03 - क्त-प्रत्ययः भावार्थक-प्रत्ययाः च
१) क्त-प्रत्ययः भूतकालार्थे
क्त-प्रत्ययः भूतकालार्थे भवति इति अस्माकं सामान्यानुभवः |
निष्ठा (३.२.१०२) = धातुभ्यः निष्ठा-संज्ञकप्रत्ययः भूतकालार्थे विधीयते | क्त, क्तवतु |
यथा 'बालकेन गृहपाठः कृतः', 'बालकेन कविता रचिता', 'बालकेन कार्यं कृतम्' | त्रिषु लिङ्गेषु |
गै-धातोः क्त-प्रत्ययान्तं रूपम् अपि अनेन सूत्रेण भूतलाकार्थे त्रिषु लिङ्गेषु भवति | 'बालिकया गाथः गीतः', 'बालिकया कविता गीता', 'बालिकया सूक्तं गीतम्' |
२) क्त-प्रत्ययः नपुंसकलिङ्गे भावार्थे
क्त-प्रत्ययः नपुंसकलिङ्गे भावार्थे अपि भवति |
नपुंसके भावे क्तः (३.३.११४) इति सूत्रेण क्त-प्रत्ययः विधीयते भावार्थे नपुंसकलिङ्गे | अत्र कालसामान्ये, इत्युक्ते कालविशिष्टः अर्थो नास्ति |
हसे हसने → नपुंसके भावे क्तः (३.३.११४) इत्यनेन क्त-प्रत्ययः विधीयते भावार्थे नपुंसकलिङ्गे → हस् + क्त → हस् + इट् + क्त → हस् + इ + त → हसित इति प्रातिपदिकम् | ततः सु-प्रत्ययस्य लोपः, अम्-आदेशः च इत्यनेन हसितम् इति भवति | 'हसनम्' इत्यस्मिन् अर्थे |
एवमेव गै शब्दे → नपुंसके भावे क्तः (३.३.११४) इत्यनेन क्त-प्रत्ययः विधीयते भावार्थे नपुंसकलिङ्गे → गै + क्त → आदेच उपदेशेऽशिति (६.१.४५) इति सूत्रेण अशिति प्रत्यये परे एजन्तानाम् आत्त्वम् → गा + त → घुमास्थागापाजहातिसां हलि (६.४.६६) इत्यनेन गा-धातोः ईत्वं भवति हलादि-कित्-ङित्-आर्धधातुक-प्रत्यये परे → गी + त → गीत इति प्रातिपदिकम् | ततः सु-प्रत्ययस्य लोपः, अम्-आदेशः च इत्यनेन गीतम् इति भवति |
यथा 'बालकः गीतं गायति' | अत्र त्रिषु लिङ्गेषु न भवति; नित्यं नपुंसकलिङ्गे |
नपुंसके भावे क्तः (३.३.११४) = धातुभ्यः क्त-प्रत्ययः विधीयते नपुंसकत्वे भावे | नपुसंअके सप्तम्यन्तं, भावे प्रथमानं, क्तः प्रथमान्तं, त्रिपदमिदं सूत्रम् | धातोः (३.१.९१), प्रत्ययः (३.१.१), परश्च (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रं— धातोः क्तः प्रत्ययः परश्च नपुंसके भावे |
तथैवा सर्वत्र निष्ठा (३.२.१०२) इत्यनेन भूतकालार्थे; नपुंसके भावे क्तः (३.३.११४) इत्यनेन भावार्थे नपुंसकलिङ्गे—
कृत (त्रिषु लिङ्गेषु) = done
कृतम् (नपुंसके एव) = work, service
लिखित (त्रिषु लिङ्गेषु) = written
लिखिम् (नपुंसके एव) = a writing; any book or composition
दत्त (त्रिषु लिङ्गेषु) = given
दत्तम् (नपुंसके एव) = a gift
गत (त्रिषु लिङ्गेषु) = gone
गतम् (नपुंसके एव) = motion
३) भावार्थे प्रत्ययाः
पुंलिङ्गे—
घञ्-प्रत्ययः भावार्थे भवति पुंलिङ्गे | भावे (३.३.१८) इति सूत्रेण विधीयते |
भावे (३.३.१८) इत्यस्य अनुवृत्ति-सहितसूत्रं— धातोः घञ् प्रत्ययः परश्च नपुंसके भावे |
यथा पच् → भावे (३.३.१८) → पच् + घञ् → पाकः
एवमेव भू + घञ् → भावः; लिख् + घञ् → लेखः
सूत्रे लिङ्गं साक्षात् न उच्यते, किन्तु भावार्थे क्तिन्-प्रत्ययः स्त्रियां भवति, क्तः नपुंसके, अनेन घञ्-प्रत्ययस्य कृते पुंलिङ्गमेव अवशिष्यते |
स्त्रियाम्—
क्तिन्-प्रत्ययः भावार्थे भवति स्त्रीलिङ्गे | स्त्रियां क्तिन् (३.३.९४) इति सूत्रेण विधीयते |
यथा कृ → स्त्रियां क्तिन् (३.३.९४) → कृ + क्तिन् → कृतिः
एवमेव गम् + क्तिन् → गतिः; मन् + क्तिन् → मतिः; भू + क्तिन् → भूतिः
नपुंसके—
क्त-प्रत्ययः भावार्थे भवति नपुंसकलिङ्गे | नपुंसके भावे क्तः (३.३.११४) इति सूत्रेण विधीयते |
ल्युट्-प्रत्ययः अपि भवति भावार्थे नपुंसकलिङ्गे | ल्युट् च (३.३.११५) इति सूत्रेण विधीयते |
क्त = गीतम्, हसितम्, लिखितम्
ल्युट् = गानम्, हसनम्, लेखनम्
आहत्य भावार्थे, समानार्थकाः एतादृशशब्दाः भवन्ति—
धातुः घञ् क्तिन् क्त ल्युट्
भू सत्तायाम् भावः भूतिः भूतम् भवनम्
मन् ज्ञाने मानः मतिः मतम् मननम्
गै शब्दे गायः गीतिः गीतम् गानम्
Swarup – May 2017
---------------------------------
०३ - क्त-प्रत्ययः भावार्थक-प्रत्ययाः च .pdf (39k) Swarup Bhai, May 4, 2017, 7:13 PM