अनन्तरस्य विधिर्वा प्रतिषेधो वा
२०२4 ध्वनिमुद्रणानि |
---|
190_tatpuruShasamAsaH- anantarasya vidhirvA pratiShedO vA_ 2024-05-11 |
191_tatpuruShasamAsaH-anantarasya vidhirvA pratiShedaO vA _2024-05-18 |
अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषा | अनन्तरस्य विधिः वा प्रतिषेधः वा अव्यवहितस्य पूर्वस्यैव भवति न तु व्यवहितस्य इति परिभाषार्थः | अस्यां परिभाषायां वा इति शब्दः च इत्यस्मिन् अर्थे प्रयुक्तः अस्ति इत्यतः एव विधिः निषेधः च द्वयमपि अनन्तरस्य अर्थात् समीपवर्तिनः एव भवति | एवं प्रकारेण अस्यां परिभाषायां समीपवर्तिनः विधानं वा निषेधः क्रियते यतोहि समीपवर्तिनः एव प्रथमोपस्थितिः भवति | यः व्यवहितः भवति तस्य उपस्थितिः विलम्बेन भवति इति स्वभाविकः एव | अतः अनया परिभाषया शीघ्रोपस्थितस्य समीपवर्तिनः एव विधानम् अथवा निषेधः क्रियते |
अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषायाः उदाहरणानि -
१) नाव्ययीभावादतोऽम्त्वपञ्चम्याः ( २.४.८३) = अदन्तादव्ययीभावादुत्तरस्य सुपो न लुग् भवति, अमादेशस्तु तस्य सुपो भवत्यपञ्चम्याः | एतस्मिन् प्रतिषिद्धे पञ्चम्याः श्रवणमेव भवति | अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्प्रत्ययस्य स्थाने अमादेशः विधीयते | अनुवृत्ति-सहितसूत्रम्—अव्ययीभावाद् अतः तु न सुपः लुक् अपञ्चम्याः अम् |
अस्मिन् सूत्रे वाक्यद्वयं वर्तते –
१) अदन्तादव्ययीभावादुत्तरस्य सुपो न लुग् भवति इति एकं वाक्यम् |
२) `अमादेशस्तु तस्य भवत्यपञ्चम्याः` इति द्वितीयं वाक्यम् |
अपञ्चम्याः इत्यनेन `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` इति पञ्चम्याः अमादेश एव प्रतिषिध्यते, न तु अलुक् पूर्ववाक्येन विहितः | अतः एव अलुकि सति पञ्चम्याः श्रवणमेव भवति | अनया परिभाषया अव्यवहितस्य पूर्वस्यैव प्रतिषेधः भवति, पूर्वं तु अमादेशः एव वर्तते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः ( २.४.८३) इति तुशब्देनाप्ययमर्थो लभ्यते | तुशब्दः नियामको भवति अमेवापञ्चम्याः इति |
२) सुडनपुंसकस्य ( १.१.४३) = सुट्-प्रत्याहारे सु-आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थान-संज्ञा भवति परन्तु नपुंसकलिङ्गे न | सुट्-प्रत्याहारे सु, औ, जस्, अम्, औट् इतीमे प्रत्ययाः अन्तर्भूताः | न नपुंसकम्, अनपुंसकम् नञ्तत्पुरुषः, तस्य अनपुंसकस्य | सुट् प्रथमान्तम्, अनपुंसकस्य षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | शि सर्वनामस्थानम् (१.१.४२) इत्यस्मात् सर्वनामस्थानम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— सुट् सर्वनामस्थानम् अनपुंसकस्य |
सुडनपुंसकस्य ( १.१.४३) इत्यस्मात् सूत्रात् प्राक् शि सर्वनामस्थानम् ( १.१.४२) इति सूत्रम् अस्ति | शि सर्वनामस्थानम् ( १.१.४२) इत्यस्य अर्थः शि' इत्यस्य 'सर्वनामस्थान' इति संज्ञा भवति | सुडनपुंसकस्य ( १.१.४३) इति सूत्रे अनपुंसकमिति निषेधः उच्यते वा? यदि निषेधः उच्यते तर्हि सुडनपुंसकस्य जसि शिप्रतिषेधः स्यात् |
यदि अनपुंसकमिति निषेधः उच्यते तर्हि अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` इति नपुंसकलिङ्गे सर्वनामस्थानमेव प्रतिषिध्यते | शि सर्वनामस्थानं सुडनपुंसकस्य इति चेत् जसि शेः प्रतिषेधः प्राप्नोति – कुण्डानि तिष्ठन्ति, वनानि तिष्ठन्ति इत्यादीनि रूपाणि न भवन्ति |
किन्तु अत्र सुडनपुंसकस्य ( १.१.४३) इति सूत्रे अनपुंसकमिति प्रसज्यप्रतिषेधः नास्ति अपि तु पर्युदासः अस्ति | प्रसज्यप्रतिषेधः चेत् नपुंसकलिङ्गे सुडः सर्वनामस्थानं न भवति इत्यर्थः आयाति | अर्थात् प्रतिषेधः उच्यते | पर्युदासः चेत् नपुंसकलिङ्गं विहाय अन्यत्र सुडः सर्वनामस्थानं भवति इत्यर्थः आयाति | अर्थात् पर्युदासे स्वीकृते प्रतिषेधस्य प्राधान्यमेव नास्ति |
सुडनपुंसकस्य ( १.१.४३) इति सूत्रे पर्युदासः एव स्वीकरणीयः यतोहि कुण्डानि वनानि इत्यादीनि रूपाणि तदैव प्राप्नुवः यदा नपुंसकलिङ्गे शि इत्यस्य शि सर्वनामस्थानम् ( १.१.४२) इत्यनेन शि इति प्रत्ययस्य सर्वनामस्थानं भवति | शि इति प्रत्ययस्य सर्वनामस्थानमस्ति चेदेव नुमागमः भवितुम् अर्हति येन कुण्डानि, वानानि इत्यादीनि रूपाणि प्राप्नुमः | अतः एव सुडनपुंसकस्य ( १.१.४३) इति सूत्रे प्रसज्यप्रतिषेधः निराक्रियते |
सुडनपुंसकस्य ( १.१.४३) इति सूत्रे पर्युदासः स्वीकृतः इति कृत्वा पुंलिङ्गे स्त्रीलिङ्गे च व्यापारः भवति | यदि केनचित् सूत्रेण नपुंसकलिङ्गे सर्वनामस्थानं प्राप्यते तर्हि तेन भविष्यति एव | अत्र शि सर्वनामस्थानम् (१.१.४२) इत्यनेन पूर्वेण सूत्रेण नपुंसकलिङ्गे सर्वनामस्थानं प्राप्यते तस्य प्रतिषेधः न भवति अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` इति परिभाषया यतोहि परिभाषायाः प्रसक्तिः नास्ति एव यतोहि सुडनपुंसकस्य ( १.१.४३) इति सूत्रे नपुंसकलिङ्गस्य प्रसङ्गे प्रतिषेधः वा विधिः नोच्यते येन परिभाषायाः प्रयोगः स्यात् | अतः शि सर्वनामस्थानम् ( १.१.४२) इत्यनेन नपुंसकलिङ्गे शि इत्यस्य सर्वनामस्थानं भवति एव |
जश्शसोः शिः (७.१.२०) इत्यनेन नपुंसकात् परस्य जस्/शस्-प्रत्यययोः शि-आदेशः भवति |
३) वा छन्दसि ( ३.४.८८) = वैदिकप्रयोगेषु लोट्-लकारस्य सिप्-प्रत्ययस्य हि आदेशः विकल्पेन अपित् भवति | लोटो लङ्वत् (३.४.८५) इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | सेर्ह्यपिच्च (३.४.८७) इत्यस्य सम्पूर्णानुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— लोटः लस्य सेः हि छन्दसि वा अपित् च |
वा छन्दसि ( ३.४.८८) इत्यस्मिन् सूत्रे वा इत्यनेन कस्य विकल्पः उच्यते ? वा छन्दसि ( ३.४.८८) इत्यस्मात् सूत्रात् पूर्वं सूत्रम् अस्ति सेर्ह्यपिच्च (३.४.८७) इत्यतः वा छन्दसि ( ३.४.८८) इति सूत्रे हि इति आदेशस्य विकल्पः वा नोचेत् अपित्त्वस्य विकल्पः वा नोचेत् द्वयोः अपि विकल्पः उच्यते वा?
अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` इति परिभाषया अव्यहितस्य पूर्वस्यैव विधिः वा निषेधः भवति | वा छन्दसि ( ३.४.८८) इत्यस्मिन् सूत्रे विकल्पविधानं यत् अस्ति तत् तु पूर्वस्यैव अव्यवहितस्य भवति, अतः वा इत्यस्य अन्वयः सेर्ह्यपिच्च (३.४.८७) इत्यस्मिन् सूत्रे अपित्त्वम् इत्यनेन सह एव भवति न तु हि इति आदेशेन सह | अर्थात् वा छन्दसि ( ३.४.८८) इत्यस्मिन् सूत्रे अपित्त्वं विकल्प्यते तस्यानन्तरत्वात् | आदेशस्तु अपित्त्वेन व्यवहितत्वाद् अनन्तरो न भवति अतः न विकल्प्यते |
सेर्ह्यपिच्च (३.४.८७) = लोट्-लकारस्य सि इत्यस्य स्थाने हि-आदेशो भवति; स च हि अपित् भवति | सेः षष्ठ्यन्तं, हिः प्रथमान्तम्, अपित् प्रथमान्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | लोटो लङ्वत् (३.४.८५) इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— लोटः लस्य सेः हि अपित् च |