्रेण | यः पुरुषः गवां निरन्तरं सेवां करोति सः गविष्ठिरः | गविष्ठिरः इति पदं संज्ञापदम् अस्ति | गवियुधिभ्यां स्थिरः (८.३.९५) इति सूत्रेण षत्वं भवति |
१०) त्वचिसारः | A bamboo.

६) क्तेनाहोरात्रावयवाः (२.१.४५)

क्तेनाहोरात्रावयवाः (२.१.४५) = अहरवयवाः रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो च विकल्पेन भवति | दिनस्य, रात्रेः  च अवयववाचि सप्तम्यन्तं सुबन्तं क्तप्रत्ययान्तेन सह समस्यते | अहोरात्रावयवाः इत्युक्ते दिनस्य अवयववाचिशब्दाः तथा च रात्रेः अवयववाचिशब्दाः इति | अनुवृत्ति-सहित-सूत्रं—  अहोरात्रावयवाः सप्तम्यः सुपः क्तेन सुपा सह विभाषा तत्पुरुषः समासः |

उदाहरणानि
१) पूर्वाह्णे कृतं = पूर्वाह्णकृतं, पूर्वाह्णे कृतम् | पूर्वाह्णं नाम दिनस्य पूर्वभागः इत्यर्थः | दिनस्य पूर्वभागे सम्पादितं तत् पूर्वाह्णकृतम् इत्युच्यते | पूर्वाह्ण + ङि + कृत + सु | पूर्वाह्णः इति पदं दिनम् इति पदस्य अवयववाचिपदम्, अतः तादृशस्य दिनावयववाचिपदस्य कृत इति क्तप्रत्ययान्तेन सह समासः भवति क्तेनाहोरात्रावयवाः (२.१.४५) इति सूत्रेण |

पूर्वम् अह्नः = पूर्वाह्णः | दिनस्य आदिमः भागः | अलौकिकविग्रहः = पूर्व + सु + अहन् + ङस् |


२) अपररात्रे कृतं = अपररात्रकृतम्, अपररात्रे कृतम् | अपररात्रिः - second half of the night | अपररात्र + ङि + कृत + सु | अपररात्रः इति पदं रात्रिः इति पदस्य अवयववाचिपदम् | अतः समासः सिद्ध्यति | अपररात्रः इति पदं पुंलिङ्गे अस्ति |
३) पूर्वरात्रे कृतम् = पूर्वरात्रकृतं, पूर्वरात्रे कृतम् |

४) मध्याह्ने कृतम् = मध्याह्नकृतं, मध्याह्ने कृतम् |

५) मध्यरात्रे कृतम् = मध्यरात्रकृतम्, मध्यरात्रे कृतम् |



७) तत्र (२.१.४६)

तत्र (२.१.४६) = तत्र इत्येतत् सप्तम्यन्तं पदं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति | तत्र इति सप्तम्यन्तं सुबन्तम् अव्ययं क्तेन सुबन्तेन सह समस्यते  | तत्र इति अव्ययमेकपदं सूत्रम् | सप्तम्यास्त्रल् (५.३.१०) इति सूत्रेण तद् इति प्रातिपदिकस्य  सप्तम्यन्तात् स्वार्थे "त्रल्" प्रत्ययः भवति , तत्र इति रुपं निष्पन्नं भवति | तद्धितश्चासर्वविभक्तिः ( १.१.३८) इति सूत्रेण तत्र इति शब्दस्य अव्ययसंज्ञा भवति | अनुवृत्ति-सहित-सूत्रं— तत्र सप्तमी सुप् क्तेन सुपा सह विभाषा तत्पुरुषः समासः |


उदाहरणानि
१) तत्र भुक्तं = तत्रभुक्तं, तत्र भुक्तम् | तत्र +भुक्त+सु  | भुज् इति धातुतः क्तप्रत्ययस्य योजनने भुक्त इति प्रातिपदिकं निष्पद्यते |

२) तत्र पीतम् = तत्रपीतम् , तत्र पीतम् |

३) तत्र खादितम् = तत्रखादितम्, तत्र खादितम् |

४) तत्र कृतम् = तत्रकृतम्, तत्र कृतम् |



८) क्षेपे (२.१.४७)

क्षेपे (२.१.४७) = क्षेपे (निन्दार्थे) गम्यमाने सप्तम्यन्तं पदं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासः च भवति | निन्दायाम् अयं समासः नित्यः भवति | क्षेपे इति सप्तम्यन्तमेकपदमिदं सूत्रम् | अनुवृत्ति-सहित-सूत्रं— क्षेपे सप्तमी सुप् क्तेन सुपा सह तत्पुरुषः समासः |

उदाहरणानि
१) अवतप्ते-नकुलस्थितं तवैतत् ( an Ichneumon/Mongoose standing on hot ground, metaphorically said for an inconsistent person) = अवतप्तेनकुलस्थितं तवैतत् | चापलम् एतत्, अनवस्थितत्वं तवैततित्यर्थः |
एका परिभाषा ज्ञातव्या – कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्  | परिभाषायाः अर्थः अस्ति यत् यत्र कृदन्तपदस्य ग्रहणं भवति तत्र कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति | अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य अपि सुबन्तेन सह समासः क्रियते | अर्थात् यत्र समासविधायकसूत्रेषु कृदन्तपदस्य उल्लेखः क्रियते तत्र न केवलं कृदन्तपदस्य ग्रहणम् अपि तु गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्यापि ग्रहणं भवति |

२) प्रवाहेमूत्रितम् | नद्यां मूत्रत्यागः इति निन्दार्थे अस्ति |



३) भस्मनिहुतम् | भस्मनि हवनं करोति इति निन्दार्थे अस्ति |



४) उदकेविशीर्णं तवैतत् ( Dried in water; figuratively used for anything unheard of or impossible) | उदकेविशीर्णम् इत्यस्मिन् अपि आरम्भस्य निष्फलता क्षेपः |


९) पात्रेसमितादयश्च ( २.१. ४८)

पात्रेसमितादयश्च ( २.१. ४८) = निन्दार्थे (क्षेपे) गम्यमाने पात्रेसमितादयः शब्दाः निपात्यन्ते, तत्पुरुषसंज्ञा च भवति | समुदायः एव निपात्यते | यद्यपि विभाषा (२.१.११) इत्यस्य अधिकारः अस्ति तथापि अस्मिन् सूत्रे तस्य सम्बन्धः नास्ति यतोहि व्यस्तप्रयोगेण निन्दा न गम्यते | सप्तमीविभक्तेः अलुक् अपि निपात्यते | पात्रेसमितः आदिर्येषां ते, पात्रेसमितादयः, बहुव्रीहिः | अनुवृत्ति-सहित-सूत्रं— क्षेपे पात्रेसमितादयश्च सप्तम्यः सुपः सुपा सह तत्पुरुषः समासः |

उदाहरणानि
१) पात्रेसमिताः ( frequently present at meals) | समितः नाम समागतः इत्यर्थः | भोजनसमसे एव सङ्गताः, न तु कार्ये | यः भोजनसमये एव उपस्थितः, कार्यसमये कुत्रापि न प्रकटितः भवति | पात्रेसमितादयश्च ( २.१. ४८)  इति सूत्रेण नित्यसमासः भवति |
२) गेहेशूरः | यः गृहे एव वीरः, बहिः भीतः |
३) गेहेनर्दी (roaring) | गृहे एव यः गर्जति |

पात्रेसमितादिगणे बहवः शब्दाः सन्ति, तेषु केचन अत्र दीयन्ते

पात्रेसमितादिगणीयशब्दाः अर्थाः
उदरक्रिमिः, उदुम्बरमशकाः ‘worm in the belly’, an insignificant person
पितरिशूरः a hero against his father, a cowardly boaster, पिर्तृविषये एव शूरे नान्यत्रेति |
गेहेमेही a lazy person, ‘making water at home’, a lazy or indolent man
गर्भेतृप्तः a lazy person, contented already in the womb , गर्भेतृप्त त्रि० गर्भे शिशौ अन्ने वा तृप्तः |
आखनिकबकः A man who behaves as an oppressor to a weak person, a stork in relation to a mouse; (fig.), a man who behaves like a hero towards a weak person, आखनिकः, पुं, (आङ् + खन + इकन् ) चौरः | उन्दुरुः | शूकरः | बकः ब(व)कः, पुं, (ब(व)ङ्कते कुटिलीभवतीति | वकि +अच् |
पात्रेसमिता A treacherous or hypocritical fellow,Constant at meals or dinner-time -  पात्रेसमितः, त्रिषु लिङ्गेषु रूपाणि भवन्ति | पात्रे भोजनसमये एव समितः सङ्गतः | भोजनादन्यत्र यो न मिलितः सः | भोजनेष्वेव दक्षः |
पिण्डीशूरः cake-hero, a cowardly boaster, a coward, पिण्डीशूरः, पुं, (पिण्ड्यां पिण्डव्यापारे भोजने एव शूरः अतिनिपुणः नान्यत्र कार्य्यादाविति भावः |
गोष्ठेपटुः, गोष्ठेपण्डितः, गोष्ठेप्रगल्भः, clever in a cow-pen, a vain boaster, a boasting coward
नगरकाकः, नगरवायसः expert in cheating others
गेहेव्याडः fierce at home, a house-hero, coward
गेहेशूरः, गेहेनर्दी, गोष्ठेशूरः hero in cow-pen, boasting coward, a vain boaster,गेहे एव शूरः अन्यत्र शूरत्वाभावादस्य तथात्वम् |
कर्णेटिट्टिभः, like a cricket sound in the ears, nuisance maker
कूपकच्छपः, कूपमण्डूकः, कुम्भमण्डूकः,उदपानमण्डूकः Man without experience, frog in the well, कूपकच्छप पु० कूपे एवान्यत्र सञ्चारशून्यः कच्छप इव अल्पविषयाभिज्ञतया निन्दनीये कूपमण्डूककूपदर्द्दरावप्यत्र |
उदुम्बरमशकाः mosqitto in relation to fig-tree, insignificant person
मातरिपुरुषः One who can act like a man only against his mother', a poltroon, cowardly boaster.
पात्रेबहुलाः Parasite
गेहेदाही, गेहेदृप्तः, गेहेधृष्टः, scorching and burning at home, गेहेदाहिन् त्रि० गेहे दहति दह—इनि ,कापुरुषे एवं गेहेविजितिन् गेहेव्याड गेहेमेहिन् गेहेदृप्त गेहेधृष्ट इत्येतेऽपि |
कर्णेचुरचुरा Secretly whispering in the ear, rumor monger
कूपचूर्णकः, अवटकच्छपः tortoise in a hole, an inexperienced man who has seen nothing of the world
गेहेविजिती victorious at home , आत्मश्लाघी m. (न्), विकत्थी m. (न्),  उपजल्पी m. (न्), दम्भी m. (न्), शूरम्मन्यः, शूरमानी m. (न्)
गेहेक्ष्वेडी, गेहेदृप्तः victorious at home, blustering at home’, a house-hero, coward, गेहेक्ष्वेडिन् त्रि० गेहे एव क्ष्वेडते क्ष्वेड—इनि गृहासक्ते युद्धादावनासक्ते कापुरुषे |
कर्णेटिरिटिरा Whispering into the ear, tale-bearing, rumour monger


f)      षष्ठीतत्पुरुषसमासः

अष्टाध्याय्यां द्वितीयाध्यायस्य प्रथमपादे द्वितीयतत्पुरुषसमासादारभ्य पञ्चमीतत्पुरुषसमासपर्यन्तम् उक्त्वा, तदनन्तरं षष्ठीतत्पुरुषसमासं त्यक्त्वा, सप्तमीतत्पुरुषस्य विषये उक्तमस्ति | सप्तमीतत्पुरुषस्य अनन्तरं कर्मधारसमासः, द्विगुः, मयूरव्यंसकादयः इति समासानां विषये उक्तम् अस्ति | तत्पश्चादेव षष्ठीतत्पुरुषस्य विषये उक्तमस्ति |


द्वितीयाध्यायस्य द्वितीयपादे आदौ षष्ठीतत्पुरुषस्य अपवादाः उक्ताः - २.२.१ इत्यस्मात् सूत्रात् आरभ्य २.२.७ इति सूत्रपर्यन्तं, तदनन्तरं षष्ठीतत्पुरुषस्य विषये साक्षात् उक्तम् अस्ति | वस्तुतः प्राप्तापन्ने च द्वितीयया ( २.२.४), नञ् ( २.२.६), ईषदकृता ( २.२.७) इति सूत्राणि विहाय षष्ठीतत्पुरुषस्यसम्बद्धसूत्राणि २.२.१ इत्यारभ्य २.२.१६ इति सूत्रपर्यन्तं सन्ति |


प्राप्तापन्ने च द्वितीयया ( २.२.४), नञ् ( २.२.६), ईषदकृता ( २.२.७) चेति त्रीणि सूत्राणि षष्ठीतत्पुरुषसमासम्बद्धसूत्राणि एव सन्ति | प्राप्तापन्ने च द्वितीयया ( २.२.४) इति सूत्रं तु द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ( २.१.२४) इति सूत्रस्य अपवादः अस्ति | नञ् ( २.२.६) इति सूत्रं तु नञ्तत्पुरुषसमासस्य विधायकं सूत्रम् अस्ति | ईषदकृता ( २.२.७) इति सूत्रे तु ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति |


आहत्य चतुर्भिः सूत्रैः [ पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ( २.१.१), अर्धं नपुंसकम् ( २.२.२), द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ( २.२.३), कालाः परिमाणिना ( २.२.५) ] षष्ठीतत्पुरुषसमासे पूर्वनिपातस्य नियमनं क्रियते | एतानि सूत्राणि अपवादसूत्राणि सन्ति यतोहि पाणिनिः एतैः सूत्रैः षष्ठीतत्पुरुषसमासस्य पदक्रमं परिवर्तयति | अर्थात् षष्ठी (२.२.८) इति सूत्रेण षष्ठ्यन्तपदस्य पूर्वनिपातः प्राप्तः आसीत् परन्तु यत्र षष्ठ्यन्तपदस्य विपरीतक्रमः इष्यते; अर्थात् षष्ठ्यन्तं पदम् उत्तरपदे स्यात् इति इष्यते तत्र एतैः चतुर्भिः सूत्रैः षष्ठ्यन्तं पदम् उत्तरपदे स्थाप्यते |


षष्ठी शेषे (२.३.५०) इति सूत्रचिन्तनम्


षष्ठीविभक्तिः सम्बन्धार्थे भवतीति अस्माकं सामान्यज्ञानम् | परन्तु षष्ठी शेषे (२.३.५०) इति सूत्रस्य अर्थद्वयं वर्तते – १) सम्बन्धषष्ठी; २) कारकषष्ठी चेति |


सम्बन्धषष्ठी = कर्मकरणादिकारकेभ्यः अन्यः प्रातिपदिकार्थव्यतिरेकः स्वस्वामिसम्बन्धादिः शेषः, तत्र षष्ठीविभक्तिर्भवति | उक्ताद् अन्यः शेषः इत्यस्य अनुरोधेन प्रातिपदिकार्थात्, कर्मणः, करणात्, सम्प्रदानात् अपादानात् ,अधिकरणात् यः भिन्नः अस्ति सः एव शेषः इति वदामः | अतः शेषः इति पदं बहुविधैः सम्बन्धैः सह युज्यते | यथा स्वस्वामिभावसम्बन्धः, अवयवावयविभावसम्बन्धः, जन्यजनकभावसम्बन्धः, प्रकृतिविकृतिभावसम्बन्धः इत्यादयः | यथा राज्ञः पुरुषः, पशोः पादः, दशरथस्य पुत्रः इत्यादयः | एतेषु उदाहरणेषु सम्बन्धार्थे षष्ठी विहिता अस्ति |


२) कारकषष्ठी = कर्मादीनां सम्बन्धमात्रविवक्षायाम् अपि षष्ठ्येव भवति | कर्मकरणादिकारकाणां विवक्षा नास्ति इत्यस्य अयम् अर्थः यत् वक्ता कर्मकरणादिकारकाणि वक्तुं नेच्छति तदापि सम्बन्धमात्रे षष्ठी भवितुम् अर्हति | यथा – सतां गतं, मातुः स्मरति इत्यादयः | सतां गतम् इति उदाहरणे सद्भिः गतम् इति भावार्थे प्रयोगः शक्यते अथवा सन्तः गताः इति कर्त्रर्थे अपि वक्तुं शक्यते | अनयोः वाक्ययोः सत् इति पदं कर्ता, अतः कर्तुः विभक्तिः तृतीया भवति भावे प्रयोगे, अथवा प्रथमा भवति कर्तरि प्रयोगे | परन्तु कोपि वक्ता कर्तृरूपेण वक्तुं नेच्छति तर्हि सः सतां गतम् इति वदति | अत्र सताम् इति षष्ठ्यन्तं पदम् अस्ति | एवमेव मातुः स्मरति इत्यत्र मातरं स्मरति इति सामान्यवाक्यप्रयोगः भवति, मातरमिति कर्म अस्ति स्मरणक्रियायाः | परन्तु यदा कर्मणः विवक्षा नास्ति तदापि षष्ठी शेषे ( २.३.५०) इति सूत्रेण षष्ठीविभक्तिः विधीयते | यथा – मातरं स्मरति इत्यत्र कर्मणः अविवक्षायां कोपि मातरं स्मरति इत्यस्य स्थाने मातुः स्मरति इति वदति |


षष्ठी शेषे ( २.३.५०) इति सूत्रेण तु द्विप्रकारिका षष्ठी लभ्यते - १) सम्बन्धषष्ठी, २) कारकषष्ठी चेति | एतत् द्वयमपि मिलित्वा शेषषष्ठी इति वदामः | इतोपि एका षष्ठी वर्तते, तस्याः नाम अस्ति प्रतिपदविधाना षष्ठी इति | प्रतिपदविधाना षष्ठी इत्युक्ते कैश्चित् सूत्रैः प्रतिपदम् उच्चार्य या षष्ठीविभक्तिः विहिता सा प्रतिपदविधाना षष्ठी इत्युच्यते | एताः अतिरिच्य कृद्योगे ( कृदन्तपदस्य योगे) अपि षष्ठी विधीयते तस्याः नाम अस्ति कृद्योगे षष्ठी इति |


आहत्य षष्ठीविभक्तिः त्रिप्रकारिका इति ज्ञातव्यम् – १) शेषषष्ठी ( सम्बन्धसामान्ये, कारकषष्ठी); २) कृद्योगे षष्ठी; ३) प्रतिपदविधाना षष्ठी चेति | एताः अतिरिच्य अन्या अपि षष्ठीविभक्तिः वर्तते, तस्याः नाम अस्ति निर्धारणे षष्ठी परन्तु सा षष्ठी तु षष्ठी शेषे ( २.३.५०) इति सूत्रेण न विधीयते, अतः तस्य चर्चा अत्र न क्रियते |


१) शेषषष्ठी = षष्ठी शेषे ( २.३.५०) इति सूत्रेण या षष्ठीविभक्तिः विहिता भवति सा शेषषष्ठी इति नाम्ना ज्ञायते | इयं षष्ठी सम्बन्धसामान्ये भवति नो चेत् कारकाणाम् अविवक्षायाम् | यथा राज्ञः पुरुषः इत्यत्र सम्बन्धसामान्ये षष्ठी विहिता अस्ति | कारकाणाम् अविवक्षायाम् अपि शेषषष्ठी भवति यस्याः नाम अस्ति कारकषष्ठी इति | यथा मातुः स्मरति इति कारकषष्ठी |


२) कृद्योगे षष्ठी = कृद्योगे षष्ठी नाम सा या विहिता भवति कृदन्तपदस्य योगे | अर्थात् या षष्ठी विहिता भवति कर्तृकर्मणोः कृति ( २.३.६५), उभयप्राप्तौ कर्मणि ( २.३.६६) इत्याभ्यां सूत्राभ्याम् |


साधारणतया कर्ता प्रत्ययेन उक्तः चेत् कर्तुः प्रथमाविभक्तिः भवति | प्रत्ययेन कर्ता अनुक्तः चेत् तस्य तृतीयाविभक्तिः भवति | एवमेव प्रत्ययेन उक्तं चेत् कर्मणः प्रथमाविभक्तिः भवति नो चेत् द्वितीयाविभक्तिः भवति | परन्तु कृदन्तपदस्य योगे अयं नियमः न पाल्यते यदा कर्ता, कर्म च अनुक्तं भवति प्रत्ययेन |


किमर्थम् अयं नियमः न पाल्यते ? अयं नियमः न पाल्यते यतोहि अत्र अपवादत्वेन कर्तृकर्मणोः कृति ( २.३.६५), उभयप्राप्तौ कर्मणि ( २.३.६६) चेति सूत्रद्वयं वर्तते | कृद्योगे अनुक्तकर्तुः तृतीयां बाधित्वा षष्ठीविभक्तिः विधीयते, अपि च कर्मणः द्वितीयां बाधित्वा षष्ठीविभक्तिः विधीयते | कर्तृकर्मणोः कृति ( २.३.६५), उभयप्राप्तौ कर्मणि ( २.३.६६) चेत्यनयोः विवरणम् अग्रे दीयते |


कर्तृकर्मणोः कृति ( २.३.६५) इत्यनेन सूत्रेण कृत्प्रयोगे अनुक्ते कर्तरि कर्मणि च षष्ठी विभक्तिर्भवति | अर्थात् कृदन्तपदस्य योगे वाक्ये अनुक्तस्य कर्तुः कर्मणः च षष्ठी विभक्तिर्भवति | अनुक्तः नाम प्रत्ययेन नोक्तं चेत् |


उभयप्राप्तौ कर्मणि ( २.३.६६) इत्यनेन सूत्रेण उभयोः प्राप्तिः यस्यां कृत्प्रत्यये तत्र कर्मण्येव षष्ठी स्यात् | उभयप्राप्तिः नाम यस्मिन् वाक्ये कर्ता, कर्म च द्वयम् अपि अनुक्तम् अस्ति कृदन्तस्य योगे तत्र उभयप्राप्तिः भवति | अर्थात् यदा वाक्ये कर्तृकर्मणोः प्राप्तिः कृदन्तस्य योगे परन्तु कर्ता, कर्म च उभयमपि अनुक्तम् अस्ति केनापि प्रत्ययेन तदा कर्मणः एव षष्ठी भवति उभयप्राप्तौ कर्मणि ( २.३.६६) इत्यनेन सूत्रेण | उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रप्रसङ्गे एकं वार्तिकं पठितम् अस्ति - शेषे विभाषा इति | अनेन वार्तिकेन उच्यते यत् कर्तुः अपि षष्ठी भवति विकल्पेन इति | अतः यत्र उभयप्राप्तिः अस्ति तत्र कर्मणः षष्ठी नित्यं भवति, कर्तुः विकल्पेन भवति | कर्तुः एकस्मिन् पक्षे तृतीया भवति, अपरस्मिन् पक्षे षष्ठी भवति | कर्मणः नित्यमेव षष्ठी जायते |


३) प्रतिपदविधाना षष्ठी = कैश्चित् सूत्रैः प्रतिपदम् उच्चार्य या षष्ठीविभक्तिः विधीयते सा प्रतिपदविधाना षष्ठी इत्युच्यते | अष्टाध्याय्यां ज्ञोऽविदर्थस्य करणे ( २.३.५१) इत्यस्मात् सूत्रात् आरभ्य व्यवहृपणोः समर्थयोः ( २.३.५७) इति सूत्रपर्यन्तम्, अपि च कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ( २.३.६४) इत्येतैः सूत्रैः या षष्ठीविभक्तिः विहिता भवति सा प्रतिपदविधाना षष्ठी इत्युच्यते यतोहि सूत्रे एव उच्यते कैः पदैः सह षष्ठी विधीयते इति | कृद्योगे या षष्ठीतत्पुरुषसमासः भवितुम् अर्हति, तं निषेधयितुमेव एतानि अष्टसूत्राणि कृतानि, न तु षष्ठीविभक्तेः विधानार्थम् | अतः एतानि अष्टसूत्राणि समासनिषेधार्थं कृतानि न तु षष्ठीविभक्तेः विधानार्थम् | यथा - मातुः स्मरणम् इत्यत्र मातृस्मरणम् इति षष्ठीतत्पुरुषसमासः न जायते अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यनेन | अत्र यानि सूत्राणि उक्तानि तानि सर्वाणि कारकप्रकरणसम्बद्धानि, तेषां विवरण अत्र – परिशिष्टं - प्रतिपदविधाना षष्ठी दीयते | यदि इच्छन्ति तत्र गत्वा पठितुं शक्नुवन्ति |


एतेषां विवरणं किमर्थं कृतमिति चेत् षष्ठी शेषे ( २.३.५०) इति सूत्रेण या षष्ठीविभक्तिः विहिता, अपि च कर्तृकर्मणोः कृति (२.३.६५) इत्यनेन या षष्ठीविभक्तिः विहिता अस्ति तयोः एव षष्ठीतत्पुरुषसमासः सम्भवति | अर्थात् शेषषष्ठी समस्यते, कृद्योगा षष्ठी च समस्यते परन्तु प्रतिपदविधाना षष्ठी न समस्यते | कृद्योगा षष्ठी च समस्यते इति वाक्यस्य अर्थः एवम् अस्ति – कर्तृकर्मणोः कृति (२.३.६५) इत्यनेन सूत्रेण कर्तुः वा कर्मणः वा षष्ठी विहिता तदा षष्ठीतत्पुरुषसमासः भवितुम् अर्हति किन्तु यत्र उभयप्राप्तौ कर्मणि ( २.३.६६) इत्यनेन सूत्रेण कर्मणः षष्ठी विहिता अस्ति तत्र तस्याः षष्ठ्याः कृदन्तेन सह समासः निषिद्धः कर्मणि च (२.२.१४) इति सूत्रेण | यथा बालकेन पुस्तकस्य पठनम् इत्यत्र पुस्तकपठनम् इति समासः न जायते |



षष्ठीतत्पुरुषसमाससूत्राणां त्रिधा विभजनं क्रियते –

१) षष्ठीतत्पुरुषसमास-विधायकसूत्रं; २) षष्ठीतत्पुरुषसमास-अपवादसूत्राणि/ नियमसूत्राणि; ३) षष्ठीतत्पुरुषसमास-निषेकधसूत्राणि | क्रमेण एतेषाम् अध्ययनं भविष्यति |


१) षष्ठीतत्पुरुषसमास-विधायकसूत्रम्

षष्ठी (२.२.८)

षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो विकल्पेन भवति | अस्मिन् सूत्रे षष्ठ्यन्तं सुबन्तम् अन्येन सुबन्तेन सह समस्यते, अत्र कोऽपि विशिष्टनियमः नास्ति | अनुवृत्ति-सहित-सूत्रं— षष्ठी सुप् सुपा सह विभाषा तत्पुरुषः समासः |

उदाहरणानि
१) राज्ञः पुरुषः = राजपुरुषः, राज्ञः पुरुषः |

२) ब्राह्मणः कम्बलः = ब्राह्मणकम्बलः, ब्राह्मणः कम्बलः  |

३) आत्मनः ज्ञानम् = आत्मज्ञानम्, आत्मनः ज्ञानम् |

४) मनसः विकारः = मनोविकारः, मनसः विकारः |

५) सतां सङ्गतिः = सत्सङ्गतिः, सतां सङ्गतिः |

६) रामस्य गृहम् = रामगृहं, रामस्य गृहम्  |


७) पुष्पस्य उद्यानम् = पुष्पोद्यानं, पुष्पस्य उद्यानम् |


८) मम पुस्तकम् = मत्पुस्तकं, मम पुस्तकम् | अस्मद् + ङस् + पुस्तकम् + सु  | अत्र प्रत्ययोत्तरपदयोश्च ( ७.२.९८) इति सूत्रेण प्रत्यये, उत्तरपदे च परतः एकवचने वर्तमानयोः युष्मदस्मदोः म-पर्यन्तस्य त्व, म इत्येतौ आदेशौ भवतः |


९) तव पुस्तकम् = त्वत्पुस्तकम्, तव पुस्तकम् | युष्मद् +ङस् + पुस्तकम् + सु  | समासप्रक्रियायां सुब्लोपानन्तरम् युष्मद् + पुस्तकम् इति स्थितौ प्रत्ययोत्तरपदयोश्च ( ७.२.९८) इति सूत्रेण युष्मद् इति शब्दे म-पर्यन्तस्य युष्म् इति भागस्य स्थाने त्व इति आदेशः भवति | अतः त्व + अद् + पुस्तकम् इति भवति | अधुना अतो गुणे (६.१.९६) इत्यनेन अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | अतः त्वद् + पुस्तकम् इति भवति | अग्रे जश्त्वं चर्त्वं च कृत्वा त्वत्पुस्तकम् इति समस्तपदं निष्पद्यते |


षष्ठीतत्पुरुषसमासस्य अपवादसूत्राणि / नियमसूत्राणि

पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२.२.१), अर्धं नपुंसकम् ( २.२.२), द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ( २.२.३), कालाः परिमाणिना ( २.२.५) चेति चत्वारि सूत्राणि षष्ठीतत्पुरुषसमासस्य नियमसूत्राणि, अपवादसूत्राणि च सन्ति | एतानि सूत्राणि षष्ठीतत्पुरुषसमासस्य नियमनं कुर्वन्ति यतोहि एतानि सूत्राणि षष्ठी (२.२.८) इति सूत्रस्य पूर्वनिपातनक्रमं परिवर्तयन्ति | एतानि सूत्राणि षष्ठीतत्पुरुषसमासस्य अपवादसूत्राणि च सन्ति | एतैः नियमनसूत्रैः षष्ठ्यन्तस्य पदस्य परनिपातः भवति | तात्पर्यं यत् षष्ठ्यन्तं पदम् उत्तरपदे भवति समासे |


१) पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२.२.१)

पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२.२.१) = पूर्व-अपर-अधर-उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयविवाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | एकत्वसंख्याविशिष्टेन अवयविना सह पूर्वादयः समस्यन्ते  | एतत् सूत्रं षष्ठीतत्पुरुषसमासस्य अपवादः | एकदेशः इति शब्दः अवयवार्थे अस्ति, एकदेशी (अवयवी) शब्दः समुदायार्थे अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— पूर्वापराधरोत्तरम् सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्पुरुषः समासः |


यथा — पूर्वम् कायस्य = पूर्वकायः; अपरं कायस्य = अपरकायः; अधरं कायस्य = अधरकायः; उत्तरं कायस्य = उत्तरकायः |


सामान्यतया अवयविवाचकात् शब्दात् षष्ठीविभक्तिः; अपि च अवयववाचकात् प्रथमा भवति | मम हस्तः इति वदामः चेत् मम शरीरम् अवयवी, हस्तः अवयवः | मम इति अवयविवाचकस्य पदस्य षष्ठीविभक्तिः; हस्तः इति अवयवस्य प्रथमाविभक्तिः भवति |

यथा एतेषु उदाहरणेषु अवयविवाचकस्य पदस्य अवयववाचकेन सह षष्ठीतत्पुरुषसमासः भवति –

राज्ञः हस्तः = राजहस्तः |

राज्ञः पादः = राजपादः |

गुरोः चरणम् = गुरुचरणम् |

सर्वत्र पूर्वपदस्य अवयविवाचकस्य षष्ठी भवति | यत्र पूर्वपदस्य षष्ठीविभक्तिः अस्ति तत्र षष्ठीतत्पुरुषसमासः इति व्यवहारः भवति षष्ठी (२.२.८)  इति सूत्रेण | षष्ठ्यन्तस्य पदस्य पूर्वनिपातः भवति | तस्य अपवादत्वेन पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२.२.१)  इति सूत्रम् उक्तम् | अनेन सूत्रेण षष्ठ्यन्तस्य पूर्वनिपातनक्रमस्य परिवर्तनम् इष्यते  | षष्ठ्यन्तस्य पदस्य श्रवणम् उत्तरपदे भवति, तन्नाम तस्य परनिपातः भवति  |


कायस्य पूर्वम् इति विग्रहे सति कायपूर्वम् इति षष्ठीतत्पुरुषसमासः स्यात् षष्ठी (२.२.८) इति सूत्रेण | परन्तु अत्र पूर्वकायः इति समासः इष्यते | तदर्थं पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (२.२.१) इति सूत्रं कृतम् | अयमेव एकदेशिसमासः इति उच्यते – पूर्वम् इति शब्दस्य श्रवणं प्रथमम् इष्यते इत्यतः प्रथमातत्पुरुषः इति व्यवहारः दृश्यते लोके, परन्तु शास्त्रे अयं समासः एकदेशिसमासः इति उच्यते |

उदाहरणानि
१) पूर्वं ( first part) कायस्य = पूर्वकायः, पूर्वं कायस्य | काय + ङस् + पूर्व + सु  |२) अपरं (hind part) कायस्य = अपरकाय:, अपरं कायस्य | काय + ङस् + अपर + सु  |

३) अधरं (lower part) कायस्य = अधरकायः, अधरं कायस्य | काय + ङस् + अधर+ सु  |

३) उत्तरं (lower part) कायस्य = उत्तरकायः, उत्तरं कायस्य | काय + ङस् + अधर+ सु |

४) सायम् अह्नः = सायाह्नः, सायम् अह्नः


५) मध्यम् अह्नः = मध्याह्नः, मध्यम् अह्नः |


६) अपरम् अह्नः = अपराह्णः, अपरम् अह्नः |


७) मध्यं रात्रेः = मध्यरात्रः, मध्यं रात्रेः |


८) पश्चिमं रात्रेः = पश्चिमरात्रः, पश्चिमं रात्रेः



२) अर्धं नपुंसकम् (२.२.२)

अर्धं नपुंसकम् (२.२.२) = अर्धम् इत्येतद् नपुंसकम् एकदेशिनैकाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति | एतद् सूत्रं षष्ठीसमासापवादः अस्ति | अर्धम् इति शब्दः समांशवाचकः, नित्यं नपुंसकलिङ्गे भवति | तादृशः अर्धशब्दः एकत्वसङ्ख्यायुक्तेन अवयविवाचकेन सुबन्तेन सह विकल्पेन समस्यते | असमांशवाची चेत् अर्ध इति शब्दः विशेष्यनिघ्नः भवति | अनुवृत्ति-सहित-सूत्रम्‌— अर्धं नपुंसकं सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्पुरुषः समासः |

अस्मिन् सूत्रे नित्यं नपुंसकलिङ्गे यः अर्ध-शब्दः अस्ति, तस्य एकत्वसंख्याविशिष्टेन अवयविना सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति | "अर्ध” इति शब्दः समांशवाची, अंशसामन्यवाची च इति द्विधा भवति | समे तु अंशे अर्धशब्दः नपुंसकलिङ्गे एव भवति | अंशसामन्यवाची तु पुंलिङ्गे, नपुंसकलिङ्गे च भवति | अत्र अमरकोशः एव प्रमाणम् | यदा किमपि वस्तु छिद्यते, कर्त्यते तदा भागद्वयं भवति | उभौ अपि भागौ समानाकारकौ यदा भवतः तदा अर्धम् इति नपुंसकलिङ्गविशिष्टस्य प्रयोगः भवति | यदा भागयोः समता नास्ति तदा अर्धः इति पुंलिङ्गप्रयोगः | नपुंसकलिङगवाची अर्ध-शब्दः (अर्धम् इत्येतत् ) एकदेशितत्पुरुषसमासं प्राप्नोति अर्धं नपुंसकम् (२.२.२) इत्यनेन सूत्रेण | यथा अर्धफलम् इति प्रयोगे, अर्धशब्दः समांशवाची एव स्यात् इति स्मर्तव्यम् | यदि अर्धशब्दः समांशवाची न तहि फलस्य अर्धः, फलार्धः इति षष्ठीतत्पुरुषसमासः भवति | षष्ठीतत्पुरुषस्थले अर्धशब्दः असमांशवाची, न तु समांशवाची |

उदाहरणानि
१) अर्धं पिप्पल्याः = अर्धपिप्पली **

२) अर्धं शरीरस्य = अर्धशरीरम् | अयं समासः नपुंसकलिङ्गे भवति |

३) अर्धम् आसनस्य = अर्धासनम् | अयं समासः नपुंसकलिङ्गे भवति |



** एकविभक्तावषष्ठ्यन्तवचनम् इति एकं वार्तिकम् अस्ति प्रथमातत्पुरुषसमासस्य प्रसङ्गे | अनेन वार्तिकेन षष्ठ्यन्तपदस्य उपसर्जनसंज्ञा न भवति एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण केवलम् एकदेशिसमासस्य प्रसङ्गे | एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति |


अर्धं पिप्पल्याः इति उदाहरणे पिप्पली इति शब्दः नियतविभक्त्यन्तं पदम् अस्ति यतोहि तस्य विभक्तिः न परिवर्तते विग्रहस्य अवस्थायाम् | यथा पिप्पल्याः अर्धम् | पिप्पल्याः अर्धेन | पिप्पल्याः अर्धाय | पिप्पल्याः अर्धात् | पिप्पल्याः अर्धस्य | पिप्पल्याः अर्धे | अत्र पिप्पल्याः इति शब्दस्य विभक्तिः निश्चिता वर्तते इति कृत्वा तस्य उपसर्जनसंज्ञा स्यात् एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण | परन्तु एकविभक्तावषष्ठ्यन्तवचनम् इति वार्तिकेन षष्ठ्यन्तपदस्य उपसर्जनसंज्ञा न भवति एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण एकदेशिसमासस्य प्रसङ्गे | अतः पिप्पल्याः इति षष्ठ्यन्तस्य स्त्रीलिङ्गपदस्य उपसर्जनसंज्ञा एव न भवति | अनेन कारणेन तस्य पदस्य ह्रस्वत्वम् अपि न भवति गोस्त्रियोरुपसर्जनस्य (१.२.४८) इति सूत्रेण |

२)   द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम् (२.२.३)

द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम् (२.२.३) = द्वितीय-तृतीय-चतुर्थ-तुर्य इत्येते समर्थाः सुबान्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | अनुवृत्ति-सहित-सूत्रम्‌— द्वितीय-तृतीय-चतुर्थ-तुर्याणि सुपः एकदेशिना एकाधिकरणे सुपा सह विभाषा तत्परुषः समासः अन्यतरस्याम् |


अस्मिन् सूत्रे विभाषा( २.१.११) इति सूत्रस्य अधिकारः अस्ति इत्यतः समासः विकल्पेन एव भवति तर्हि किमर्थं अन्यतरस्याम् इति पुनः उक्तम् ?


उत्तरमस्ति अन्यतरस्यां ग्रहणात् षष्ठीसमासः अपि भवति विकल्पेन | पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ( २.२.११) इति सूत्रेण द्वितीयतृतीयादीनां पूरणप्रत्ययान्तानां षष्ठीसमासस्य प्रतिषेधः वर्तते | द्वितीय-तृतीय-चतुर्थ-तुर्य इति एते शब्दाः पूरणप्रत्ययान्तशब्दाः सन्ति इत्यतः तेषां षष्ठीसमासः निषिद्धः वर्तते पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ( २.२.११) इति सूत्रेण | प्रकृतसूत्रे अन्यतरस्याम् इति ग्रहणसामर्थ्यात् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ( २.२.११) इति सूत्रं न प्रवर्तते द्वितीया-तृतीया-चतुर्थ-तुर्याणां विषये | किन्तु द्वितीयतृतीयादीनां शब्दानां षष्ठीसमासः इष्यते इति कृत्वा अन्यतरस्याम् इति पदस्य प्रयोगः कृतः पाणिनिना प्रकृतसूत्रे | पुनः अन्यतरस्याम् इति कथनेन पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ( २.२.११) इति सूत्रेण प्राप्तस्य षष्ठीतत्पुरुषसमास-निषेधं बाधयित्वा षष्ठीसमासः अपि विकल्पेन भवति इत्यर्थः सिध्यति | षष्ठीसमासः क्रियते चेत् षष्ठ्यन्तस्य पदस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः अपि भवति | षष्ठीसमासः इत्युक्ते यः समासः षष्ठी (२.२.८) इति सूत्रेण क्रियते | आहत्य अत्र एकदेशिसमासः, षष्ठीसमासः, व्यस्तप्रयोगः च शक्यते |

उदाहरणानि
१) द्वितीयं भिक्षायाः = द्वितीयभिक्षा ( एकदेशिसमासः) , भिक्षाद्वितीयम् ( षष्ठीतत्पुरुषसमासः) , द्वितीयं भिक्षायाः ( व्यस्तप्रयोगः) | भिक्षायाः द्वितीयभागः इत्यर्थः |


२) तृतीयं भिक्षायाः = तृतीयभिक्षा ( एकदेशिसमासः) , भिक्षातृतीयम् ( षष्ठीतत्पुरुषसमासः) , तृतीयं भिक्षायाः ( व्यस्तप्रयोगः) | भिक्षायाः तृतीयभागः इत्यर्थः |



) चतुर्थं भिक्षायाः = चतुर्थभिक्षा ( एकदेशिसमासः) , भिक्षाचतुर्थं ( षष्ठीतत्पुरुषसमासः) , चतुर्थं भिक्षायाः ( व्यस्तप्रयोगः) | भिक्षायाः चतुर्थभागः इत्यर्थः |



४) तुर्यं ( 4th part) भिक्षायाः = तुर्यभिक्षा ( एकदेशिसमासः) , भिक्षातुर्यं ( षष्ठीतत्पुरुषसमासः) , तुर्यं भिक्षायाः ( व्यस्तप्रयोगः) | भिक्षायाः चतुर्थभागः इत्यर्थः |



तुरीयशब्दस्यापीष्यते इति वार्तिकेन तुरीयम् ( 4th part) इति पदस्य अपि द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम् (२.२.३) इति सूत्रस्य कार्यं भवति | अतः भिक्षायाः चतुर्थभागः इत्यस्मिन् अर्थे तुरीयभिक्षा, भिक्षातुरीयं, तुरीयं भिक्षायाः इति प्रयोगाः शक्यन्ते |


५) तुरीयं ( 4th part) भिक्षायाः = तुरीयभिक्षा ( एकदेशिसमासः) , भिक्षातुरीयं ( षष्ठीतत्पुरुषसमासः) , तुरीयं भिक्षायाः ( व्यस्तप्रयोगः) | भिक्षायाः चतुर्थभागः इत्यर्थः |



धेयं यत् एतेषु उदाहरणेषु भिक्षायाः इति पदस्य उपसर्जनसंज्ञा भवति एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण यतोहि भिक्षा इति स्त्रीलिङ्गपदं विग्रहावस्थायां नियतविभक्त्याम् अस्ति | यथा द्वितीयं भिक्षायाः, द्वितीयेन भिक्षायाः, द्वितीयस्मै भिक्षायाः, द्वितीयस्मात् भिक्षायाः, द्वितीयस्य भिक्षायाः, द्वितीयस्मिन् भिक्षायाः इत्यादिषु वाक्येषु भिक्षायाः इति पदस्य विभक्तिः नियता अस्ति, परन्तु द्वितीयः इति शब्दस्य तु विभक्तिः परिवर्त्यते | अतः एव भिक्षा इति पदं नियतविभक्तिकं पदम् इति कृत्वा तस्य उपसर्जनसंज्ञा स्यात् एकविभक्ति चापूर्वनिपाते (१.२.४४) इत्यनेन परन्तु पूर्वनिपातः न स्यात् | उपसर्जनसंज्ञायाः प्रयोजनं किम् इति चेत् गोस्त्रियोरुपसर्जनस्य (१.२.४८) इति सूत्रेण उपसर्जनस्त्रीप्रत्ययान्तस्य प्रातिपदिकस्य ह्रस्वो भवति | अतः समासे भिक्षा इति उपसर्जनसंज्ञकस्य स्त्रीलिङ्गशब्दस्य ह्रस्वत्वं कृत्वा द्वितीयभिक्ष इति अभविष्यत् | किन्तु समासः तु द्वितीयभिक्षा इति एव अस्ति, तर्हि तत्कथम् ?


एकविभक्तावषष्ठ्यन्तवचनम् ( एकविभक्तौ अषष्ठ्यन्तवचनम् ) इति एकं वार्तिकम् अस्ति एकदेशिसमासप्रसङ्गे | अनेन वार्तिकेन षष्ठ्यन्तपदस्य उपसर्जनसंज्ञा न भवति एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण | तात्पर्यं यत् एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रस्य निषेधः क्रियते अनेन वार्तिकेन षष्ठ्यन्तस्य पदस्य कृते | इति कृत्वा भिक्षायाः इति स्त्रीलिङ्गपदस्य उपसर्जनसंज्ञा एव न भवति | अनेन कारणेन तस्य पदस्य ह्रस्वत्वम् अपि न भवति गोस्त्रियोरुपसर्जनस्य (१.२.४८) इति सूत्रेण | एवमेव अर्धपिप्पली इत्यत्र पिप्पली इति पदस्य विषये अपि चिन्त्यम् |



एकविभक्ति चापूर्वनिपाते (१.२.४४)

विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति | समासे विधीयमाने यत् नियतविभक्तिकं, द्वितीये सम्बन्धिनि बहुभिः विभक्तिभिः युज्यमाने अपि एकया एव विभक्त्या यत् तत् उपसर्जनसंज्ञं भवति अपूर्वनिपाते | अपूर्वनिपातः नाम पूर्वनिपाताख्यम् उपसर्जनकार्यं वर्जयित्वा | एका विभक्तिर्यस्य तद् एकविभक्ति, बहुव्रीहिः | पूर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः | न पूर्वनिपातः अपूर्वनिपातः, तस्मिन्, अपूर्वनिपाते, नञ्तत्पुरुषः | एकविभक्ति प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम् | प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इत्यस्मात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् |


4)  कालाः परिमाणिना (२.२.५)

कालवाचकाः ( परिच्छेदकवाचकः- time as a measure) परिमाणिना (परिच्छेद्यवाचिना object which is being measured) सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | सूत्रस्थः परिमाणिन् शब्दः परिच्छेद्यवाची अस्ति, अर्थात् इयत्तायाः (quantity) बोधकः | परिमाणम् अस्य अस्ति इति परिमाणी | अस्मिन् सूत्रे समस्यमानौ द्वौ शब्दौ अपि एकप्रकारे कालवाचिनौ एव स्तः | यदि एकः शब्दः कालस्य अवधिं सूचयति, अन्यः शब्दः कालस्य अवधिं पूरयितुं समयविशेषं द्योतयति | अयमेव परिच्छेदक-परिच्छेद्यभावः; अर्थात् विशेषण- विशेष्यभावः एकार्थीभावसम्बन्धेन सिद्धः भवति | इदं सूत्रं षष्ठी ( २.२.८) इति सूत्रस्य अपवादः अस्ति | अस्मिन् सूत्रे एकदेशिनैकाधिकरणे इत्यस्य अनुवृत्तिः न क्रियते | अतः इदं सूत्रम् एकदेशिसमासस्य विषये नास्ति परन्तु षष्ठीसमासस्य अपवादः तु अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— कालाः सुपः परिमाणिना सुपा सह विभाषा तत्पुरुषः समासः |

उदाहरणानि
१) मासो जातस्य = मासजातः ( a month old), मासो जातस्य | मासजातः देवदत्तः दृश्यताम् इति वाक्यम् | एकः मासः जातः कस्यचित् देवदत्तस्य जन्मात् इत्यर्थः | अत्र यः जातः तस्य परिमाणम् उच्यमानम् अस्ति इति कृत्वा जातः परिमाणी, अर्थात् परिच्छेद्य | जातः इत्यस्य परिच्छेदकः मासः | अर्थात् मासः, संवत्सरः, द्व्यहः, त्र्यहः इत्यादिभिः कालवाचकैः जातस्य परिमाणम् उच्यते इति कृत्वा एते कालवाचकाः परिच्छेदकाः भवन्ति | एवं जातः इत्यस्य मासः, संवत्सरः, द्व्यहः त्र्यहः इत्यादिभिः कालवाचकैः सह परिच्छेद्य -परिच्छेदकभावसम्बन्धः भवति |

मासजातः देवदत्तः इति वदामः चेत् जातः इति क्तप्रत्ययान्तः शब्दः, देवदत्तः इति पदस्य विशेषणम् अस्ति | जातः ( देवदत्तः) एव परिमाणी यतोहि तस्य परिमाणम् उच्यमानम् अस्ति | जातः एव परिच्छेद्य, मासः एव परिच्छेदकः, अतः अनयोः परिच्छेदक-परिच्छेद्यभावः वर्तते |

जातपरिच्छेदकः मासः इति विग्रहवाक्येन बोधः जायते | मासपरिच्छेद्य जातः इति समासाद् बोधः | तत्र मासः तावत् जननं साक्षात् परिच्छिनत्ति | जननाश्रयं तु देवदत्तं जननद्वारा परिच्छिनत्ति | तथा च मासपरिच्छेद्य जननाश्रयः देवदत्तः इति समासाद्बोधः फलति | षष्ठीसमासापवादोऽयम् | यदि अत्र षष्ठी ( २.२.८) इति सूत्रेण षष्ठीतत्पुरुषसमासः क्रियते तर्हि जातमासः इति समासः स्यात् | किन्तु तन्नेष्यति इति कृत्वा कालाः परिमाणिना (२.२.५) इति सूत्रं रचितं पाणिनिना येन मासजातः इति समासः सिद्ध्यति |



२) संवत्सरः जातस्य = संवत्सरजातः ( a year old), संवत्सरः जातस्य | एकः वर्षः जातः तस्य जन्मनः इत्यर्थः |



३) मासः मृतस्य = मासमृतः, मासः मृतस्य |



४) संवत्सरः मृतस्य = संवत्सरमृतः, संवत्सरः मृतस्य |



*मासगतः, मासखादितः इत्यादयः समासाः न सिद्धयन्ति यतोहि गतः, खादितः इत्यादयः परिमाणिवाचकाः न सन्ति |



अग्रिमेषु उदाहरणेषु विग्रहवाक्ये यस्य सः इति उच्यते इति कृत्वा बहुव्रीहिसमासः इति भ्रमः स्यात् परन्तु बहुव्रीहिसमासः नास्ति यतोहि एतेषु उदाहरणेषु अन्यपदार्थस्य प्राधान्यं नास्ति | उत्तरपदार्थस्य जातः इति शब्दस्य एव प्राधान्यं वर्तते इति कृत्वा एतानि सर्वाणि तत्पुरुषसमासस्य उदाहरणानि एव सन्ति इति ज्ञातव्यम् | विग्रहे यस्य सः इति पदयोः प्रयोगः केवलं षष्ठ्यन्तस्य प्राधान्यं द्योतयति | बहुव्रीहिसमासः तु समानाधिकरणयोः पदयोः मध्ये एव भवति | एतेषु उदाहरणेषु पूर्वपदस्य, उत्तरपदस्य च सामानाधिकरण्यं न विद्यते इति कृत्वा एतानि बहुव्रीहिसमासस्य उदाहरणानि न सन्ति | यदि बहुव्रीहिसमासः अभविष्यत् तर्हि निष्ठा ( २.२.३६) इति सूत्रेण निष्ठान्तं पदं बहुव्रीहिसमासे पूर्वं प्रयोक्तव्यम् | अतः जात इति शब्दस्य पूर्वनिपातः जायते स्म यत्तु नास्ति एतेषु उदारहरणेषु | अत्र उत्तरपदार्थस्य जातः इति शब्दस्य प्राधान्यं वर्तते इति कृत्वा त्रिपदसमुदायस्य एव तत्पुरुषसमासः जायते | सुप्सुपा इत्यस्य अधिकारः वर्तते येन अनेकानां पदानां तत्पुरुषसमासः न सिद्ध्यति इत्यतः अत्र समाससाधनार्थम् एकं वार्तिकम् उच्यते उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम् इति |


उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम् इति वार्तिकेन त्रयाणां पदानां योगे अपि तत्पुरुषसमासः भवति इत्युच्यते  | अनेन पूर्वपदं द्विगुसमासः इत्युच्यते, उत्तरपदं परिमाणिवाचकम् इति | उत्तरपदेन परिमाणवाचिना शब्देन सह द्विगुसमासस्य सिद्धये, अनेकपदानां तत्पुरुषसमासः भवति  | यत्र पदद्वयात् अधिकानि पदानि भवन्ति तत्र अनेन वार्तिकेन एव व्यवस्था क्रियते, अपि च तेषु यदि परिमाणिवाचकः शब्दः उत्तरपदे अस्ति तर्हि तत् पदं कालवाचकैः सह समस्यते यतोहि पूर्ववर्तिनः कालवाचिनः द्विगुसमासः निष्पन्नः भवति |



५) द्वौ मासौ जातस्य यस्य सः = द्विमासजातः | यस्य जन्मात् मासद्वयम् अतीतम् | अत्र द्वौ मासौ इत्यत्र द्वौ इति पदं सङ्ख्यावाचकः अस्ति इत्यतः अत्र द्विगुसमासः स्यात् | अत्र त्रयाणां पदानां समासः इष्यते इति कृत्वा उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम् इत्यनेन वार्तिकेन तत्पुरुषसमासः जायते |



६) त्रयः मासाः जातस्य यस्य सः = त्रिमासजातः | यस्य जन्मात् मासत्रयम् अतीतम् |



७) द्व्यहो जातस्य यस्य सः = द्व्यहजातः |



७) द्वे अहनी जातस्य यस्य सः = द्व्यह्नजातः | दिनद्वयम् अतीतं यस्य जन्मनः |


८) त्रीणि अहानि जातस्य यस्य सः = त्र्यह्नजातः | दिनत्रयम् अतीतं जन्मनः |

षष्ठीतत्पुरुषसमासस्य निषेधकसूत्राणि —

याजकादिभिश्च (२.२.९) इत्यस्मात् सूत्रात् आरभ्य कर्तरि च (२.२.१६) इति सूत्रपर्यन्तं षष्ठीसमासस्य निषेधकसूत्राणि सन्ति  | अग्रे एतेषां सूत्राणां चर्चा करिष्यते |

१)   याजकादिभिश्च (२.२.९)

षष्ठ्यन्तं सुबन्तं याजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो विकल्पेन भवति | *याजकादिः नाम कश्चन गणः यत्र केचन शब्दाः पठिताः सन्ति | अनुवृत्ति-सहित-सूत्रम्‌— षष्ठी सुप् याजकादिभिः सुब्भिः सह विभाषा तत्पुरुषः समासः च |


तृजकाभ्यां कर्तरि इत्यस्य प्रतिप्रसवोऽयम्  | याजकादिभिश्च (२.२.९) इति सूत्रं तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रस्य अपवादः अस्ति | अर्थात् आदौ किञ्चित् सूत्रम् अस्ति येन किमपि कार्यं विधीयते, तत्पश्चात् तस्य निषेधः क्रियते अन्येन सूत्रेण | तदनन्तरं, यदा तत्कार्यस्य पुनर्विधानं क्रियते अन्येन सूत्रेण तदा प्रतिप्रसवः इत्युच्यते |


षष्ठी (२.२.८) इति सूत्रेण षष्ठ्यन्तपदस्य समर्थेन सुबन्तेन सह समासः विधीयते; तत्पश्चात् तृजकाभ्यां कर्तरि ( २.२.१५) इति सूत्रेण तत्कार्यं निषिध्यते | अर्थात् तृजकाभ्यां कर्तरि ( २.२.१५) इति सूत्रेण कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा न समस्यते | ण्वुल् इति प्रत्ययस्य स्थाने अक इति आदेशः भवति, तस्य ग्रहणं भवति तृजकाभ्यां कर्तरि (२.२.१५)  इति सूत्रेण | यथा अपां स्रष्टा, व्रजस्य भर्ता, ओदनस्य पाचकः इत्यादयः | इदानीं याजकादिभिश्च (२.२.९) इति सूत्रम् आगत्य वदति यद् याजकादिगणे पठितेभ्यः शब्देभ्यः षष्ठीतत्पुरुषसमासः भवति इति | याजकादिगणे ये शब्दाः सन्ति ते सर्वे अपि अकप्रत्ययान्ताः अथवा तृजन्ताः सन्ति इत्यतः तेषां षष्ठीसमासः निषिद्धः स्यात् तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण परन्तु याजकादिभिश्च (२.२.९) इति सूत्रम् आगत्य पुनः तेषां समासः विधीयते | अयमेव प्रतिप्रसवः इति शास्त्रे उच्यते |

याजकादिगणे एते शब्दाः अन्त्रर्भूताः
याजक ( one who offers sacrifice), पूजक ( worshiper), परिचारक ( attendant), परिषेचक ( one who sprinkles), स्नातक ( graduate, householder), अध्यापक ( teacher), उत्सादक ( destroyer), उद्वर्तक ( one who rises), होतृ ( priest), पोतृ ( purifier), भर्तृ ( husband), रथगणक ( one who counts great man's chariots), पत्तिगणक ( officer who numbers the infantry) च | अवधेयं यत् अस्मिन् गणे यः भर्तृशब्दः पठितः, सः शब्दः पतिः इति शब्दस्य पर्यायवाची सम्बन्धी शब्दः अस्ति | यः बिभर्ति इति भर्ता, तादृशक्रियावाचकेन शब्देन सह यः षष्ठीसमासः प्राप्तः आसीत् तस्य निषेधः क्रियते तृजकाभ्यां कर्तरि (२.२.१५)  इति सूत्रेण | यथा व्रजस्य भर्ता इत्यत्र भर्ता इति शब्दस्य अर्थः भरणम् इति न तु पतिः इति  | पतिः इत्यस्मिन् अर्थे तु षष्ठीसमासः जायते परन्तु भरणम् इत्यस्मिन् अर्थे तु न जायते  | अतः भुवः भर्ता इत्यत्र भूभर्ता इति समासः दृश्यते परन्तु व्रजस्य भर्ता इत्यत्र व्रजभर्ता इति समासः तु न जायते |
उदाहरणानि
१) ब्राह्मणस्य याजकः = ब्राह्मणयाजकः, ब्राह्मणस्य याजकः  | याजकः इति ण्वुल्प्रत्ययान्तः शब्दः, कृदन्तः च अस्ति, अतः याजकः इत्यत्र कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण कृद्योगे कर्तुः कर्मणः च षष्ठी प्राप्ता अस्ति | इदानीं षष्ठी (२.२.८) इति सूत्रेण समासः प्राप्तः अस्ति यतोहि ब्राह्मणस्य इति षष्ठ्यन्तम् अस्ति, याजकः इति प्रथमान्तम् अस्ति, परन्तु तस्य निषेधः क्रियते तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण | तृजकाभ्यां कर्तरि ( २.२.१५) इति सूत्रेण यः निषेधः प्राप्तः अस्ति, पुनः तस्य कार्यस्य एव विधानं क्रियते याजकादिभिश्च (२.२.९) इत्यनेन सूत्रेण |


२) क्षत्रियस्य याजकः = क्षत्रिययाजकः, क्षत्रियस्य याजकः |



३) राज्ञः परिचारकः = राजपरिचारकः, राज्ञः परिचारकः |



४) वृक्षस्य परिषेचकः = वृक्षपरिषेचकः, वृक्षस्य परिषेचकः |



५) संस्कृतस्य अध्यापकः = संस्कृताध्यापकः, संस्कृतस्य अध्यापकः |



६) अधर्मस्य उत्सादकः = अधर्मोत्सादकः, अधर्मस्य उत्सादकः |



) देवानां पूजकः = देवपूजकः, देवनां पूजकः |



प्रतिपदविधाना षष्ठी न समस्यते इति वार्तिकम्  | वार्तिकार्थः अस्ति – प्रतिपदस्य विधाने षष्ठीसमासः न भवति इति  | प्रतिपदं नाम पदस्य योगे या षष्ठीविभक्तिः भवति तस्याः इति  | पदं पदं प्रति प्रतिपदं, प्रतिपदं विधानं यस्याः सा, प्रतिपदविधाना | अत्र वीप्सायाम् अव्ययीभावः | सामान्यतः कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषः, तत्र षष्ठी स्यात् षष्ठी शेषे (२.३.५०) इति सूत्रेण | षष्ठी शेषे (२.३.५०) इति सूत्रेण या षष्ठी विहिता, ताम् षष्ठीं विहाय सूत्रविशेषस्य द्वारा विधीयमाना षष्ठी प्रतिपदविधाना इति उच्यते  | यत्र कश्चित् विशेषशब्दस्य योगे षष्ठीविभक्तेः विधानं भवति , तत्र समर्थेन सुबन्तेन सह षष्ठीसमासः न भवति प्रतिपदविधाना षष्ठी न समस्यते इति वार्तिकेन  |


सर्पिषः ज्ञानम्  | अत्र सर्पिष् इति शब्दे ज्ञोऽविदर्थस्य करणे (२.३.५१) इति सूत्रेण षष्ठीविभक्तिः विहिता अस्ति  | ज्ञोऽविदर्थस्य करणे (२.३.५१) इति सूत्रेण जानातेः अज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात्  | अस्मिन् उदाहरणे प्रतिपदविधाना षष्ठी अस्ति  | षष्ठी (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः अस्ति, तस्य निषेधः क्रियते प्रतिपदविधाना षष्ठी न समस्यते इति वार्तिकेन | अतः व्यस्तप्रयोगः एव सम्भवति – सर्पिषः ज्ञानम् इति  |


अष्टाध्याय्यां ज्ञोऽविदर्थस्य करणे ( २.३.५१) इत्यस्मात् सूत्रात् आरभ्य व्यवहृपणोः समर्थयोः ( २.३.५७) इति सूत्रपर्यन्तम् अपि च कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ( २.३.६४) इति सूत्रम्, एतैः सूत्रैः या षष्ठीविभक्तिः विहिता भवति सा प्रतिपदविधाना षष्ठी इत्युच्यते यतोहि सूत्रे एव उच्यते कैः पदैः सह षष्ठी विधीयते इति | कृद्योगे या षष्ठीतत्पुरुषसमासः भवितुम् अर्हति, तं निषेधयितुमेव एतानि अष्टसूत्राणि कृतानि, न तु षष्ठीविभक्तेः विधानार्थम् | अतः एतानि अष्टसूत्राणि समासनिषेधार्थं कृतानि न तु षष्ठीविभक्तेः विधानार्थम् | यथा - मातुः स्मरणम् इत्यत्र मातृस्मरणम् इति षष्ठीतत्पुरुषसमासः न जायते अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यनेन | अत्र यानि सूत्राणि उक्तानि तानि सर्वाणि कारकप्रकरणसम्बद्धानि, तेषां विवरणम् अत्र – परिशिष्टं - प्रतिपदविधाना षष्ठी दीयते |


'षष्ठी शेषे' इति शेषलक्षणां षष्ठीं वर्जयित्वा सर्वा षष्ठी प्रतिपदविधानेति भाष्ये उक्तम् | सर्पिषो ज्ञानम् इत्यत्र ज्ञोऽविदर्थस्य करणे इति विहितषष्ठ्याः समासो न भवति, 'न निर्धारणे' इति प्रत्याख्येयम् एव इति भाष्ये स्पष्टम् | वस्तुतः 'षष्ठी शेषे' इति शेषलक्षणां षष्ठीं वर्जयित्वा सर्वा षष्ठी प्रतिपदविधानेति भाष्ये उक्तम् इत्यतः न केवलं ज्ञोऽविदर्थस्य करणे ( २.३.५१) इत्यस्मात् सूत्रात् आरभ्य व्यवहृपणोः समर्थयोः ( २.३.५७) इति सूत्रपर्यन्तम्, अपि च कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ( २.३.६४) इत्येतानि सूत्राणि प्रतिपदविधाना षष्ठी अपि च अन्यानि सूत्राणि यैः षष्ठीविधाना भवति | अन्यानि सूत्राणि कानि? यथा यतश्च निर्धारणं ( २.३.४१) इति सूत्रेण या षष्ठीविधानं भवति सा अपि प्रतिपदविधाना षष्ठी एव | अतः प्रतिपदविधाना षष्ठी न समस्यते इति उक्तत्वात् पृथक्ततया समासनिषेधार्थं न निर्धारणे ( २.२.१०) इति सूत्रस्य आवश्यकता नास्ति एव | तदर्थमेव भाष्यकारेण एवम् उक्तं न निर्धारणे' इति प्रत्याख्येयम् एव इति | अर्थात् न निर्धारणे ( २.२.१०) इति सूत्रं निराकरणीयं, तस्य आवश्यकता नास्ति एव इति |


कृद्योगा च षष्ठी समस्यत इति वाच्यम्  | कृद्योगे या षष्ठी, तदन्तं सुबन्तं समर्थेन सुबन्तेन सह विकल्पेन समस्यते | वार्तिकस्य उपयोगिता एवम् अस्ति – सामान्यतः षष्ठीसमासस्य निषेधकं वार्तिकम् अस्ति प्रतिपदविधाना षष्ठी न समस्यते इति | अस्य वार्तिकस्य बाधकम् अस्ति कृद्योगा च षष्ठी समस्यत इति वाच्यम् | कृद्योगा च षष्ठी समस्यत इति वाच्यम् इति वार्तिकेन  षष्ठीसमासः विधीयते  |


आहत्य केवलम् एतानि सूत्राणि एव प्रतिपदविधान षष्ठी इत्युच्यते – ज्ञोऽविदर्थस्य करणे (२.३.५९) इत्यस्मात् सूत्रात् आरभ्य व्यवहृपणोः समर्थयोः (२.३.५७) इति सूत्रपर्यन्तं, अपि च कृत्वोऽर्थप्रयोगे कालेऽधिकरणे (२.३.६४) | अन्ततो गत्वा किमर्थं केवलम् एतानि सूत्राणि एव प्रतिपदविधाना षठी इत्युच्यते इति चेत् कृद्योगे या षष्ठी विधीयते तस्य तु षष्ठीसमासः भवति कृद्योगा च षष्ठी समस्यत इति वाच्यम् इति वार्तिकस्य बलेन |


कर्तृकर्मणोः कृति (२.३.६५) इति सूत्रेण या षष्ठी विहिता भवति सा कृद्योगा षष्ठी इति उच्यते  | कर्तृकर्मणोः कृति (२.३.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि च षष्ठी विभक्तिः भवति | भवतः पठनम् | भवत्याः हसनम्  |



इध्मस्य प्रव्रश्चनः = इध्मप्रव्रश्चनः  | काष्ठस्य छेदनं कर्तुं मुद्गरः ( hammer) इत्यर्थः | इध्म नाम काष्ठम् इत्यर्थः | प्रव्रश्चन नाम मुद्गरः इत्यर्थः | प्रव्रश्चन नाम मुद्गरः इत्यर्थः | प्रव्रश्चन इत्यत्र ल्युट्प्रत्ययः अस्ति करणार्थे | अतः वाक्यं भवति रामः मुद्गरेण इध्मं प्रवृश्चिति | मुद्गरः इध्मस्य प्रव्रश्चनः | अलौकिकविग्रहः = इध्म + ङस् + प्रव्रश्चन +सु  | अस्मिन् उदाहरणे कर्तृकर्मणोः कृति (२.३.६५) इति सूत्रेण षष्ठी विहिता अस्ति, अतः इयं षष्ठी प्रतिपदविधाना इत्युच्यते  | षष्ठी (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते प्रतिपदविधाना षष्ठी न समस्यते इति वार्तिकेन | प्रतिपदविधाना षष्ठी न समस्यते इति वार्तिकेन यः निषेधः प्राप्तः , तं निषेधं बाधित्वा पुनः कृद्योगा च षष्ठी समस्यत इति वाच्यम् इति वार्तिकेन विकल्पेन षष्ठीसमासः क्रियते  | समासप्रक्रियां कृत्वा इध्मप्रव्रश्चनः इति समासः सिद्धः भवति  |



एवमेव पलाशानां (वृक्षविशेषः) शातनः (पातनम्) = पलाशशातनः, पलाशस्य शातनः | शद् + णिच् = शाति + ल्युट् = शातन इति  |


२)      न निर्धारणे (२.२.१०)

पूर्वेण समासे प्राप्ते प्रतिषेधः आरभ्यते | निर्धारणे या षष्ठी विहिता, तदन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह तत्पुरुषसमासः भवति  | अनुवृत्ति-सहित-सूत्रम्‌— निर्धारणे षष्ठी सुप् सुपा सह विभाषा तत्पुरुषः समासः न |


निषेधस्य इयत्ता सूचनार्थं निधारणे इति शब्दयस्य प्रयोगः कृतः अनेन सूत्रेण | कारकप्रकरणे यतश्च निधारणम् (२.३.४१) इति सूत्रेण जातिगुणक्रियासंज्ञाभिः समुदायात् एकदेशस्य पृथक्करणार्थं, निर्धारणार्थं षष्ठी विभक्तेः वा सप्तमी विभक्तेः प्रयोगः भवति  | संज्ञा, जातिः, क्रिया अथवा गुणः, इत्येतेषाम् आधारेण समूहात् एकदेशस्य पृथक्करणं निर्धारणम् इत्युच्यते | निर्धारणार्थं त्रयः विषयाः आवश्यकाः – १) समुदायः; २) यस्य निर्धारणं क्रियते; ३) निर्धारणस्य हेतुः च |


यतश्च निर्धारणम् ( २.३.४१) = जातिगुणक्रियासंज्ञाभिः समुदायात् एकदेशस्य पृथक्करणं निर्धारणं, यतः निर्धारणं ततः षष्ठीसप्तम्यौ स्तः | यस्य पृथक्करणं जातं तस्मात् विशेषगुणस्य विधानम् अपि स्यात् | अनुवृत्ति-सहित-सूत्रम्‌— अनभिहिते यतः निर्धारणं सप्तमी षष्ठी |

उदाहरणानि
जातेः आधारेण एकदेशस्य पृथक्करणम्

यथा – नृणां नृषु वा ब्राह्मणः श्रेष्ठः – अस्मिन् उदाहरणे जातेः आधारेण ब्राह्मणः (द्विजः) श्रेष्ठः इति उच्यते  | नृणां समुदायः अस्ति, तेभ्यः एकदेशस्य ब्राह्मणस्य पृथक्करणमेव निर्धारणम् | तर्हि इदानीं यतश्च निर्धारणम् ( २.३.४१) इति सूत्रेण यस्मात् निर्धारणं क्रियते तस्मात् षष्ठीसप्तम्यौ स्तः | अत्र मनुष्याणां समुदायात् निर्धारणं क्रियते इत्यतः नृ इति शब्दात् षष्ठीसप्तम्यौ स्तः | ब्राह्मणः इत्यस्य पृथक्करणं जातं, तस्मात् विशेषगुणस्य श्रेष्ठत्वस्य विधानम् अपि स्यात् |

यतश्च निधारणम् (२.३.४१) इत्यनेन सूत्रेण निर्धारणार्थे षष्ठी विभक्तिः भूत्वा नृणां ब्राह्मणः श्रेष्ठः इति वाक्यं सिद्धम् | परन्तु यतश्च निधारणम् (२.३.४१) इति सूत्रेण प्राप्तस्य षष्ठीविभक्त्यन्तस्य समर्थेन सुबन्तेन सह समासः निषिध्यते न निर्धारणे (२.२.१०) इति सूत्रेण | अतः ब्राह्मणः नॄणां श्रेष्ठः इति व्यस्तप्रयोगः एव सम्भवति  | नृश्रेष्ठः इति समासः न भवति  |



संज्ञायाः आधारेण एकदेशस्य पृथक्करणम् –

यथा छात्राणां छात्रेषु वा मैत्रः पटुः  | अत्र संज्ञायाः आधारेण पृथक्करणं जातम् | यतश्च निधारणम् (२.३.४१) इति सूत्रेण या षष्ठी विधीयते | तादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासस्य निषेधः भवति न निर्धारणे (२.२.१०) इति सूत्रेण | अत्रापि व्यस्तप्रयोगः एव सम्भवति, छात्रपटुः इति समासः न जायते |



गुणस्य आधारेण एकदेशस्य पृथक्करणम् –

यथा गवां गोषु वा कृष्णा बहुक्षीरा | अत्र गुणस्य आधारेण पृथक्करणं जातम् | यतश्च निधारणम् (२.३.४१) इति सूत्रेण या षष्ठी विधीयते, तादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासस्य निषेधः भवति न निर्धारणे (२.२.१०) इति सूत्रेण | अत्रापि व्यस्तप्रयोगः एव सम्भवति गोबहुक्षीरा इति समासः न भवति |



क्रियायाः आधारेण एकदेशस्य पृथक्करणम्

गच्छतां गच्छत्सु वा धावन् शीघ्रः | अत्र क्रियायाः आधारेण पृथक्करणं जातम् | यतश्च निधारणम् (२.३.४१) इति सूत्रेण या षष्ठी विधीयते, तादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासस्य निषेधः भवति न निर्धारणे (२.२.१०) इति सूत्रेण | अत्रापि व्यस्तप्रयोगः एव सम्भवति गच्छच्छीघ्रः इति समासः न भवति |


३)    पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११)

पूरणाद्यर्थैः सदादिभिश्च षष्ठी न समस्यते  | पूरणप्रत्ययान्तशब्दः, गुणवाचिशब्दः, तृप्तिवाचिशब्दः, सत्- संज्ञकप्रत्ययान्तशब्दः, कृदव्ययं, तव्य-प्रत्ययान्तशब्दः अपि च समानाधिकरणवाचिशब्दः, इत्येतैः शब्दैः सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते | सूत्रे अर्थः इति शब्दस्य पूरण, गुण, तृप्ति च इत्येतैः शब्दैः सह योगात् पूरणार्थकशब्दानां, गुणार्थकशब्दानां, तृप्यर्थकशब्दानां च ग्रहणं भवति | अस्मिन् सूत्रे पूरण इति शब्देन पूरणार्थकप्रत्ययस्य ग्रहणं भवति  | सुहित इति शब्दस्य तृप्तिः इत्यर्थः | सत्-शब्दस्य द्वारा लट्लकारः, लृट्लकारः इत्यनयोः लकारयोः स्थाने आदेशरूपेण विधीयमानयोः सत्-संज्ञक-प्रत्यययोः ग्रहणं भवति  | तौ सत् (३.२.१२७) इति सूत्रेण शतृशानचौ सत्संज्ञौ भवतः | अतः सत्- शब्दः इत्युक्ते शत्रन्तशब्दः, शानजन्तशब्दः, तयोः ग्रहणं भवति | अस्मिन् सूत्रे सत् इति कृत्प्रत्ययान्तस्य अनन्तरम् अव्ययम् इति पदं प्रयुक्तम्, अपि च अव्ययम् इति पदस्य अनन्तरं तव्य इति कृत्प्रत्ययान्तस्य प्रयोगः कृतः इत्यतः अव्ययम् अपि कृत्प्रत्ययान्तमेव स्वीकर्तव्यम् | अनेन सूत्रेण कृत्प्रत्ययान्तम् अव्ययमेव स्वीक्रियते | समानाधिकरणं नाम समानाश्रयः ययोः पदार्थयोः, तौ इत्यर्थः | आश्रयः नाम समानविभक्तिः इत्यर्थः  | अर्थात् ययोः शब्दयोः समानविभक्तिः वर्तते, तयोः समानाधिकरणं वर्तते | अतः समानाधिकरणवाचिनः शब्दस्य ग्रहणं भवति | अनुवृत्ति-सहित-सूत्रम्‌— षष्ठी सुप् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन सुपा सह न तत्पुरुषः समासः |

उदाहरणानि
१)    पूरणार्थाः

अष्टाध्याय्यां तस्य पूरणे डट् ( ५.२. ४८) इत्यस्मात् सूत्रात् आरभ्य षष्ट्यादेश्चासंख्यादेः ( ५.२.५८) इति सूत्रपर्यन्तं पूरणप्रत्ययान्तशब्दाः उक्ताः सन्ति | पूरणं नाम 'पूर्यते अनेन इत्यर्थः | 'पॄ (पूरणे) इति धातोः ल्युट्-प्रत्ययं कृत्वा 'पूरण' इति शब्दः सिद्ध्यति | पूरणम् इत्यनेन गणनायाः पूर्णता भवति इति अर्थः | Ordinal number इति अर्थः । एतैः पूरणप्रत्ययान्तशब्दैः सह षष्ठीतत्पुरुषसमासः निषिद्धः अस्ति |

पूरणप्रत्ययान्तशब्दस्य उदाहरणानि

१) सतां षष्ठः – सज्जनानां षष्ठः इत्यर्थः | सताम् इति पदस्य षष्ठः इति समर्थेन सुबन्तेन सह षष्ठी (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः क्रियते पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण | अतः सत्षष्ठः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – सतां षष्ठः इति  | सर्वेषां क्रमवाचकसंख्यानां पूरणीसंख्या इति नामकरणं भवति |



२) छात्राणां पञ्चमः |



३) छात्राणां दशमः |


२)    गुणार्थाः

प्रकृतसूत्रे गुणः इत्यनेन केवलगुणवाची शब्दः, गुणोपसर्जनद्रव्यवाची शब्दः, द्वयोः अपि ग्रहणं क्रियते |

गुणवाचकः शब्दः कः ?
आ कडारादेका संज्ञा (१.४.१) इति सूत्रस्य भाष्ये भाष्यकारेण गुणवाचकशब्दानां विवरणं कृतम्। भाष्यवचनमेव अस्ति समासकृत्तद्धिताव्ययसर्वनामासर्वलिङ्गा जातिः  | समासस्य समाससंज्ञा वक्तव्या   | कृतः कृत्संज्ञा च वक्तव्या  | तद्धितस्य तद्धितसंज्ञा च वक्तव्या  | अव्ययस्य अव्ययसंज्ञा च वक्तव्या | सर्वनाम्नः सर्वनामसंज्ञा च वक्तव्या  | असर्वलिङ्गा जातिरित्येतच्च वक्तव्यम्  | संख्यायाः संख्यासंज्ञा च वक्तव्या  | अर्थात् एताः संज्ञाः विहाय गुणवचनः इति संज्ञा भवति इति आशयः | तत्र — समास-कृदन्त-तद्धितान्त-अव्यय-सर्वनाम-जाति-संख्या-संज्ञाशब्द-व्यतिरिक्तम् अर्थवद् शब्दस्वरूपं गुणवचनसंज्ञं भवति इति भाष्यकारस्य आशयः वर्तते  | प्रकृतसूत्रे तु आकडारादिति सूत्रोक्तगुणवचनसंज्ञकानां तृतीया तत्कृतार्थेन गुणवचनेन ( २.१.३०) इति सूत्रे प्रपञ्चितानां गुणानां ग्रहणं नास्ति यतोहि प्रकृतसूत्रे गुणवचनशब्दाभावात्  |प्रकृतसूत्रे गुणः इत्यस्य कः अर्थः ?

अत्र एका कारिका वर्तते भाष्ये -

सत्त्वे निविशतेऽपैति पृथग् जातिषु दृश्यते

आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः |

अनया कारिकया गुणवाचकशब्दानां व्याख्या भाष्ये दत्ता दृश्यते, तादृशः गुणः एव प्रकृतसूत्रे गुणः इति पदेन गृह्यते | अत्र गुणः इत्यनेन सङ्ख्यायाः ग्रहणं नास्ति |

(i) सत्त्वे निविशते, अपैति‌ —‌ गुणः सर्वदा द्रव्यम् आश्रित्य एव तिष्ठति | द्रव्यात् पृथक् स्थातुं न शक्नोति गुणः | यावत् पर्यन्तं द्रव्यम् अस्ति एते गुणाः भवन्ति, द्रव्यनाशे गुणस्य अपि नाशः भवति | गुणाः द्विविधा भवन्ति, केचन गुणाः नित्याः, केचन गुणाः अनित्याः सन्ति |

फलेषु यः वर्णः भवति सः अनित्यः भवति यतोहि कालान्तरेण तस्य परिवर्तनं भवति | तादृशाः गुणाः अनित्याः भवन्ति | आकाशस्य महत्त्वम् इति यः गुणः सः सर्वदा वर्तते, अतः तादृशगुणाः नित्याः इति उच्यन्ते |

(ii) पृथग् जातिषु दृश्यते — गुणः भिन्नासु जातिषु दृश्यते | यथा कृष्णः इति गुणः भिन्नासु जातिषु दृश्यते | घटे अपि भवति , वस्त्रे अपि भवति, पुस्तके अपि भवति, शुनके अपि भवति |

(iii) आधेयश्च अक्रियाजश्च — गुणः कुत्रचित् क्रियया जायते, कुत्रचित् क्रियां विना अपि जायते | घटस्य रक्तरूपम् अग्निसंयोगेन जायते | अतः अत्र क्रियया रक्तरूपं जायते | परन्तु आकाशस्य महत्त्वम् इति परिमाणरूपिगुणः क्रियया न जायते | अतः क्रियायाः अपेक्षया गुणः भिन्नः |

(iv) सः असत्त्वप्रकृतिः गुणः — गुणः यद्यपि द्रव्ये एव तिष्ठति तथापि द्रव्यभिन्नः अस्ति |

तात्पर्यं यत् यः द्रव्यक्रियाजातिभिन्नः भवति, सः य एव गुणसंज्ञकः भवति इति |

गुण-वाचक-शब्दाः त्रिविधाः भवन्ति -

१) केवलं गुण-वाचकाः | यथा शक्तिः, श्रद्धा, बलं, धैर्यं, श्रमः, भयम्‌ इत्यादयः | एते शब्दाः गुणम्‌ एव वदन्ति |

२) केवलं गुणि-वाचकाः | यथा उन्नतः, विशालः, उत्तमः, सुन्दरः इत्यादयः | एते गुणवद्वाचकाः सन्ति, अर्थात् गुणम् अपि बोधयन्ति, तेषाम् अधिकरणानि अपि बोधयन्ति | एते गुणिवाचकाः एव गुणोपसर्जनद्रव्यवाचिनः इति उच्यन्ते |

३) गुणवाचकाः अपि भवन्ति, गुणिवाचकाः अपि भवन्ति | यथा शुक्लः, नीलः, रक्तः, मधुरः, आम्लः, कटुः इत्यादयः | एते शब्दाः गुणवाचकत्वेन अपि प्रयुज्यन्ते, गुणिवाचकत्वेन अपि प्रयुज्यन्ते | अस्माकं विवक्षानुगुणं प्रयोगः शक्यते |


गुणवाचकशब्दस्य उदाहरणानि

१) काकस्य कार्ष्ण्यम् (blackness) – कृष्णस्य भावः कार्ष्णयम्  | काकस्य इति पदस्य षष्ठी शेषे ( २.३.५०) इति सूत्रेण गुणगुणिसम्बन्धे षष्ठी जाता अस्ति | काकस्य इति षष्ठ्यन्तस्य कार्ष्ण्यम् इति केवलगुणवाचकेन शब्देन सह षष्ठी (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण | अतः काककार्ष्ण्यम् इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – काकस्य कार्ष्ण्यम् इति  |


२) ब्राह्मणस्य शुक्लाः (दन्ताः) – ब्राह्मणस्य इति षष्ठ्यन्तस्य शुक्लः इति गुणिवाचकेन शब्देन सह षष्ठी (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण | अतः ब्राह्मणशुक्लाः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य शुक्लाः इति |
गुणवचनेभ्यो मतुपो लुगिष्टः इति वार्तिकम् -

गुणवचनेभ्यो मतुपः लुग्वक्तव्यः | गुणवाचकेभ्यः शब्देभ्यः मतुप्प्रत्ययविधानं, ततः तस्य लुक् भवति गुणवचनेभ्यो मतुपो लुगिष्टः इति वार्तिकेन | अतः शुक्लो गुणः एषाम् अथवा एषु इत्यर्थे मतुप्-प्रत्ययः विधीयते तदस्यास्त्यस्मिन्निति मतुप् ( ५.२.९४) इति सूत्रेण | मतुप् प्रत्ययः अस्य अस्मिन् वा इति अर्थे विधीयते | शुक्ल + मतुप् इति भवति | मतुप् इत्यत्र पकारस्य उकारस्य च इत्संज्ञा भवति, मत् इति अवशिष्यते | मादुपधायाश्च मतोर्वोऽयवादिभ्यः (८.२.९) इति सूत्रेण मवर्ण-अवर्णान्तात् मवर्ण -अवर्णोपधाच्च यवादिवर्जितात् परस्य मतः मस्य वः स्यात् | मकारान्तात् मकारोपधात् अवर्णान्तात् अवर्णोपधात् च उत्तरस्य मतोः वः इत्ययमादेशो भवति, यवादिभ्यः तु परतो न भवति | शुक्ल इति शब्दः अवर्णान्तः इति कृत्वा मतुप् इत्यत्र मकारस्य वकारादेशं कृत्वा शुक्लवान् इति रूपं सिद्ध्यति | ततः परं गुणवचनेभ्यो मतुपो लुगिष्टः इति वार्तिकेन मतुप्-प्रत्ययस्य लुक् क्रियते  | अतः शुक्लः इति रूपमेव सिद्ध्यति | एवं शुक्लः इति मतुप् -प्रत्ययान्तः शब्दः निष्पन्नः |

शुक्लो गुणोऽस्यास्तीति, शुक्लः दन्तः इति वदामः | शुक्लाः इति पदं गुणोपसर्जनद्रव्यवाची शब्दः अस्ति यतोहि शुक्लाः इति पदं मतुप्प्रत्ययान्तः शब्दः द्रव्यमेव बोधयति | शुक्लाः इति शब्दः दन्ताः इत्यस्य विशेषणम् अस्ति |



३) बलाकायाः शौक्ल्यम् शुक्लस्य भावः शौक्ल्यम् | शौक्ल्यम् इति केवलगुणवाचिशब्दः अस्ति |



३) कण्टकस्य ( thorn) तैक्ष्ण्यम् ( sharpness) तीक्षणस्य भावः तैक्ष्ण्यम् | तैक्ष्ण्यम् इति केवलगुणवाचिशब्दः अस्ति |


अनित्योऽयं गुणेन निषेधः, तदशिष्यं संज्ञाप्रमाणत्वात् इत्यादिनिर्देशात्  | अर्थात् तदशिष्यं संज्ञाप्रमाणत्वात् ( १.२.५३) इति सूत्रे संज्ञाप्रमाणत्वात् इति पदं श्रूयते, तस्य समस्तपदस्य विग्रहवाक्यं संज्ञायाः प्रमाणत्वम् इति | अस्मिन् समासे संज्ञायाः इति षष्ठ्यन्तस्य प्रमाणत्वम् इति गुणवाचिशब्देन सह समासः कृतः पाणिनिना | अत्र कथं षष्ठीसमासः प्राप्तः यतोहि प्रमाणत्वम् इति गुणवाचकः इति कृत्वा समासनिषेधः स्यात् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण | अयं समस्तप्रयोगः एव अस्मान् ज्ञापयति यत् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रस्य द्वारा गुणवाचिशब्दस्य विषये निषेधः अनित्यः वर्तते  | अर्थात् कुत्रचित् समासनिषेधः क्रियते, कुत्रचित् समासनिषेधः न क्रियते इति  | गुणवाचकशब्देन सह षष्ठीसमासनिषेधस्य अनित्यत्वात् केषुचित् स्थलेषु षष्ठीसमासः दृश्यते |यथा -

१) भारवेः अर्थस्य गौरवम् = अर्थगौरवम्, अर्थस्य गौरवम् |

२) बुद्धेः मान्द्यं = बुद्धिमान्द्यं, बुद्धेः मान्द्यम् |

३) पदस्य लालित्यम् = पदलालित्यम् |

४) अग्नेः मान्द्यम् = अग्निमान्द्यम् |



संख्यानां विषये समासनिषेधः नास्ति -

संख्या अपि गुणः अस्ति इत्यतः संख्यावाचकैः सह अपि षष्ठीसमासः न स्यात् | परन्तु प्रकृतसूत्रे गुणः इत्यनेन संख्यायाः ग्रहणं नास्ति इति उक्तं व्याख्यानेषु | अपि च संख्यानां षष्ठीसमासः दृश्यते लोके | यथा गवां विंशतिः = गोविंशतिः इति षष्ठीसमासः दृश्यते | अस्य समासस्य ज्ञापकम् अस्ति शतसहस्रान्ताच्च निष्कात् ( ५.२.११९) इति सूत्रम् | निष्कात्परौ यौ शत-सहस्र-शब्दौ तदन्तात् प्रातिपदिकात् ठञ् स्यात् मत्वर्थे | यथा - नैष्कशतिकः ( worth a hundred), नैष्कसहस्रिकः ( worth a thousand) | शतसहस्रान्ताच्च निष्कात् ( ५.२.११९) इति सूत्रेण अस्य अस्मिन् वा इति अर्थे निष्कशत तथा निष्कसहस्र इत्येताभ्यां प्रातिपदिकाभ्यां ठञ्-प्रत्ययः विधीयते | यदि निष्क इति शब्दस्य शत इति शब्देन सह समासः न भवति तर्हि निष्कशत इति प्रातिपदिकम् अपि न सिद्धयति | अतः अस्य सूत्रस्य ज्ञापकात् षष्ठीसमासस्य निषेधः संख्यावाचकानां विषये न प्रवर्तते यद्यपि संख्यावाचकाः अपि गुणाः एव भवन्ति |

संख्यानां विषये षष्ठीसमासः शक्यते केवलं विंशत्यधिकानां कृते एव | एकादिका नवदशपर्यन्ता संख्या संख्येये त्रिलिङ्गश्च भवति | एकादिकाः संख्येये, अर्थात् द्रव्ये वर्तन्ते | तेन सामानाधिकरण्येन एव तासां वृत्तिः |  यथा एकः विप्रः, दश विप्राः इति | वैयधिकरण्येन वृत्तिः नास्ति अतः एकः विप्रस्य, दश विप्राणाम् इत्यादि न भवति | अतः एकादिका नवदशपर्यान्ता या संख्या, तासां षष्ठीसमासः अपि न सम्भवति यतोहि षष्ठी विभक्तिः एव न प्राप्यते |


यथा —

तत्स्थैश्च गुणैः षष्ठी समस्यत, इति वक्तव्यम्

केषुचित् स्थलेषु गुणेन सह षष्ठीसमासः दृश्यते यथा चन्दनगन्धः, घटरूपम् इत्यादौ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण निषेधे प्राप्ते तत्स्थैश्च गुणैः षष्ठी समस्यत, इति वक्तव्यम् इति वार्तिकेन समासः प्रतिप्रसूयते |

तत्स्थैश्च गुणैः षष्ठी समस्यत, इति वक्तव्यम् | यथा गृहे तिष्ठति इति गृहस्थः इति उपपदसमासः तथा तस्मिन् तिष्ठति इति तत्स्थः इति उपपदसमासः | तत्स्थः इत्यत्र तत् इत्यनेन द्रव्यम् इत्यर्थः | तत्स्थः गुणः नाम यः गुणः द्रव्ये विद्यते | तत्स्थैश्च गुणैः षष्ठी समस्यत, इति वक्तव्यम् इत्यनेन वार्तिकेन द्रव्याणां प्रति अनुपसर्जनीभूतः यः गुणः अस्ति, तेन सह षष्ठ्यन्तस्य द्रव्यस्य समासः भवति | न उपसर्जनीभूतः गुणः, अनुपसर्जनीभूतः गुणः इति नञ् बहुव्रीहिसमासः | उपसर्जनीभूतः नाम गौणीभूतः इत्यर्थः | अर्थात् सामान्यतया गुणस्य प्राधान्यं न भवति यतोहि गुणः द्रव्यम् आश्रित्य तिष्ठति; गुणः द्रव्यस्य विशेषणं भवति | द्रव्यमेव प्रधानं भवति, गुणः अप्रधानः भवति | यथा शुक्लः घटः अस्ति इति वदामः चेत् घटस्य एव प्राधान्यम् अस्ति, शुक्लः अप्रधानः, गुणीभूतः अस्ति | किन्तु कुत्रचित् गुणः गौणीभूतः न भवति | गुणस्य एव प्राधान्यं भवति | तादृशस्थलेषु समासः दृश्यते |

यथा-

१) चन्दनस्य गन्धः = चन्दनगन्धः | गन्धत्वेन प्रतीयमानो गन्धो न कदापि गुणिसमानाधिकरणः, किन्तु स्वप्रधानः भवति | इदमेव हि तात्स्थ्यं नाम | गन्धत्वेन प्रतीयमानः गन्धः गुणिना सह सामानाधिकण्यम् अप्राप्य स्वयं प्रधानः भवति | यः गुणः स्वद्रव्यात् पृथक् स्थित्वा अपि स्वशब्दात् उक्तः भवति सः गुणः अनुपसर्जनीभूतः भवति | तादृशः गुणः तात्स्थ्यः इत्युच्यते | अर्थात् ये गन्धादयः शब्दाः स्वाश्रयात् चन्दनादिद्रव्यात् पृथक् एव प्रतीयन्ते न तु अनुगतं प्रतीयन्ते | अतः एव अत्र षष्ठीसमासः जायते यद्यपि गन्धः इत्यादयः गुणवाचकाः सन्ति |

२) कपित्थस्य ( wood apple) रसः = कपित्स्थरसः |

३) ब्राह्मणस्य वर्णः = ब्राह्मणवर्णः |

४) पटहस्य ( drum) शब्दः = पटहशब्दः |

५) नद्याः घोषः = नदीघोषः |

६) घटस्य रूपम् = घटरूपम् |


गुणात्तरेण समासस्तरलोपश्चेति वक्तव्यम् | वार्तिकार्थः – गुणवाचि-तरबन्तेन सह षष्ठीसमासः तरप्प्रत्ययलोपश्च भवति | गुणवाचकाद्विहितो यस्तरप् तदन्तेन षष्ठी वा समस्यते, तरपो लोपश्चेत्यर्थः । अर्थात् गुणवाचिनः तरप्-प्रत्ययान्तस्य शब्दस्य षष्ठ्यन्तेन सुबन्तेन सह समासः विकल्पेन भवति तथा च तरप्-प्रत्ययस्य लोपः भवति  | सर्वशब्दे एवेदं वार्तिकम् अभिप्रेतम् | न निर्धारणे (२.२.१०), पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.१२) इति च निषेधस्य प्रतिप्रसवोऽयं वार्तिकम् | तात्पर्यं यत् षष्ठी (२.२.८)  इति सूत्रेण यत्र षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते  न निर्धारणे (२.२.१०), पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.१२) च इत्याभ्यां सूत्राभ्याम्  | प्रकृतवार्तिकम् अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप्-प्रत्ययस्य लोपं करोति  | अतः इदं कार्यं शास्त्रे प्रतिप्रसवः इति उच्यते  |यथा - सर्वश्वेतः

सर्वश्वेतः इति | 'वकानां गुणः' इति शेषः । द्रव्यान्तरवृत्ति-श्वतेरूपापेक्षया सर्वेषां वकानां श्वेतगुणोऽयमधिकः इत्यर्थः | 'द्विवचनविभज्य' इति विभक्तव्योपपदे तरप् | अत्र सर्वेषामिति षष्ठन्तस्य श्वेततरशब्देन समासे तरपो लोपे सर्वश्वेत इति रूपम् |

सर्वमहानिति । 'ईश्वरः' इति शेषः | 'सर्वेषां महत्तरः' इति विग्रहः | इतरसंबन्धिमहत्त्वापेक्षया ईश्वरस्य महत्त्वमधिकमित्यर्थः |

द्विवचनविभज्योपपदे तरबीयसुनौ (५.३.५७) इति सूत्रेण द्व्यर्थे विभज्ये च उपपदे प्रातिपदिकात् तिङन्ताच् च अतिशायने तरबीयसुनौ प्रत्ययौ भवतः | अर्थात् गुणवाचकेभ्यः द्वयोः एकः अतिशयेन प्रकृष्टः अस्ति , तथा च यदा काञ्चन पदार्थान् विभज्य, ते पदार्थाः अन्येभ्यः केभ्यश्चित् प्रकृष्टाः सन्ति इति वक्तव्यं चेत् तदा प्रातिपदिकात् स्वार्थे तरप्-प्रत्ययः तथा ईयसुँन्-प्रत्ययः भवति | यथा गुरु इति गुणवाचकेभ्यः तरप्-प्रत्ययः विधीयते चेत् गुरुतर इति प्रातिपदिकं लभ्यते | रामकृष्णयोः रामः गुरुतरः इति वाक्यम् | ईयसुन्प्रत्ययः अपि तस्मिन् एव अर्थे विधीयते, गरीयस् इति प्रातिपदिकं लभ्यते | गरीयान्, गरीयसी, गरीयः इति रूपाणि त्रिषु लिङ्गेषु भवन्ति |

सर्वेषां श्वेततरः वकानां गुणः इति वाक्यं स्वीकुर्मः | अस्मिन् वाक्ये पृथक्करणं क्रियते गुणम् आश्रित्य अतः सर्वेषाम् इति षष्ठी विभक्तिः जाता यतश्च निर्धारणम् ( २.३.४१) इत्यनेन सूत्रेण | यतश्च निर्धारणम् ( २.३.४१) इत्यनेन जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं ( स्वेतरव्यावृत्तधर्मविशेषवत्त्वबोधनं) निर्धारणम् इत्युच्यते | यतः निर्धारणं ततः षष्ठीसप्तम्यौ विभक्ती भवतः | वकानां गुणः सर्वेषु श्वेततरः इति अपि वाक्यं स्यात् विकल्पेन | श्वेतः इति गुणवाचकशब्दः , तस्मात् द्विवचनविभज्योपपदे तरबीयसुनौ (५.३.५७) इति सूत्रेण विभज्योपपदे तरप्प्रत्ययः विधीयते चेत् श्वेततरः इति रूपं लभ्यते | इदानीं सर्वेषा श्वेततरः इत्यत्र षष्ठी समासः न स्यात् यतोहि सर्वेषाम् इत्यत्र षष्ठी विभक्तिः जाता निर्धारणार्थे अतः न निर्धारणे (२.२.१०) इति सूत्रेण षष्ठीसमासनिषेधः स्यात् | अपि च श्वेततरः इति शब्दः गुणवाचकः अस्ति इत्यतः सर्वेषां श्वेततरः इत्यत्र षष्ठीसमासनिषेधः स्यात् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.१२) इति सूत्रेण | आहत्य अत्र द्वाभ्यां सूत्राभ्यां षष्ठीसमासनिषेधः जायते | परन्तु गुणात्तरेण समासस्तरलोपश्चेति वक्तव्यम् इति वार्तिकेन अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं क्रियते | अतः सर्वश्वेतः इति समासः सिद्धयति, तरप्प्रत्ययस्य लोपः च भवति |

सर्वेषां श्वेततरः = सर्वश्वेतः | नाम सर्वेषाम् अपेक्षया यः श्वेतः अस्ति सः सर्वश्वेतः | अलौकिकविग्रहः = सर्व +आम् + श्वेततर + सु  | अत्र श्वेत इति प्रातिपदिकात् द्विवचनविभज्योपपदे तरबीयसुनौ (५.३.५७) इति सूत्रेण अतिशयार्थे तरप् -प्रत्ययः विधीयते, श्वेततरः इति पदं निष्पन्नं भवति  | श्वेतः इति गुणवाचकम् पदम् अस्ति | षष्ठी (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते न निर्धारणे (२.२.१०), पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.१२) च इत्याभ्यां सूत्राभ्यां  | गुणात्तरेण तरलोपश्चेति वक्तव्यम् इति वार्तिकेन अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप् -प्रत्ययस्य लोपः क्रियते | सर्वश्वेत इति प्रातिपदिकं सिद्धं भवति | समासप्रक्रियां कृत्वा सर्वश्वेतः इति समासः सिद्ध्यति  |

सर्वेषां महत्तरः = सर्वमहान्  | अलौकिकविग्रहः = सर्व + आम् + महत्तर + सु  | सर्व +महत् → सर्वमहत् + सु → सर्वमहान्  |

सर्वेषां कृष्णतरः = सर्वकृष्णः  | अलौकिकविग्रहः = सर्व + आम् + कृष्णतर + सु  | सर्व +कृष्ण → सर्वकृष्ण + सु → सर्वकृष्णः  |

सर्वेषां शुक्लतरा = सर्वशुक्ला गौः | अलौकिकविग्रहः = सर्व + आम् + शुक्लतर + सु  | सर्व +शुक्ल → सर्वशुक्ल+ टाप् + सु → सर्वशुक्ला गौः  |


३)    सुहितार्थास्तृप्त्यर्था:सुहितार्थाः इत्यनेन तृप्त्यर्थकशब्दानां ग्रहणं भवति |

१) फलानां सुहिताः | फलानां तृप्तिः इत्यर्थः | फलानाम् इत्यत्र षष्ठीविभक्तिः करणस्य अविवक्षायां शेषत्वविवक्षायां कृता वर्तते | षष्ठी (२.२.८) इति सूत्रेण यः समासः विधीयते, तस्य निषेधः भवति पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण | अतः फलसुहिताः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – फलानां सुहिताः इति |

तृतीयासमासस्तु स्यादेव | अर्थात् उक्तनिषेधः केवलं षष्ठीतत्पुरुषसमासस्य विषये न तु तृतीयातत्पुरुषसमासस्य विषये | अतः फलैः सुहिताः इत्यत्र करणत्वस्य विवक्षायां फलैः इति तृतीयान्तं सुबन्तं सुहिताः इति सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति कर्तृकरणे कृता बहुलम् ( २.१.३२) इति सूत्रेण, अतः फलसुहिताः इति समासः निष्पन्नः भवति  | एवमेव फलतृप्तिः इत्यपि समासः सिद्धः भवति |



४)    सत् इत्यनेन शत्रृप्रत्ययान्त-शब्दानां, शानच्प्रत्ययान्त-शब्दानां ग्रहणं भवति |

पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण सत्संज्ञकप्रत्ययम् उपयुज्य यः शब्दः निष्पन्नः, तेन सह षष्ठीतत्पुरुषसमासः न भवति | तौ सत् (३.२.१२७) इति सूत्रेण शतृशानचौ सत्संज्ञौ भवतः | शत्रन्तशब्देन शानजन्तशब्देन च सह षष्ठ्यन्तस्य समर्थसुबन्तस्य समासः षष्ठी इति सूत्रेण प्राप्तः आसीत्, तादृशस्य कृद्योगस्य षष्ठीसमासस्य निषेधार्थम् एव पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रे सत् इति पदस्य प्रयोगः कृतः अस्ति |

द्विजस्य कुर्वन्, कुर्वाणो वा | कुर्वन्, कुर्वाणः नाम किङ्करः, सेवकः इत्यर्थः | अस्मिन् उदाहरणे शतृ-प्रत्ययान्त-शब्दस्य, शानच्-प्रत्ययान्त-शब्दस्य च प्रयोगः दृश्यते  | षष्ठी (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण | अतः द्विजकुर्वन्, द्विजकुर्वाणः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – द्विजस्य कुर्वन्, द्विजस्य कुर्वाणः इति | एवमेव ब्राह्मणस्य कुर्वन्, कुर्वाणो वा |

काशिका, सिद्धान्तकौमुदी इत्यादिषु ग्रन्थेषु सत् इत्यस्य उदाहरणं द्विजस्य कुर्वन् कुर्वाणो वा इति दीयते |

पदमञ्जर्याम् उक्तं यत् ब्राह्मणस्य पाचकः इत्यत्र सम्बन्धार्थे षष्ठी, तस्याः सुबन्तेन यथा समासः भवति तथा ब्राह्मणस्य कुर्वन् अथवा द्विजस्य कुर्वन् इत्यत्रापि समासः स्यादिति | कुर्वन् इति किङ्करः उच्यते यतोहि सः एव कुर्वन् भवति |

भाष्यकारेण उक्तं यत् इदम् उदाहरणद्वयम् सत् इत्यस्य उदाहरणं न भवितुम् अर्हति | किमर्थम् इति चेत् - कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठी विधीयते | किन्तु न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति सूत्रेण शतृप्रत्ययान्तस्य शानज्प्रत्ययान्तस्य योगे षष्ठीविभक्तेः निषेधः क्रियते | अनेन सूत्रेण ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति | ल इति शतृशानचौ यतोहि लकारस्य स्थाने विहितौ एतौ प्रत्ययौ | यथा - ओदनं पचन्, ओदनं पचमानः | पचन् इति शत्रन्तः शब्दः, पचमानः इति शानजन्तः शब्दः | अनयोः योगे अनुक्तकर्मणः षष्ठीविभक्तेः निषेधः कृतः न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति सूत्रेण | अतः एव अनुक्तकर्मणः द्वितीया विभक्तिः जाता कर्मणि द्वितीया ( २.३.२) इति सूत्रेण | शतृप्रत्ययान्तस्य शानज्प्रत्ययान्तस्य च योगे षष्ठीविभक्तिः प्राप्ता एव नास्ति चेत् कथं वा षष्ठीसमासस्य निषेधः शक्यते ? अतः द्विजस्य कुर्वन्, द्विजस्य कुर्वाणः इति तु सत्प्रत्ययान्तस्य योगे षष्ठीतत्पुरुषसमासस्य निषेधस्य उदाहरणं न भवितुम् अर्हति |

अत्र अन्यः विषयः अपि अस्ति यत् कुर्वन्, कुर्वाणः इति सत्प्रत्ययान्तस्य योगे षष्ठ्यन्तं पदं नास्ति अपि तु द्विजसम्बन्धिनः बाह्यद्रव्यस्य अपेक्षा वर्तते इति कृत्वा उदाहरणम् एवं सम्भवति - द्विजस्य ओदनं कुर्वन्, द्विजस्य ओदनं कुर्वाणः इति | इदानीं द्विजस्य इति पदस्य सम्बन्धः ओदनम् इति पदेन सह वर्तते न तु सत्प्रत्ययान्तेन सह | अतः द्विजस्य कुर्वन्, द्विजस्य कुर्वाणः इत्यत्र तु समासः न शक्यते एव यतोहि षष्ठ्यन्तस्य पदस्य सत्प्रत्ययान्तेन सह सम्बन्धः एव नास्ति | द्विजशब्दस्य सम्बन्धः तु ओदनम् इति पदेन सह वर्तते इति कृत्वा द्विजशब्दः तु सापेक्षः भवति | सापेक्षम् असमर्थं भवति इत्यतः असमर्थस्य समासः न भवति | अतः द्विजस्य कुर्वन् इत्यत्र षष्ठीसमासः एव न शक्यते | एवं रीत्या द्विजस्य कुर्वन्, द्विजस्य कुर्वाणः इति तु उदाहरणं न भवितुम् अर्हति षष्ठीसमासस्य निषेधार्थं पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण |

तर्हि इदानीम् अपि प्रश्नः अस्ति यत् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रे सत् इति किमर्थम् उक्तम् ?

समाधानमेवम् अस्ति यत् सत्प्रत्ययान्तस्य योगे षष्ठीसमासनिषेधार्थम् एकमेव उदाहरणं सम्भवति |

यथा -

चौरस्य द्विषन् (enemy) |

वृषलस्य (wicked person) द्विषन् |

द्विषोऽमित्रे ( ३.२.१३१) = अमित्रे कर्तरि द्विषेर्धातोः शतृप्रत्ययो भवति | द्विषन्, द्विषन्तौ, द्विषन्तः इति शत्रन्तरूपाणि | अमित्रः नाम शत्रुः इत्यर्थः | द्विषन् नाम शत्रुः इत्यर्थः | भार्या पतिं द्वेष्टि इति वाक्ये अमित्रार्थः नास्ति अपि तु द्वेषः इत्यर्थः अस्ति | द्विषोऽमित्रे ( ३.२.१३१) इति सूत्रे यदा शत्रुः इति अर्थः विवक्षितः तदा एव द्विष् इति धातुतः शत्रुप्रत्ययः भवति कर्त्रार्थे |

द्विषः शतुर्वा इति वार्तिकम् = द्विषन् इति शतृप्रत्ययान्तस्य योगे षष्ठीविभक्तिः जायते विकल्पेन द्विषः शतुर्वा इति वार्तिकेन | इदं वार्तिकं तु न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३. ६९) इति सूत्रस्य निषेधकम् अस्ति इत्यतः एव द्विषन् इति शत्रन्तस्य योगे षष्ठी जायते विकल्पेन | अतः चौरस्य चौरं वा द्विषन्, मुरस्य( दैत्यविशेषः) मुरं वा द्विषन्, द्विजस्य द्विजं वा द्विषन् इत्यादयः प्रयोगाः सन्ति |

उदाहरणानि = चौरस्य द्विषन्, मुरस्य द्विषन् , द्विजस्य द्विषन् |

चौरस्य द्विषन्, मुरस्य द्विषन् , द्विजस्य द्विषन् इत्यादिषु स्थलेषु या षष्ठी प्राप्ता अस्ति कृद्योगे द्विषः शतुर्वा इति वार्तिकेन, तस्याः षष्ठी ( २.२.) इति सूत्रेण षष्ठीतत्पुरुषसमासः प्राप्तः अस्ति | तादृशषष्ठीसमासस्य निषेधार्थं पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रे सत् इति पदस्य प्रयोगः कृतः पाणिनिना | अतः सत् इत्यस्य एकमेव उदाहरणम् अस्ति द्विषन् इति |

एकस्य उदाहरणस्य कृते सूत्रारम्भः अनुचितः इत्यतः एव भाष्यकारेण पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रे सत् इति पदस्य प्रत्याख्यानं ( निराकरणं) कृतम् | एवञ्चेत् चौरस्य द्विषन्, मुरस्य द्विषन् , द्विजस्य द्विषन् इत्यादिषु स्थलेषु समासः न भवति अनभिधानात्, अप्रसिद्धत्वात् |



५)    अव्ययम्

अव्ययेन सह षष्ठीसमासस्य निषेधः अस्ति | प्रकृतसूत्रेण कृत्प्रत्ययान्तम् अव्ययम् एव ग्राह्यम् |

कृन्मेजन्तः ( १.१.३९) इति सूत्रेण कृद् यः मकारान्तः, एजन्तश्च तदन्तं शब्दरूपमव्ययसंज्ञं भवति | अर्थात् मकारान्तस्य एजन्तस्य च कृत्प्रत्ययान्तस्य शब्दस्य अव्ययम् इति संज्ञा भवति | प्रसिद्धः मकारान्तः कृत्प्रत्ययः तु तुमुन्-प्रत्ययः | एजन्त- कृत्प्रत्ययाः तु वेदे एव सन्ति |

क्त्वातोसुन्कसुनः ( १.१.४०) इति सूत्रेण क्त्वा, तोसुन्, कसुन् - इत्येवमन्तं शब्दरूपम् अव्ययसंज्ञं भवति | अर्थात् क्त्वा इति प्रत्ययान्तशब्दाः, तोसुन् इति प्रत्ययान्तशब्दाः, कसुन् इति प्रत्ययान्तशब्दाः च अव्ययसंज्ञां प्राप्नुवन्ति | एतादृशकृत्संज्ञकस्य अव्ययस्य योगे या षष्ठी अस्ति, तस्याः षष्ठीसमासस्य निषेधार्थं प्रकृतसूत्रे अव्ययम् इति उक्तम् | 'तोसुन्' तथा 'कसुन्' एतौ छान्दसौ प्रत्ययौ |

अस्मिन् सूत्रे अव्ययम् इत्यनेन केवलं तादृशानाम् अव्ययानां ग्रहणम् अस्ति यत् कृत्प्रत्ययान्तम् अस्ति | पूर्वोत्तरसाहचर्यात् कृदव्ययमेव गृह्यते  | अर्थात् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रे अव्ययम् इति शब्दात् पूर्वं कृत्संज्ञकस्य सत्शब्दस्य विषये उक्तं ; तत्पश्चात् कृत्संज्ञकस्य तव्यप्रत्ययान्तस्य विषये उक्तम्  | अतः अव्ययम् इत्यस्मात् पूर्वं तथा परं विद्यमानस्य कृत्प्रत्ययबोधकस्य शब्दस्य साहचर्यात् अव्ययम् इति शब्दस्य द्वारा अपि कृत्प्रत्ययान्तम् अव्ययम् एव गृह्यते  | पूर्वोक्तनियमेन तद्धितप्रत्ययान्तेन अव्ययेन सह षष्ठीतत्पुरुषसमासस्य निषेधः नास्ति इत्यतः तस्य उपरि = तदुपरि इति समासः सिद्धयति | उपरि इति तद्धितप्रत्ययान्तम् अव्ययम् अस्ति |

ब्राह्मणस्य कृत्वा – कृत्वा इति शब्दे कृ इति धातुतः क्त्वा प्रत्ययः विधीयते | क्त्वाप्रत्ययान्त-शब्दः क्त्वातोसुन्कसुनः (१.१.४०) इति सूत्रेण अव्ययसंज्ञां प्राप्नोति | ब्राह्मणस्य कृत्वा इति उदाहरणे षष्ठी (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण | अतः ब्राह्मणकृत्वा इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य कृत्वा इति |

काशिका, सिद्धान्तकौमुदी इत्यादिषु ग्रन्थेषु अव्ययम् इत्यस्य उदाहरणं ब्राह्मणस्य कृत्वा इति दीयते परन्तु भाष्यकारेण उक्तं यत् इदम् उदाहरणम् अव्ययम् इत्यस्य उदाहरणं न भवितुम् अर्हति | किमर्थम् इति चेत् - कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठी विधीयते | किन्तु न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति । अर्थात् अनेन सूत्रेण कृदव्ययस्य योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठीविभक्तेः निषेधः क्रियते | यथा ओदनं कृत्वा | अस्मिन् उदाहरणे कृत्वा इति कृदव्ययस्य योगे ओदनम् इति कर्मणः षष्ठीविभक्तेः निषेधः कृतः न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति सूत्रेण | अतः एव अनुक्तकर्मणः द्वितीया विभक्तिः जाता कर्मणि द्वितीया ( २.३.२) इति सूत्रेण | कृदव्ययस्य योगे षष्ठीविभक्तिः प्राप्ता एव नास्ति चेत् कथं वा षष्ठीसमासस्य निषेधः शक्यते ? अतः ब्राह्मणस्य कृत्वा इति तु कृदव्ययस्य योगे षष्ठीतत्पुरुषसमासस्य निषेधस्य उदाहरणं न भवितुम् अर्हति |

अत्र अन्यः विषयः अपि अस्ति यत् कृत्वा इति कृदव्ययस्य योगे षष्ठ्यन्तं पदं नास्ति अपि तु ब्राह्मणसम्बन्धिनः बाह्यद्रव्यस्य अपेक्षा वर्तते इति कृत्वा उदाहरणम् एवं सम्भवति - ब्राह्मणस्य कटं कृत्वा इति | इदानीं ब्राह्मणस्य इति पदस्य सम्बन्धः कटम् इति पदेन सह वर्तते न तु कृदव्ययेन सह | अतः ब्राह्मणस्य कृत्वा इत्यत्र तु समासः न शक्यते एव यतोहि षष्ठ्यन्तस्य पदस्य कृदव्ययेन सह सम्बन्धः एव नास्ति | ब्राह्मणशब्दस्य सम्बन्धः तु कटम् इति पदेन सह वर्तते इति कृत्वा ब्राह्मणशब्दः तु सापेक्षः भवति | सापेक्षम् असमर्थं भवति इत्यतः असमर्थस्य समासः न भवति | अतः ब्राह्मणस्य कृत्वा इत्यत्र षष्ठीसमासः एव न शक्यते | एवं रीत्या ब्राह्मणस्य कृत्वा इति तु उदाहरणं न भवितुम् अर्हति षष्ठीसमासस्य निषेधार्थम् |

तर्हि इदानीम् अपि प्रश्नः अस्ति यत् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रे अव्ययम् इति किमर्थम् उक्तम् ?

समाधानमेवं यत् कृदव्ययस्य योगे षष्ठीसमासनिषेधार्थं तोसुन्प्रत्ययान्तं, कोसुन्प्रत्ययान्तं च स्वीकृत्यैव उदाहरणं सम्भवति --

१) पुरा सूर्यस्योदेतोराधेयः | पुरा सूर्यस्य उदेतोः आधेयः | अर्थात् सूर्योदयात् प्राक् एव अग्न्याधानं कर्तव्यम् इति | उद इति उपसर्गपूर्वकात् इण् -धातुतः तोसुन्प्रत्यये कृते उदेतोः इति रूपं निष्पन्नं भवति | उद + इ + तोसुन् | तोसुन् इत्यत्र नकारस्य, उकारस्य च इत्संज्ञा, लोपश्च भवति , अतः तोस् इति अवशिष्यते | उदेतोस् इति जायते, तत्पश्चात् उदेतोः इति रूपं सिद्धयति | इदम् उदाहरणं वेदे उक्तम् अस्ति |

२) पुरा वत्सानाम् अपाकर्तोः | अर्थात् वत्सात् प्रागेव क्षीरस्य दोहनं करणीयम् इति | क्षीरदोहनार्थं वत्सस्य अपाकरणमित्यर्थः | अप् + आङ् इति उपसर्गपूर्वकात् कृ-धातुतः तोसुन्प्रत्यये कृते अपाकर्तोः इति रूपं लभ्यते | इदम् उदाहरणमपि वेदात् एव |

उदेतोः, अपाकर्तोः च इति पदद्वयम् अपि तोसुन् -प्रत्ययान्तम् अस्ति | तोसुनान्तस्य अव्ययस्य च योगे तु न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३. ६९) इति सूत्रेण षष्ठेः यः निषेधः कृतः, तस्य बाधकम् अस्ति इदं वार्तिकम् - अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः इति | अतः तोसुन् प्रत्ययस्य योगे तु षष्ठी प्राप्ता अस्ति अनेन वार्तिकेन | तर्हि अत्र षष्ठी ( २.२.) इति सूत्रेण षष्ठीतत्पुरुषसमासः अपि प्राप्तः अस्ति | तादृशकृद्योगस्य षष्ठीसमासस्य निषेधार्थं पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रे अव्ययम् इति पदस्य प्रयोगः कृतः पाणिनिना | अतः तोसुन्प्रत्ययान्तस्य एवं कसुन्प्रत्ययान्तस्य कृदन्तस्य एव अव्ययस्य उदाहरणं स्वीक्रियते प्रकृतसूत्रे |



६)    तव्यप्रत्ययान्त-शब्दः

तव्यप्रत्ययान्तेन शब्देन सह षष्ठीसमासस्य निषेधः अस्ति | अस्मिन् सूत्रे तव्य इत्यनेन केवलं तव्यप्रत्ययान्तस्य ग्रहणम् अस्ति न तु तव्यत्प्रत्ययान्तस्य | अनयोः प्रत्यययोः निरनुबन्धरूपं समानमेव परन्तु स्वरे भेदः वर्तते इति कृत्वा तव्यप्रत्ययान्तस्य योगे एव षष्ठ्यन्तस्य समासः न भवति | तव्यत्प्रत्ययान्तेन सह तु षष्ठ्यन्तस्य तु समासः भवति एव |

तव्यप्रत्ययस्य योगे षष्ठी कथं प्राप्ता अस्ति ?

तव्य/तव्यत् इति प्रत्ययौ तु सामान्यतया कर्मार्थे अथवा भावार्थे एव विहितौ भवतः | यथा रामेण भोजनं खादितव्यम् इति वाक्ये खादितव्यम् इत्यत्र यः तव्यप्रत्ययः अस्ति सः कर्मार्थे विहितः इत्यतः भोजनम् इति कर्म उक्तं भवति, कर्ता रामः अनुक्तः इति कारणेन तस्य तृतीयाविभक्तिः कर्तृकरणयोस्तृतीया ( २.३.१८) इति सूत्रेण स्यात् | परन्तु कर्तृकर्मणोः कृति ( २.३.६५) इत्यनेन कृद्योगे तृतीयां बाधित्वा षष्ठीविभक्तिः स्यात् |


कर्तृकर्मणोः कृति (२.३.६५) इति नित्यं षष्ठी प्राप्ता, कृत्यानां कर्तरि वा ( २.३.७१) इति सूत्रेण कर्तरि विकल्प्यते | कृत्यानां प्रयोगे कर्तरि वा षष्ठी विभक्तिर्भवति, न कर्मणि | अर्थात् कृत्यप्रत्ययानां योगे कर्तुः विकल्पेन षष्ठी स्यात् कृत्यानां कर्तरि वा ( २.३.७१) इति सूत्रेण | अपक्षे कर्तृकरणयोस्तृतीया ( २.३.१८) इति सूत्रेण तृतीया अपि स्यात् | यथा भवता कटः कर्तव्यः अथवा भवतः कटः कर्तव्यः |


तव्य, तव्यत्, अनीयर्, ण्यत्, यत्, क्यप्, केलिमर् इति आहत्य सप्त कृत्यप्रत्ययाः सन्ति | एतेषां योगे कर्तुः विकल्पेन षष्ठी स्यात् |


ब्राह्मणस्य कर्तव्यम् | षष्ठी (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण | अतः ब्राह्मणकर्तव्यम् इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य कर्तव्यम् इति |


प्रकृतसूत्रे केवलं तव्यप्रत्ययान्तशब्दस्य एव निषेधः कृतः न तु तव्यत्प्रत्ययान्तस्य  | अतः तव्यत्प्रत्ययान्तेन शब्देन सहः षष्ठीतत्पुरुषसमासस्य निषेधः नास्ति |


स्वस्य कर्तव्यम् = स्वकर्तव्यम्  | षष्ठी (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः नास्ति पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण यतोहि कर्तव्यम् इति पदं तव्यत्प्रत्ययान्तः अस्ति  | यद्यपि तव्य, तव्यत्, द्वयोः समानरूपं भवति तथापि स्वरभेदः अवश्यम् अस्ति  |



७)    समानाधिकरणेन

समानाधिकरणसुबन्तयोः षष्ठीसमासनिषिद्धः अस्ति |

उदाहरणानि -

पाणिनेः सूत्रकारस्य (सूत्रकारः पाणिनिः, तस्य) = पाणिनिः इति सूत्रकारस्य नाम वर्तते | अतः पाणिनिः तथा च सूत्रकारः इत्यनयोः सामानाधिकरण्यं वर्तते इति कृत्वा अनयोः षष्ठीसमासः निषिद्धः वर्तते |

तक्षकस्य सर्पस्य = तक्षकस्य, सर्पस्य इति द्वे पदे षष्ठीविभक्तौ स्तः | तक्षकः इति सर्पस्य नाम वर्तते | तक्षकस्य सर्पस्य इत्यत्र द्वयोः पदयोः समानविभक्तिकत्वम् अस्ति इति कारणात् द्वयोः पदयोः सामानाधिकरण्यम् अस्ति | षष्ठी (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण | अतः तक्षकसर्पस्य इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – तक्षकस्य सर्पस्य इति |


एवमेव राज्ञः पाटलिपुत्रकस्य (पटनायाः राजा, तस्य), शुकस्य माराविदस्य (माराविदः इति शुकः, तस्य) इत्यत्रापि द्रष्टव्यम् |


यदि समानाधिकरणे अपि षष्ठीसमासः जायते तर्हि कः क्लेशः?


यदि समानाधिकरणे अपि षष्ठीसमासः जायते तर्हि पूर्वनिपातविषये अनियमः स्यात् | अर्थात् समानाधिकरणे पदद्वयमपि प्रथमानिर्दिष्टं स्यात् | एवञ्चेत् विशेषणविशेष्ययोः मध्ये किं पूर्वं स्यात् इत्यत्र व्यवस्था न शक्यते | कदाचित् विशेष्यं पूर्वं स्यात्, कदाचित् विशेषणं पूर्वं स्यात् | यदि षष्ठी ( २.२.८) इति सूत्रेण प्राप्तस्य समासस्य प्रतिषेधः स्यात् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण तर्हि विशेषणं विशेष्येण बहुलम् ( २.१.५७) इति सूत्रेण तु समासः भवत्येव | अस्यां स्थित्यां तु विशेषणस्य एव पूर्वनिपातः भवति नियमितरूपेण यतोहि विशेषणं विशेष्येण बहुलम् ( २.१.५७) इति सूत्रे विशेषणमेव प्रथमानिर्दिष्टं वर्तते | अतः विशेषणस्य एव उपसर्जनसंज्ञा पूर्वनिपातः च भवति |

काशिका, सिद्धान्तकौमुदी इत्यादिषु ग्रन्थेषु समानाधिकरणम् इत्यस्य पाणिनेः सूत्रकारस्य इत्यादीनि दीयन्ते परन्तु भाष्यकारेण उक्तं यत् एतानि उदाहरणानि समानाधिकरणम् इत्यस्य उदाहरणानि न भवितुम् अर्हन्ति | भाष्यकारस्य मते द्रव्यं पदार्थः चेत् समानाधिकरणं न भवति भेदाभावात् | पाणिनेः सूत्रकारस्य इत्यादिषु स्थलेषु द्वयोः पदयोः भेदाभावात् असमर्थं भवति | षष्ठी (२.२.८) इति सूत्रे षष्ठी इति पदमेव प्रथमानिर्दिष्टम् अस्ति इति कृत्वा तस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति  | किन्तु पाणिनेः सूत्रकारस्य इत्यादिषु उदाहरणेषु द्वयोः पदयोः अपि षष्ठीविभक्तिः अस्ति , अतः द्वयोः अपि उपसर्जनसंज्ञा प्राप्ता अस्ति, अपि च द्वयोः अपि पूर्वनिपातः प्राप्तः अस्ति  | एतत् तु अनिष्टम् इत्यतः असामर्थ्यात् षष्ठीसमासः न जायते एव  | एतानि उदाहरणानि षष्ठीसमासार्थम् अयोग्यानि इत्यतः षष्ठीसमासस्य निषेधार्थम् अपि योग्यानि न सन्ति  | किन्तु विशेषणं विशेष्येण बहुलम् ( २.१.५७) इति सूत्रेण विशेषणविशेष्ययोः समासः भवितुम् अर्हति यतोहि अनेन सूत्रेण विशेषणस्य एव पूर्वनिपातः भवति | एवं पाणिनिसूत्रकारः इति कर्मधारयसमासः भवत्येव |

तर्हि समानाधिकरणः इत्यस्य उदाहरणं किं भवति ?

समाधानम् = समानाधिकरणम् इत्यस्य उदाहरणं तदेव भवति यत् अधात्वभिहितम् असमर्थं भवति  | अत्र धातुशब्देन धातुसहचरितः प्रत्ययः उक्तः | समानाधिकरणम् इत्युक्ते धातुसहचरितेन प्रत्ययेन यत् उक्तं तत् | तत्रैव सामर्थ्यं भवति | उपर्युक्तेषु उदाहरणेषु किमपि उदाहरणं प्रत्ययेन अभिहितं नास्ति इत्यतः एतानि सर्वाणि असमर्थानि सन्ति | भाष्यकारेण उच्यते यत् समानाधिकरणं प्रत्ययेन (धातुसहचरितेन प्रत्ययेन) अभिहितं नास्ति तत् असमर्थं भवति | अधात्वभिहितमसमर्थम् इत्युक्ते यत् प्रत्ययेन (धातुसहचरितेन प्रत्ययेन) अभिहितं नास्ति, तत् असमर्थं भवति | प्रकृतसूत्रे समानाधिकरणदलस्य विषये षष्ठीसमासप्रतिषेधस्य उदाहरणं तदेव भवति यत् प्रत्ययेन (धातुसहचरितेन प्रत्ययेन) अभिहितमस्ति | यथा- सर्पिषः पीयमानस्य ( सर्पिः पीयमानम् इत्यर्थः) | पीयमानम् इति कर्मार्थे शानज्प्रत्ययान्तः शब्दः  | पा इति धातुतः कर्मार्थे यक्प्रत्ययः विधीयते शानज्प्रत्ययं निमित्तीकृत्य  | अन्यत् उदाहरणम् अस्ति यजुषः क्रियमाणस्य ( यजुर्वदेस्य पाठः क्रियमाणः इत्यर्थः) | अत्र उदाहरणद्वये अपि पा,कृ च धातुद्वारा सर्पिः, यजुः च उक्तं भवति  | अतः धातुतः अभिहितः इति कारणेन सर्पिः, यजुः च समर्थः भवति समासार्थम्  | अतः षष्ठी (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११) इति सूत्रेण | अतः समानाधिकरणम् इति दलस्य उदाहरणं लब्धम् इदानीम् |

एवम् उपरि उक्तेषु अर्थेषु षष्ठीतत्पुरुषसमासः निषिध्यते  |


४)    पूजार्थे, सत्कारार्थे, बुद्ध्यर्थे च यः क्तप्रत्ययः वर्तमानकालार्थे विधीयते, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं सुबन्तं न समस्यते |

क्तेन च पूजायाम् (२.२.१२)

इच्छार्थे, पूजार्थे (सत्कारार्थे), बुद्ध्यर्थे च यः क्तप्रत्ययः वर्तमानकालार्थे विधीयते, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते | कृदन्तप्रकरणे पूजाद्यर्थे क्तप्रत्ययः विधीयते वर्तमानार्थे मतिबुद्धिपूजार्थेभ्यश्च ( ३.२.१८८) इत्यनेन सूत्रेण | प्रकृतसूत्रे पूजायाम् इति पदं क्तप्रत्ययस्य उपलक्षणम् अस्ति | अर्थात् मतिबुद्धिपूजार्थेभ्यश्च ( ३.२.१८८) इत्यनेन सूत्रेण यः क्तप्रत्ययः विधीयते इच्छार्थे, पूजार्थे, बुद्ध्यर्थे च तस्य सङ्केतः अस्ति प्रकृतसूत्रे | मतिबुद्धिपूजार्थेभ्यश्च ( ३.२.१८८) इति सूत्रेण क्तप्रत्ययः विधीयते कर्मार्थे अथवा भावार्थे |क्तेन तृतीयान्तं, चाव्ययं, पूजायां सप्तम्यन्तम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | षष्ठी (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | न निर्धारणे (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— पूजायां षष्ठी सुप् क्तेन सुपा सह न तत्पुरुषः समासः च |


यथा—


१) राज्ञां मतः = मतः इति क्तप्रत्ययान्तः शब्दः इच्छार्थे अस्ति | मन् इति धातुतः क्तप्रत्ययस्य विधानं मतिबुद्धिपूजार्थेभ्यश्च (३.२.१८८) इति सूत्रेण भवति, अतः मतः इति रूपं निष्पन्नं भवति | वाक्यमेवं भवति राज्ञां मतः (इष्टः) पुत्रः | मतः इति क्तान्तस्य योगे राजशब्दस्य षष्ठीविभक्तिः जायते क्तस्य च वर्तमाने ( २.३.६७) इति सूत्रेण | क्तस्य च वर्तमाने ( २.३.६७) इति सूत्रेण क्तस्य वर्तमानकालविहितस्य प्रयोगे षष्ठी विभक्तिर्भवति | मतः इति क्तप्रत्ययान्तः वर्तमानकाले विहितः इत्यतः राज्ञाम् इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति षष्ठी (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः क्रियते क्तेन च पूजायाम् (२.२.१२) इति सूत्रेण | अतः राजमतः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां मतः इति |


अत्र प्रश्नः उदेति यत् मतः इति क्तप्रत्ययान्तस्य योगे षष्ठी विभक्तिः कथं प्राप्यते इति ?


कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठी विधीयते इति जानीमः | किन्तु न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति । क्तक्तवतू निष्ठा ( १.१.२६) इति सूत्रेण क्तश्च क्तवतुश्च प्रत्ययौ निष्ठासंज्ञौ भवतः | न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति सूत्रे निष्ठा इत्यनेन क्तक्तवत्वोः ग्रहणं भवति | कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण क्तप्रत्ययस्य योगे अनुक्तकर्तुः अनुक्तकर्मणः च या षष्ठी प्राप्ता अस्ति तस्य निषेधः भवति न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति सूत्रेण | अतः क्तप्रत्ययस्य योगे षष्ठी न प्राप्यते एव तर्हि कथं षष्ठीतत्पुरुषसमासः जायते ?


अत्र उच्यते यत् क्तस्य च वर्तमाने ( २.३.६७) इति सूत्रेण वर्तमानकालविहितस्य क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति | अर्थात् वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् | इदं सूत्रं न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति निषेधसूत्रस्य अपवादः अस्ति | यथा राज्ञां मतः इत्यत्र कर्तुः षष्ठी दृश्यते | एवमेव राज्ञां बुद्धः, राज्ञां पूजितः च | न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इति सूत्रेण प्रतिषेधे प्राप्ते पुनः षष्ठी विधीयते क्तस्य च वर्तमाने ( २.३.६७) इति सूत्रेण |


राज्ञां मतः इत्यत्र मन् इति इच्छार्थकधातुतः मतिबुद्धिपूजार्थेभ्यश्च (३.२.१८८) इति सूत्रेण वर्तमानार्थे क्तप्रत्ययः विधीयते, अतः मतः इति रूपं लभ्यते | मतः इति क्तप्रत्ययान्तस्य योगे राजा इति कर्तुः षष्ठी प्राप्ता अस्ति कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण | तस्याः षष्ठेः निषेधः क्रियते न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इति सूत्रेण | पुनः क्तस्य च वर्तमाने ( २.३.६७) इति सूत्रेण क्तस्य वर्तमानकालविहितस्य प्रयोगे कर्तुः षष्ठी विभक्तिर्भवति | मतः इति वर्तमानकालिकस्य क्तान्तस्य योगे अनुक्तकर्तरि राजनि षष्ठी विभक्तिः जायते | अतः राज्ञाम् इति षष्ठ्यन्तं जायते |


एवमेव अन्येषु उदाहरणेषु अपि द्रष्टव्यं भवति |


२) राज्ञां बुद्धः, = बुद्धः इति क्तप्रत्ययान्तः शब्दः बुद्ध्यर्थे अस्ति | बुध् इति धातुतः क्तप्रत्ययस्य विधानं मतिबुद्धिपूजार्थेभ्यश्च (३.२.१८८) इति सूत्रेण भवति,  बुद्धः इति रूपं निष्पन्नम् | बुद्धः इति क्तप्रत्ययान्तस्य राज्ञां इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति षष्ठी (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः भवति क्तेन च पूजायाम् (२.२.१२) इति सूत्रेण | अतः राजबुद्धः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां बुद्धः इति |


३) राज्ञां पूजितः=  पूजितः इति क्तप्रत्ययान्तः शब्दः पूजार्थे अस्ति | पूज् इति धातुतः क्तप्रत्ययस्य विधानं मतिबुद्धिपूजार्थेभ्यश्च (३.२.१८८) इति सूत्रेण भवति,  पूजितः इति रूपं निष्पन्नम् | पूजितः इति क्तप्रत्ययान्तस्य राज्ञाम् इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति षष्ठी (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः क्रियते क्तेन च पूजायाम् (२.२.१२) इति सूत्रेण | अतः राजपूजितः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां पूजितः इति |


राजपूजितः इति तृतीयासमासः क्वचित् दृश्यते लोके, तस्य समर्थनं कथं करणीयम् ?


राजपूजितः इति समासः दृश्यते परन्तु अत्र पूजितः इति पदं मतिबुद्धिपूजार्थेभ्यश्च (३.२.१८८) इति सूत्रेण वर्तमानार्थे न विहितम् अस्ति अपि तु  पूजितः इति क्तप्रत्ययान्तः शब्दः निष्ठा (३.२.१०२) इति सूत्रेण भूतार्थे विहितः वर्तते | अतः क्तेन च पूजायाम् (२.२.१२) इति सूत्रेण समासस्य निषेधः इति विषयः एव नास्ति |


सामान्यतः क्तप्रत्ययान्तः शब्दः कर्मार्थे अथवा भावार्थे एव प्रयुक्तः भवति  | तथा च क्तप्रत्ययान्तस्य शब्दस्य योगे कर्ता तृतीयाविभक्तिं प्राप्नोति कर्तृकरणयोस्तृतीया (२.३.१८) इति सूत्रेण | अतः राज्ञा जनः पूजितः इति वाक्यं सम्भवति | कर्तृकरणयोस्तृतीया (२.३.१८) इति सूत्रेण कर्तरि करणे च कारके तृतीयाविभक्तिः भवति |


तत्पश्चात् राज्ञा पूजितः इति पदयोः तृतीयातत्पुरुषसमासः क्रियते कर्तृकरणे कृता बहुलम्‌ ( २.१.३२) इति सूत्रेण | कर्तृकरणे कृता बहुलम्‌ ( २.१.३२) इति सूत्रेण कर्तरि करणे च यत् तृतीयान्तं पदं, तत् पदं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति |


मतिबुद्धिपूजार्थेभ्यश्च (३.२.१८८) = मतिः इत्युक्ते इच्छा | बुद्धिः इत्युक्ते ज्ञानम् | पूजा इत्युक्ते सत्कारः | एतदर्थेभ्यः च धातुभ्यः वर्तमानार्थे क्तप्रत्ययः भवति | वर्तमाने लट् ( ३.२.१२३) इत्यस्मात् वर्तमाने इत्यस्य अनुवृत्तिः | धातोः ( ३.१.९१) इत्यस्य अधिकारः | ञीतः क्तः ( ३.२.१८७) इत्यस्मात् क्त इत्यस्य अनुवृत्तिः | कृदतिङ् ( ३.१.९३) इत्यस्य अधिकारः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— वर्तमाने मतिबुद्धिपूजार्थेभ्यः धातुभ्यः कृत् क्त प्रत्ययः परश्च | यथा – राज्ञां मतः | राज्ञाम् इष्टः | राज्ञां बुद्धः | राज्ञां ज्ञातः | राज्ञां पूजितः | राज्ञामर्चितः |


क्तस्य च वर्तमाने ( २.३. ६७) = क्तस्य वर्तमानकालविहितस्य प्रयोगे षष्ठी विभक्तिर्भवति | इदं सूत्रं न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इति सूत्रस्य अपवादः अस्ति | क्तस्य षष्ठ्यन्तं, चाव्ययं, वर्तमाने सप्तम्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् षष्ठी इत्यस्य अनुवृत्तिः | अनभिहिते ( २.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— वर्तमाने क्तस्य च षष्ठी अनभिहिते |


यथा राज्ञां मतः | राज्ञां बुद्धः | राज्ञां पूजितः | राज्ञामिति कर्तरि षष्ठी | कर्म तु निष्ठ्याभिहितम् |



५)     अधिकरणार्थे विहितस्य क्तप्रत्ययस्य, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते |

अधिकरणवाचिना च (२.२.१३)

अधिकरणार्थे विहितः क्तप्रत्ययः, तदन्तेन सुबन्तेन षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते  | अधिकरणार्थे क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ( ३.४.७६) इति सूत्रेण क्तप्रत्ययः विधीयते  | तादृशस्य क्तप्रत्ययान्तस्य एव अधिकरणवाचिना इति शब्दस्य द्वारा ग्रहणं भवति | अधिकरणं वक्ति इति अधिकरणवाची, तेन, अधिकरणवाचिना | अधिकरणवाचिना तृतीयान्तं, चाव्ययम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | षष्ठी (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | न निर्धारणे (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | क्तेन च पूजायाम् (२.२.१२) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— षष्ठी सुप् अधिकरणवाचिना क्तेन सुपा सह न तत्पुरुषः समासः च |


यथा—


इदम् एषाम् आसितम् – आस् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, आसित इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे आसितम् इति क्तप्रत्ययान्तशब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह षष्ठी (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते अधिकरणवाचिना च (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषाम् आसितम् |


अत्र प्रश्नः उदेति यत् आसितम् इति क्तप्रत्ययान्तस्य योगे षष्ठी विभक्तिः कथं प्राप्यते इति ?


कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठी विधीयते इति जानीमः | किन्तु न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति । क्तक्तवतू निष्ठा ( १.१.२६) इति सूत्रेण क्तश्च क्तवतुश्च प्रत्ययौ निष्ठासंज्ञौ भवतः । न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति सूत्रे निष्ठा इत्यनेन क्तक्तवत्वोः ग्रहणं भवति । कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण क्तप्रत्ययस्य योगे अनुक्तकर्तुः अनुक्तकर्मणः च या षष्ठी प्राप्ता अस्ति तस्य निषेधः भवति न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति सूत्रेण । अतः क्तप्रत्ययस्य योगे षष्ठी न प्राप्यते एव तर्हि कथं षष्ठीतत्पुरुषसमासः जायते ?


अत्र उच्यते यत् अधिकरणवाचिनश्च ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति | अर्थात् अधिकरणार्थे क्तस्य योगे षष्ठी स्यात् | इदं सूत्रं न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३.६९) इति निषेधस्य अपवादः | यथा इदम् एषाम् आसितम् | इदम् एषां शयितम् | इदम् अहेः सुप्तम् | इदं वनकपेः यातम् | इदम् एषां भुक्तम् | इदम् एषाम् अशितम् | इदम् एषां गतम् | न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इति सूत्रेण प्रतिषेधे प्राप्ते पुनः षष्ठी विधीयते अधिकरणवाचिनश्च ( २.३.६८) इति सूत्रेण | अधिकरणवाचिनश्च ( २.३.६८) इति सूत्रं न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इति सूत्रस्य अपवादः अस्ति |


इदम् एषाम् आसितम् इत्यत्र आस् इति अकर्मकधातुः ध्रौव्यार्थे अस्ति इति कृत्वा क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ( ३.४.७६) इति सूत्रेण अधिकरणार्थे क्तप्रत्ययः विधीयते, अतः आसितम् इति रूपं लभ्यते | अत्र क्तप्रत्ययः अधिकरणार्थे विहितः इत्यतः अधिकरणम् उक्तं भवति येन अधिकरणस्य प्रथमाविभक्तिः एव जायते | इदम् इति अधिकरणवाचिशब्दः , आसितम् इति क्तान्तेन उक्तः इति कृत्वा इदम् इति प्रथमाविभक्तौ अस्ति | सामान्यतया अधिकरणस्य सप्तमीविभक्तिः जायते यदि अधिकरणं प्रत्ययेन अनुक्तं भवति | परन्तु अत्र क्तप्रत्ययेन अधिकरणम् उक्तम् इत्यतः अधिकरणस्य प्रथमा जायते | आसितम् इत्यनेन इदम् इति अधिकरणम् उक्तम् परन्तु इमे इति कर्तारः तु अनुक्ताः सन्ति | तर्हि आसितम् इति क्तप्रत्ययान्तस्य योगे इमे इति कर्तॄणां षष्ठी प्राप्ता अस्ति कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण | तस्याः षष्ठेः निषेधः क्रियते न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इति सूत्रेण | पुनः अधिकरणवाचिनश्च ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे कर्तुः षष्ठी विभक्तिर्भवति | आसितम् इति क्तान्तस्य योगे अनुक्तकर्तरि षष्ठी विभक्तिः जायते | अतः एषाम् इति षष्ठ्यन्तं जायते | वाक्यं भवति एषां इदम् आसितम् इति |


एवमेव अन्येषु उदाहरणेषु अपि द्रष्टव्यम् |


इदम् एषां गतं – गम् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, गत इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे गतम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह षष्ठी (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्तः आसीत् तस्य निषेधः क्रियते अधिकरणवाचिना च (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां गतम् |


इदम् एषां भुक्तम् – भुज् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, भुक्त इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे भुक्तम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह षष्ठी (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्त आसीत् तस्य निषेधः क्रियते अधिकरणवाचिना च (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां भुक्तम् |



एकस्मिन् वाक्ये कर्तुः कर्मणः च द्वयोः प्राप्तिः चेत् -


यदि क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ( ३.४.७६) इति सूत्रेण अधिकरणार्थे क्तप्रत्ययः विहितः तर्हि एकस्मिन्नेव वाक्ये कर्तृकर्मणी द्वे अपि अनुक्ते भवितुम् अर्हतः | एवं चेत् अधिकरणवाचिनश्च ( २.३. ६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे अनुक्तकर्तुः षष्ठी विभक्तिर्भवति वा नो चेत् अनुक्तकर्मणः भवति वा नो चेत् द्वयोः अपि भवति वा ?


अस्य प्रश्नस्य समाधानार्थं किञ्चित् सूत्रक्रमविषये चिन्तनीयं भवति | क्तप्रत्ययान्तशब्दः तु कृदन्तः वर्तते इति कारणेन कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्ते कर्तरि कर्मणि च षष्ठी स्यात् | किन्तु अस्य सूत्रस्य नियमनं क्रियते उभयप्राप्तौ कर्मणि ( २.३.६६) इत्यनेन | उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रेण कर्तृकर्मणोः उभयोः प्राप्तिः यस्मिन् कृति वर्तते तत्र कर्मण्येव षष्ठी विभक्तिर्भवति, न तु कर्तरि | पुनः न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इति सूत्रेण कर्तृकर्मणोः कृति (२.३.६५) इति सूत्रेण प्राप्तायाः षष्ठ्याः प्रतिषेधः | अनेन ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति | पुनः अधिकरणवाचिनश्च ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति इत्युक्तम् | अधिकरणवाचिनश्च ( २.३.६८) इति सूत्रं तु न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इत्यस्य अपवादः अस्ति |


अधो भागे कोष्ठके अष्टाध्य्यायाः आधारेण सूत्राणां क्रमः उच्यते -

षष्ठीसम्बद्धसूत्राणि सूत्रविवरणम् सूत्रप्रकारः
कर्तृकर्मणोः कृति ( २.३.६५) कृद्योगे कर्तुः कर्मणः च षष्ठी विधायकसूत्रं
उभयप्राप्तौ कर्मणि ( २.३.६६) कर्तृकर्मणोः कृति (२.३.६५) इत्यस्य नियमनम् | उभयप्राप्तौ कर्मणि एव षष्ठी नियमसूत्रं
क्तस्य च वर्तमाने ( २.३. ६७) मतिबुद्धिपूजार्थेभ्यश्च ( ३.२.१८८) इत्यनेन वर्तमानार्थे विहितस्य क्तस्य योगे षष्ठी भवति कर्तुः अपवादसूत्रम् (न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३. ६९) इत्यस्य )
अधिकरणवाचिनश्च ( २.३.६८) क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः( ३.४.७६) इत्यनेन अधिकरणार्थे विहितस्य क्तस्य योगे षष्ठी | अपवादसूत्रम् (न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३. ६९) इत्यस्य)
न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३. ६९) कर्तृकर्मणोः कृति (२.३.६५) इति प्राप्ता षष्ठी प्रतिषिध्यते निषेधकसूत्रं (कर्तृकर्मणोः कृति (२.३.६५) इत्यस्य )


एतादृशक्रमं मनसि निधाय अग्रे उदाहरणं नीत्वा पश्यामः |


एषाम् इदं भुक्तम् ओदनस्य | अस्मिन् उदाहरणे भुज् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, भुक्त इति प्रातिपदिकं निष्पन्नम् | नपुंसकलिङ्गे भुक्तम् इति रूपम् | अधिकरणार्थे भुक्तम् इति क्तप्रत्ययान्तस्य योगे अधिकरणवाचिनश्च ( २.३.६८) इति सूत्रेण षष्ठी विभक्तिर्भवति इत्युक्तम् | अस्माकम् उदाहरणे तु कर्ता, कर्म च द्वयमपि अनुक्तम् |


एषाम् इदं भुक्तम् ओदनस्य इति उदाहरणस्य लटि वाक्यमेवं सम्भवति - इमे अस्मिन् ओदनं भुञ्जते इति | अत्र कर्ता इमे, कर्म ओदनम्, अधिकरणम् अस्मिन्, भुञ्जते इति क्रियापदम् | अस्मिन् वाक्ये कर्ता, कर्म च उल्लेखितं वर्तते |


अधिकरणवाचिनश्च ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति इत्युक्तम् | सूत्रे कर्तुः भवति वा नो चेत् कर्मणः भवति वा इति नोक्तम् | परन्तु सूत्रक्रमम् आधारीकृत्य वयं पश्यामः चेत् आदौ कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेणैव कर्तुः कर्मणः च कृद्योगे षष्ठी प्राप्ता आसीत्, तस्य नियमनं क्रियते उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रेण | यत्र उभयप्राप्तिः अस्ति एकस्मिन्नेव कृति तत्र कर्मणि एव षष्ठी स्यात् उभयप्राप्तौ कर्मणि ( २.३.६६) इत्यस्य आधारेण | अतः अस्माकं प्रकृतोदाहरणे कृद्योगे कर्मणः एव षष्ठी स्यात् न तु कर्तुः | अतः एभिः इदं भुक्तम् ओदनस्य इति वाक्यं स्यात् | परन्तु एषाम् इदं भुक्तम् ओदनस्य इति वाक्यं दृश्यते व्याख्यानेषु, तर्हि तत् कथं सिद्धयति इति चिन्तनीयम् |


अधिकरणवाचिनश्च ( २.३.६८) इति सूत्रस्य न्यासव्याख्यायामेवम् उक्तं यत् यत्र कर्ता एव संभवति तत्र कर्तरि षष्ठी भवति, यथा – इदम् एषाम् आसितमिति | अस्य एव लटि वाक्यम् अस्ति - अस्मिन् इमे आसते | अत्र आसेः (आस्-धातोः) अकर्मकत्वात् कर्ता एव सम्भवति, न कर्म | यत्र तु कर्म, कर्ता च द्वयमपि सम्भवति तत्र उभयत्रापि षष्ठी भवति, यथा – इदम् एषां भुक्तम् ओदनस्य इति | भुजेः ( भुज्-धातोः) सकर्मकत्वात् कर्म अपि अस्ति एव ओदनः | उभयप्राप्तौ कर्मणि ( २.३.६६) इति नियमः कस्मात् न भवति? कर्तृकर्मणोः कृति ( २.३.६५ ) इत्यस्याः षष्ठ्याः प्राप्तेः एव नियमो विज्ञायते | `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।१९) इति, `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्` (व्या।प।१०) इति वा |


बालमनोरमायामेवम् उक्तम् - इदमेषां भुक्तमोदनस्य इत्यत्र तु कर्तृकर्मणोद्वयोरपि षष्ठी इति | 'उभयप्राप्तौ' इति नियमस्तु न प्रवर्तते, मध्येऽपवादन्यायेन कर्तृकर्मणोः कृति इति षष्ठ्या एव तत् नियमाभ्युपगमात् |


एतत् कथं वा सिद्धयति इति ज्ञातुं १)`अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा, २) मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान् इति परिभाषाद्वयं ज्ञातव्यम् | एकया परिभाषया एव कार्यं सिद्धयति तथापि द्वयोः पठनं वयं कुर्मः |


१) अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषा | विधिः वा प्रतिषेधः वा अनन्तरस्यैव अव्यवहितस्यैव भवति न तु व्यवहितस्य इति परिभाषार्थः | अस्यां परिभाषायां वा इति शब्दः इत्यस्मिन् अर्थे प्रयुक्तः अस्ति |


उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रे उक्तं यत् उभयप्राप्तिः यस्मिन् कृति तत्र कर्मणि एव षष्ठी स्यात् | अस्मिन् सूत्रे कर्तुः षष्ठी न स्यात् इति यः प्रतिषेधः वर्तते, सः प्रतिषेधः अनन्तरस्यैव अव्यवहितस्यैव भवति न तु व्यवहितस्य इति | उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रस्य साक्षात् परं क्तस्य च वर्तमाने ( २.३. ६७) इति सूत्रम् अस्ति | अतः यदि उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रेण उक्तस्य प्रतिषेधस्य कार्यम् अनन्तरस्य अव्यवहितस्य क्तस्य च वर्तमाने ( २.३. ६७) इति सूत्रे एव भवितुम् अर्हति अस्याः परिभाषायाः आधारेण, तर्हि उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रेण अधिकरणवाचिनश्च ( २.३.६८) इति सूत्रं न निषिध्यते |


२) मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान् इति परिभाषा | अनया परिभाषया सूत्रपाठे सामान्यशास्त्रमध्ये पठितानि विशेषसूत्राणि (अपवादसूत्राणि) स्वापेक्षया पूर्वाणि एव तानि बाधन्ते न तु पराणि इति परिभाषार्थः । मध्ये पठिता: अपवादाः पूवस्यैव विधेः बाधकाः भवन्ति, उत्तरस्य विधेः बाधकाः न भवन्ति इत्यर्थः |


सामान्यशास्त्रम् अस्ति कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रं, विशेषशास्त्रम् अस्ति उभयप्राप्तौ कर्मणि ( २.३.६६) इति | उभयप्राप्तौ कर्मणि ( २.३.६६) इति विशेषसूत्रं कर्तृकर्मणोः कृति ( २.३.६५), क्तस्य च वर्तमाने ( २.३. ६७), अधिकरणवाचिनश्च (२.३.६८), न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३. ६९) इति सूत्राणां मध्ये पठितं वर्तते इति कारणात् इदं सूत्रं केवलं कर्तृकर्मणोः कृति ( २.३.६५) इति अव्यवहितं पूर्वसूत्रम् एव बाधते न तु पराणि सूत्राणि | अनया परिभाषया उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रं केवलं कर्तृकर्मणोः कृति ( २.३.६५) इति पूर्वसूत्रस्य एव बाधकम् अस्ति न तु अन्येषां परसूत्राणाम् | अतः अधिकरणवाचिनश्च (२.३.६८) इति सूत्रेण कर्तृकर्मणोद्वयोरपि षष्ठी भवितुम् अर्हति न तु केवलं कर्तुः एव | अतः एव इदमेषां भुक्तमोदनस्य इति उदाहरणं सम्भवति |


आहत्य यत्र कर्ता कर्म च द्वयमपि अनुक्तं एकस्मिन्नेव वाक्ये अपि च क्तप्रत्ययः अधिकरणार्थे विहितः तत्र द्वयोः षष्ठीविभक्तिः भवति मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान् इति परिभाषायाः बलेन अथवा अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषायाः बलेन | कथञ्चित् अपि वयं समर्थयितुं शक्नुमः |


अत्र अन्यापि परिभाषा वर्तते - पुर�तादपवादाः अनन्तरान् �विधीन् बाधन्ते नोत्तरान् इति | अस्याः परिभाषायाः अर्थः एवमस्ति - सूत्रपाठक्रमे पूर्वपठितानि विशेषशास्त्राणि स्व-अव्यवहितानि सामान्यशास्त्राणि एव बाधन्ते न तु व्यवहितानि | यथा सूत्रपाठक्रमे एत्येधत्यूठसु ( ६.१.८९) इति विशेषशास्त्रं, तदव्यवहितसामान्यशास्त्रं एङि पररूपं ( ६.१.९४), अतः तदेव बाधते न तु व्यवहितम् ओमाङोश्च (६.१.९५) इति पररूपम् |


तेन अव + एहि (आ + इहि ) इति स्थितिः | आ + इहि इत्यत्र आङ्-उपसर्गस्य 'इहि' इत्यस्य इकारेण सह गुणैकादेशे कृते आद्गुणः (६.१.८७) इत्यनेन सूत्रेण एहि इति रूपं प्राप्यते | अव + एहि इति स्थिते, वृद्धिरेचि (६.१.८८) इति सूत्रं बाधित्वा एत्येधत्यूठ्सु (६.१.८९) इत्यनेन वृद्ध्येकादेशः प्राप्तः अस्ति | परन्तु अत्र एत्येधत्यूठ्सु (६.१.८९) इति विशेषसूत्रम् एङि पररूपं ( ६.१.९४) इति अव्यवहितस्य सामान्यसूत्रस्य बाधां करोति न तु व्यवहितस्य ओमाङोश्च (६.१.९५) इति सूत्रस्य कार्यम् | पुर�तादपवादाः अनन्तरान् �विधीन् बाधन्ते नोत्तरान् इति पारिभाषायाः बलेन अत्र ओमाङोश्च (६.१.९५) इत्यनेन पररूपमेव भवति न तु वृद्धिः एत्येधत्यूठ्सु (६.१.८९) इति सूत्रेण | अतः अवेहि इति रूपं लभ्यते |


एत्येधत्यूठसु (६.१.८९) = अवर्णात् इण्-धातोः एध्-धातोः च एच्-वर्णे परे तथा ऊठ्-शब्दे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-आदेशः भवति |


एङि पररूपम् (६.१.९४) = अवर्णान्तात् उपसर्गात् एकारादि/ओकारादि-धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति |


ओमाङोश्च ( ६.१.९५) = अवर्णात् ओम्-शब्दे परे आङ्-शब्दे च परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति |


प्रकृतस्थितौ पुर�तादपवादाः अनन्तरान् �विधीन् बाधन्ते नोत्तरान् इति पारिभाषायाः बलेन क्तस्य च वर्तमाने ( २.३.६७), अधिकरणवाचिनश्च ( २.३.६८) चेति द्वे विशेषसूत्रे (अपवादसूत्रे) तयोः अनन्तरं विद्यमानस्य सामान्यसूत्रस्य न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इति सूत्रस्य बाधां करोति |


क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ( ३.४.७६) =  ध्रौव्यागतिप्रत्यवसानार्थेभ्यः यः क्तो विहितः सः अधिकरणे भवति | ध्रौव्यार्थकेभ्यः ( स्थिरतावाचकेभ्यः) , गत्यर्थकेभ्यः, प्रत्यवसानार्थकेभ्यः( भोजनार्थकेभ्यः) च धातुभ्यः अधिकरणर्थे क्तप्रत्ययः विधीयते | चाद्यथाप्राप्तम् - अस्मिन् सूत्रे अधिकरणार्थे क्तप्रत्ययः विधीयते इत्यतः कर्मार्थे, भावार्थे तस्य निषेधः न स्यात्, एतदर्थं सूत्रे चकारग्रहणम् अस्ति | अतः यथाप्राप्तं कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययस्य समुच्चयः क्रियते | सूत्रे चकारग्रहणेन यथाप्राप्तं कर्त्रर्थे, कर्मार्थे ,भावार्थे च क्तप्रत्ययः विधीयते | ध्रौव्यार्थाः अकर्मकाः, प्रत्यवसानार्थाः अभ्यवहारार्थाः ( food) इति स्वनिकायप्रसिद्धिः |  निकाय इत्युक्ते विषयः इत्यर्थः | ध्रौव्यं नाम स्थैर्यम्, स्थिरता | सूत्रे ध्रौव्यशब्देन स्थिरता इत्यस्मिन् अर्थे ये धातवः सन्ति तेषां सर्वेषां ग्रहणं भवति | एवमेव गत्यर्थकानां प्रत्यवसानार्थकानां च ग्रहणं भवति | ध्रौव्यं च गतिश्च प्रत्यवसानं च तेषाम् इतरेतरयोगद्वन्द्वः ध्रौव्यगतिप्रत्यवसानानि, तानि अर्थः येषां ते ध्रौव्यगतिप्रत्यवसानार्थाः, तेभ्यः ध्रौव्यगतिप्रत्यवसानार्तेभ्यः | क्त प्रथमान्तम् अधिकरणे सप्तम्यन्तं, चाव्ययं, ध्रौव्यगतिप्रत्यवसानार्तेभ्यः पञ्चम्यन्तम् | कृदतिङ् ( ३.१.९३) इत्यस्य अधिकारः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— अधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः कृत् क्त च |


अस्मिन् पद्ये अस्य सूत्रस्य उदाहरणं लभ्यते -


मुकुन्दस्यासितमिदमिदं यातं रमापतेः |

भुक्तम् एतद् अनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः |


श्लोकार्थः = श्रीकृष्णं द्रष्टुम् अभिलाषिण्यः गोप्यः उक्तवत्यः - इदं मुकुन्दस्य उपवेशनस्थानम् इति | एतत् मुकुन्दस्य गमनागमनमार्गः इति | एतत् मुकुन्दस्य भोजनस्थानम् इति |


मुकुन्दस्यासितमिति इदम् - एतत् श्रीकृष्णस्य उपवेशनस्थानम् | आसितम् = आस्यते अस्मिन् इति आसनस्थानम् इत्यर्थः | ध्रौव्योदाहरणमिदम् | आस उपवेशने इति ध्रौव्यर्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ( ३.४.७६) इति सूत्रेण | आस इति धातुः सेट् इति कृत्वा इडागमः भूत्वा आसितम् इति रूपं लभ्यते | पक्षे आसेः अकर्मकत्वात् कर्तरि भावे च अपि क्तप्रत्ययान्तं रूपं लभ्यते | क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे कर्मार्थे भावार्थे च क्तप्रत्ययः विधीयते | आस इति धातुः अकर्मकः इति कारणेन क्तप्रत्ययः कर्त्रर्थे भावार्थे च भवति | गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च ( ३.४.७२) इति सूत्रेण गत्यर्थकेभ्यः अकर्मकेभ्यः च धातुभ्यः क्तप्रत्ययः कर्त्रर्थे भवति | तयोरेव कृत्यक्तखलर्थाः ( ३.४.७०) इति सूत्रेण क्तप्रत्ययः कर्मार्थे भावार्थे च भवति | कर्तरि प्रयोगे वाक्यं भवति मुकुन्दः आसितः इति | भावे प्रयोगे वाक्यं भवति तेन आसितम् इति |


इदं यातं रमापतेः = इदं रमापतेः गमनागमनस्य मार्गः इत्यर्थः | यातम् = गम्यते अत्र इति यातं, मार्गः इत्यर्थः | गत्यर्थोदाहरणमिदम् | या गतिप्रापणयोः इति गत्यर्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ( ३.४.७६) इति सूत्रेण | क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे कर्मार्थे भावार्थे च क्तप्रत्ययः विधीयते यथाप्राप्तम् | गत्यर्थकेभ्यः धातुभ्यः क्तप्रत्ययः कर्त्रर्थे भावार्थे च भवति | कर्त्रर्थे गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च ( ३.४.७२) इति सूत्रेण क्तप्रत्ययः विधीयते अतः वाक्यं भवति रमापतिः इदं यातः | कमार्थे क्तप्रत्ययः विधीयते तयोरेव कृत्यक्तखलर्थाः ( ३.४.७०) इति सूत्रेण, अतः वाक्यं भवति तेन इदं यातम् इति |


एतत् अनन्तस्य भुक्तम् = एतत् श्रीकृष्णस्य भोजनस्थानम् इत्यर्थः | भुक्तं = भुज्यते अस्मिन् इति भुक्तम् | प्रत्यवसानोदहरणमिदम् | भुज पालनाभ्यवहारयोः इति प्रत्यवसानार्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ( ३.४.७६) इति सूत्रेण | क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे कर्मार्थे भावार्थे च क्तप्रत्ययः विधीयते | भुज् इति धातुः प्रत्यवसानार्थकः अतः कर्मार्थे अपि क्तप्रत्ययः विधीयते, अतः वाक्यं भवति तेन इदं भुक्तम् इति |


इति गोप्यः दिदृक्षवः ऊचुः = एवं दर्शनाभिलाषिण्यः गोप्यः उक्तवत्यः | ऊचुः इति लिट्लकारे प्रथमपुरुषे बहुवचनान्तं रूपम् | ऊचुः नाम उक्तम् इत्यर्थः |


अधिकरणवाचिनश्च ( २.३. ६८) = अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति | क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ( ३.४.७६) इति सूत्रेण अधिकरणार्थे यः क्तप्रत्ययः विधीयते तस्य ग्रहणं भवति प्रकृतसूत्रे | क्तप्रत्ययः निष्ठासंज्ञकः इति कृत्वा तस्य योगे कर्तुः कर्मणः षष्ठी न भवति न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इति सूत्रेण | प्रकृतसूत्रं न लोकाव्ययनिष्ठाखलर्थतृनाम् (२.३.६९) इति सूत्रस्य अपवादः अस्ति | अधिकरणं वक्ति इति अधिकरणवाची, तस्य अधिकरणवाचिनः | अधिकरणवाचिनः षष्ठ्यन्तं, चाव्ययम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् षष्ठी इत्यस्य अनुवृत्तिः | क्तस्य च वर्तमाने ( २.३.६७) इति सूत्रात् क्तस्य इत्यस्य अनुवृत्तिः | अनभिहिते ( २.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— अधिकरणवाचिनः क्तस्य च षष्ठी अनभिहिते | यथा इदम् एषाम् आसितम् | इदम् एषां शयितम् | इदम् अहेः सुप्तम् | इदं वनकपेः यातम् | इदम् एषां भुक्तम् | इदम् एषाम् अशितम् | इदम् एषां गतम् |



६)      कृद्योगे कर्मणि या षष्ठी प्राप्ता, तादृशस्य षष्ठ्यन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह समासः न भवति |

कर्मणि च (२.२.१४)

उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रस्य द्वारा कर्मार्थे विहितं षष्ठ्यन्तं समर्थेन सुबन्तेन सह न समस्यते | अर्थात् कर्मणि च या षष्ठी सा न समस्यते | कर्मणि सप्तम्यन्तं, चाव्ययम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | षष्ठी (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | न निर्धारणे (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— कर्मणि षष्ठी सुप्  सुपा सह न तत्पुरुषः समासः च |

कर्तृकर्मणोः कृति (२.४.६५) =कृत्प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिः भवति | कृष्णस्य कृतिः  | जगतः कर्ता कृष्णः |

उभयप्राप्तौ कर्मणि (२.३.६६) =पूर्वसूत्रेण या षष्ठी प्राप्ता सा अनेन सूत्रेण नियम्यते | उभयप्राप्तौ इति बहुव्रीहिः। उभयोः प्राप्तिर्यस्मिन् कृति, सः अयमुभयप्राप्तिः | उभयप्राप्तौ कर्मण्येव षष्ठी विभक्तिर्भवति, न कर्तरि |

यथा –

आश्चर्यो गवां दोहः अगोपेन इति वाक्यम् |

वाक्यार्थः अस्ति गोपं विहाय अन्यपुरुषः धेनूनां दोहनं करोति इति आश्चर्यस्य विषयः | आश्चर्यः, अगोपः गाः दोग्धि इति वाक्ये गाः इति कर्मपदम् अस्ति  | दोग्धि इति तिङन्तपदस्य स्थाने यदि कृत्प्रत्ययान्तस्य भावार्थे प्रयोगः क्रियते तर्हि कर्ता, कर्म च अनुक्तं भवति | यत्र कर्ता, कर्म च अनुक्तं भवति तत्र उभयप्राप्तिः अस्ति इति कृत्वा केवलम् अनुक्ते कर्मणि एव षष्ठी भवति उभयप्राप्तौ कर्मणि (२.३.६६) इति सूत्रेण | एतत् सूत्रं तु कर्तृकर्मणोः कृति ( २.३.६५) इत्यस्य बाधकं सूत्रम् अस्ति |

दुह् प्रपूरणे इति धातुतः घञ् इति प्रत्ययः क्रियते चेत् दोहः इति कृत्प्रत्ययान्तः शब्दः निष्पन्नः भवति | वाक्यं भवति आश्चर्यः अगोपेन गवां दोहः इति | दोहः इति पदस्य कर्म अस्ति गाः इति पदम्  | सामान्यतया अनुक्तकर्मणि द्वितीयाविभक्तिः भवति इति जानीमः, परन्तु कृत्प्रत्ययस्य योगे अनुक्ते कर्मणि द्वितीया न भवति अपि तु षष्ठी भवति उभयप्राप्तौ कर्मणि (२.३.६६) इति सूत्रेण | गाः इति कर्मणः कृत्योगे उभयप्राप्तौ कर्मणि (२.३.६६) इति सूत्रेण षष्ठीविभक्तिः प्राप्यते येन गवाम् इति रूपं सिद्धं भवति  | अगोपः इति अनुक्तकर्तुः कर्तृकरणयोस्तृतीया ( २.३.१८) इति सूत्रेण तृतीया एव जायते | गवां इति षष्ठ्यन्तस्य पदस्य  दोहः इति कृदन्त-शब्देन सह यः षष्ठीसमासः प्राप्तः षष्ठी (२.२.८) इति सूत्रेण,  तस्य निषेधः क्रियते कर्मणि च (२.२.१४) इति सूत्रेण, अतः षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – आश्चर्यः गवां दोहः अगोपेन  इति |


७)   कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः  | कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह न समस्यते |

तृजकाभ्यां कर्तरि (२.२.१५)

कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा न समस्यते | कृद्योगे कर्मणि या षष्ठी प्राप्ता कर्तृकर्मणोः कृति (२.४.६५) इत्यनेन, तदन्तस्य सुबन्तस्य कर्त्रर्थे तृच्प्रत्ययान्तेन, अकशब्दान्तेन च सह न समस्यते | अक-शब्देन ण्वुल्-प्रत्ययस्य ग्रहणं भवति  | ण्वुल्तृचौ (३.१.१३३) इति सूत्रेण ण्वुल्-प्रत्ययः विधीयते, अनुबन्धलोपानन्तरं वु इति अवशिष्यते | युवोरनाकौ ( ७.१.१) इति सूत्रेण वु इत्यस्य स्थाने अक इति आदेशः भवति | अतः तृजकाभ्यां कर्तरि (२.२.१५)  इति सूत्रे अक इति शब्दस्य द्वारा ण्वुल्-प्रत्ययान्तस्य एव ग्रहणं भवति  | कर्तरि इति पदं तृजाकाभ्याम् इति पदस्य विशेषणम् | अर्थात् तृच्-प्रत्ययः अथवा अक-प्रत्ययः कर्त्रर्थे विहितः इत्यर्थः | तृच् -प्रत्ययः, ण्वुल् -प्रत्ययः च कृत्प्रत्ययौ स्तः  | कर्तृकर्मणोः कृति (२.४.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिः भवति | तृच् च अकश्च तयोरितरेतरयोगद्वन्द्वः तृजकौ, ताभ्यां तृजकाभ्याम् | तृजकाभ्यां तृतीयान्तं, कर्तरि सप्तम्यन्तम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | षष्ठी (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | न निर्धारणे (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— षष्ठी सुप् कर्तरि तृजकाभ्यां सुब्भ्यां सह न तत्पुरुषः समासः |

यथा—

१) अपां स्रष्टा –जलस्य सृष्टिकर्ता इत्यर्थः | अत्र सृज् इति धातुतः कर्त्रर्थे तृच् प्रत्ययस्य विधानेन, स्रष्टा इति पदं निष्पन्नं भवति प्रथमाविभक्तौ एकवचने  | अपाम् इति पदम् अप् इति प्रातिपदिकात् निष्पन्नम् | अप्शब्दः नित्यबहुवचनान्तः स्त्रीलिङ्गशब्दः अस्ति | स्रष्टा इति तृच्प्रत्ययान्तः शब्दः कर्त्रर्थे विहितः इत्यतः कर्ता उक्तः भवति, कर्म च अनुक्तं भवति |

यथा ईश्वरः अपां स्रष्टा इति वाक्ये ईश्वरः कर्ता, अपां कर्म | स्रष्टा इति तृजन्तेन ईश्वरः इति कर्ता उक्तः इत्यतः ईश्वरः इति कर्तुः प्रथमाविभक्तिः जाता | सृज्धातोः कर्म अस्ति अपाम् | स्रष्टा इति कृदन्तस्य योगे अनुक्तकर्मणि षष्ठी विभक्तिः भवति कर्तृकर्मणोः कृति (२.४.६५) इत्यनेन सूत्रेण | अतः कर्मणः षष्ठी जाता येन अप्शब्दात् षष्ठीविभक्तिः भवति अपाम् इति | इदानीं स्रष्टा इति पदं तृजन्तं कर्त्रर्थे विहितः इत्यतः कर्मणि या षष्ठी अस्ति तस्याः समासः न भवति तृजन्तेन सह | अपां स्रष्टा इत्यत्र यः षष्ठीसमासः प्राप्तः षष्ठी (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण | अतः अप्स्रष्टा इति समासः न जायते | व्यस्तप्रयोगः एव करणीयः – अपां स्रष्टा इति |

२) व्रजस्य भर्ता – यः व्रजस्य भरणं करोति इत्यर्थः  | अत्र भृ इति धातुतः कर्त्रर्थे तृच्-प्रत्ययस्य विधानेन, भर्ता इति पदं  निष्पन्नं भवति प्रथमाविभक्तौ एकवचने  | भर्ता इति कृद्योगे व्रज इति कर्मणः षष्ठीविभक्तिः विधीयते, अतः व्रजस्य इति भवति | व्रजस्य भर्ता इत्यत्र यः षष्ठीसमासः प्राप्तः षष्ठी (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण | अतः व्रजभर्ता इति समासः न जायते | व्यस्तप्रयोगः एव करणीयः – व्रजस्य भर्ता इति |

३) ओदनस्य पाचकः – पच् इति धातुतः कर्त्रर्थे ण्वुल्(अक) प्रत्ययं योजयित्वा पाचकः इति पदं निष्पन्नं भवति | पाचकः इति कृद्योगे ओदनम् इति कर्मणः षष्ठीविभक्तिः विधीयते, अतः ओदनस्य इति भवति | ओदनस्य पाचकः इत्यस्मिन् यः षष्ठीसमासः प्राप्तः षष्ठी (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण | अतः ओदनपाचकः इति समासः न जायते | व्यस्तप्रयोगः एव करणीयः – ओदनस्य पाचकः इति |

एवमेव ओदनस्य भोजकः , सक्तूनां पायकः इत्यादिषु अपि समासः न जायते |

४) इक्षूणां (sugarcane) भक्षिका = इक्षुभक्षिका | भक्षिका इति कृदन्तं पदम् अस्ति तथापि अत्र षष्ठीसमासः दृश्यते, किमर्थम्?

तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रे कर्तरि इति उक्तम्, तस्य प्रयोजनं किम्?

कर्त्रर्थे विहितेन तृच् -प्रत्ययान्तेन शब्देन अथवा ण्वुल्-प्रत्ययान्तेन शब्देन सह एव षष्ठीतत्पुरुषसमासः निषिध्यते  | भावार्थे विहितेन तृच्प्रत्ययान्तेन शब्देन अथवा ण्वुल्प्रत्ययान्तेन शब्देन सह यः षष्ठीसमासः भवति तस्य निषेधः न क्रियते तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण | इक्षुभक्षिका इति षष्ठीसमासः भवति यतः भक्षिका इति ण्वुच्-प्रत्ययान्तः शब्दः भावार्थे विहितः अस्ति | पर्यायार्हर्णोत्पत्तिषु ण्वुच् (३.३.१११) इति सूत्रेण ण्वुच्-प्रत्ययः विधीयते उत्पत्तिः इत्यस्मिन् अर्थे । अस्मिन् सूत्रे बहवः अर्थाः उक्ताः परन्तु अत्र अस्माकं प्रसङ्गे उत्पत्तिः इति अर्थः एव आवश्यकः भक्षिका इति पदं प्राप्तम् | भक्ष् इति धातुतः धात्वर्थनिर्देशार्थं भावार्थे ण्वुच् इति प्रत्ययः क्रियते चेत् भक्षिका इति रूपं निष्पन्नम् | इक्षूणां भक्षिका इत्यत्र कर्त्रर्थे ण्वुच्प्रत्ययः नास्ति, अपि तु भावार्थे अस्ति इत्यतः षष्ठीसमासः सम्भवति | अतः इक्षुभक्षिका इति षष्ठीसमासः जायते | भक्षिका इति पदं ण्वुलन्तमपि भवितुम् अर्हति भावार्थे | ण्वुल्,ण्वुच इति प्रत्यययोः प्रयोगेण यत् रूपं लभ्यते तत्तु समानमेव परन्तु स्वरभेदः भवति |


एवमेव अन्यानि उदाहरणानि - ओदनभोजिका, पयःपायिका, अग्रगामिका इत्यादीनि |

५) भुवः भर्ता = भूभर्ता, भुवः भर्ता |

पत्यर्थस्य भर्तृ-शब्दस्य तु याजाकादित्वात् समासः – भुवः भर्ता | भू इति स्त्रीलिङ्गशब्दस्य षष्ठीविभक्तिः भुवः इति भवति  | भृ इति धातुतः तृच्प्रत्ययस्य योजनेन भर्ता इति पदं निष्पन्नम्  | भर्तृ-शब्दस्य द्वौ अर्थौ स्तः – पतिः, भरणं च  | यदि पतिः इत्यस्मिन् अर्थे भर्तृ-शब्दः प्रयुज्यते तदा तु सः शब्दः याजकादिगणे पठितः, अतः याजकादिभिश्च (२.२.९) इति सूत्रेण समासः प्राप्यते  | अर्थात् याजकादिगणपाठसामर्थ्यात् कर्त्रर्थप्रत्ययस्य योगे अपि प्रकृतसूत्रेण विधीयमानः षष्ठीसमासनिषेधः प्रवृत्तः न भवति अपितु विशेषविधानस्य कारणेन तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रस्य बाधकं सूत्रं भवति याजकादिभिश्च (२.२.९) इति सूत्रम् | अतः भुवः भर्त्ता इति विग्रहे याजकादिभिश्च (२.२.९) इति सूत्रेण भूभर्ता इति समासः सिद्ध्यति | अत्र भर्ता इति शब्दस्य अर्थः पतिः इति | भूभर्ता नाम पृथिव्याः पतिः इत्यर्थः  | एवं तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रं बाधित्वा याजकादिभिश्च (२.२.९) इति सूत्रेण समासः क्रियते, अतः याजकादिभिश्च (२.२.९) इति सूत्रं प्रतिप्रसवः इति उच्यते  | बाधकस्य बाधकः प्रतिप्रसवः इति उच्यते  | आदौ षष्ठीसमासस्य प्राप्तिः, तस्य निषेधः भवति तृजकाभ्यां कर्तरि (२.२.१५) इति  सूत्रेण; पुनः याजकादिभिश्च (२.२.९) इति सूत्रेण विशेषविधानं क्रियते येन षष्ठीसमासः पुनः विधीयते  | अयमेव प्रतिप्रसवः इत्युच्यते  |

५) त्रिभुवनस्य विधाता = त्रिभुवनविधाता, त्रिभुवनस्य विधाता | अत्र समासः कथं सिद्ध्यति ?

विधाता इति तृजन्तः शब्दः अस्ति, तस्य योगे कर्मणः या षष्ठी प्राप्ता सा न समस्यते यतोहि तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण षष्ठीसमासः निषिध्यते खलु ?

तस्य समाधानं काशिकायां दीयते यत् विधातृ इति वस्तुतः तृच्प्रत्ययान्तः शब्दः एव नास्ति अपि तु तृन्प्रत्ययान्तः | तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण केवलं तृजन्तस्य पदस्य एव समासः निषिध्यते न तु तृन्-प्रत्ययान्तस्य  | अत्र तु विधातृ इति प्रातिपदिकं तु तृन्प्रत्ययं योजयित्वा निर्मितम् अस्ति, अतः तृजकाभ्यां कर्तरि (२.२.१५) इति  सूत्रेण निषेधः प्रवृत्तः न भवति  | अतः त्रिभुवनविधाता इति षष्ठीसमासः सिद्ध्यति  | त्रिभुवनम् इति पदम् अपि समस्तपदमेव | तस्य विग्रहः अस्ति त्रयाणां भुवनानां समाहारः इति  | अयं द्विगुसमासः अस्ति | तस्य विवरणम् अग्रे करिष्यते  |

त्रिभुवनविधाता इत्यत्र समासं प्राप्तुम् अन्यमार्गः अपि अस्ति  | विधाता इति तृजन्तः इत्येव मत्त्वा अन्यमार्गेण समासं प्राप्तुं शक्यते | यथा – त्रिभुवनम् इति कर्मणः अविवक्षां कृत्वा, शेषत्वस्य विवक्षां कृत्वा षष्ठी विभक्तिः यदा जायते षष्ठी शेषे ( २.३.५०) इति सूत्रेण तदा तु षष्ठीसमासः भवितुम् अर्हति षष्ठी ( २.२.८) इति सूत्रेण | सम्बन्धार्थे षष्ठी यदा विधीयते तदा तु तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण निषेधं कर्तुं सामार्थ्यं न भवति यतोहि विधाता इति तृजन्तस्य कर्म न भवति त्रिभुवनम्, अतः समासः तु सिद्ध्यति एव  | शेषषष्ठ्या सिद्धयति समासः इति कैयटेन उक्तम् |

एवमेव घटानां निर्माता इत्यत्रापि चिन्तनीयम् |


८)     कर्त्रर्थे षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति | कर्तरि षष्ठ्या अकेन न समासः |

कर्तरि च (२.२.१६)

कर्तरि षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति | कर्तरि षष्ठ्या अकेन न समासः  | अक इति स्वयं प्रत्ययः नास्ति परन्तु ण्वुल्-प्रत्ययस्य स्थाने अक इति आदेशः भवति | कर्तरि सप्तम्यन्तं, चाव्ययम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | षष्ठी (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | न निर्धारणे (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | तृजकाभ्यां कर्तरि (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— कर्तरि षष्ठी सुप् अकेन सुपा सह विभाषा न तत्पुरुषः समासः च |

यथा—

भवतः शायिका = शीङ् स्वप्ने इति धातुतः ण्वुल् प्रत्ययं योजयित्वा शायिका इति स्त्रीलिङ्गपदं निष्पन्नम् | भवतः इति शब्दे कर्तरि षष्ठीविभक्तिः अस्ति | भवतः शायिका, अनयोः पदयोः योगे यः षष्ठीसमासः प्राप्तः, तस्य निषेधः भवति कर्तरि च (२.२.१६) इति सूत्रेण | अतः भवत्शायिका इति समासः न भवति |

तृजकाभ्यां कर्तरि (२.२.१५) इत्यस्मात् सूत्रात् केवलम् अक इत्यस्य अनुवृत्तिः भवति कर्तरि च (२.२.१६) इति सूत्रे | अत्र  तृच् इत्यस्य अनुवर्तनं न भवति यतो हि तृच् प्रत्ययः कर्तरि कृत् ( ३.४.६७) इति सूत्रस्य आधारेण कर्त्रर्थे एव विधीयते | फलितार्थः एवं यत् यदि प्रत्ययः कर्त्रर्थे अस्ति तर्हि कर्ता उक्तः भवति तेनैव प्रत्ययेन | कर्ता उक्तः इति कारणेन कर्तुः प्रथमा एव भवति, अतः कर्त्रर्थे षष्ठी न भवत्येव | यदा कर्त्रर्थे षष्ठी एव न सम्भवति तर्हि तया सह समासस्य प्रसङ्गः अपि न सम्भवति | यदि प्राप्तिः एव नास्ति तर्हि तस्य निषेधः कथं वा स्यात् | अतः कर्तरि च (२.२.१६) इति सूत्रे तृजकाभ्यां कर्तरि (२.२.१५) इत्यस्मात् सूत्रात् केवलम् अक इत्यस्य अनुवृत्तिः भवति न तु तृच् इत्यस्य |

ण्वुल्तृचौ (३.१.१३३) इति सूत्रेण सर्वेभ्यः धातुभ्यः ण्वुल्‌, तृच्‌ च विहितौ भवतः | कर्तरि कृत्‌ (३.४.६७) इत्यनेन कर्त्रर्थे एतौ प्रत्ययौ भवतः | ण्वुल् प्रत्ययस्य स्थाने अक इति आदेशः भवति युवोरनाकौ (७.१.१) इति सूत्रेण | ण्वुल् इति प्रत्ययः अपि सामान्यतया कर्त्रर्थे एव भवति तर्हि कर्तुः कथं षष्ठी प्राप्यते ?

किन्तु धात्वर्थनिर्देशे ण्वुल् इति वार्तिकेन ण्वुल्प्रत्ययः धात्वर्थे भवति | धात्वर्थः नाम भावार्थः इति | अयं ण्वुल्प्रत्ययान्तः शब्दः स्त्रीलिङ्गे भवति | अतः ण्वुल्प्रत्ययान्तस्य योगे अनुक्तकर्तुः षष्ठी भवति कर्तृकर्मणोः कृति (२.४.६५) इति सूत्रेण | एतादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन षष्ठीसमासः प्राप्तः अस्ति षष्ठी ( २.२.८) इति सूत्रेण, तस्य निषेधः क्रियते कर्तरि च (२.२.१६) इति सूत्रेण |

पर्यायार्हर्णोत्पत्तिषु ण्वुच् ( ३.३.१११) =एतेष्वर्थेषु धातोः ण्वुच् प्रत्ययो भावार्थे स्त्रीलिङ्गे च भवति | पर्यायः परिपाटी (क्रमः) | अर्हणम् अर्हः, योग्यता | ऋणं तत् यत् परस्य धार्यते | उत्पत्तिः जन्म |

ण्वुच्प्रत्ययान्तस्य योगे अनुक्तकर्तुः षष्ठी भवति कर्तृकर्मणोः कृति (२.४.६५) इति सूत्रेण | एतादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन षष्ठीसमासः प्राप्तः अस्ति षष्ठी ( २.२.८) इति सूत्रेण, तस्य निषेधः क्रियते कर्तरि च (२.२.१६) इति सूत्रेण |

यथा -

१) भवतः शायिका - भवतः शयनस्य क्रमः |

२) भवतः अग्रग्रासिका (claim or right to the first morsel) - भवतः प्रथमं भोजनस्य क्रमः |

३) भवतः आसिका - भवतः उपवेशनस्य क्रमः |

ण्वुच्प्रत्ययस्य ण्वुल्प्रत्ययस्य रूपेषु भेदः नास्ति केवलं स्वरे एव भेदः भवति |

षष्ठीसमासनिषेधकप्रकरणं समाप्तम् | अग्रे एकं सूत्रम् अस्ति षष्ठीसमासस्य विषये | अधुना पर्यन्तं समाससूत्रेषु विभाषा (२.१.११) इति सूत्रस्य अधिकारः इत्यनेन कारणेन समासस्य विधिः विकल्पेन भवति स्म | अग्रेमे सूत्रे समासः नित्यं भवति | तदनन्तरं पुनः समासः विकल्पेन भवति |


८) क्रिडार्थे, जीविकार्थे च यः अकप्रत्ययान्तः, तदन्तेन सुबन्तेन सह षष्ठ्यन्तस्य सुबन्तस्य समासः नित्यः, तत्पुरुषश्च समासो भवति |

नित्यं क्रीडाजीविकयोः (२.२.१७)

क्रिडार्थे, जीविकार्थे च यः अकप्रत्ययान्तः, तदन्तेन सुबन्तेन सह षष्ठ्यन्तस्य सुबन्तस्य समासः नित्यः, तत्पुरुषश्च समासो भवति | तृच्-प्रत्ययः तु क्रिडार्थे, जीविकार्थे च न भवति इति कारणेन अत्र केवलम् ण्वुल्प्रत्ययस्य (अकप्रत्ययस्य) ग्रहणं भवति | संज्ञायाम् ( ३.३.१०९) इति सूत्रेण संज्ञायां ण्वुल्प्रत्ययः ( अक) भावार्थे विधीयते | नित्यम् इति पदस्य ग्रहणेन आगम्यमाना विभाषा इति अधिकारस्य निवृत्तिः भवति | समासस्य नित्यता इति कारणेन पक्षे विग्रहवाक्यं न भवति | क्रीडा च जीविका च तयोरितरेतरयोगद्वन्द्वः क्रीडाजीविके, तयोः क्रीडाजीविकयोः | नित्यमिति क्रियाविशेषणं द्वितीयान्तं, क्रीडाजीविकयोः सप्तम्यन्तम्  | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | षष्ठी (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | तृजकाभ्यां कर्तरि (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— षष्ठी सुप् क्रीडाजीविकयोः अकेन सुपा सह नित्यं तत्पुरुषः समासः |

संज्ञायाम् ( ३.३.१०९) = संज्ञायां विषये धातोः ण्वुल् प्रत्ययो भावार्थे भवति | भावार्थे ण्वुल्प्रत्ययस्य विधानात् कर्ता कर्म च अनुक्तं भवति | यत्र उभयप्राप्तिः अस्ति, तत्र उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रेण अनुक्तकर्मणः षष्ठी भवति | एतादृशस्य कर्मणः षष्ठीसमासः न भवति कर्मणि च ( २.२.१४) इति सूत्रेण | परन्तु नित्यं क्रीडाजीविकयोः (२.२.१७) इति सूत्रेण समासनिषेधस्य प्रतिषेधः क्रियते | अर्थात् पुनः समासविधानं क्रियते नित्यं क्रीडाजीविकयोः (२.२.१७) इति सूत्रेण | नित्यं क्रीडाजीविकयोः (२.२.१७) इति सूत्रं विभाषा ( २.१.११) इत्यस्मात् अधिकारसूत्रात् विभाषा इति पदस्य अनुवृत्तेः निषेधं कृत्वा षष्ठीसमासस्य नित्यविधानं करोति |

संज्ञायाम् ( ३.३.१०९) इति सूत्रस्य उदहरणानि -

यथा - उद्दालकपुष्पभञ्जिका ( breaking uddalaka flowers) | वारणपुष्पप्रचायिका ( gathering of varana flowers) | अभ्यूषखादिका ( eating of अभ्यूष-grains)| आचोषखादिका | शालभञ्जिका ( kind of game played in the east of India) | तालभञ्जिका |

प्रकृतसूत्रे क्रीडार्थे इत्यस्य उदाहरणानि –

१) उद्दालकपुष्पाणां भञ्जनम् = उद्दालकपुष्पभञ्जिका (उद्दालकानां पुष्पाणि भज्यन्ते यत्र क्रीडायां - a sort of game played by the people in which Uddālaka flowers are broken or crushed). | उद्दालकपुष्पभञ्जिका इति नित्यसमासः भवति नित्यं क्रीडाजीविकयोः (२.२.१७) इति सूत्रेण  |

उद्दालकस्य पुष्पाणि इति षष्ठीसमासः भूत्वा तदनन्तरम् उद्दालकपुष्पाणां भञ्जनम् इति उद्दालकपुष्पभञ्जिका इति समासः भवति | भञ्ज् इति धातुतः संज्ञायाम् (३.३.१०९) इति सूत्रेण भावार्थे ण्वुल्प्रत्ययः विधीयते | अलौकिकविग्रहः –

उद्दालकपुष्प + आम् + भञ्जिका +सु  | नित्यं क्रीडा जीविकयोः (२.२.१७) इत्यनेन सूत्रेण षष्ठीसमासः विधीयते नित्यरूपेण | समाससंज्ञानन्तरं समासस्य प्रातिपदिकसंज्ञा भवति, सुब्लुक् भवति, उद्दालकपुष्प इत्यस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति  | अतः उद्दालकपुष्पभञ्जिका इति समासः निष्पद्यते  | अत्र समासः नित्यः इत्यतः स्वपदविग्रहवाक्यं न भवति अपि तु अस्वपदविग्रहवाक्यमेव भवति |

२) वारणपुष्पाणां प्रचायिका = वारणप्रचायिका ( वारणपुष्पाणां चयनस्य क्रीडा) | वारणप्रचायिका इति नित्यसमासः भवति नित्यं क्रीडाजीविकयोः (२.२.१७) इति सूत्रेण  |

३) अभ्यूषाणां ( खाद्यपदार्थः) खादिका = अभ्यूषखादिका ( खाद्यपदार्थस्य खादनस्य क्रीडा ) |

४) ओचोषाणां खादिका = ओचोषखादिका ( ( खाद्यपदार्थस्य खादनस्य क्रीडा ) |

एवमेव शालभञ्जिका, तालभञ्जिका |

एतानि सर्वाणि उदाहरणानि क्रीडायाः संज्ञा अस्ति | व्यस्तप्रयोगे संज्ञायाः ज्ञानं न भवति इत्यतः समासः नित्यः | यथा वयं जानीमः नित्यसमासः अविग्रहः अथवा अस्वपदविग्रहः भवति | उद्दालकपुष्पाणां भञ्जनं , वारणपुष्पाणां प्रचयनम् इति एवं रीत्या अस्वपदविग्रहं कृत्वा एतेषाम् अर्थः अवगन्तव्यः | किन्तु एतेषाम् अलौकिकविग्रहवाक्यं तु न सम्भवति |

जीविकार्थे उदाहरणानि

दन्तानां लेखकः = दन्तलेखकः | दन्तानां कला-विशेषेण यः जीविकां चालयति अथवा लोकप्रचलितानां दन्तकथानां लेखकः दन्तलेखकः इति उच्यते | यः तादृशीं कथां लिखित्वा जीवनं चालयति सः इत्यर्थः | दन्तानां लेखनेन जीवति इति अस्वपद-विग्रहवाक्यम् | अत्र लिख् इति धातुतः ण्वुल् प्रत्ययं योजयित्वा, अकादेशं कृत्वा लेखकः इति रूपं सिद्धम् | अत्र ण्वुल्तृचौ ( ३.१.१३३) इति सूत्रेण कर्त्रर्थे ण्वुल्प्रत्ययः विहितः अस्ति | ण्वुल्प्रत्ययः कर्त्रर्थे अस्ति इति कृत्वा कर्ता उक्तः, कर्म च अनुक्तं भवति | अनुक्तकर्मणः षष्ठी भवति कृद्योगे कर्तृकर्मणोः कृति ( २.३.६५) इत्यनेन सूत्रेण | तादृशस्य षष्ठ्यन्तस्य षष्ठीसमासः प्राप्तः अस्ति षष्ठी ( २.२.८) इति सूत्रेण | पुनः तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण तादृशस्य षष्ठीसमासस्य निषेधः प्राप्तः आसीत् | अधुना नित्यं क्रीडाजीविकयोः (२.२.१७) इति सूत्रेण तस्य निषेधस्य प्रतिप्रसवः क्रियते, येन पुनः नित्यसमासः भवति | अतः दन्तलेखकः इति समासः निष्पद्यते |

प्रकृतसूत्रे क्रीडाजीविकयोः इति पदस्य प्रयोजनं किम् ?

ओदनस्य भोजकः इत्यत्र क्रीडार्थः अपि नास्ति, जीविकार्थः अपि नास्ति इत्यतः तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रेण षष्ठीसमासस्य निषेधः क्रियते | ओदनस्य भोजकः इत्यत्र षष्ठीसमासः नास्ति यतोहि क्रीडा अथवा जीविका इत्यस्मिन् अर्थे नास्ति ण्वुल्प्रत्ययः | क्रीडार्थे अथवा जीविकार्थे अस्ति चेत् नित्यं क्रीडा जीविकयोः (२.२.१७) इति सूत्रेण षष्ठीसमासः नित्यरूपेण जायते |


१०) ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति |

ईषदकृता (२.२.७)

ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति | न कृत् अकृत्, तेन अकृता | ईषद् अव्ययम्, अकृता तृतीयान्तम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— ईषद् सुप्  अकृता सुपा सह विभाषा तत्पुरुषः समासः |

अस्मिन् सूत्रे ईषद् इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरम् ईषद् इति पदस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |

यथा—

ईषत् पिङ्गलः = ईषत्पिङ्गलः  | किञ्चित् पीतः इत्यर्थः  | पिङ्गल इति शब्दः अव्युत्पन्नः अतः अकृदन्तं पदम् अस्ति |

ईषत् रक्तम् = ईषद्रक्तम्  | किञ्चित् रक्तवर्णीयम् इत्यर्थः | अत्र रक्तम् इति कृदन्तं क्तान्तम् अस्ति इति कृत्वा ईषदकृता (२.२.७) इत्यनेन तु समासः न भवति  | तर्हि अत्र समासः कथं जातः ?

ईषद् गुणवचनेनेति वक्तव्यम् इति वार्तिकेन ईषद् इति शब्दः गुणवाचिना सुबन्तेन सह समस्यते | प्रकृतसूत्रे अकृता इति पदं निष्कास्य गुणवचनेन इति वक्तव्यम् आसीत् | अनेन उन्नतः, रक्तं, पीतम् इत्यादिभिः गुणवचनैः सह ईषत् इति पदस्य समासः स्यात् | अतः ईषत्कडारः ( 'a somewhat proud) , ईषत्पिङ्गलः ( a little brownish) , ईषत्विकटः ( a little hideous), ईषदुन्नतः ( a little raised), ईषत्पीतम् ( a little yellow.), ईषद्रक्तम् ( a little red) इत्यादयः समासाः भवन्ति ।

ईषद् गुणवचनेनेति वक्तव्यम् इति वार्तिकेन रक्तम् इति गुणवाचिना कृदन्तपदेन सह अपि ईषत् इति शब्दस्य समासः भवति इत्युक्तम्  | अतः ईषद्रक्तम् इति समासः जातः |

ईषद् गार्ग्यः = अत्र समासः न भवति | गार्ग्यः इति पदं गुणवाचि नास्ति अतः ईषद् गुणवचनेनेति वक्तव्यम् इत्यनेन वार्तिकेन समासः न भवति  | गार्ग्यः इति पदं यद्यपि अकृदन्तं तथापि ईषदकृता (२.२.७) इत्यनेन अपि समासः न भवति यतोहि अत्र समासः अनभीष्टः अस्ति |

प्रश्नः उदेति यत् ईषत् इति अव्ययस्य योगे किमर्थं समासः क्रियते इति ? केवलम् ईषत् इति पदस्य अन्येन सुबन्तेन योजयामः चेत् रूपं लभ्यते खलु?

अत्र वार्ता का इति चेत् यद्यपि ईषत् इति पदस्य अन्यसुबन्तेन सह योजयामः अथवा सन्धिं कुर्मः चेत् अपि रूपं लभ्यते परन्तु तथापि समासः इष्यते यतोहि समासः सर्वत्र न भवति | ईषदकृता (२.२.७) इति सूत्रे ईषत् इति अव्ययस्य अकृदन्तेन सह समासः इति उक्तं परन्तु ईषद् गुणवचनेनेति वक्तव्यम् इत्यनेन वार्तिकेन ईषद् इति शब्दः गुणवाचिना सुबन्तेन सह समस्यते इति उक्तम् इत्यतः कृदन्तं वा भवतु अकृदन्तं वा भवतु गुणवाची चेत् तत्पुरुषसमासः भवति | समासः तु गुणवाचिना सह एव भवति न तु अन्येन | समासेन एकं पदं लभ्यते तत् तु न लभ्यते सन्धिकार्येण अथवा योजनेन |


तत्पुरुषोऽनञ्कर्मधारयः (२.४.१९)

तत्पुरुषोऽनञ्कर्मधारयः (२.४.१९) = अधिकारसूत्रम् अयम् उत्तरसूत्रेषु उपतिष्ठते | यद्यपि इदं सूत्रम् अधिकारसूत्रम् अस्ति तथापि यदा एतस्य सूत्रस्य अर्थस्य अपेक्षा वर्तते तदा सूत्रार्थः एवं भवति - नञ्समासं कर्मधारयं च वर्जयित्वा अन्ये तत्पुरुषसमासाः नपुंसकलिङ्गे भवन्ति इति | अस्य सूत्रस्य अधिकारः अस्मात् सूत्रात् विभाषा सेनासुराच्छायाशालानिशानाम् ( २.४.२५) इति सूत्रपर्यन्तम् अस्ति | नञ् च कर्मधार्यश्च तयोः समाहारद्वन्द्वः नञ्कर्मधारयः, सौत्रं पुंस्त्वम् | न नञ्कर्मधारयः अनञ्कर्मधारयः | तत्पुरुषः प्रथमान्तम्, अनञ्कर्मधारयः प्रथमान्तम् | स नपुंसकम् (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— तत्पुरुषोऽनञ्कर्मधारयः नपुंसकम् |


१) संज्ञायां कन्थोशीनरेषु ( २.४.२०)

१) संज्ञायां कन्थोशीनरेषु ( २.४.२०) = संज्ञायाः विषये नञ्भिन्नः कर्मधारयभिन्नः कन्थान्तः तत्पुरुषः नपुंसकलिङ्गे भवति यदा सा कन्था उशीनरेषु भवति | कन्थान्तः तत्पुरुषः क्लीबं स्यात्, सा चेत् उशीनरदेशोत्पन्नायाः कन्थायाः संज्ञा | अर्थात् यदा तत्पुरुषसमासे कन्थान्तः इति शब्दः समासस्य अन्ते भवति, सः समासः नञ्भिन्नः कर्मधारयभिन्नः स्यात् अपि च सा कन्था उशीनरः इति देशे उत्पन्ना भवेत् संज्ञायाः विषये च भवेत्, तर्हि सः तत्पुरुषः नपुंसकलिङ्गे भवति | कन्था इति स्त्रीलिङ्गशब्दः, तस्य अर्थः - patched garment, a quilt of grass, a wall, a rag | संज्ञायां सप्तम्यन्तं, कन्था प्रथमान्तम्, उशीनरेषु सप्तम्यन्तम् | तत्पुरुषोऽनञ्कर्मधारयः (२.४.१९) इति सूत्रस्य अधिकारः | स नपुंसकम् (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— संज्ञायां कन्थोशीनरेषु तत्पुरुषोऽनञ्कर्मधारयः नपुंसकम् |

यथा -

१) सौशमीनां कन्थाः = सौशमिकन्थम् इति षष्ठीतत्पुरुषसमासः | सुशमस्य अपत्यानि सौशमयः, तेषां कन्थाः सौशमिकन्थम् | सुशमः इति काचित् व्यक्तिः, तस्य सन्ततिः सौशमिः इति वदामः | सौशमीनां कन्थाः सौशमिकन्थम् इति वदामः। सुशमस्य अपत्यानि इत्यस्मिन् अर्थे तस्यापत्यम् ( ४.१. ९२) इत्यस्मिन् अधिकारे अत इञ् ( ४.१. ९५) इति सूत्रेण इञ्प्रत्ययस्य विधानं भवति | तद्धितेष्वचामादेः ( ७.२.११७) इति सूत्रेण आदिवृद्धिं कृत्वा, यस्येति च ( ६.४.१८८) इत्यनेन भसंज्ञकस्य अङ्गस्य अन्तिमाकारस्य लोपं कृत्वा तद्धितप्रत्यये परे सौशमि इति शब्दः निष्पन्नः भवति | सौशमीनां कन्थाः इत्यस्य अलौकिकविग्रहः अस्ति सौशमि + आम् + कन्था + सु | विभक्तेः लोपः → सौशमि + कन्था इति लभ्यते | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रेण अयं समासः पुंलिङ्गे स्यात् परन्तु संज्ञायां कन्थोशीनरेषु ( २.४.२०) इति सूत्रेण समासः नपुंसकलिङ्गे भवति | अधुना सौशमिकन्था इत्यत्र ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः सौशमिकन्थ इति प्रातिपदिकं लभ्यते, अधुना सुप्रत्ययस्य योजनेन नपुंसकलिङ्गे अतोऽम् ( ७.१.२४) इति सूत्रेण अतः नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः सौशमिकन्थम् इति समासः सिद्धयति | सौशमिकन्थम् इति उशीनरजनपदे उत्पन्नायाः कस्याश्चित् कन्थायाः संज्ञा |

संज्ञायाम् इति किम् ?

वीरणकन्था इति समासः स्त्रीलिङ्गे अस्ति | प्रकृतसूत्रेण संज्ञायामेव नपुंसकलिङ्गविधानं भवति नो चेत् न | उशीनरदेशस्य कन्था संज्ञाशब्दः चेत् एव कन्थान्तः तत्पुरुषः नपुंसकलिङ्गे भवति नो चेत् न | वीरणकन्था इत्यत्र वीरणानां कन्था इति षष्ठीतत्पुरुषः भवति, परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रेण अयं समासः स्त्रीलिङ्गे भवति उत्तरपदम् अनुसृत्य यतोहि कन्था तु उशीनरदेशे एव उत्पन्ना परन्तु इदं पदं संज्ञारूपेण प्रसिद्धः नास्ति |

उशीनरेषु किम् ?

दाक्षीणां कन्था = दाक्षिकन्था | अत्र प्रकृतसूत्रेण नपुंसकलिङ्गविधानं न भवति यतोहि इयं कन्था तु संज्ञापदमेव किन्तु उशीनरदेशे नोत्पन्ना इत्यतः स्त्रीलिङ्गे एव भवति परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रेण |


उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ( २.४.२१)

२) उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ( २.४.२१) = उपज्ञान्तः उपक्रमान्तश्च तत्पुरुषो नपुंसकं स्यात् तयोः उपज्ञायमान-उपक्रम्यमाणयोः आदिः प्राथम्यं चेदाख्यातुमिष्यते | अर्थात् नञ्भिन्नः कर्मधारयभिन्नः उपज्ञान्तः, उपक्रमान्तः तत्पुरुषः नपुंसकलिङ्गे भवति यदि उपज्ञेय, उपक्रम्य इत्यनयोः प्रथमकर्ता ( आदिः) यः अस्ति तं कथयितुम् इच्छा वर्तते | उपज्ञा नाम नूतनचिन्तनम् अथवा नूतनाविष्कारः | उपज्ञा इत्यनेन सर्वथा नूतनवस्तुनः निर्माणम् इति नास्ति किन्तु तस्य विषये नूतनचिन्तनम् | उपक्रमः नाम कस्यचित् वस्तुनः प्रारम्भः | अर्थात् सर्वथा नूतननिर्माणे अर्थस्य द्योतकः | उपज्ञायते असौ उपज्ञा | उपक्रम्यते असौ उपक्रमः | सूत्रे तच्छब्देन उपज्ञोपक्रमौ विवक्षितौ | आदिशब्दो भावप्रधानः प्राथम्ये वर्तते | तयोरादिः=प्राथम्यं — तदादिः | तस्य आचिख्यासा=आख्यातुमिच्छा ( वक्तुम् इच्छामः) | उपज्ञा च उपक्रमश्च तयोः समाहारद्वन्द्वः, उपज्ञोपक्रमम् | तयोः ( उपज्ञोपक्रमयोः) आदिः, तदादिः षष्ठीतत्पुरुषः | तदादेः आचिख्यासा ( intention of telling) तदाद्याचिख्यासा, तस्यां ताद्याचिख्यासायां षष्ठीतत्पुरुषः | तत्पुरुषोऽनञ्कर्मधारयः (२.४.१९) इति सूत्रस्य अधिकारः | स नपुंसकम् (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— उपज्ञोपक्रमं तदाद्याचिख्यासायां तत्पुरुषोऽनञ्कर्मधारयः नपुंसकम् |

यथा -

१) पाणिनेः उपज्ञा = पाणिन्युपज्ञं ग्रन्थः | अर्थात् पाणिन्युपज्ञम् अकालकं व्याकरणम् | पाणिनेरुपज्ञानेन प्रथमतः प्रणीतम् अकालकं व्याकरणम् | यस्य ग्रन्थस्य कालपरिभाषा नास्ति इत्यर्थः | पाणिनेः उपज्ञा इत्यस्य अलौकिकविग्रहः अस्ति पाणिनि + ङस् + उपज्ञा+ सु | विभक्तेः लोपः → पाणिनि + उपज्ञा इति लभ्यते | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रेण अयं समासः पाणिन्युपज्ञः ग्रन्थः इति पुंलिङ्गे स्यात् परन्तु उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ( २.४.२१) इति सूत्रेण समासः नपुंसकलिङ्गे भवति | अधुना सन्धिं कृत्वा पाणिन्युपज्ञा इत्यत्र ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः पाणिन्युपज्ञ इति प्रातिपदिकं लभ्यते, अधुना सुप्रत्ययस्य योजनेन नपुंसकलिङ्गे अतोऽम् ( ७.१.२४) इति सूत्रेण अदन्तात् नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः पाणिन्युपज्ञम् इति समासः सिद्धयति | पाणिन्युपज्ञं ग्रन्थः नाम कालपरिभाषारहितस्य व्याकरणस्य रचना पाणिनिना कृता |

२) नन्दस्य उपक्रमं द्रोणः = नन्दोपक्रमं द्रोणः | राज्ञः नन्दस्य द्वारा सर्वप्रथमं द्रोणः इति मापनस्य प्रयोगः जातः | नन्दोपक्रमम् इति समासः नपुंसकलिङ्गे भवति उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ( २.४.२१) इति सूत्रेण | पूर्वोक्ता प्रक्रिया अनुसरणीया | अलौकिकविग्रहः - नन्द + ङस् + उपक्रम + सु |

प्रकृतसूत्रे तदाद्याचिख्यासायाम् इति पदं किमर्थम् अस्ति?

येन कर्त्रा उपज्ञा कृता अथवा उपक्रमः कृतः, तादृशस्य आदिमकर्तुः सम्बन्धे एव प्रकृतसूत्रेण नपुंसकलिङ्गविधानं भवति | किन्तु यत्र केवलं सम्बन्धमात्रस्य विवक्षा भवति तत्र उपज्ञा, उपक्रमः इति शब्दयोः विशेष्यम् अनुसृत्य एव लिङ्गविधानं भवति | यथा विष्णुमित्रोपज्ञः रथः - विष्णुमित्रः इति व्यक्तेः द्वाराः अयं रथः निर्मितः इत्यर्थः | एवमेव विष्णुमित्रोपक्रमो यागः - विष्णुमित्रः इति व्यक्तेः द्वारा अयं यज्ञः आरब्धः | अनयोः उदाहरणयोः परिशीलनेन ज्ञायते यत् अत्र कर्तुः कथने इच्छा नास्ति अपि तु सामान्यकथनमात्रम् अस्ति | अतः नपुंसकलिङ्गविधानं नास्ति किन्तु विशेष्यपदम् ( रथः, यागः ) अनुसृत्य पुंलिङ्गे समासः कृतः |


छाया बाहुल्ये ( २.४.२२)

३) छाया बाहुल्ये ( २.४.२२) = यदि पूर्वपदं बाहुल्ये= बहुवचनान्तः अस्ति तर्हि नञ्भिन्नः कर्मधारयभिन्नः छायान्तः तत्पुरुषः नपुंसकलिङ्गे भवति | पूर्वपदार्थबाहुल्ये छायान्तः तत्पुरुषः नपुंसकलिङ्गे स्यात् | छाया इति पदं विशेषणम्, अनुवृत्तः तत्पुरुषः इति पदं विशेष्यम् | तदन्तविधिः भवति येन छायान्तः तत्पुरुषः इत्यर्थः लभ्यते | इदं सूत्रं विभाषा सेनासुराच्छायाशालानिशानाम् (२.४.२५) इति सूत्रस्य अपवादः अस्ति | विभाषा सेनासुराच्छायाशालानिशानाम् ( २..४.२५) इति सूत्रेण नपुंसकलिङ्गविधानं विकल्पेन प्राप्तं भवति किन्तु यदा बाहुल्यस्य ज्ञानं भवति तदा अपवादरूपेण नपुंसकलिङ्गविधानं नित्यरूपेण भवति प्रकृतसूत्रेण | छाया प्रथमान्तं , बाहुल्ये सप्तम्यन्तम् | तत्पुरुषः तत्पुरुषोऽनञ्कर्मधारयः (२.४.१९) इति सूत्रस्य अधिकारः | स नपुंसकम् (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— छाया बाहुल्ये तत्पुरुषोऽनञ्कर्मधारयः नपुंसकम् |

यथा -

१) इक्षूणां ( sugarcane ) छाया = इक्षुच्छायम् | अलौकिकविग्रहः - इक्षु + आम् + छाया + सु → इक्षुछाया इति लभ्यते | इक्षु इत्यस्य बाहुल्यं प्रकटितम् अस्ति यतोहि एकस्य इक्षोः छाया पर्याप्तं नास्ति | अतः छाया बाहुल्ये ( २.४.२२) इति सूत्रेण नपुंसकलिङ्गस्य विधानं भवति | अधुना ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः इक्षु + छाय इति लभ्यते | अधुना छे च ( ६.१. ७३) इति सूत्रेण छकारे परतः संहितायां विषये ह्रस्वस्य तुगागमो भवति | इक्षु + तुक् + छाय , श्चुत्वसन्धिं कृत्वा इक्षुच्छाया इति प्रातिपदिकं लभ्यते | अधुना सुप्रत्ययस्य योजनं कृत्वा, नपुंसकलिङ्गे अतोऽम् ( ७.१.२४) इति सूत्रेण अदन्तात् नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः इक्षुच्छायम् इति समासः सिद्धयति |


सभा राजाऽमनुष्यपूर्वा ( २.४.२३)

४) सभा राजाऽमनुष्यपूर्वा ( २.४.२३) = नञ्भिन्नः कर्मधारयभिन्नः राजापर्यायपूर्वकः, अमनुष्यपूर्वकः सभान्तः तत्पुरुषः नपुंसकलिङ्गे भवति | अर्थात् राजपर्यायपूर्वः अमनुष्यपूर्वः च सभान्तः तत्पुरुषः नपुंसकलिङ्गे स्यात् | अस्मिन् सूत्रे द्विप्रकारकयोः शब्दयोः ग्रहणं भवति - १) राजन् -शब्दपूर्वकः सभान्तः शब्दः; २) मनुष्यभिन्नवाचिपूर्वकः सभान्तः शब्दः च | यद्यपि प्रकृतसूत्राधारेण केवलं राजन् इति शब्दस्य ग्रहणं स्यात् तथापि जितपर्यायस्यैव राजाद्यर्थम् इति भाष्यवार्तिकस्य आधारेण राजन् -शब्दस्य पर्यायवाचिनां शब्दानां ग्रहणं भवति | साक्षात् राजन् - शब्दस्य ग्रहणं न भवति | अमनुष्यशब्दः रूढ्या रक्षः पिशाचादीन् आह | राजा च अमनुष्यश्च राजामनुष्यौ, इतरेतरयोगद्वन्द्वः | राजाऽमनुष्यौ पूर्वौ यस्याः सा राजाऽमनुष्यपूर्वा, बहुव्रीहिः | सभा प्रथमान्तं, राजामनुष्यपूर्वा प्रथमान्तम् | तत्पुरुषः तत्पुरुषोऽनञ्कर्मधारयः (२.४.१९) इति सूत्रस्य अधिकारः | स नपुंसकम् (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— सभा राजाऽमनुष्यपूर्वा तत्पुरुषोऽनञ्कर्मधारयः नपुंसकम् |


यथा -

राजन् - शब्दपूर्वकः सभान्तः

१) इनस्य सभा = इनसभम् | राज्ञः सभा इत्यर्थः | अत्र इन -शब्दः स्वामिवाचकः इति कृत्वा राजन् -शब्दस्य पर्यायः अपि अस्ति | अलौकिकविग्रहः - इन + ङस् + सभा + सु | षष्ठीतत्पुरुषः समासः भवति षष्ठी इति सूत्रेण | अतः सभा राजाऽमनुष्यपूर्वा ( २.४.२३) सूत्रेण नपुंसकलिङ्गस्य विधानं भवति यतोहि इन-शब्दः राजपर्यायवाची अस्ति | अधुना ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः इनसभ इति प्रातिपदिकं लभ्यते | अधुना सुप्रत्ययस्य योजनं कृत्वा, नपुंसकलिङ्गे अतोऽम् ( ७.१.२४) इति सूत्रेण अदन्तात् नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः इनसभम् इति समासः सिद्धयति |

२) ईश्वरस्य सभा = ईश्वरसभम् | राज्ञः सभा इत्यर्थः | अत्र ईश्वरशब्दः स्वामिवाचकः इत्यतः राजन् - शब्दस्य अपि पर्यायः इति मन्यते | अलौकिकविग्रहः - ईश्वर + ङस् + सभा + सु | षष्ठीतत्पुरुषः समासः भवति षष्ठी इति सूत्रेण | अतः सभा राजाऽमनुष्यपूर्वा ( २.४.२३) सूत्रेण नपुंसकलिङ्गस्य विधानं भवति यतोहि ईश्वर-शब्दः राजपर्यायवाची अस्ति | अधुना ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः ईश्वरसभ इति प्रातिपदिकं लभ्यते | अधुना सुप्रत्ययस्य योजनं कृत्वा, नपुंसकलिङ्गे अतोऽम् ( ७.१.२४) इति सूत्रेण अदन्तात् नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः ईश्वरसभम् इति समासः सिद्धयति |

जितपर्यायस्यैव राजाद्यर्थम् इति भाष्यवार्तिकम् आधारीकृत्य दीक्षितैः एवं वार्तिकं कृतम् - पर्यायस्यैवेष्यते इति | वार्तिकार्थः = राजन्-शब्दस्य पर्यायग्रहणमेव इष्यते न तु स्वरूपग्रहणम् इति | अतः राजन्- शब्दः पूर्वपदं चेत् नपुंसकलिङ्गविधानं न भवति | अतः अस्य वार्तिकस्य आधारेण राजसभा, चन्द्रगुप्तसभा इति एव समासः भवति न तु राजसभं , चन्द्रगुप्तसभम् इति नपुंसकलिङ्गे |

अमनुष्यपूर्वकः सभान्तः शब्दः

१) रक्षसां सभा = रक्षस्सभम् | रक्षस् -शब्दः रूढशक्त्या अमनुष्यवाची अस्ति | अलौकिकविग्रहः = रक्षस् +आम् + सभा + सु | षष्ठीतत्पुरुषः समासः भवति षष्ठी इति सूत्रेण | अतः सभा राजाऽमनुष्यपूर्वा ( २.४.२३) सूत्रेण नपुंसकलिङ्गस्य विधानं भवति यतोहि रक्षस्-शब्दः अमनुष्यपर्यायवाची अस्ति | अधुना ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः राक्षस्सभ इति प्रातिपदिकं लभ्यते | अधुना सुप्रत्ययस्य योजनं कृत्वा, नपुंसकलिङ्गे अतोऽम् ( ७.१.२४) इति सूत्रेण अदन्तात् नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः रक्षस्सभम् इति समासः सिद्धयति |

२) पिशाचानाम् सभा = पिशाचसभम् | षष्ठीतत्पुरुषसमासः भवति षष्ठी इति सूत्रेण | अतः सभा राजाऽमनुष्यपूर्वा ( २.४.२३) सूत्रेण नपुंसकलिङ्गस्य विधानं भवति यतोहि पिशाच-शब्दः अमनुष्यपर्यायवाची अस्ति | अधुना ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः पिशाचसभ इति प्रातिपदिकं लभ्यते | अधुना सुप्रत्ययस्य योजनं कृत्वा, नपुंसकलिङ्गे अतोऽम् ( ७.१.२४) इति सूत्रेण अदन्तात् नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः पिशाचसभम् इति समासः सिद्धयति |


अशाला च ( २.४.२४)

५) अशाला च ( २.४.२४) = सङ्घातार्था या सभा तदन्तः तत्पुरुषः नपुंसकलिङ्गे स्यात् | सङ्घातवचनोऽत्र सभाशब्दो गृह्यते | अर्थात् शालार्थात् भिन्नसङ्घातार्थस्य बोधकः यः सभाशब्दः, तदन्तः नञ्भिन्नः कर्मधारयभिन्नः तत्पुरुषः नपुंसकलिङ्गे स्यात् | सभाशब्दस्य अर्थद्वयं वर्तते - १) शाला २) सङ्घातः ( समूहः) | पूर्वसूत्रे सभाशब्देन द्वयोः अर्थयोः ग्रहणं कृतम् आसीत् | किन्तु प्रकृतसूत्रे शालाभिन्नार्था अशाला | अर्थात् समूहवाचकः सभाशब्दान्तस्य तत्पुरुषस्य नपुंसकलिङ्गविधानं भवति | न शाला अशाला, नञ्तत्पुरुषः | अशाला प्रथमान्तं, चाव्ययम् | | तत्पुरुषः तत्पुरुषोऽनञ्कर्मधारयः (२.४.१९) इति सूत्रस्य अधिकारः | सभा राजाऽमनुष्यपूर्वा ( २.४.२३) इत्यस्मात् सूत्रात् सभा इत्यस्य अनुवृत्तिः | स नपुंसकम् (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— अशाला सभा च तत्पुरुषोऽनञ्कर्मधारयः नपुंसकम् |

यथा -

१) स्त्रीणां सभा = स्त्रीसभवम् | स्त्रीसङ्घातः, स्त्रीणां समूहः इत्यर्थः | अत्र सभाशब्दः स्त्रीणां समूहस्य वाचकः अस्ति न तु शालायाः | अलौकिकविग्रहः = स्त्री + आम् + सभा + सु | षष्ठीतत्पुरुषसमासः भवति षष्ठी इति सूत्रेण | अतः अशाला च ( २.४.२४) इति सूत्रेण नपुंसकलिङ्गस्य विधानं भवति यतोहि सभा-शब्दः समूहार्थे अस्ति | अधुना ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः स्त्रीसभ इति प्रातिपदिकं लभ्यते | अधुना सुप्रत्ययस्य योजनं कृत्वा, नपुंसकलिङ्गे अतोऽम् ( ७.१.२४) इति सूत्रेण अदन्तात् नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः स्त्रीसभम् इति समासः सिद्धयति |

अशाला इति किम् ?

धर्मस्य शाला = धर्मसभा | धर्मशाला इत्यर्थः | प्रकृतसूत्रे अशाला इति पदम् अप्रयुक्तं चेत् धर्मसभा इत्यत्रापि नपुंसकलिङ्गविधानं भविष्यति येन धर्मशालम् इति समासः अभविष्यत् | किन्तु धर्मस्य सभा इति उदाहरणे सभाशब्दः तु शालार्थस्य वाचकः अस्ति , अतः अशालाशब्दस्य निवेशे प्रकृतसूत्रे शालार्थकस्य सभाशब्दस्य योगे समासः भवति चेत् नपुंसकलिङ्गविधानं न भवति अपि तु परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रेण अयं समासः स्त्रीलिङ्गे भवति येन धर्मसभा इति समासः सिद्धः भवति |


विभाषा सेनासुराच्छायाशालानिशानाम् ( २.४.२५)

६) विभाषा सेनासुराच्छायाशालानिशानाम् ( २.४.२५) = एतदन्तः तत्पुरुषः क्लीबं वा स्यात् | सेना, सुरा, छाया, शाला, निशा इति एते नञ्भिन्नाः कर्मधारयभिन्नाः शब्दान्ताः तत्पुरुषाः विकल्पेन नपुंसकलिङ्गे भवन्ति | सेनासुराच्छायाशालानिशानाम् इति पदम् अस्मिन् सूत्रे षष्ठ्यन्तम् अस्ति परन्तु प्रथमार्थे षष्ठी इति मन्तव्यं यतोहि एतत् पदं तत्पुरुषः इति अनुवृत्तपदस्य विशेषणं भवति | सेना च सुरा च छाया च शाला च निशा च तासाम् इतरेतरयोगद्वन्द्वः सेनासुराच्छायाशालानिशाः, तासां सेनासुराच्छायाशालानिशानाम् | तत्पुरुषः तत्पुरुषोऽनञ्कर्मधारयः (२.४.१९) इति सूत्रस्य अधिकारः | स नपुंसकम् (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— विभाषा सेनासुराच्छायाशालानिशानां तत्पुरुषोऽनञ्कर्मधारयः नपुंसकम् |

यथा -

१) ब्राह्मणस्य सेना = ब्राह्मणसेनम्, ब्राह्मणसेना | अलौकिकविग्रहः = ब्राह्मण + ङस् + सेना + सु | षष्ठीतत्पुरुषसमासः भवति षष्ठी इति सूत्रेण | अतः विभाषा सेनासुराच्छायाशालानिशानाम् ( २.४.२५) सूत्रेण नपुंसकलिङ्गस्य विधानं विकल्पेन |

यस्मिन् पक्षे नपुंसकलिङ्गविधानं न भवति तत्र परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रेण अयं समासः स्त्रीलिङ्गे भवति यतोहि सेना इति उत्तरपदं स्त्रीलिङ्गम् अस्ति | अतः समासः भवति ब्राह्मणसेना इति |

यस्मिन् पक्षे नपुंसकलिङ्गविधानम् अस्ति, तस्मिन् पक्षे ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इत्यनेन नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अतः ब्राह्मणसेन इति प्रातिपदिकं लभ्यते | अधुना सुप्रत्ययस्य योजनं कृत्वा, नपुंसकलिङ्गे अतोऽम् ( ७.१.२४) इति सूत्रेण अदन्तात् नपुंसकात् अङ्गात् स्वमोः अम् इति आदेशः भवति | अतः ब्राह्मणसेनम् इति समासः सिद्धयति | आहत्य रूपद्वयं ब्राह्मणसेना /ब्राह्मणसेनम् इति |

२) यवानां (Barley) सुरा ( यवानां पानम् इत्यर्थः) = यवसुरम्, यवसुरा | अलौकिकविग्रहः = यव + आम् + सुरा + सु |

३) कुड्यस्य (भित्तिः) छाया = कुड्यछाया , कुड्यछायम् | भित्तेः छाया इत्यर्थः | अस्मिन् उदाहरणे छाया बाहुल्ये ( २.४.२२) इति सूत्रेण नपुंसकविधानं न भवति यतोहि पूर्वपदं बहुवचने नास्ति | अतः एव अत्र वैकल्पिकविधानं सिद्धयति |

४) गवां शाला = गोशालम् , गोशाला | अलौकिकविग्रहः = गो + आम् + शला + सु |

५) शुनां निशा ( night on which dog bark and howl) = श्वनिशम् , श्वनिशा | अलौकिकविग्रहः = श्वन् + आम् + निशा + सु |

अग्रे दत्तेषु उदाहरणेषु विभाषा सेनासुराच्छायाशालानिशानाम् ( २.४.२५) इत्यनेन सूत्रेण नपुंसकलिङ्गविधानं नास्ति यतोहि तानि कुत्रचित् तत्पुरुषसमासाः न सन्ति, कुत्रचित् नञ्भिन्नाः कर्मधारयभिन्नाः न सन्ति |

१) दृढा सेना यस्य सः = दृढासेनः राजा | अयं बहुव्रीहिः अस्ति न तु तत्पुरुषः | अनेकमन्यपदार्थे ( २.२.२४) इति सूत्रेण बहुव्रीहिसमासः भवति |

२) न सेना = असेना | अयं समासः नञ्समासः अस्ति | नञ् ( २.२.६) इति सूत्रेण नञ्समासः भवति |

३) परमा चासौ सेना = परमसेना | अयं समासः कर्मधारयः |

तत्पुरुषोऽनञ् कर्मधारयः ( २.४.१९) इति अधिकारसूत्रस्य वास्तविकं प्रयोजनम् अस्मिन्नेव सूत्रे सिद्धं भवति यतो हि अत्रैव उदाहरणानि ल

भ्यन्ते | संज्ञायाः कन्थोशीनरेषु इत्यादिषु पञ्चसु सूत्रेषु अस्य अधिकारस्य प्रयोजनं दृष्टिगोचरं न भवति यतोहि तत्र तत्पुरुषभिन्नः नञ्समासः अथवा कर्मधारयसमासः न लभ्यते एव | केवलं प्रकृतसूत्रं लक्ष्यीकृत्य अधिकारसूत्रे नञ्भिन्नः कर्मधारयभिन्नः इति उक्तम् |