15 - स्थानिवद्भावः
अस्मिन् पाठे स्थानिवद्भावः नाम कः इति ज्ञास्यामः | आरम्भे प्रसङ्गः अस्ति शास्-धातोः लोट्-लकारस्य 'शास् + हि'; ततः सम्पूर्णरीत्या स्थानिवद्भावसम्बद्धचिन्तनं क्रियते |
शास्-धातुः, शासु → शास् (परस्मैपदी, अनुशिष्टौ), अदादिगणस्य जक्षाद्यन्तर्गणे अस्ति | शास्-धातोः हि-प्रत्यये परे किं कार्यं भवति इत्यस्य परिशीलनेन स्थानिवद्भावबोधनाय उत्तमः अवसरः |
शा हौ (६.४.३५) = शास्-धातोः स्थाने शा-आदेशो भवति हि-प्रत्यये परे | शा लुप्तप्रथमाकं, हौ सप्तम्यन्तं, द्विपदमिदं सूत्रम् | शास इदङ्हलोः (६.४.३४) इत्यस्मात् शासः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— शासः शा हौ |
यथा—
शास् + हि → शा हौ (६.४.३५) → शा + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यनेन झलन्तेभ्यः धातुभ्यशः हि-स्थाने धि-आदेशः → शा + धि → शाधि
अत्र प्रश्नः उदेति यत् किं सूत्रं प्रथमम् आगच्छेत्— शा हौ (६.४.३५) अथवा हुझल्भ्यो हेर्धिः (६.४.१०१) | अस्य अवगमनार्थं स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रं सम्यक्तया बोध्यम् |
क्रमः एतादृशः—
- अन्यत्रान्यत्रलब्धावकाशयोरेकत्रप्राप्तिस्तुल्यबलविरोधः इति भाष्यवाक्येन तुल्यबलविरोधः अस्ति | अतः विप्रतिषेधे परं कार्यम् (१.४.२) इत्यनेन परकार्यं भवेत् | हुझल्भ्यो हेर्धिः (६.४.१०१) इति परसूत्रम् |
- परन्तु पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः इति परिभाषया परत्वात् नित्यसूत्रं बलवत् | अत्र बोध्यं यत् परसूत्रं परत्वादेव बलवत् भवति; तदपेक्षया पूर्वसूत्रं नित्यमस्ति चेत्, तदेव बलवत् भवति | अत्र परसूत्रं नित्यम् अस्ति न वा इति न द्रष्टव्यं; तस्य अवसरः परत्वात् जातः एव; अधुना पूर्वसूत्रमेव नित्यमस्ति न वा इति द्रष्टव्यम् |
अत्र हुझल्भ्यो हेर्धिः (६.४.१०१) पूर्वं भवति चेत्, अनन्तरं शा हौ (६.४.३५) इत्यस्य कार्यं सम्भवति वा; पुनः शा हौ (६.४.३५) पूर्वं भवति चेत्, अनन्तरं हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यस्य कार्यं सम्भवति वा— इति परिस्थितिद्वयम् अस्माभिः परिशीलनीयम् |
हुझल्भ्यो हेर्धिः (६.४.१०१) इति परसूत्रं; तर्हि विप्रतिषेधे परं कार्यम् (१.४.२) इत्यनेन प्रथमं भवति चेत्—
शास् + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यनेन हि-श्ताने धि → शास् + धि → अधुना शा हौ (६.४.३५) इति सूत्रस्य प्रवर्तनार्थं 'हि' नास्ति, अतः 'स्थानिवद्भावेन' अयं धि, 'हि-इव' भवितुम् अर्हति न वा इति चिन्तनीयम् |
शा हौ (६.४.३५) पूर्वं भवति चेत्—
शास् + हि → शा हौ (६.४.३५) → शा + हि → अधुना हुझल्भ्यो हेर्धिः (६.४.१०१) इति सूत्रस्य प्रवर्तनार्थं झल्-प्रत्याहारे स्थितः सकारः नास्ति, अतः 'स्थानिवद्भावेन' अयं शा, 'शास्-इव' भवितुम् अर्हति न वा इति चिन्तनीयम् |
तर्हि अत्र 'स्थानिवद्भावः' इत्युक्ते कः, इति द्रष्टव्यम् |
स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रे भागद्वयम् अस्ति—
१) आदेशः स्थानिवत् भवति | नाम स्थानिनि ये गुणाः सन्ति, ते आदेशे अपि उपस्थिताः भवन्ति |
२) कश्चन विधिः आदेशस्य अनन्तरं भवति चेत्, अपि च स च विधिः स्थानि-सम्बद्ध-अल्-वर्णम् आश्रित्य प्रवर्तनीयः इति चेत्, आदेशः स्थानिवत् न भवति |
अस्मिन् सूत्रे विधानम् अपि अस्ति (स्थानिवद्भावः); निषेधः अपि अस्ति (स्थानिवद्भावनिषेधः) | अतिदेशसूत्रम् अस्ति यतोहि यस्य (आदेशस्य) स्वभावः तथा नास्ति (स्थानी इव न), तस्य (आदेशस्य) स्वभावः तथा (स्थानी इव) अध्यारोप्यते | परिभाषा सूत्रमपि अस्ति, यतोहि स्वयं किमपि कार्यं न करोति; विधिसूत्राणां साहाय्यं करोति—स्थानिवद्भावः यदि नाभविष्यत्, तर्हि कार्यं न स्यात् |
अनेन सत्रेण, सामान्यतया आदेशः स्थानिवत् भवति | अष्टसु स्थलेषु स्थानिवद्भावः भवति | काशिकायाम् एतदर्थं वाक्यम् अस्ति धात्वङ्गकृत्तद्धिताव्ययसुप्तिङ्पदादेशाः | अनेन—
१) स्थानी धातुः अस्ति चेत्, तस्य स्थाने आदेशः अपि धातुः भवति |
२) स्थानी अङ्गम् अस्ति चेत्, तस्य स्थाने आदेशः अपि अङ्गं भवति |
३) स्थानी कृत्-प्रत्ययः अस्ति चेत्, तस्य स्थाने आदेशः अपि कृत्-प्रत्ययः भवति |
४) स्थानी तद्धित-प्रत्ययः अस्ति चेत्, तस्य स्थाने आदेशः अपि तद्धित-प्रत्ययः भवति |
५) स्थानी अव्ययम् अस्ति चेत्, तस्य स्थाने आदेशः अपि अव्ययं भवति |
६) स्थानी सुप्-प्रत्ययः अस्ति चेत्, तस्य स्थाने आदेशः अपि सुप्-प्रत्ययः भवति |
७) स्थानी तिङ्-प्रत्ययः अस्ति चेत्, तस्य स्थाने आदेशः अपि तिङ्-प्रत्ययः भवति |
८) स्थानी पदम् अस्ति चेत्, तस्य स्थाने आदेशः अपि पदं भवति |
तर्हि सामान्यतया आदेशः स्थानिवत् भवति |
स्थानिवद्भावः कुत्र न भवति ? येन एकः स्पष्टविचारः मनसि आगच्छेत्, त्रयः कालाः कल्पनीयाः |
- प्रथमकाले स्थानी अस्ति |
- द्वितीयकाले आदेशः अस्ति |
- तृतीयकाले कश्चन विधिः अस्ति |
विधिः नाम विधिसूत्रस्य कार्यम् | तर्हि अत्र कालत्रयस्य साधनार्थं सूत्रद्वयम् अवश्यम् अपेक्षितम् | प्रथमसूत्रेण स्थानिनः स्थाने कश्चन आदेशः विधीयते; अनेन स्थानी यः आसीत्, तस्य च स्थाने अधुना आदेशः आगतः | तदानीं द्वितीयसूत्रेण एकं नूतनं कार्यं विधीयते; इदं नूतनकार्यं तृतीयकाले भवति | अत्र तृतीयकालः विशेषतः अवलोकनीयः | अस्मिन् द्वितीयसूत्रे यानि निमित्तानि अपेक्षितानि, तेषु यदि एकमपि कश्चन 'वर्णः' (‘अल्’) अस्ति यः स्थानिनि आसीत् किन्तु साक्षात् आदेशे नास्ति, तर्हि इदं कार्यं भवितुं न अर्हति— यतोहि स च अल्-वर्णस्य स्वभावः आदेशे अध्यारोपयितुं न शक्यते, नाम अत्र स्थानिवद्भावः न सम्भवति | एतत् वदामः 'अल्-विधिः' | अतः सूत्रम् अस्ति स्थानिवदादेशः अनल्विधौ (१.१.५६) | आदेशः स्थानिवत् भवति; किन्तु तादृशः अल्-विधिः अस्ति चेत्, आदेशः स्थानिवत् न भवति |
एकम् उदाहरणं पश्यामः | आर्धधातुकस्येड्वलादेः (७.२.३५) इति सूत्रेण आर्धधातुकप्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | तर्हि इदं कार्यम्, अयं विधिः, अवश्यम् अल्-विधिः अस्ति | अल्-आश्रितविधिः यतोहि तस्य निमित्तेषु अल्-वर्णः वर्तते—आर्धधातुकप्रत्ययस्य आदौ कश्चन वल्-प्रत्याहारस्थवर्णः भवेत्, इति कृत्वा अल्-विधिः |
लिख → समानकर्तृकयोः पूर्वकाले (३.४.२१) इत्यनेन 'क्त्वा' विधीयते → लिख् + क्त्वा → लिख् + त्वा → आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन त्वा वलादि-आर्धधातुकप्रत्ययः अतः तस्य इडागमो भवति → लिख् + इ + त्वा → लिखित्वा
अधुना यदि वि-उपसर्गपूर्वकं लिख्-धातुं स्वीकुर्मः—
विलिख् → समानकर्तृकयोः पूर्वकाले (३.४.२१) इत्यनेन क्त्वा → विलिख् + क्त्वा → समासेऽनञ्पूर्वे क्त्वो ल्यप् (७.१.३७) इत्यनेन समासे सति (धातोः पूर्वम् उपसर्गः अस्ति चेत् समासः) क्त्वा-स्थाने ल्यप्-आदेशः → विलिख् + ल्यप् → विलिख् + य → अधुना आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन इडागमो भवति वा ? य-प्रत्ययः वलादिः नास्ति; परन्तु 'त्वा'-स्थाने 'य' विहितः किल, अतः स्थानिवद्भावं कृत्वा अयं य-प्रत्ययः त्वा इव स्यात् | अस्य निर्णयार्थं द्रष्टव्यं यत् अस्माकम् आगम्यमानेन विधिसूत्रेण तादृशः अल्-विधिः इष्यते किम् ? आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन अल्-विधिः भवति एव; निमित्तम् अस्ति वलादि-प्रत्ययः | स च अल्-वर्णः (तकारः) स्थानिनि (त्वा-इत्यस्मिन्) आसीत् किन्तु आदेशे (य-इत्यस्मिन्) नास्ति अतः अत्र अल्-विधौ कर्तव्ये, स्थानिवद्भावो नास्ति | नाम त्वा-प्रत्ययस्य वलादित्वम् य-प्रत्यये आरोपयितुं न शक्यते | अतः इडागमः न भवति, रूपं भवति 'विलिख्य' |
अत्र अस्माकं त्रयः कालाः के ?
- प्रथमकाले स्थानी अस्ति क्त्वा ('त्वा')
- द्वितीयकाले आदेशः अस्ति ल्यप् ('य')
- तृतीयकाले कश्चन विधिः अस्ति इडागमः—आर्धधातुकस्येड्वलादेः (७.२.३५) |
एतादृशं चिन्तनं सर्वत्र करणीयम् |
शास्त्रे अयम् अल्-विधिः चतुर्प्रकारकः इति उच्यते | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रे 'अल्-विधिः' इति एकः समासः; स च समासः चतुर्भिः प्रकारैः विग्रहवाक्यं कर्तुं शक्यते | 'अला विधिः' (तृतीयतत्पुरुषः), 'अलः विधिः' (पञ्चमीतत्पुरुषः), 'अलः विधिः' (षष्ठीतत्पुरुषः), 'अलि विधिः' (सप्तमीतत्पुरुषः) | इत्युक्ते अल्-विधौ— (१) अल्-द्वारा कार्यम्, (२) अल्-वर्णात् परं कार्यम्, (३) अल्-वर्णस्य स्थाने कार्यं (स्वयं स्थानी), (४) अल्-वर्णात् पूर्वं कार्यम् | उदाहरणाणि चत्वारि अपि दास्यन्ते | परन्तु मनसि एतावदेव बोध्यं यत् विधिसूत्रे यदि कुत्रचित् अल्-वर्णः निमित्तरूपेण अपेक्षितः अस्ति यः केवलं मूलस्थानिनि आसीत् अपि च आदेशे नास्ति, तर्हि स्थानिवद्भावनिषेधकत्वात् अयम् अल्-विधिः न भविष्यति |
सम्प्रति स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रे 'अल्-विधिः' इति समासस्य चतुर्णां विग्रहवाक्यानां कृते एकैकस्य दृष्टान्तः दीयते—
१. अला विधिः (तृतीयतत्पुरुषः)
यदि स्थानिघटित-अल्-वर्णस्य द्वारा कश्चन विधिः कार्यः (तृतीये काले), तर्हि स्थानिनः स्थाने यः आदेशः आगतः द्वितीयकाले, सः आदेशः स्थानिवद्भावं न प्राप्नोति | अत्र बोध्यं यत् 'द्वारा' नाम स च वर्णः कार्यं प्रति निमित्तम् | किन्तु अपरेषु त्रिषु वक्ष्यमाणेषु दृष्टान्तेषु अयं वर्णः निमित्तं नास्ति किम् ? अस्त्येव | तर्हि अत्र 'अला विधिः', नाम 'द्वारा' इत्यस्य कथनेन कः अर्थः ? अर्थः एवं यत् निमित्तं सत्यपि तद्द्वारा पूर्वकार्यं न, परकार्यं न, अपि च स्वयं स्थानी न; अपि तु कथञ्चित् अन्यरीत्या निमित्तं, यथा कार्यस्थलात् दूरं भूत्वा निमित्तम् | अस्य च उदाहरणम् अत्र उच्यते—
व्यूढोरस्केन इति पदम् | विग्रहवाक्यम् अस्ति 'व्यूढम् उरो यस्य' इति कृत्वा बहुव्रीहिसमासः | अस्य पदस्य व्युत्पत्त्यर्थं समासप्रक्रियायां 'व्यूढम् + उरः' → प्रातिपदिकसंज्ञा, सुपः लुक् → व्यूढ + उरस् → उरः प्रभृतिभ्यः कप् (५.४.१५१) इत्यनेन उरःप्रभृत्यन्तात् बहुव्रीहेः कप्-प्रत्ययः → व्यूढ + उरस् + क → आद्गुणः (६.१.८७) इत्यनेन गुणः → व्यूढोरस् + क → पदान्तसकारस्य रुत्वविसर्गौ → व्यूढोरः + क → सोऽपदादौ (८.३.३८) इत्यनेन पदान्ते विसर्गस्य 'पाश-कल्प-क-काम्य' इत्येषु परेषु सकारादेशः → व्यूढोरस्क इति शब्दः → तृतीयाविभक्तेः एकवचनविवक्षायां टा-प्रत्ययः, तस्य स्थाने च इन-आदेशः, तदा गुणः → व्यूढोरस्केन → अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) इत्यनेन णत्वं स्यात् यतोहि रेफः इति निमित्तं वर्तते, ततः अग्रे नकारः अपि अस्ति → मध्ये स्थितः सकारः णत्वं प्रति बाधा किन्तु स च सकारः विसर्गस्थाने आगतः | विसर्गः अयोगवाहेषु अन्यतमः इति कृत्वा अट्-प्रत्याहारे परिगण्यते, अनेन च सकारे स्थानिवद्भावं कृत्वा अट्-प्रत्याहारे स्वीक्रियते चेत् णत्वं भवेत् | परन्तु अत्र विसर्जनीयः अल्-वर्णः; तस्य च कारणेन णत्वं भविष्यति अतः 'अला विधिः' इत्यनेन सकारे स्थानिवद्भावो न भवति | णत्वं च बाधितम् | व्यूढोरस्केन इति पदम् |
२. अलो विधिः (पञ्चमीतत्पुरुषः)
परकार्यस्य दृष्टान्तः | स्थानीभूतात् अलः परं कार्यं विधीयमानम् इति चेत्, आदेशे स्थानिवद्भावो न भवति |
दिव्-शब्दः + सु → दिव औत् (७.१.८४) इत्यनेन दिव्-इत्यस्य वकारस्य औत्-आदेशः भवति सु इति प्रत्यये परे → दि + औ + स् → इको यणचि (६.१.७६) → द्यौ + स् → 'औ' इत्यस्मिन् वकारस्य स्थानिवद्भावं कृत्वा हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन सकारस्य लोपः स्यात् → वकारः स्थानी, तस्य निमित्तत्वात् सकारलोपः → अलो विधिः अस्ति चेत् स्थानिवद्भावो न भवति → द्यौः इतिपदम् |
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) = हलन्तात्, दीर्घङ्यन्तात्, दीर्घाबन्तात् च सु-ति-सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्-लोपः, लङि प्रथमपुरुषे त्-लोपः, मध्यमपुरुषे स्-लोपश्च | हल् च ङी च आप् च तेषाम् इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम् | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात् पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | लोपो व्योर्वलि (६.१.६५) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्— दीर्घात् हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल् लुप्यते |
अपृक्त एकाल् प्रत्ययः (१.२.४१) = यस्य प्रत्यस्य एकैव अल्, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल् एकाल्, कर्मधारयः | अपृक्तः प्रथमान्तम्, एकाल् प्रथमान्तं, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— एकाल् प्रत्ययः अपृक्तः |
३. अलो विधिः (षष्ठीतत्पुरुषः)
स्थानीभूतस्य अलः स्थाने एव केनचित् विधिना इष्टं कार्यमस्ति चेत् तस्मिन् विधौ कर्तव्ये आदेशे स्थानिवद्भावो न भवति |
द्युकामः इति पदम् | कामयते इति कामः, दिवः कामः इति विग्रहस्य समासे कृते—
दिव् + काम → दिव उत् (६.१.१३१) इत्यनेन दिव्-प्रातिपदिकस्य पदस्य (न तु दिव्-धातोः) वकारस्य उ-आदेशः → दि + उ + काम → इको यणचि (६.१.७६) → द्यु + काम → उकारस्य वकारस्थानिवद्भावं कृत्वा लोपो व्योर्वलि (६.१.६६) इत्यनेन उकारस्य लोपः स्यात् → अलः स्थाने विधिः भवति चेत् अलो विधिः इति कृत्वा स्थानिवद्भावो न भवति → द्युकाम इति प्रातिपदिकम् → प्रथमाविभक्तौ एकवचने द्युकामः सिद्धः |
लोपो व्योर्वलि (६.१.६६) = वकारयकारयोः लोपो भवति वल्-प्रत्याहारे परे | व् च य् च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— व्योः लोपः वलि |
४. अलि विधिः ( सप्तमीतत्पुरुषः)
अलि परे पूर्वस्य विधेः कर्तव्ये सति अल्-स्थाने आदेशस्य स्थानिवद्भावो न भवति |
क इष्टः | यज्-धातुः + क्त → यज् + त → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणम् → इ अ ज् + त → पूर्वरूपैकादेशः → इज् + त → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशः झलि परे → इष् + त → ष्टुना ष्टुः (८.४.४१) → इष्ट → एतस्मात् पूर्वं 'किम् + सु' → किमः कः (७.२.१०३) इत्यनेन किम्-शब्दस्य विभक्ति-प्रत्यये परे "क" आदेशः → क + स् → ससजुषो रुः (८.२.६६) → कर् + इष्ट → यज्-धातोः सम्प्रसारणेन निष्पन्नस्य इकारस्य यकारस्थानिवद्भावं कृत्वा हशि च (६.१.११४) इत्यनेन अप्लुत-ह्रस्व-अकारात् परस्य रुँ-सम्बद्धरेफस्य उकारादेशः हशि परे → 'क + उ + इष्ट' इति भवति स्म, परन्तु 'हशि परे' इत्यस्य कथनेन 'अलि विधिः' इति कारणतः इकाररूपादेशे यकरत्वस्य स्थानिवद्भावो न भवति → कर् + इष्ट → भोभगोअघोअपूर्वस्य योशि (८.३.१७) इत्यनेन अकारोतरस्य 'रु'-शब्दस्य रेफस्य यकारादेशः अशि परे → कय् + इष्ट → लोपः शाकल्यस्य (८.३.१९) इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति अशि परे → क इष्टः / कयिष्टः |
भोभगोअघोअपूर्वस्य योशि (८.३.१७) = भो-भगो-अघो-अवर्ण-पूर्वस्य रु-शब्दस्य रेफस्य यकारादेशो भवति अशि परे | भो-भगो-अघो इत्येवं पूर्वस्य अवर्णपूर्वस्य च रो रेफस्य यकारादेशो भवति अशि परे | प्रथमे पदे सन्ध्यभावः सौत्रप्रयोगः | भोश्च भगोश्च अघोश्च अश्च तेषामितरेतरद्वन्द्वः, भोभगोअघोआः | भोभगोअघोआः पूर्वे यस्मात् स भोभगोअघोअपूर्वः बहुव्रीहिः, तस्य भोभगोअघोअपूर्वस्य | भोभगोअघोअपूर्वस्य षष्ठ्यन्तं, यः प्रथमान्तम्, अशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | रोः सुपि (८.३.१६) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— भोभगोअघोअपूर्वस्य रोः यः अशि संहितायाम् |
हशि च (६.१.११४) = प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि च | हशि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अतो रोरप्लुतादप्लुते (६.१.११३) इत्यस्मात् अप्लुतात्, अतः, रोः इत्येषाम् अनुवृत्तिः | ऋत उत् (६.१.१११) इत्यस्मात् उत् इत्यस्य अनुवृत्तिः | संहितायाम् (६.१.७१) इत्यस्य अधिकारः अनुवृत्ति-सहितसूत्रं— | अप्लुतात् अतः रोः उत् हशि च संहितायाम् |
एतत्सर्वं मनसि निधाय, अधुना पुनः चिन्तनीयं यत् अत्र हुझल्भ्यो हेर्धिः (६.४.१०१) पूर्वं भवति चेत्, अनन्तरं शा हौ (६.४.३५) इत्यस्य कार्यं सम्भवति वा; शा हौ (६.४.३५) पूर्वं भवति चेत्, अनन्तरं हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यस्य कार्यं सम्भवति वा— इति इदं परिस्थितिद्वयम् अस्माभिः परिशीलनीयम् |
हुझल्भ्यो हेर्धिः (६.४.१०१) इति परसूत्रं; तर्हि विप्रतिषेधे परं कार्यम् (१.४.२) इत्यनेन प्रथमं भवति चेत्—
शास् + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यनेन हि-श्ताने धि → शास् + धि → अधुना शा हौ (६.४.३५) इति सूत्रस्य प्रवर्तनार्थं 'हि' नास्ति, अतः 'स्थानिवद्भावेन' अयं धि, 'हि-इव' भवितुम् अर्हति न वा इति स्थितौ → शा हौ (६.४.३५) इति सूत्रस्य प्रवर्तनार्थम् अल्-निमित्तंं नास्ति अपि तु धातुः च प्रत्ययः च, अतः अत्र 'स्थानिवद्भावेन' अयं धि, 'हि-इव' भवति इति कृत्वा शा हौ (६.४.३५) इत्यस्य कार्यं प्रवर्तते एव | अनेन शा हौ (६.४.३५) पूर्वपरप्रसङ्गि, एतस्माच्च नित्यसूत्रं; नित्यत्वात् प्रथमं प्रवर्तनीयम् |
शा हौ (६.४.३५) तर्हि पूर्वं भवति एव—
शास् + हि → शा हौ (६.४.३५) → शा + हि → अधुना हुझल्भ्यो हेर्धिः (६.४.१०१) इति सूत्रस्य प्रवर्तनार्थं झल्-प्रत्याहारे स्थितः सकारः अपेक्षितः; स च सकारः स्थानिनि शास्-धातौ आसीत् किन्तु शा इति आदेशे नास्ति | अत्र अल्-निमित्तकः विधिः अस्ति | कीदृशः ? अलो विधिः, पञ्चमीतत्पुरुषः | एतस्मात् कारणात् शा-आदेशे शास् इति स्थानिनः सकारत्वं न आगच्छति | तदर्थं हुझल्भ्यो हेर्धिः (६.४.१०१) इति सूत्रं स्थानिवद्भावं कृत्वा न प्रवर्तनीयम् | अस्य किन्तु कार्यम् अत्र अपेक्षितमेव, तदर्थं च पाणिनिः इदं सूत्रम्, अपि च शा हौ (६.४.३५) इति सूत्रं, द्वयमपि असिद्धवदत्राभात् (६.४.२२) इति सूत्रस्य अधिकारे स्थापितवान् | अनेन च द्वयोः सूत्रयोः हि इत्यस्य समानाश्रये सति, हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यस्य दृष्ट्या शा हौ (६.४.३५) इत्यस्य कार्यमसिद्धम् | शास् एव दृश्यते | अनेन हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यस्य प्रसक्तिर्भवति, धि-आदेशश्च सिध्यति | शाधि इति रूपं जायते |
अतः अत्र महाभाष्यटीकावाक्यम् अस्ति शाधीत्यत्रापि नित्यत्वात् पूर्वं शाभावः, अल्विधित्वाच्च धित्वे नास्ति स्थानिवद्भावः |
असिद्धवदत्राभात् (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | भस्य (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम् | असिद्धवदत्राभात् (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम् (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम् | असिद्धवत् अव्यपदयम्, अत्र अव्यपदयम्, आ अव्यपदयं, भात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | 'असिद्धवत्' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्' अतः 'असिद्धवत्' इत्युक्तम् | ‘समानाश्रितं कार्यम्' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन् + त्रल् → 'अत्र' | 'अस्मिन्' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम् इति आशयः | सूत्रं स्वयं सम्पूर्णम्— असिद्धवत् अत्र आ भात् |
अन्ततो गत्वा इदमपि धेयं— केनचित् एतादृशचिन्तनमपि भवितुमर्हति यत् वस्तुतस्तु शा हौ (६.४.३५) इत्यस्य आवश्यकता नास्ति | यतो हि इदं सूत्रं नास्ति चेत्, शास् + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) → शास् + धि → धि च (८.२.२५) इत्यनेन सकारलोपो भवति धकारादौ प्रत्यये परे → शा + धि → शाधि | परन्तु त्रिपादिनः धि च (८.२.२५) सूत्रस्य असिद्धत्वं शास इदङ्हलोः (६.४.३४) इति सूत्रं प्रति | शास इदङ्हलोः (६.४.३४) इत्यनेन शासः उपधायाः इत् स्यात् अङि हलादौ क्ङिति च | शिस् + हि | यदनिष्टम् | एतस्य निवारणार्थं शा हौ (६.४.३५) इत्यस्य आवश्यकता | शा हौ (६.४.३५) इत्यनेन पूर्वं शा + हि इति भवति | तदा एव हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यनेन धित्वम्; अनेन इष्टरूपं शाधि सिध्यति |
१५ - स्थानिवद्भावः.pdf (67k) Swarup Bhai, Sep 4, 2019, 8:02 AM v.1
Swarup – August 2019