14A - अदादिगणे हलन्तधातवः
ध्वनिमुद्रणानि -
2019 वर्गः
१) adAdigaNe-halantadhAtavaH---paricayaH_+_वच्_+_पृच्_2019-04-30
२) adAdigaNe-halantadhAtavaH---णिजि_+_मृजू_+_ईड_2019-05-07
३) adAdigaNe-halantadhAtavaH---ईड_+_षस्ति_2019-05-14
४) adAdigaNe-halantadhAtavaH---षस्ति_+_अद_+_विद_2019-05-21
५) adAdigaNe-halantadhAtavaH---हन_+_ईर_+_वश_2019-05-28
६) adAdigaNe-halantadhAtavaH---ईश_+_द्विष_+_चक्षिङ्_2019-06-04
७) adAdigaNe-halantadhAtavaH---वस_+_आस_+_आशासु_+_कसि_+_णिसि_+_षस_+_अस_2019-06-11
८) adAdigaNe-halantadhAtavaH---अस_+_दुह_2019-06-18
९) adAdigaNe-halantadhAtavaH---अस्-हि-प्रसङ्गे-बाध्यबाधकभावः_+_दुह_2019-06-25
१०) adAdigaNe-halantadhAtavaH---tulyabalavirodhaH_+_अस्-हि_+_दिह_+_लिह्_2019-07-02
११) adAdigaNe-halantadhAtavaH---nityatvaM_+_sthAnivadbhAvaH_+_शास्-हि_+_लिह्_+_रुद_2019-07-09
१३) adAdigaNe-halantadhAtavaH---चकास्_+_शास्_+_sthAnivadbhAvaH_2019-07-23
१४) शास्-धातु-रूपाणि_2019-08-06
2016 वर्गः
१) adAdigaNe-halantadhAtavaH-1_वच्_+_पृच्_+_मृज्_2016-07-10
२) adAdigaNe-halantadhAtavaH-2_ईड्_+_षस्ति-सन्स्त्_+_अद्_2016-07-17
३) adAdigaNe-halantadhAtavaH-3_ईड् [पुनः]_+_विद्_+_हन्_2016-07-24
४) adAdigaNe-halantadhAtavaH-4_विद्_+_हन्_2016-07-31
५) adAdigaNe-halantadhAtavaH-5_ईर्_+_वश्_+_ईश्_+_द्विष्_2016-08-07
६) adAdigaNe-halantadhAtavaH-6_द्विषन्ति-पूर्वत्रासिद्धम्_+_चक्ष्_+_वस्_+_कसि_+_णिसि_2016-08-14
७) adAdigaNe-halantadhAtavaH-7_षस_+_अस्_+_दुह्_2016-08-21
८) adAdigaNe-halantadhAtavaH-8---hakArAntAnAM-samagracintanam_+_दुह्_+_लिह्_2016-08-28
९) adAdigaNe-halantadhAtavaH-9---rudAdyantargaNaH_2016-09-11
१०) adAdigaNe-halantadhAtavaH-10---rudAdyantargaNaH-jakShAdyantargaNaH-ca_2016-09-18
अदादिगणे ७२ धातवः सन्ति | तेषु ४५ धातवः अजन्ताः, २७ धातवः हलन्ताः च | ४५ अजन्तधातवः अस्माभिः परिशीलिताः पूर्वतने पाठे; अधुना २७ हलन्तधातवः अवलोकयिष्यन्ते |
यथा सर्वेषु गणेषु, अदादिगणेऽपि कर्त्रर्थके सार्वधातुकप्रत्यये परे, कर्तरि शप् इत्यनेन शप् विहितः अस्ति | तदा अदिप्रभृतिभ्यः शपः (२.४.७२) इत्यनेन शपः लुक् (लोपः) भवति | अनुवृत्ति-सहितसूत्रम्—अदिप्रभृतिभ्यः शपः लुक् | शपः लुक् भवति अतः अदादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते | शपः लुक् इत्यस्मिन् प्रसङ्गे स्मर्यतां यत् लुक् इत्युक्ते लोपः एव, नाम शप्-विकरणप्रत्ययः अपगच्छति | परञ्च लोप-लुक् इत्यनयोः कश्चन भेदः अस्ति; भेदः अयं यत् कस्यचित् प्रत्ययस्य लोपः यदा भवति, तदा लुप्तप्रत्ययः यद्यपि न दृश्यते, तथापि कार्यं करोति | परन्तु प्रत्ययस्य लुक् भवति चेत्, प्रत्ययलोपे प्रत्ययलक्षणं नास्ति इत्यस्मात् किमपि कार्यं तेन न भवति | लुकि सति, यस्मात् अङ्गात् प्रत्ययः लुप्तः जातः, तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति |
अदादिगणे विकरणप्रत्ययस्य लुक् भवति अतः धातोः साक्षात् परे तिङ्प्रत्ययाः विहिताः भवन्ति | यथा पा + ति → पाति | पूर्वम् अदादिगणस्य अजन्तधातवः अवलोकिताः; तत्र अच्-वर्णः अन्ते आसीत् अतः एकं मुख्यं कार्यं गुणकार्यं, यथा इ + ति → एति | अस्मिन् पाठे अदादिगणस्य हलन्तधातवः परिशीलयिष्यन्ते | अत्र धात्वन्ते हल्-वर्णः अस्ति अतः एकं मुख्यं कार्यं सन्धिकार्यम् |
स्मर्यते यत् हलन्तधातुरूपाणि भिन्नरीत्या सिध्यन्ति अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च यतः तत्र धातोः तिङ्-प्रत्ययस्य च साक्षात् सम्पर्कः | अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च हलन्तधातुभ्यः यदा हलादि-प्रत्ययः विहितः, तदा हल्-सन्धिः सम्भवति इति ज्ञायते | स्मरन्तु यत् प्रत्ययः अजादि-वर्णैः आरभ्यते, तदा धातुः हलन्तः चेदपि हल्-सन्धिः न भवति (केवलं वर्ण-सम्मेलनं भवति) | प्रत्ययः य्, र्, व्, म्, न् इत्येभिः हल्-वर्णैः आरभ्यते चेत् आधिक्येन हल्-सन्धिः न भवति | प्रत्ययः त्, थ्, ध्, स् इत्येभिः वर्णैः आरभ्यते, तस्यामेव दशायां हल्-सन्धिः भवति | हल्-सन्धयः कीदृशाः, अपि च कार्यं कीदृशम् इति पूर्वतनेषु हल्सन्धिपाठेषु विस्तरेण अवलोकितम् | अतः अधुना एतत् हल्-सन्धि-विज्ञानं मनसि निधाय अग्रे सरेम, सर्वान् अदादौ स्थितान् हलन्तधातून् परिशीलयाम |
वयं जानीमः यत् सार्वधातुकप्रकरणे दश धातुगणाः गणसमूहद्वये विभक्ताः अङ्गस्य अन्तिमवर्णस्य अनुसारम् | येषु धातुगणेषु अङ्गम् अदन्तं भवति, ते धातुगणाः प्रथमगणसमूहे वर्तन्ते | येषु धातुगणेषु अङ्गम् अनदन्तं भवति, ते धातुगणाः द्वितीयगणसमूहे वर्तन्ते इति | सामान्यतया धातुगणेषु विकरणप्रत्ययाः सन्ति; तत्र विकरणप्रत्ययस्य अन्तिमवर्णः एव अङ्गस्य अन्तिमवर्णः | यथा भ्वादौ शप् इति विकरणप्रत्ययः; भू-धातोः भव इत्यङ्गम्; अङ्गस्य अन्तिमवर्णः ह्रस्व-अकारः (शपः एव अन्तिमवर्णः) | अतः अङ्गम् अदन्तम् इति | स्वादौ श्नु इति विकरणप्रत्ययः; चि-धातोः चिनु इत्यङ्गम्; अङ्गस्य अन्तिमवर्णः उकारः (श्नोः एव अन्तिमवर्णः) | अतः अङ्गम् अनदन्तम् इति | अदादौ विकरणप्रत्ययस्तु नास्त्येव; अदादौ धातुः एव अङ्गम् अतः धातोः यः अन्तिमवर्णः, स एव अङ्गस्यापि | अदादौ अस्-धातुः सकारान्तम् (अतः अङ्गमपि सकारान्तं), पा-धातुः आकारान्तम् (अतः अङ्गमपि आकारान्तं), यु-धातुः उ-कारान्तम् (अतः अङ्गमपि उकारान्तम्) | अदादौ यथा धातुः तथा अङ्गम् | अपि च अदादौ अकारान्तधातवः न सन्त्येव, अतः सर्वाणि अङ्गानि अनदन्तानि | अत एव अदादिगणः द्वितीयगणसमूहे वर्तते | अदादिगणः द्वितीयगणसमूहे अस्ति, अतः तिङ्-प्रत्ययाः तत्रत्याः एव | अस्मिन् पाठे पुनः द्वितीयगणसमूहस्य तिङ्-प्रत्ययाः दत्ताः |
पूर्वमेव अस्माभिः ज्ञातं यत् सार्वधातुकलकारेषु क्रियापदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति—
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्
२. तिङ्प्रत्यय-सिद्धिः
३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्
कुत्रापि किमपि कार्यं नास्ति यतः शप्-विकरणप्रत्ययस्य लुक् भवति अतः शप् न दृश्यते न वा अङ्गकार्यस्य निमित्तं भवति |
२. तिङ्प्रत्यय-सिद्धिः
अदादिगणे अङ्गम् अनदन्तम्, अतः अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः भवन्ति |
परस्मैपदम् | आत्मनेपदम् | |||||
---|---|---|---|---|---|---|
लट्-लकारः | ||||||
ति | तः | अन्ति | ते | आते | अते | |
सि | थः | थ | से | आथे | ध्वे | |
म | वः | मः | ए | वहे | महे | |
लोट्-लकारः | ||||||
तु, तात् | ताम् | अन्तु | ताम् | आताम् | अताम् | |
हि, तात् | तम् | त | स्व | आथाम् | ध्वम् | |
आनि | आव | आम | ऐ | आवहै | आमहै | |
लङ्-लकारः | ||||||
त् | ताम् | अन् | त | आताम् | अत | |
स् | तम् | त | थाः | आथाम् | ध्वम् | |
अम् | व | म | इ | वहि | महि | |
विधिलिङ्-लकारः | ||||||
यात् | याताम् | युः | ईत | ईयाताम् | ईरन् | |
याः | यातम् | यात | ईथाः | ईयाथाम् | ईध्वम् | |
याम् | याव | याम | ईय | ईवहि | ईमहि | |
३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्
अस्मिन सोपाने सर्वप्रथमं तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यंम् | तदा एव सन्धिकार्यम् |
a) अङ्गकार्यम्
अङ्गकार्ये किं किं सम्भवति इति एकवारं चिन्तनीयम् | अस्मिन् पाठे सर्वे धातवः हलन्ताः, अतः सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः नास्त्येव | स्मर्यतां, सूत्रार्थः एवम्—इगन्त-धातोः अनन्तरं सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः अस्ति चेत्, इगन्तस्य अङ्गस्य गुणः भवति | यथा भू + शप् → भो + अ | तादृशकार्यम् अस्मिन् पाठे न कुत्रापि भविष्यति यतोहि धातुः हलन्तः; इगन्तधातुः अत्र नैव भवति | परन्तु अस्मिन् पाठे कुत्रचित् उपधायां लघु इक् वर्तते, अतः तादृशेषु स्थलेषु पुगन्तलघूपधस्य च इत्यनेन उपधायां गुणकार्यम् | यथा विद्-धातुः + ति → वेद् + ति | अन्यच्च कुत्रचित् विशिष्टसूत्रेण उपधायाः वृद्धिरादेशो भवति | यथा मृज् + ति → मार्ज् + ति |
b) सन्धिकार्यम्
यदा तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं समाप्तं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनं क्रियते | यदा मेलनं भवति, तदा कस्यचित् सन्धिकार्यस्य प्राप्तिरस्ति चेत्, अस्मिन् समये क्रियताम् | अधुनैव पूर्वतनेषु हल्-सन्धि-पाठेषु यत् हल्-सन्धिकार्यम् अधीतं, तत् साधनीयम् | कानिचन प्रसिद्धसूत्राणि मनसि स्युः—
परस्मैपदस्य लोटि—
हुझल्भ्यो हेर्धिः (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | येनविधिस्तदन्तस्य (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम् अन्ते झल् | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हुझल्भ्यः अङ्गेभ्यः हेः धिः |
परस्मैपदस्य लङि—
अपृक्त एकाल् प्रत्ययः (१.२.४१) = यस्य प्रत्यस्य एकैव अल्, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल् एकाल्, कर्मधारयः | अपृक्तः प्रथमान्तम्, एकाल् प्रथमान्तं, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— एकाल् प्रत्ययः अपृक्तः |
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) = हलन्तात्, दीर्घङ्यन्तात्, दीर्घाबन्तात् च सु-ति-सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्-लोपः, लङि प्रथमपुरुषे त्-लोपः, मध्यमपुरुषे स्-लोपश्च | हल् च ङी च आप् च तेषाम् इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम् | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात् पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | लोपो व्योर्वलि (६.१.६५) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्— दीर्घात् हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल् लुप्यते |
सर्वेषु लकारेषु इमानि अधःस्थानि सूत्राणि प्रवर्तन्ते | धेयं यत् इमानि सर्वाणि त्रिपाद्यं सन्ति, अतः पूर्वत्रासिद्धम् इत्यनेन पूर्वसूत्रं चेत् पूर्वकार्यम्, अपि च परसूत्रं चेत् परकार्यम् | नाम यत् सूत्रं सङ्ख्या-क्रमेण प्रथमं आयाति, तस्य कार्यं पूर्वं भवति | अतः सूत्र-क्रमेण सर्वाणि दर्शितानि अत्र—
- संयोगान्तस्य लोपः (८.२.२३) = यस्य पदस्य अन्ते संयोगोऽस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य | संयोगः अन्ते अस्ति यस्य तत् संयोगान्तं, बहुव्रीहिः, तस्य संयोगान्तस्य | संयोगान्तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगान्तस्य पदस्य लोपः |
धि च (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | रात्सस्य (८.२.२४) इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धि च सस्य लोपः |
- स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |
- चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति पदान्ते झलि च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चोः कुः झलि पदस्य अन्ते च |
- व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श् च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |
- झलां जशोऽन्ते (८.२.३९) = पदान्ते झलः स्थाने जशादेशो भवति | पदात् परे कोऽपि वर्णः स्यात् वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात् परे अच् स्यात् हल् स्यात् वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम् अस्ति चेत् अन्या वार्ता | झल् प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्, ष्, स्, ह् | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश् प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्, ब्, ग्, ड्, द् इति | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः || तर्हि पदस्य अन्ते झल्-प्रत्याहारे कश्चन वर्णः अस्ति चेत्, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | अनुवृत्ति-सहितसूत्रम्— पदस्य अन्ते झलां जशः |
षढोः कः सि (८.२.४१) = सकारे परे षकारस्य ढकारस्य च ककारादेशो भवति | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— षढोः कः सि |
- नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |
- आदेशप्रत्यययोः (८.३.५९) = इण्-प्रत्याहारात् कवर्गीयात् च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्, तस्य सकारस्य स्थाने षकारादेशो भवति | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेऽन्तरतमः इत्यनेन ट्, ठ्, ड्, ढ्, ण्, ष् इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्, अतः षकारः एव आदिष्टः भवति | नुम्, विसर्गः, शर्-प्रत्याहारस्थ-वर्णः एषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति | इण्-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | अस्य कार्यस्य नाम षत्वविधिः | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम् एकपदमिदं सूत्रम् | सहे साडः सः (८.३.५६) इत्यस्मात् सः इत्यस्य अनुवृत्तिः | नुंविसर्जनीयशर्व्यवायेऽपि (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | इण्कोः (८.३.५७), अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्—इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि |
- रषाभ्यां नो णः समानपदे (८.४.१) = रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः |
- अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) = अट्, कवर्गः, पवर्गः, आङ्, नुम् इत्येतैः यथासम्भवं मिलितैः व्यवधानेऽपि नस्य णः स्यात् समानपे | रषाभ्यां नो णः समानपदे (८.४.१) इति सूत्रस्य पूर्णतया अनुवृत्तिः |
- ष्टुना ष्टुः (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन |
- झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— झलां जश् झशि संहितायाम् |
- खरि च (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | झलां जश् झशि इत्यस्मात् झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च इत्यस्मात् चर्च इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्— झलां चर् खरि च संहितायाम् |
- अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनुस्वारस्य ययि परसवर्णः संहितायाम् |
- वाऽवसाने (८.४.५६) = अवसाने झलः विकल्पेन चर्-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम् | झलां जश् झशि (८.४.५३) इत्यस्मात् झलां इत्यस्य अनुवृत्तिः | अभ्यासे चर्च (८.४.५४) इत्यस्मात् चर् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अवसाने झलां चरो वा |
- झरो झरि सवर्णे (८.४.६५) = हल्-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | हलो यमां यमि लोपः (८.४.६४) इत्यस्मात् हलः, लोपः चेत्यनयोः अनुवृत्तिः | झयो होऽन्यतरस्याम् (८.४.६२) इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम् |
एषां प्रसक्तिर्यत्र यत्र भवति, तत्र तत्र अस्माभिः तत्तत् सन्धिकार्यं करणीयमेव | अनेन हलन्तधातवः द्रष्टव्याः | धेयं यत् पूर्वतनेषु हल्-सन्धि-पाठेषु, हल्-सन्धयः परिशीलिताः केन क्रमेण ? प्रत्ययस्य प्रथमवर्णम् अनुसृत्य | अधुना अस्माकं कार्यं प्रवर्तते धातोः अन्तिमवर्णम् अनुसृत्य | कार्यं तदेव, परन्तु धातुक्रमेण अग्रे सरेम—
चकारान्तः वच्-धातुः (परस्मैपदी, परिभाषणे)
a) अङ्गकार्यम्— उपधायां ह्रस्व-अकारः (लघु इक् इति न) अतः अङ्गकार्यं नास्ति |
b) सन्धिकार्यम्—
- चोः कुः (८.२.३०) इति कुत्वे वच् + ति → वक्ति
- प्रत्ययः अजादिः, अथवा प्रत्ययः य्, र्र्, व्, म्, न् इत्येभिः हल्-वर्णैः आरभ्यते, तदा धातुः हलन्तः चेदपि हल्-सन्धिः न भवति (केवलं वर्ण-सम्मेलनं भवति)
- 'आदेशप्रत्यययोः' (८.३.५९) इत्यनेन कवर्गीयात् परे प्रत्ययावयव-सकारस्य स्थाने षकारादेशो भवति | वच् + सि → चोः कुः → वक् + सि → वक्षि
- हुझल्भ्यो हेर्धिः इत्यनेन झलन्तेभ्यः धातुभ्यः हि-प्रत्ययस्य स्थाने धि-आदेशो भवति
नहि वचिरन्तिपरः प्रयुज्यते इति वार्तिकम् = वच् + अन्ति— लोके लट्-लकारे प्रथमपुरुषबहुवचने वच्-धातोः रूपं न प्रयुज्यते |
झिपरे इत्येके = केषाञ्चित् मते कस्मिंश्चिदपि लकारे प्रथमपुरुषबहुवचने वच्-धातोः रूपं न प्रयुज्यते |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
चकारान्तः पृची → पृच् धातुः (आत्मनेपदी, सम्पर्चने)
a) अङ्गकार्यम्—
१) हलादि पित्सु = आत्मनेपदिधातुषु नास्ति एव |
२) अजादि पित्सु = उपधायां लघु-इकः गुणः | पृच् + ऐ → पुगन्तलघूपधस्य च → पर्च् + ऐ → वर्णमेलने → पर्चै
३) हलाद्यपित्सु = क्ङिति च, गुणनिषेधः | पृच् + ते → सन्धिकार्यमेव → पृक्ते
४) अजाद्यपित्सु = क्ङिति च, गुणनिषेधः | पृच् + आते → वर्णमेलनमेव → पृचाते
b) सन्धिकार्यम्—
- चोः कुः (८.२.३०) इति कुत्वे पृच् + ते → पृक्ते
- प्रत्ययः अजादिः, अथवा प्रत्ययः य्, र्र्र्, व्, म्, न् इत्येभिः हल्-वर्णैः आरभ्यते, तदा धातुः हलन्तः चेदपि हल्-सन्धिः न भवति (केवलं वर्ण-सम्मेलनं भवति)
- आदेशप्रत्यययोः (८.३.५९) इत्यनेन कवर्गीयात् परे प्रत्ययावयव-सकारस्य स्थाने षकारादेशो भवति | पृच् + से → चोः कुः → पृक् + से → पृक् + षे → पृक्षे
- धकारादिप्रत्यये परे जश्त्वम् | पृच् + ध्वे → चोः कुः → पृक् + ध्वे → झलां जश् झशि → पृग् + ध्वे → पृग्ध्वे
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
जकारान्तः णिजि → निन्ज् धातुः (आत्मनेपदी, शुद्धौ)
a) निरनुबन्धधातोः सिद्धिः—
नुमागमः | इदितो नुम् धातोः (७.१.५८) = इदितः धातोः नुम् आगमो भवति | इदित् इत्युक्ते इत् इत् यस्य सः | तत्र प्रथमः इत् नाम ह्रस्वः इकारः* | द्वितीयः इत् नाम इत्-संज्ञा | ह्रस्व-इकारस्य इत्-संज्ञा यस्य, सः धातुः इदित् | इत् इत् यस्य स इदित् बहुव्रीहिः, तस्य इदितः | इदितः षष्ठ्यन्तं, नुम् प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— इदितः धातोः नुम् |
*तपरस्तत्कालस्य (१.१.७०) = तकारात् परः यः, तकारः परः यस्मात्, द्वयोः अपि समकालस्य बोधकः | तात्परः तपरः पञ्चमीतत्पुरुषः, तः परो यस्मात् सः तपरः, बहुव्रीहिः— द्वावपि अर्थौ | तस्य कालः तत्कालः (तस्य काल इव कालः यस्य स तत्कालः) षष्ठीतत्पुरुषगर्भः बहुव्रीहिः | तस्य तत्कालस्य | तपरः प्रथमान्तम्, तत्कालस्य षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | स्वं रूपं शब्दस्याशब्दसंज्ञा (१.१.६८) इत्यस्मात् स्वं रूपम् इत्यनयोः अनुवृत्तिः | अणुदित्सवर्णस्य चाप्रत्ययः (१.१.६९) इत्यस्मात् सवर्णस्य इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— तपरः तत्कालस्य स्वस्य रूपस्य सवर्णस्य |
मिदचोऽन्त्यात्परः (१.१.४७) = यः आगमः मित् अस्ति, सः अच्-वर्णेषु अन्त्यात् परः आयाति, अपि च अयं मित् यस्य वर्ण-समुदायस्य आगमः, तस्य अन्तिमावयवो भवति | म् इत् यस्य सः मित्, बहुव्रीहिः | मित् प्रथमान्तम्, अचः षष्ठ्यन्तम्, अन्त्यात् पञ्चम्यन्तम्, परः प्रथमान्तम्, अनेकपदमिदं सूत्रम् | आद्यन्तौ टकितौ (१.१.४६) इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः | अस्मिन् सूत्रे 'अचः' षष्ठीविभक्तौ; "अन्त्यात् अचः" इत्यस्य अर्थः निर्धारणम्— नाम "सर्वेषु स्वरेषु अन्तिमः" | 'अचः' एकवचने चेदपि सार्वत्रिक-बहुवचनार्थकः | अत्र षष्ठीविभक्तेः अर्थः स्थाने इति न, अतः षष्ठी स्थानेयोगा (१.१.४९) इत्यस्य अपवादः | अनुवृत्ति-सहितसूत्रम्— मित् अन्त्यात् अचः परः अन्तः |
नत्वम् | णो नः (६.१.६४) = उपदेशावस्थायां धातोः आदौ णकारः अस्ति चेत्, णकारस्य स्थाने नकारादेशः भवति | णः षष्ठ्यन्तं, नः प्रथमान्तं, द्विपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः, धात्वादेः षः सः (६.१.६४) इत्यस्मात् धात्वादेः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धात्वादेः णः नः उपदेशे |
णिजि → उपदेशेऽजनुनासिक इत्, तस्य लोपः → णिज् → इदितो नुम् धातोः, मिदचोऽन्त्यात्परः → णिन्ज् → णो नः → निन्ज् इति धातुः |
b) अङ्गकार्यम्— उपधायां नकारः (लघु इक् इति न) अतः अङ्गकार्यं नास्ति |
c) सन्धिकार्यम्—
निन्ज् + ते → चोः कुः → निन्ग् + ते → नश्चापदान्तस्य झलि (८.३.२४) → निंग् + ते → खरि च → निंक् + ते → अनुस्वारस्य ययि परसवर्णः → निङ्क् + ते → वर्णमेलने → निङ्क्ते
निन्ज् + आते → नश्चापदान्तस्य झलि (८.३.२४) → निंज् + आते → अनुस्वारस्य ययि परसवर्णः → निञ्ज् + आते → वर्णमेलने → निञ्जाते
निन्ज् + ध्वे → चोः कुः → निन्ग् + ध्वे → नश्चापदान्तस्य झलि (८.३.२४) → निंग् + ध्वे → अनुस्वारस्य ययि परसवर्णः → निङ्ग् + ध्वे → वर्णमेलने → निङ्ग्ध्वे
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
एवेमेव शिजि → शिन्ज्, पिजि → पिन्ज्, वृजी → वृज् इत्यादयो जकारान्ताः
जकारान्तः मृजू → मृज् धातुः (परस्मैपदी, शुद्धौ)
a) अङ्गकार्यम्—
मृजेर्वृद्धिः (७.२.११४) = मृज्-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | अङ्गकार्यत्वात् प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकम् अथवा आर्धधातुकम् भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम् | इकोगुण्वृद्धी (१.१.३) इत्यस्मात् परिभाषासूत्रात् इकः इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मृजेः अङ्गस्य इकः वृद्धिः |
१) हलादि पित्सु = मृजेर्वृद्धिः इत्यनेन इकः वृद्धिः | मृज् + ति → मार्ज् + ति
२) अजादि पित्सु = मृजेर्वृद्धिः इत्यनेन इकः वृद्धिः | मृज् + आनि → मार्ज् + आनि → मार्जानि
३) हलाद्यपित्सु = क्ङिति च, वृद्धिनिषेधः | मृज् + तः → मृज् + तः
४) अजाद्यपित्सु = ङित्यजादौ वेष्यते इत्यनेन वार्तिकेन अजादौ किति ङिति परे विकल्पेन वृद्धिः | मृज् + अन्ति → मार्ज् + अन्ति → मार्जन्ति; मृज् + अन्ति → मृजन्ति
b) सन्धिकार्यम्—
मृज् + ति → मार्ज् + ति → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन जकारस्य षकारः → मार्ष् + ति → ष्टुना ष्टुः → मार्ष् + टि → मार्ष्टि
मृज् + तः → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन जकारस्य षकारः → मृष् + तः → ष्टुना ष्टुः → मृष् + टः → मृष्टः
मृज् + सि → मृजेर्वृद्धिः (७.२.११४) → मार्ज् + सि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → मार्ष् + सि → षढोः कः सि → मार्क् + सि → आदेशप्रत्यययोः → मार्क्षि
लोटि मृज् + हि → हुझल्भ्यो हेर्धिः इत्येनेन हि स्थाने धि-आदेशः → मृज् + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन जकारस्य षकारः → मृष् + धि → ष्टुना ष्टुः → मृष् + ढि → झलां जश् झशि इत्यनेन जश्त्वादेशः → मृड् + ढि → मृड्ढि
लङि अमृज् + त् → मृजेर्वृद्धिः (७.२.११४) → अमार्ज् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् इत्यनेन हल्-परतः अपृक्तसंज्ञक-प्रत्ययस्य लोपः → अमार्ज् → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन पदान्तेऽपि षकारादेशः → अमार्ष् → झलां जशोऽन्ते इत्यनेन पदान्ते जश्त्वादेशः → अमार्ड् इति रूपम् | विकल्पेन चर्त्वादेशः वाऽवसाने इति सूत्रेण → अमार्ट्
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
डकारान्तः ईड → ईड् धातुः (आत्मनेपदी, स्तुतौ)
a) अङ्गकार्यम्—उपधायां दीर्घ-इक् अतः गुणस्य सम्भावना नैव उदेति |
b) इडागमः—
ईडजनोर्ध्वे च (७.२.७८) = ईड्, जन् इत्याभ्यां धातुभ्यां परस्य सार्वधातुकसंज्ञकस्य 'से' च 'ध्वे'-शब्दस्य च इडागमो भवति | इडश्च जन् च इडजनौ, तयोः इडजनोः | इडजनोः पञ्चम्यर्थे षष्ठी | ध्वे लुप्तषष्ठीकं पदं, च अव्ययम् | इडत्त्यर्त्तिव्ययतीनाम् (७.२.६६) इत्यस्मात् इट् इत्यस्य अनुवृत्तिः | रुदादिभ्यः सार्वधातुके (७.२.७६) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | 'च' इति अव्ययेन पूर्वतनस्य ईशः से (७.२.७७) इत्यस्य पूर्णतया अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ईशः ईडजनोः अङ्गात् सार्वधातुकस्य से ध्वे च इट् |
धेयं यत् आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन इडागमः आर्धधातुकप्रत्रयस्य एव भवति इति सामान्यनियमः | आर्धधातुकस्येड्वलादेः (७.२.३५) = आर्धधातुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | सार्वधातुकप्रत्ययस्य प्रसङ्गे त्रयाणाम् एव धातूनाम् इडागमः भवति— ईशः से (७.२.७७), ईडजनोर्ध्वे च (७.२.७८) इत्याभ्यं सूत्राभ्यां सार्वधातुकप्रत्ययस्य इडागमः ईश्, ईड्, जन् इति एभ्यः त्रिभ्यः धातुभ्यः | कुत्र इति चेत्, लट्-लकारस्य से, ध्वे; लोट्-लकारस्य स्व, ध्वम् च |
यथा—
लटि ईड् + से → ईड् + इट् + से → अनुबन्धलोपे → ईड् + इ + से → आदेशप्रत्यययोः इत्यनेन इण्-प्रत्याहारात् सकारस्य षत्वम् → ईडिषे |
लटि ईड् + ध्वे → ईड् + इट् + ध्वे → ईडिध्वे |
लोटि ईड् + स्व → ईड् + इ + स्व → आदेशप्रत्यययोः इत्यनेन इण्-प्रत्याहारात् सकारस्य षत्वम् → ईडिष्व |
लोटि ईड् + ध्वम् → ईड् + इट् + ध्वम् → ईडिध्वम्
लङि ईड् + ध्वम् → इडागमः न भवति → हल्-सन्धिकार्यत्वात् ष्टुत्वम् → ईड्ढ्वम्
अत्र केचन प्रश्नाः उद्यन्ति—
- यदि अनेन सूत्रेण 'से' इत्यस्य इडागमः भवति, तर्हि लोटि 'स्व' इत्यस्य इडागमः किमर्थम् ?
- यदि अनेन सूत्रेण 'ध्वे' इत्यस्य इडागमः भवति, तर्हि लोटि 'ध्वम्' इत्यस्य इडागमः किमर्थम् ?
- यदि लोटि कथञ्चित् 'ध्वम्' इत्यस्य इडागमः भवति, तर्हि लङि 'ध्वम्' इत्यस्य इडागमः किमर्थं न भवति ?
एतेषां परिहारार्थं, सम्बद्ध-सिद्धतिङ्प्रत्ययाः कथं निष्पन्नाः इति स्मरणीयाः—
आत्मनेपदिधातूनां मूल-तिङ्प्रत्ययाः
त | आताम् | झ |
थास् | आथाम् | ध्वम् |
इड् | वहि | महिङ् |
१) थास् → लटि 'से' → लोटि 'स्व'
थास् → थासः से (३.४.८०) इत्यनेन टित्-लकारस्य थास्-स्थाने से-आदेशः → लटि 'से' → लोट्-लकारे सवाभ्यां वामौ (३.४.९१) इत्यनेन सकारात् परस्य एकारस्य 'व'-आदेशः → लोटि स्व
थासः से (३.४.८०) = टित्-लकारस्य थास्-स्थाने से-आदेशो भवति | थासः षष्ठ्यन्तं, से लुप्तप्रथमान्तं, द्विपदमिदं सूत्रम् | टित आत्मनेपदानां टेरे (३.४.७९) इत्यस्मात् टितः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— टितः लस्य थासः से |
सवाभ्यां वामौ (३.४.९१) = लोट्-लकारस्य सकारात् वकारात् च, एकारस्य स्थाने क्रमेण व, अम् इत्यनयोः आदेशो भवति | आमेतः (३.४.९०) इत्यस्य अपवादः | सश्च वश्च तयोरितरेतरद्वन्द्वः सवौ, ताभ्यां सवाभ्याम् | वश्च अम् च तयोरितरेतरद्वन्द्वः वामौ | सवाभ्यां पञ्चम्यन्तं, वामौ प्रथमान्तं, द्विपदमिदं सूत्रम् | लोटो लङ्वत् (३.४.८५) इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः | आमेतः (३.४.९०) इत्यस्मात् एतः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— लोटः लस्य सवाभ्यां एतः वामौ |
२) ध्वम् → लटि 'ध्वे' → लोटि 'ध्वम्'
ध्वम् → टित आत्मनेपदानां टेरे (३.४.७९) इत्यनेन टित्-लकाराणाम् आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशः → लटि ध्वे → सवाभ्यां वामौ (३.४.९१) इत्यनेन लोट्-लकारस्य एकारस्य स्थाने अम्-आदेशः → ध्वम्
टित आत्मनेपदानां टेरे (३.४.७९) = टित्-लकाराणाम् आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशो भवति | ठितः षष्ठ्यन्तम्, आत्मनेपदानां षष्ठ्यन्तं, टेः षष्ठ्यन्तम्, ए लुप्तप्रथमान्तम्, अनेकपदमिदं सूत्रम् | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— टितः लस्य आत्मनेपदानां टेः ए |
३) लङि ध्वम्
ध्वम् → लङ् ङित् न तु टित् अतः टित आत्मनेपदानां टेरे (३.४.७९) इत्यनेन टि-भागस्य एत्वं न भवति → मूल-ध्वम् एव तिष्ठति |
प्रत्ययानां मूलरूपं 'प्रकृतिः', परिवर्तितरूपं च 'विकृतिः' | अपि च यत्र व्युत्पत्तिमार्गे अनेकानि सोपानानि सन्ति, मध्येऽपि मूलं प्रति साधनं विकृतिः, फलं प्रति च साधनं प्रकृतिः |
प्रकृतेः ग्रहणेन विकृतेः अपि ग्रहणम् | यत्र प्रकृतौ कार्यं विधीयते, एकदेशविकृतस्यानन्यत्वात् इत्यनया परिभाषया विकृतौ अपि कार्यं विधीयते | एकस्मिन् देशे विकारः भवति चेत्, मूलं तदानीमपि तस्य बीजे अस्ति | छिन्नपुच्छश्वा श्वा एव | कुक्कुरस्य पुच्छः नास्ति चेदपि सः कुक्कुरः | किन्तु विकृतेः ग्रहणेन प्रकृतेः अग्रहणम् | यत्र विकृतौ कार्यं विधीयते, विकृतिग्रहणेन प्रकृतेरग्रहणात् इति परिभाषया प्रकृतौ तत् कार्यं न भवति |
यथा कोपि यदि वदति, 'पुरुषम् आनय', तर्हि अन्धपुरुषस्य आनयनेनापि कार्यं सिद्धम्— अन्धो वा अनन्धो वा, पुरुष एव | किन्तु कोपि यदि वदति, 'अन्धम् आनय', तर्हि अन्धः एव आनेतव्यः; सामान्यपुरुषस्य आनयनेन कार्यं न सिध्यति | पुरुषः प्रकृतिः, अन्धः विकृतिः | प्रकृतेः ग्रहणेन विकृतेः अपि ग्रहणं, किन्तु विकृतेः ग्रहणेन प्रकृतेः अग्रहणम् |
अतः यत्र 'से' इत्यस्मिन् कार्यं भवति, तत्र 'स्व' इत्यस्मिन् अपि तदेव कार्यं भविष्यति यतोहि प्रकृतौ कार्यमस्ति चेत् विकृतौ अपि भवति | किन्तु कुत्रचित् 'स्व' इत्यस्मिन् केनचित् सूत्रेण कार्यं विधीयते, तत् कार्यं प्रकृतौ 'से' इत्यस्मिन् न भवति |
एवमेव लोटः 'ध्वम्' प्रति 'ध्वे' प्रकृतिः, अतः 'ध्वे' इत्यस्मिन् कार्यं भवति चेत्, लोटः 'ध्वम्' प्रति अपि तत् कार्यं भवति | किन्तु लङः ध्वम् तु मूल-ध्वम् | लङः ध्वम् प्रति 'ध्वे' विकृतिः न तु प्रकृतिः अतः 'ध्वे' इत्यस्य यत् कार्यं भवति, लङः 'ध्वम्' तत् कार्यं न गृह्णाति |
c) सन्धिकार्यम्—
- खरि च इत्यनेन प्रथमादेशो भवति खरि परे | ईड् + ते → ईट् + ते
- ष्टुना ष्टुः इत्यनेन प्रत्ययादौ त्-स्थाने ट्, अपि च थ्-स्थाने ठ् | ईट् + ते → ईट् + टे
यथा ईड् + ते → खरि च इत्यनेन चर्त्वम् → ईट् + ते → ष्टुना ष्टुः इत्यनेन ष्टुत्वम् → ईट्टे
लङि ईड्-धातुः अजादित्वात् आडजादीनाम् इत्यनेन आडागमः, आटश्च इत्यनेन वृद्धिरादेशः च | आ + ईड् → ऐड् इति अङ्गम् |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
अन्यच्च ईडजनोर्ध्वे च (७.२.७८), ईशः से (७.२.७७) इत्याभ्याम् एकमेव सूत्रं भवितुम् अर्हति स्म — ईशीडजनां सेध्वयोः | तथा किमर्थं न कृतं पाणिनिना? अस्य उत्तरे केवलमुच्यते, विचित्रा हि सूत्रस्य कृतिः पाणिनेः | अत्र से इत्यस्य अनुवृत्तिः, ध्वे इत्यस्य अपकषः (उपरि आनयनम्) | किमर्थं तथा कृतम्? आनन्दार्थम् इति वैयाकरणैः उच्यते |
तकारान्तः षस्ति → सन्स्त् धातुः (परस्मैपदी, स्वप्ने)
a) निरनुबन्धधातोः सिद्धिः—
सत्वम् | धात्वादेः षः सः (६.१.६४) = उपदेशावस्थायां धातोः आदौ षकारः अस्ति चेत्, षकारस्य स्थाने सकारादेशो भवति | धातोः आदिः, धात्वादिः षष्ठीतत्पुरुषः; तस्य धात्वादेः | धात्वादेः षष्ठ्यन्तं, षः षष्ठ्यन्तं, सः प्रथमान्तं, त्रिपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धात्वादेः षः सः उपदेशे |
नुमागमः | इदितो नुम् धातोः (७.१.५८) = इदितः धातोः नुम् आगमो भवति | इदित् इत्युक्ते इत् इत् यस्य सः | तत्र प्रथमः इत् नाम ह्रस्वः इकारः | द्वितीयः इत् नाम इत्-संज्ञा | ह्रस्व-इकारस्य इत्-संज्ञा यस्य, सः धातुः इदित् | इत् इत् यस्य स इदित् बहुव्रीहिः, तस्य इदितः | इदितः षष्ठ्यन्तं, नुम् प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— इदितः धातोः नुम् |
मिदचोऽन्त्यात्परः (१.१.४७) = यः आगमः मित् अस्ति, सः अच्-वर्णेषु अन्त्यात् परः आयाति, अपि च अयं मित् यस्य वर्ण-समुदायस्य आगमः, तस्य अन्तिमावयवो भवति | म् इत् यस्य सः मित्, बहुव्रीहिः | मित् प्रथमान्तम्, अचः षष्ठ्यन्तम्, अन्त्यात् पञ्चम्यन्तम्, परः प्रथमान्तम्, अनेकपदमिदं सूत्रम् | आद्यन्तौ टकितौ (१.१.४६) इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः | अस्मिन् सूत्रे 'अचः' षष्ठीविभक्तौ; "अन्त्यात् अचः" इत्यस्य अर्थः निर्धारणम्— नाम "सर्वेषु स्वरेषु अन्तिमः" | 'अचः' एकवचने चेदपि सार्वत्रिक-बहुवचनार्थकः | अत्र षष्ठीविभक्तेः अर्थः स्थाने इति न, अतः षष्ठी स्थानेयोगा (१.१.४९) इत्यस्य अपवादः | अनुवृत्ति-सहितसूत्रम्— मित् अन्त्यात् अचः परः अन्तः |
षस्ति → उपदेशेऽजनुनासिक इत् → षस्त् → धात्वादेः षः सः → सस्त् → इदितो नुम् धातोः, मिदचोऽन्त्यात्परः → सन्स्त् इति धातुः
b) अङ्गकार्यम्— उपधायां सकारः (लघु इक् इति न) अतः अङ्गकार्यं नास्ति |
c) सन्धिकार्यम्—
सन्स्त् + ति → स्कोः संयोगाद्योरन्ते च (८.२.२९) → सन्त् + ति → नश्चापदान्तस्य झलि (८.३.२४) → संत् + ति → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → सन्त् + ति → झरो झरि सवर्णे (८.४.६५) → सन्ति / सन्त्ति
सन्स्त् + अन्ति → नश्चापदान्तस्य झलि (८.३.२४) → संस्त् + अन्ति → संस्तन्ति
सन्स्त् + मि → नश्चापदान्तस्य झलि (८.३.२४) → संस्त् + मि → संस्त्मि [अत्र धेयम्—किमर्थं इमानि सूत्राणि न प्रवर्तनीयानि स्कोः संयोगाद्योरन्ते च, अनुस्वारस्य ययि परसवर्णः, झरो झरि सवर्णे]
लङि हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६८) इत्यनेन हल्-उत्तरस्य अपृक्तसंज्ञक-प्रत्ययस्य लोपः | अनेन लङि त्-लोपः, स्-लोपश्च |
असन्स्त् + त् → असन्स्त् → स्कोः संयोगाद्योरन्ते च (८.२.२९) → असन्त् → संयोगान्तस्य लोपः (८.२.२३) → असन्
अत्र कश्चन प्रश्नः उदेति, 'असन्स्त्' इति स्थित्यां पदान्ते संयोगान्तस्य लोपः (८.२.२३), स्कोः संयोगाद्योरन्ते च (८.२.२९), इति द्वयोः अपि प्रसक्तिः | सूत्रद्वयं त्रिपाद्याम्, अतः किमर्थं न पूर्वत्रासिद्धम् (८.२.१) इत्यनेन परशास्त्रम् असिद्धम्, असिद्धत्वात् संयोगान्तस्य लोपः (८.२.२३) अत्र भवेत् ? उत्तरम् अस्ति यत् पदान्ते, स्कोः संयोगाद्योरन्ते च (८.२.२९) इति सूत्रं, संयोगान्तस्य लोपः (८.२.२३) इत्यस्य अपवादः; यत्र पदान्तसंयोगे प्रथमसदस्यः सकारः ककारः च, तत्रापि संयोगान्तस्य लोपः (८.२.२३) भवति चेत्, पदान्ते स्कोः संयोगाद्योरन्ते च (८.२.२९) निरवकाशं भवति | अतः अपवादत्वात् पदान्ते अवसरे सति स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्येव प्रवर्तनीयं भवति | पूर्वत्रासिद्धम् (८.२.१) इत्यस्यापि अपवादः |
अन्यः प्रश्नः उदेति किमर्थं न पूर्वमेव नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन अनुस्वारः, आरम्भे एव असंस्त्, तदा स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन असंत्, तदा अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन नकारः, असन्त्, तदा पूर्वत्रासिद्धम् (८.२.१) इत्यनेन संयोगान्तस्य लोपः (८.२.२३) इत्यस्य दृष्ट्या नकारः असिद्धः अतः असन्त् इत्येव स्यात् ? उत्तरम अस्ति यत् अस्मिन् क्रमे नश्चापदान्तस्य झलि (८.३.२४) इत्यस्य अवसरः न भवति एव परसूत्रात् | स्कोः संयोगाद्योरन्ते च (८.२.२९), संयोगान्तस्य लोपः (८.२.२३), सूत्रद्वयमपि अष्टमाध्यायस्य द्वितीयपादे अतः पूर्वं भवन्ति, असन् इति रूपं सिध्यति | असन् इति दशायां नकारात् परे झल् तु नास्ति एव अतः अस्यां प्रक्रियायां नश्चापदान्तस्य झलि (८.३.२४) न कुत्रापि भवति | आरम्भात् अन्तपर्यन्तं नुम्-आगमस्य नकारः 'न्' इत्येव तिष्ठति |
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) = हलन्तात्, दीर्घङ्यन्तात्, दीर्घाबन्तात् च सु-ति-सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्-लोपः, लङि प्रथमपुरुषे त्-लोपः, मध्यमपुरुषे स्-लोपश्च | हल् च ङी च आप् च तेषाम् इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम् | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात् पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | लोपो व्योर्वलि (६.१.६५) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्— दीर्घात् हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल् लुप्यते |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
दकारान्तः अद् धातुः (परस्मैपदी, भक्षणे)
a) अङ्गकार्यम्— उपधायां ह्रस्व-अकारः (लघु इक् इति न) अतः अङ्गकार्यं नास्ति |
b) सन्धिकार्यम्— दकारान्तः धातुः अतः बहुत्र खरि च इत्यस्य प्रसक्तिः |
अद्-धातुः अजादिः अतः लङि आडजादीनाम् इत्यनेन आडागमः, आटश्च इत्यनेन वृद्धिरादेशः च | आ + अद् → आद् इति अङ्गम् | अन्यच्च अपृक्तप्रत्ययः परे अस्ति चेत् तस्य अपृक्तप्रत्ययस्य अडागमो भवति इति कारणतः अत्र अपृक्तप्रत्ययस्य लोपो न भवति अद्-धातुतः | (सामान्यतया हलन्तधातुतः अपृक्तप्रत्ययस्य लोपो भवति इति तु जानीमः | हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्)
आद् + त् → अदः सर्वेषाम् → आद् + अट् + त् → अनुबन्धलोपे → आद् + अ + त् → आदत्
आद् + स् → अदः सर्वेषाम् → आद् + अट् + स् → अनुबन्धलोपे → आद् + अ + स् → आदः
अदः सर्वेषाम् (७.३.१००) = अद्-धातोः उत्तरस्य सार्वधातुक-अपृक्तसंज्ञक-प्रत्ययस्य अडागमो भवति—इति सर्वेषां वैयाकरणानां मतम् | अदः पञ्चम्यन्तं, सर्वेषाम् षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | अस्तिसिचोऽपृक्ते (७.३.९६) इत्यस्मात् अपृक्ते इत्यस्य षष्ठ्यन्तानुवृत्तिः, तुरुस्तुशम्यमः सार्वधातुके (७.३.९५) इत्यस्मात् सार्वधातुके इत्यस्य षष्ठ्यन्तानुवृत्तिः, उतो वृद्धिर्लुकि हलि (७.३.८९) इत्यस्मात हलि इत्यस्य षष्ठ्यन्तानुवृत्तिः, अड् गार्ग्यगालवयोः (७.३.९९) इत्यस्मात् अट् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— सर्वेषां (मते) अदः अङ्गस्य सार्वधातुकस्य अपृक्तस्य हलः अट् |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
दकारान्त विद → विद् धातुः (परस्मैपदी, ज्ञाने)
a) अङ्गकार्यम्—
१) हलादि पित्सु = उपधायां लघु-इकः गुणः | विद् +ति → पुगन्तलघूपधस्य च → वेद् + ति → वेत्ति
२) अजादि पित्सु = उपधायां लघु-इकः गुणः | विद् + आनि → पुगन्तलघूपधस्य च → वेद् + आनि → वेदानि
३) हलाद्यपित्सु = क्ङिति च, गुणनिषेधः | विद् + तः → वित्तः
४) अजाद्यपित्सु = क्ङिति च, गुणनिषेधः | विद् + अन्ति → विदन्ति
b) सन्धिकार्यं— खरि च इत्यनेन चर्त्वं बहुत्र प्रवर्तते |
विदो लटो वा (३.४.८३) = विद्-धातोः लटि, विकल्पेन लिट्-लकारस्य नव प्रत्ययाः प्रयुज्यन्ते— णल् (अ), अतुः, उः, थल्, अथुः, अ, णल् (अ), व, म | विदः पञ्चम्यन्तं, लटः षष्ठ्यन्तं, वा अव्ययं, त्रिपदमिदं सूत्रम् | परस्मैपदानां णलतुसुस्-थलथुस-णल्वमाः (३.४.८२) इत्यस्य पूर्णतया अनुवृतिः | धातोः (३.१.९१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— विदः धातोः लटः परस्मैपदानां वा णलतुसुस्-थलथुस-णल्वमाः |
लोट्-लकारस्य अपि वैकल्पिक-रूपाणि भवन्ति | विदाङ्कुर्वन्त्वित्यन्यतरस्याम् (३.१.४१) इति सूत्रेण निपातनेन विदाङ्कुर्वन्तु इत्यादीनि रूपाणि दीयन्ते | निपातनेन इत्युक्तौ सिद्धरूपं दीयते, तत्र प्रक्रिया मास्तु | निपातनस्य कारणम् इदं यत् रूपस्य प्रक्रिया-विधानार्थम् अधिकनूतनसूत्राणि अपेक्षितानि स्युः इति कृत्वा पाणिनेः मतानुसारं मास्तु | रूपमेवमेव भवतु |
विदाङ्कुर्वन्त्वित्यन्यतरस्याम् (३.१.४१) = लोटि परे विद्-धातुतः आम्-प्रत्ययः, लघूपधगुणाभावः, लोटः लुक्, लोडन्त-कृ-धातोः अनुप्रयोगः च इतीमानि चत्वारि कार्याणि मिलित्वा विकल्पेन भवन्ति | विद् + आम् → विदाम्, अत्र लघूपधगुणः न, लोटः लुक्, अपि च कृ-धातोः लोडन्तरूपाणि → विदाम् + करोतु → विदाङ्करोतु | विदाङ्कुर्वन्तु तिङन्तपदम्, 'इति' अव्ययपदम्, अन्यतरस्याम् सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— विदाङ्कुर्वन्तु इति अन्यतरस्याम् |
लङि—
सिजभ्यस्तविदिभ्यश्च (३.४.१०९) = ङित्-लकारस्य अवस्थायां, सिच्-प्रत्ययात्, अभ्यस्तसंज्ञकात् धातोः, विद्-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्-आदेशो भवति | सिच् च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | नित्यं ङितः (३.४.९९) इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः | झेर्जुस् (३.४.१०८) इत्यस्मात् झेः जुस् इत्यनयोः अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस् |
अविद् + झि → अविद् + उः → अविदुः
दश्च (८.२.७५) = धातोः पदान्ते दकारस्य स्थाने विकल्पेन रु-आदेशो भवति सिपि परे | रु-अभावे दत्वम् एव | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य (दकारस्य) एव स्थाने न तु पूर्णपदस्य | दः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | सिपि धातो रुर्वा (८.२.७४) इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— दः च पदस्य धातोः रुः वा सिपि |
अविद् + स् → अवेद् + स् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् इत्यनेन हल्-परतः अपृक्तसंज्ञक-प्रत्ययस्य लोपः → अवेद्
अवेद् → वाऽवसाने इत्यनेन विकल्पेन पदान्ते चर्-आदेशः → अवेत्
अविद् + स् → अवेद् + स् → दश्च → अवेरु → खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गादेशः → अवेः
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
नकारान्तः हन → हन् धातुः (परस्मैपदी, हिंसागत्योः)
a) अङ्गकार्यम्—
१) हलादि पित्सु = उपधायां ह्रस्व-अकारः न तु लघु इक्, अतः कार्यं नास्ति |
२) अजादि पित्सु = उपधायां ह्रस्व-अकारः न तु लघु इक्, अतः कार्यं नास्ति |
३) हलाद्यपित्सु = हन्-धातोः नकारलोपः भवति अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति इति सूत्रेण | हन् + तः → हतः
४) अजाद्यपित्सु = उपधायां स्थितस्य स्वरलोपो भवति गमहनजनखनघसां लोपः क्ङित्यनङि इति सूत्रेण | हन् + अन्ति → ह्न् + अन्ति
हलाद्यपितः तस् इत्यादयः अपित्-सार्वधातुकाः, अतः सार्वधातुकम् अपित् इत्यनेन ङिद्वत् | झलादि-कित्ङित्-प्रत्यये परे, हन्-धातोः नकारलोपो भवति |
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) = वन्-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपो भवति झलादि-कित्ङित्-प्रत्यये परे | अनुदात्तः उपदेशे येषां ते, अनुदात्तोपदेशाः बहुव्रीहिः | तनोतिः आदिः येषां ते, तनोत्यादयः बहुव्रीहिः | अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च तेषामितरेतरद्वन्द्वः अनुदात्तोपदेशवनतितनोत्यादयः, तेषाम् अनुदात्तोपदेशवनतितनोत्यादीनाम् | क् च ङ् तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत् क्ङित्, तस्मिन् क्ङिति | अनुदात्तोपदेशवनतितनोत्यादीनां षष्ठ्यन्तम्, अनुनासिक इति लुप्तष्ठीकं पदं, लोपः प्रथमान्तं, झलि सप्तम्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति (वनतिं विहाय 'अनुनासिक' इति पदं सर्वेषां विशेषणम्); अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः; यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन झलि क्ङिति इत्युक्तौ झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल् स्यात्) | अनुवृत्ति-सहितसूत्रम्— अनुनासिक-अनुदात्तोपदेशवनतितनोत्यादीनाम् अङ्गस्य लोपः झलि क्ङिति |
अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः | वन् धातुः (भ्वादिगणे), अनुनासिकान्त-अनुदात्तोपदेश-धातवः (यम्, रम्, नम्, गम्, हन्, मन्), अनुनासिकान्त-तनादि-धातवः (तनु, क्षिणु, क्षणु, ऋणु, तृणु, घृणु, वनु, मनु) | एषु धातुषु मन्-धातुः दिवादिगणे अस्ति; हन्-धातुः अदादिगणे अस्ति; अष्ट धातवः तनादिगणे सन्ति; अवशिष्टाः भ्वादौ एव | एषां धातूनां अन्ते स्थितस्य अनुनासिकस्य लोपो भवति झलादि-कित्ङित्-प्रत्यये परे | यथा—
हन् + तः → हतः हन् + थः → हथः [अदादिगणे विकरणं नास्ति]
गम् + तः → गतः जङ्गम् + थः → जङ्गथः [यङ्लुकि विकरणं नास्ति]
मन् + तः → मतः तन् + तः → ततः [क्त-प्रत्यये परे]
रम् + तः → रतः यम् + तः → यतः [क्त-प्रत्यये परे]
अजाद्यपित्सु अन्ति इत्यादीषु प्रत्ययेषु हन्-धातोः उपधायां स्थितस्य अकारस्य लोपो भवति हन् → ह्न् | तदा हकारात् परे नकारः अस्ति अतः ह्-स्थाने घकारादेशो भवति ह्न् → घ्न् |
गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) = गम्, हन्, जन्, खन्, घस् एषां धातूनाम् उपधायाः लोपो भवति अजादि-कित्ङित्-प्रत्यये परे (परन्तु अङ्-प्रत्ययः चेत् लोपः न भवति) | गमश्च हनश्च जनश्च खनश्च घस् च तेषामितरेतरद्वन्द्वो गमहनजनखनघसः, तेषां गमहनजनखनघसाम् | क् च ङ् च क्ङौ, क्ङौ इतौ यस्य सः क्ङित्, तस्मिन् क्ङिति | न अङ् अनङ्, तस्मिन् अनङि | गमहनजनखनघसां षष्ठ्यन्तं, लोपः प्रथमान्तं, क्ङिति सप्तम्यत्नम्, अनङि सप्तम्यतम् अनेकपदमिदं सूत्रम् | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; ऊदुपधाया गोहः (६.४.८९) इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— गमहनजनखनघसाम् अङ्गानाम् उपधायाः लोपः अचि क्ङिति अनङि |
हो हन्तेर्ञ्णिन्नेषु (७.३.५४) = हन्-धातोः हकारस्य स्थाने कवर्गादेशो भवति ञिति णिति प्रत्यये परे, नकारे परे च | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन कवर्गे घकारः आदिष्टो भवति | ञ् च ण् च ञ्णौ इतरेतरद्वन्द्वः, तौ इतौ ययोस्तौ ञ्णितौ, बहुव्रीहिः | ञ्णितौ च नश्च तेषामितरेतरद्वन्द्वो ञ्णिन्नाः, तेषु ञ्णिन्नेषु | इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन (३.३.१०८, वार्तिकम्), धातुनिर्देशे हन् धातोः हन्ति, षष्ठीविभक्तौ हन्तेः | हः षष्ठ्यन्तं, हन्तेः षष्ठ्यन्तं, ञ्णिन्नेषु सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | चजोः कु घिण्ण्यतोः (७.३.५२) इत्यस्मात् कुः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हन्तेः अङ्गस्य हः कु ञ्णिन्नेषु |
हन् + अन्ति → गमहनजनखनघसां लोपः क्ङित्यनङि → ह्न् + अन्ति → हो हन्तेर्ञ्णिन्नेषु → घ्न् + अन्ति → वर्णमेलने → घ्नन्ति
लोटि—
हन्तेर्जः (६.४.३६) = हि-प्रत्यये परे हन्-धातोः स्थाने ज-आदेशो भवति | हन्तेः षष्ठ्यन्तं, जः प्रथमान्तं, द्विपदमिदं सूत्रम् | ज-आदेशः अनेकाल् अतः अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन सर्वस्य स्थाने भवति न तु अन्त्यस्य | शा हौ (६.४.३५) इत्यस्मात् हौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकाराः | अनुवृत्ति-सहितसूत्रम्— हन्तेः अङ्गस्य जः हौ |
अनेकाल्शित् सर्वस्य (१.१.५५) = आदेशः अनेकाल् शित् च चेत्, सर्वस्य स्थाने आदेशः भवति न तु अन्त्यस्य | अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः | अनेकः अल् यस्य सः अनेकाल्, बहुव्रीहिः | श इत् यस्य सः शित्, बहुव्रीहिः | अनेकाल् च शित् च अनेकाल्शित्, बहुव्रीहि-गर्भ-समाहारद्वन्द्वः | अल् इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः; अनेकाल् इत्युक्तौ तादृशः आदेशः यस्मिन् एक एव वर्णः न अपि तु अनेके वर्णाः | अनेकाल् प्रथमान्तं, शित् प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अनेकाल्शित् सर्वस्य स्थाने |
हन् + हि → ज + हि
अधुना अङ्गम् अदन्तं जातम् अतः अतो हेः (६.४.१०५) इत्यनेन हि इत्यस्य लुक् विधीयते |
अतो हेः (६.४.१०५) = ह्रस्व-अकारात् अङ्गात् परस्य हि इत्यस्य लुक् (लोपः) भवति | अतः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | चिणो लुक् (६.४.१०४) इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः (अत्र अङ्गात् भवति विभक्तिपरिणाम इति सिद्धान्तेन) | अनुवृत्ति-सहितसूत्रम्— अतः अङ्गात् हेः लुक् |
असिद्धवदत्राभात् (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | भस्य (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम् | असिद्धवदत्राभात् (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम्, एषां कार्याणां नाम आभीय-कार्यम् | सूत्रं स्वयं सम्पूर्णम्— असिद्धवत् अत्र आ भात् |
हन्तेर्जः (६.४.३६), अतो हेः (६.४.१०५) इत्याभ्यां यत् कार्यं सिध्यति, उभयत्र तत् कार्यं आभीयकार्यम् | द्वाभ्यां च सूत्राभ्यां यत् कार्यं विधीयते, तस्य कार्यस्य आश्रयः 'हि'-प्रत्ययः | अतः एकवारं यदा एकं हि-प्रत्ययाश्रितम् आभीयकार्यं जातं, तदा यदा द्वितीयं हि-प्रत्ययाश्रितम् आभीयकार्यं विधीयते, तत् कार्यं प्रति प्रथमम् आभीयकार्यं असिद्धं भवति |
असिद्धवदत्राभात् (६.४.२२) इत्यनेन अतो हेः (६.४.१०५) इति सूत्रस्य दृष्ट्या हन्तेर्जः (६.४.३६) इति सूत्रेण यत् कार्यं जातं, तत् कार्यम् असिद्धम् अस्ति अतः अतो हेः (६.४.१०५) इत्यस्य दृष्ट्या हन्-धातोः स्थाने ज-आदेशः न जातः | तस्मात् अङ्गम् अदन्तं नास्ति, अतः अतो हेः (६.४.१०५) इत्यनेन हि इत्यस्य लुक् न भवति |
हन् + हि → ज + हि → जहि
b) सन्धिकार्यम्—
हन् + ति → नश्चापदान्तस्य झलि → हं + ति → अनुस्वारस्य ययि परसवर्णः → हन् + ति → हन्ति
हन् + सि → नश्चापदान्तस्य झलि → हं + सि → वर्णमेलने → हंसि
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
रेफान्तः ईर → ईर् धातुः (आत्मनेपदी, गतौ कम्पने च)
a) अङ्गकार्यम्— उपधायां दीर्घ-ईकारः (लघु इक् इति न) अतः अङ्गकार्यं नास्ति |
b) सन्धिकार्यम्— अत्यन्तं न्यूनं यतः रेफात् परे त्, थ्, ध् एते हलः सन्ति चेत् केवलं संयोजनम् | आं रेफः इण्-प्रत्याहारे अस्ति अतः रेफात् परे सकारः चेत् आदेशप्रत्यययोः इत्यनेन सकारस्य षत्वम् | ईर् + से → ईर् + षे → ईर्षे
ईर् र्-धातुः अजादिः अतः लङि आडजादीनाम् इत्यनेन आडागमः, आटश्च इत्यनेन वृद्धिरादेशः च | आ + ईर् → ऐर् इति अङ्गम् |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
शकारान्तः वश → वश् धातुः (परस्मैपदी, कान्तौ)
a) अङ्गकार्यम्—
१) हलादि पित्सु = उपधायां ह्रस्व-अकारः अतः किमपि गुणकार्यं नास्ति |
२) अजादि पित्सु = उपधायां ह्रस्व-अकारः अतः किमपि गुणकार्यं नास्ति |
३) हलाद्यपित्सु = ङित्सु प्रत्ययेषु सम्प्रसारणं भवति | वश् + तः → उश् + तः
४) अजाद्यपित्सु = ङित्सु प्रत्ययेषु सम्प्रसारणं भवति | वश् + अन्ति → उश् + अन्ति
ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) = ग्रह्, ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तम्, ङिति सप्तम्यन्तम्, च अव्ययम्, त्रिपदमिदं सूत्रम् | वचिस्वपियजादीनां किति (६.१.१५) इत्यस्मात् किति इत्यस्य अनुवृत्तिः; ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्— ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च सम्प्रसारणम् |
सम्प्रसारणम् इत्यस्मिन् विषये स्मर्यताम्— यण्सन्धेः विपरीतत्वेन भवति रूपाणि, सम्प्रसारणे |
यण् सन्धौ इकः यण्— सम्प्रसारणे यणः इक्—
इ → य् य् → इ
उ → व् व् → उ
ऋ → र् र् → ऋ
ऌ → ल् ल् → ऌ
इक् प्रत्याहारे इ उ ऋ ऌ इति वर्णाः अन्तर्भूताः | यण् प्रत्याहारे य् व् र् ल् इति वर्णाः अन्तर्भूताः | यत्र सम्प्रसारणस्य आदेशः भवति, तत्र य् स्थाने इ, व् स्थाने उ, र् स्थाने ऋ, ल् स्थाने ऌ |
इग्यणः सम्प्रसारणम् (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक् प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम् — यणः इक् सम्प्रसारणम् |
सम्प्रसारणाच्च (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् परे अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७७) इत्यस्मात् अचि, अमि पूर्वः (६.१.१०७) इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्तिः भवतः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्— सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |
वश्-धातुः सम्प्रसारणी अतः किति ङिति प्रत्यये परे वश् → उश् भवति | अपितः प्रत्ययाः ङित्वत् भवन्ति सार्वधातुकम् अपित् इत्यनेन, अतः तेषु अपित्सु परेषु सम्प्रसारणं विहितम् अस्ति |
लङि—
वश्-धातुः हलादिः परन्तु ङित्सु प्रत्ययेषु अजादिः भवति सम्प्रसारणत्वात् (वश् → उश्) | ङित्सु प्रत्ययेषु धातोः अजादित्वात् आडजादीनाम् इत्यनेन आडागमः, आटश्च इत्यनेन वृद्धिरादेशः च |
वश् + ताम् → अपित्सु सम्प्रसारणे → उश् + ताम् → आडजादीनाम् → आ + उश् + ताम् → आटश्च इत्यनेन वृद्धिरादेशः → औश् + ताम् → सन्धिकार्यम् → औष्टाम्
पित्सु सम्प्रसारणाभावे अडागम एव | अवश् + त् → अवट्
b) सन्धिकार्यम्—
वश् + ति → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम् → वष् + ति → ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वम् → वष्टि
वश् + थः → ग्रहिज्या० (६.१.१६) इत्यनेन सम्प्रसारणम् → उश्+ थः → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम् → उष् + थः → ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वम् → उष्ठः
वश् + सि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम् → वष् + सि → षढोः कः सि (८.२.४१) इत्यनेन ककारादेशः → वक् + सि → आदेशप्रत्यययोः (८.३.५९) → वक्षि
वश् + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) → वश् + धि → ग्रहिज्या० (६.१.१६) इत्यनेन सम्प्रसारणम् → उश् + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम् → उष् + धि → ष्टुना ष्टुः (८.४.४१) → उष् + ढि → झलां जश् झशि (८.४.५३) → उड् + ढि → वर्णमेलने → उड्ढि
वश् + त् → अवश् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) → अवश् → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन पदान्ते शकारस्य षत्वम् → अवष् → झलां जशोऽन्ते (८.२.३९) → अवड् → वाऽवसाने (८.४.५६) → अवट् (विकल्पेन)
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
शकारान्तः ईश → ईश् धातुः (आत्मनेपदी, ऐश्वर्ये)
a) अङ्गकार्यम्— उपधायां दीर्घ-ईकारः (लघु इक् इति न) अतः अङ्गकार्यं नास्ति |
b) इडागमः—
ईशः से (७.२.७७) = ईश्-धातुतः परस्य सार्वधातुकसंज्ञकस्य 'से' च 'ध्वे'-शब्दस्य च इडागमो भवति |
ईडजनोर्ध्वे च (७.२.७८) = ईड्, जन् इत्याभ्यां धातुभ्यां परस्य सार्वधातुकसंज्ञकस्य 'से' च 'ध्वे'-शब्दस्य च इडागमो भवति | इडश्च जन् च इडजनौ, तयोः इडजनोः | इडजनोः पञ्चम्यर्थे षष्ठी | ध्वे लुप्तषष्ठीकं पदं, च अव्ययम् | इडत्त्यर्त्तिव्ययतीनाम् (७.२.६६) इत्यस्मात् इट् इत्यस्य अनुवृत्तिः | रुदादिभ्यः सार्वधातुके (७.२.७६) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | 'च' इति अव्ययेन पूर्वतनस्य ईशः से (७.२.७७) इत्यस्य पूर्णतया अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ईशः ईडजनोः अङ्गात् सार्वधातुकस्य से ध्वे च इट् |
केचन वैयाकरणाः वदन्ति यत् उपरितनयोः सूत्रयोः फलितोऽर्थः अयं यत् द्वितीयसूत्रस्य "च" इत्यनेन ईश्-धातोः अपि अनुवृत्तिः भवति ईडजनोर्ध्वे च (७.२.७८) इति सूत्रे | अनेन ईश्-धातुतः 'ध्वे'-शब्दस्य अपि इडागमो भवति | अन्ये वैयाकरणाः वदन्ति यत् से इत्यस्य अनुवृत्तिः भवति ईडजनोर्ध्वे च (७.२.७८) इति सूत्रे, 'ध्वे'-शब्दस्य च अपकषः (उपरि आनयनम्) भवति ईशः से (७.२.७७) इति सूत्रे | यथा कथमपि भवतु, द्वयोः सूत्रयोः, से च ध्वे च द्वयोः अन्तर्भावः | अनेन मध्यमपुरुषे लटि लोटि च यथा ईड्, जन् इति धातुभ्यां, तथैव ईश्-धातोः अपि इडागमः भवति |
c) सन्धिकार्यम्—
- झलि परे शकारस्य षत्वं व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः इति सूत्रेण |
- षत्वे सति तादि थादि धादि च प्रत्ययानां ष्टुत्वं ष्टुना ष्टुः इति सूत्रेण |
- झशि जश्त्वं झलां जश् झशि इति सूत्रेण |
ईश् + ते → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः → ईष् + ते → ष्टुना ष्टुः → ईष् + टे → ईष्टे
लङि—
ईश्-धातुः अजादिः अतः लङि आडजादीनाम् इत्यनेन आडागमः, आटश्च इत्यनेन वृद्धिरादेशः च | आ + ईश् → ऐश् इति अङ्गम् |
ऐश् + ध्वम् → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः → ऐष् + ध्वम् → ष्टुना ष्टुः → ऐष् + ढ्वम् → झलां जश् झशि → ऐड् + ढ्वम् → ऐड्ढ्वम्
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
षकारान्तः द्विष → द्विष् धातुः (उभयपदी, अप्रीतौ)
a) अङ्गकार्यम्—
१) हलादि पित्सु = उपधायां लघु-इकः गुणः | द्विष् + ति → पुगन्तलघूपधस्य च → द्वेष् + ति → सन्धिकार्यम् → द्वेष्टि
२) अजादि पित्सु = उपधायां लघु-इकः गुणः | द्विष् + आनि → पुगन्तलघूपधस्य च → द्वेष् + आनि → रषाभ्यां नो णः समानपदे इत्यनेन णत्वम् → द्वेषाणि
३) हलाद्यपित्सु = क्ङिति च, गुणनिषेधः | द्विष् + तः → सन्धिकार्यमेव → द्विष्टः
४) अजाद्यपित्सु = क्ङिति च, गुणनिषेधः | द्विष् + अन्ति → वर्णमेलनमेव → द्विषन्ति
b) सन्धिकार्यम्—
- षकारान्तधातोः षकारात् तादि थादि प्रत्ययानां ष्टुत्वं ष्टुना ष्टुः इति सूत्रेण |
- सकारे परे षकारस्य ककारादेशः षढोः कः सि इति सूत्रेण |
- झशि जश्त्वं झलां जश् झशि इति सूत्रेण |
द्विष् + ति → गुणादेशः → द्वेष् + ति → ष्टुना ष्टुः → द्वेष् + टि → द्वेष्टि
द्विष् + सि → गुणादेशः → द्वेष् + सि → षढोः कः सि → द्वेक् + सि → आदेशप्रत्यययोः → द्वेक् + षि → वर्णमेलने → द्वेक्षि
द्विष् + हि → हुझल्भ्यो हेर्धिः → द्विष् + धि → ष्टुना ष्टुः → द्विष् + ढि → झलां जश् झशि → द्विड् + ढि → द्विड्ढि
लङि—
द्विषश्च (३.४.११२) = द्विष्-धातुतः लङादेशस्य झि-स्थाने जुस्-आदेशः शाकटायनस्य मते | द्विषः पञ्चम्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम् | झेर्जुस् (३.४.१०८), लङः शाकटायनस्यैव (३.४.१११) इत्यनयोः पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— द्विषः च लङः झेः जुस् शाकटायनस्य एव |
अद्विष् + जुस् → अद्विषुः इति रूपम् | अन्येषां मते 'अन्' इत्येव भवति— अद्विष् + अन् → अद्विषन् |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
णत्वविषये
द्विष् + आनि → द्वेष् + आनि →'द्वेषाणि' इति रूपे अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) इत्यनेन णत्वं भवति | अत्र प्रश्नः उदेति यत् द्विष् + अन्ति इति स्थितौ अपि णत्वस्य निमित्तंम् अस्ति | तर्हि अत्र का गतिः ? णत्वं भवति, न भवति, अथवा वैकल्पिकम् ?
कृ-धातोः अपि एवं प्रश्नः | कृ + उ + अन्ति → कुरु + अन्ति → रेफ-निमित्तत्वात् णत्वं भवेत् वा इति प्रश्नः | द्विष्-धातोः यथा षकारनिमित्तत्वं, तथा कृ-धातोः अपि रेफनिमित्तत्वात् णत्वं स्यात् |
तर्हि द्विष् + अन्ति इति स्थितिं परिशीलयाम | अत्र षकारः निमित्तभूतः; अग्रे स्थितस्य नकारस्य णत्वं प्राप्येत अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) इति सूत्रेण | परन्तु अत्र युगपत् सूत्रद्वयम् आयाति कार्यं कर्तुम्— नश्चापदान्तस्य झलि (८.३.२४), अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) च | नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन नस्य मस्य च अपदान्तस्य झलि अनुस्वारः भवति | द्विषन्ति इत्यस्मिन् नकारः पदान्ते नास्ति, अतः नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन नकारस्य अनुस्वारः प्राप्यते; अपि च अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) इत्यनेन तेन एव नकारेण णकारः अपि प्राप्यते | नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन अनुस्वारे प्राप्ते, अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) इत्यनेन णकारे प्राप्ते, अत्र कः विधेयः ? अस्यां स्थितौ पूर्वत्रासिद्धम् (८.२.१) इत्यनेन णत्वे प्राप्ते असिद्धत्वात् अनुस्वारस्य प्रवृत्तिः भवति | त्रिपाद्यां पूर्वशास्त्रं प्रति परशास्त्रम् असिद्धम् | नश्चापदान्तस्य झलि (८.३.२४) इति पूर्वशास्त्रम्; अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) इति परशास्त्रम् | अनेन णत्वशास्त्रस्य असिद्धत्वात् अनुस्वार्स्य एव अवकाशः | तदा अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन परसवर्णादेशः, अनेन पुनः नकारः आयाति | [पूर्वत्रासिद्धम् (८.२.१) इति प्रसङ्गे इतोऽपि सूचनार्थम् अयं पाठः दृश्यताम् |]
द्विष् + अन्ति → नश्चापदान्तस्य झलि (८.३.२४) → दिषंति → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → द्विषन्ति
अधुना यः नकारः आयातः स च नूतनः, भिन्नसूत्रेण विहितश्च | अतः अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) अत्र पुनः णत्वं कर्तुम् उद्युक्तं स्यात् | परन्तु अत्र णत्वे कर्तव्ये अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) इति सूत्रस्य दृष्टौ अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यस्य कार्यम् असिद्धं, पूर्वत्रासिद्धम् (८.२.१) इति सूत्रेण | अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) इति सूत्रस्य दृष्टौ नकारः नास्त्येव अपि तु अनुस्वारः तदानीं वर्तते | अनुस्वारे सति णत्वप्रसक्तिः नास्ति |
प्रथमवारं शास्त्रासिद्धत्वात्, द्वितीयवारं कार्यासिद्धत्वात् णत्वं न भवति | द्विष् + अत्नि → द्विषन्ति | तथैव कुरु + अन्ति → कुर्वन्ति |
षकारान्तः चक्षिङ् → चक्ष् धातुः (आत्मनेपदी, व्यक्तायां वाचि)
a) अङ्गकार्यम्— उपधायां ककारः (लघु इक् इति न) अतः अङ्गकार्यं नास्ति |
b) सन्धिकार्यम्—
चक्ष् + ते → स्कोः संयोगाद्योरन्ते च → चष् + ते → ष्टुना ष्टुः → चष् + टे → चष्टे
चक्ष् + से → स्कोः संयोगाद्योरन्ते च → चष् + से → षढोः कः सि → चक् + से → आदेशप्रत्यययोः → चक् + षे → चक्षे
चक्ष् + ध्वे → स्कोः संयोगाद्योरन्ते च → चष् + ध्वे → ष्टुना ष्टुः → चष् + ढ्वे → झलां जश् झशि→ चड् + ढ्वे → चड्ढ्वे
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
सकारान्त वस → वस् धातुः (आत्मनेपदी, आच्छादने)
a) अङ्गकार्यम्— उपधायां ह्रस्व-अकारः (लघु इक् इति न) अतः अङ्गकार्यं नास्ति |
b) सन्धिकार्यम्—
सकारान्तधातुः अतः आधिक्येन केवलं वर्णमेलनं भवति | यथा सकारात् तकारे परे केवलं मेलनम् | वस् + ते → वस्ते |
धकारे परे सकारस्य लोपो भवति | वस् + ध्वे → सकारलोपः → वध्वे |
धि च (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | रात्सस्य (८.२.२४) इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धि च सस्य लोपः |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
अन्येऽपि सकारान्तधातवः तथैव भवन्ति |
सकारान्तः आस → आस् धातुः (आत्मनेपदी, उपवेशने)
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
सकारान्तः आङ्-उपसर्गपूर्वक-शासु → आशास् धातुः (आत्मनेपदी, इच्छायाम्)
अयं शासु-धातुः नित्यम् आङ्-उपसर्गपूर्वकः |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
सकारान्तः कसि → कन्स धातुः (आत्मनेपदी, गतिशासनयोः)
a) निरनुबन्धधातोः सिद्धिः—
नुमागमः | इदितो नुम् धातोः (७.१.५८) = यः धातुः इदित् अस्ति, तस्य नुमागमः भवति |
मिदचोऽन्त्यात्परः (१.१.४७) = यः आगमः मित् अस्ति, सः अच्-वर्णेषु अन्त्यात् परः आयाति |
कसि → उपदेशेऽजनुनासिक इत्, हलन्त्यम् → कस् → इदितो नुम् धातोः, मिदचोऽन्त्यात्परः → कन्स् इति धातुः |
b) सन्धिकार्यम्—
कन्स् + ते → नश्चापदान्तस्य झलि → कंस् + ते → वर्णमेलने → कंस्ते
कन्स् + ध्वे → नश्चापदान्तस्य झलि → कंस् + ध्वे → धि च → कं + ध्वे → अनुस्वारस्य ययि परसवर्णः → कन् + ध्वे → कन्ध्वे
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
सकारान्तः णिसि → निन्स् धातुः (आत्मनेपदी, चुम्बने)
a) निरनुबन्धधातोः सिद्धिः—
नुमागमः | इदितो नुम् धातोः (७.१.५८) = इदितः धातोः नुम् आगमो भवति | इदित् इत्युक्ते इत् इत् यस्य सः | तत्र प्रथमः इत् नाम ह्रस्वः इकारः | द्वितीयः इत् नाम इत्-संज्ञा | ह्रस्व-इकारस्य इत्-संज्ञा यस्य, सः धातुः इदित् | इत् इत् यस्य स इदित् बहुव्रीहिः, तस्य इदितः | इदितः षष्ठ्यन्तं, नुम् प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— इदितो धातोः नुम् |
मिदचोऽन्त्यात्परः (१.१.४७) = यः आगमः मित् अस्ति, सः अच्-वर्णेषु अन्त्यात् परः आयाति |
नत्वम् | णो नः (६.१.६४) = उपदेशावस्थायां धातोः आदौ णकारः अस्ति चेत्, णकारस्य स्थाने नकारादेशः भवति | णोः षष्ठ्यन्तं, नः प्रथमान्तं, द्विपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः, धात्वादेः षः सः (६.१.६४) इत्यस्मात् धात्वादेः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धात्वादेः णोः नः उपदेशे |
णिसि → उपदेशेऽजनुनासिक इत् → णिस् → इदितो नुम् धातोः, मिदचोऽन्त्यात्परः → णिन्स् → णो नः → निन्स् इति धातुः |
b) सन्धिकार्यम्—
निन्स् + ते → नश्चापदान्तस्य झलि → निंस् + ते → वर्णमेलने → निंस्ते
निन्स् + ध्वे → नश्चापदान्तस्य झलि → निंस् + ध्वे → धि च → निं + ध्वे → अनुस्वारस्य ययि परसवर्णः → निन् + ध्वे → निन्ध्वे
अत्र प्रश्नः उदेति यत् लट्-लकारस्य से-प्रत्यये परे किमर्थं न आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वं स्यात् ? इकारः निमित्तं, 'से' इति सकारादिप्रत्ययः, मध्ये अनुस्वारः च सकारः च | आदेशप्रत्यययोः (८.३.५९) इति सूत्रे नुंविसर्जनीयशर्व्यवायेऽपि इत्यस्य अनुवृत्तिः, नाम एते मध्ये सन्ति चेदपि कार्यं भवति | किन्तु—काशिकायां दत्तम् अस्ति यत् एतेषु यत्किमपि एकं मध्ये भवितुमर्हति; एकस्मात् अधिकं भवति चेत् कार्यं न प्राप्नोति |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
सकारान्तः षस → सस् धातुः (परस्मैपदी, स्वप्ने)
a) निरनुबन्धधातोः सिद्धिः—
सत्वम् | धात्वादेः षः सः (६.१.६४) = उपदेशावस्थायां धातोः आदौ षकारः अस्ति चेत्, षकारस्य स्थाने सकारादेशो भवति | धातोः आदिः, धात्वादिः षष्ठीतत्पुरुषः; तस्य धात्वादेः | धात्वादेः षष्ठ्यन्तं, षः षष्ठ्यन्तं, सः प्रथमान्तं, त्रिपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धात्वादेः षः सः उपदेशे |
षस → उपदेशेऽजनुनासिक इत् → षस् → धात्वादेः षः सः → सस् इति धातुः |
b) अङ्गकार्यम्— उपधायां ह्रस्व-अकारः (लघु इक् इति न) अतः अङ्गकार्यं नास्ति |
c) सन्धिकार्यम्—
लोटि—
सस् + हि → हुझल्भ्यो हेर्धिः → सस् + धि → धि च इत्यनेन स्-लोपः → सधि
लङि—
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६८) इत्यनेन हल्-उत्तरस्य अपृक्तसंज्ञक-प्रत्ययस्य लोपः | लङि त्-लोपः, स्-लोपश्च |
असस् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् → असस् → तिप्यनस्तेः इत्यनेन पदान्तस्य सकारस्य दकारादेशः → असद्
असस् + त् → उपरि इव → असद् → वाऽवसाने इत्यनेन विकल्पेन पदान्ते चर्त्वादेशः → असत्
तिप्यनस्तेः (८.२.७३) = पदान्तस्य सकारस्य दकारादेशो भवति तिपि परे; परन्तु अस्-धातौ न भवति | इदं सूत्रं ससजुषो रुः (८.२.६६) इत्यस्य अपवादः | न अस्तिः अनस्तिः, तस्य अनस्तेः | तिपि सप्तम्यन्तम्, अनस्तेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | ससजुषोः रुः (८.२.६६) इत्यस्मात् सः इत्यस्य अनुवृत्तिः | वसुस्रंसुध्वंस्वनडुहां दः (८.२.७२) इत्यस्मात् दः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— पदस्य सः दः तिपि अनस्तेः |
ससजुषो रुः (८.२.६६) = पदान्ते सकारस्य च सजुष्-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तम्, रुः प्रथमान्तम्, द्विपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ससजुषोः पदस्य रुः |
अत्र वस्तुतः झलां जशोऽन्ते (८.२.३९) इति अत्र सर्वसामान्यं सूत्रं; तस्य अपवादः ससजुषो रुः (८.२.६६); पुनः ससजुषो रुः इत्यस्य अपवादः तिप्यनस्तेः (८.२.७३) |
लङ्-लकारस्य सिपि परे
सिपि धातो रुर्वा (८.२.७४) इति सूत्रेण लङ्-लकारस्य स्-प्रत्यये परे सकारान्तपदस्य सकारस्य स्थाने विकल्पेन दकारादेशः रुत्वं वा भवति | यथा—
असस् + स् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् इत्यनेन स्-लोपः → असस् → सिपि धातो रुर्वा (८.२.७४) इत्यनेन विकल्पेन रु-आदेशः → असद् / असरु → असरु चेत् उ इत्यस्य इत्-संज्ञा लोपश्च, खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यनेन अवसाने र्-स्थाने विसर्गादेशः → असः | अपक्षे असद् → वाऽवसाने इत्यनेन विकल्पेन चर्-आदेशः → असत्
सिपि धातो रुर्वा (८.२.७४) = पदान्तस्य सकारस्य रु-आदेशो भवति, दकारो वा, सिपि परे | अत्र 'वा' इति समुच्चयार्थे | येनविधिस्तदन्तस्य (१.१.७२ ) इत्यनेन तदन्तविधिः; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णादेशः | 'धातोः' उक्तं परसूत्राणाम् अर्थपूर्तिकृते; प्रकृतसूत्रे आवश्यकता नास्ति | सिपि सप्तम्यन्तं, धातोः षष्ठ्यन्तं, रुः प्रथमान्तं, वा अव्ययपदम्, अनेकपदमिदं सूत्रम् | ससजुषोः रुः (८.२.६६) इत्यस्मात् सः इत्यस्य अनुवृत्तिः | वसुस्रंसुध्वंस्वनडुहां दः (८.२.७२) इत्यस्मात् दः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— सः धातोः पदस्य रुः दः वा सिपि |
प्राचीनैः उच्यते यत् सुस्रंसुध्वंस्वनडुहां दः (८.२.७२) इत्यस्मात् दः इत्यस्य अनुवृत्त्या दकारस्य पक्षः सिध्यति साक्षात् अनेन एव सिपि धातो रुर्वा (८.२.७४) इति सूत्रेण | नवीनैः उच्यते यत् अस्यावश्यकता नास्ति यतोहि रु-अपक्षे स्-स्थाने दकारादेशः झलां जशोऽन्ते (८.२.३९) इत्यनेन | परन्तु अद्यत्वे आधिक्येन वैयाकरणाः वदन्ति यत् ससजुषोः रुः (८.२.६६), झलां जशोऽन्ते (८.२.३९) इत्यनयोर्मध्ये ससजुषोः रुः (८.२.६६) इत्यस्य अपवादभूतत्वात् झलां जशोऽन्ते (८.२.३९) इत्यस्य पुनः नितराम् अवकाशो नास्ति | इत्थञ्च सिपि धातो रुर्वा (८.२.७४) इत्यनेनैव रुश्च दश्च क्रियते |
अत्र दृष्टिः एवं— सकारान्तपदम् अस्ति चेत्, कीदृशं कार्यं स्यात् इति प्रश्नः | अस्मिन् प्रसङ्गे सर्वसामान्यं सूत्रं झलां जशोऽन्ते (८.२.३९) | सकारः झलि अस्ति; अनेन सूत्रेण पदान्ते सकारस्य जश्त्वं, नाम वर्गीयव्यञ्जनस्य तृतीयसदस्यः | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन दन्त्य-सकारस्य स्थाने दन्त्य-तवर्गस्य तृतीयसदस्यः दकारः भवति | अतः सर्वसामान्य-सिद्धान्तः पदान्ते सकारस्य स्थाने दकारादेशः | परन्तु ससजुषो रुः (८.२.६६) तस्य अपवादः | अनेन पदान्ते स्थितस्य सकारस्य स्थाने रु-आदेशो भवति | पुनः तिप्-प्रत्यये परे तिप्यनस्तेः (८.२.७३) तस्य अपवादः | अनेन तिपि परे पदान्तस्य सकारस्य दकारादेशो भवति | एवमेव सिप्-प्रत्यये परे सिपि धातो रुर्वा (८.२.७४) ससजुषो रुः (८.२.६६) इत्यस्य अपवादः | अनेन सिपि परे पदान्तस्य सकारस्य रु-आदेशो दकारादेशश्च भवति | यथोक्तं झलां जशोऽन्ते (८.२.३९) इत्यनेन स्-स्थाने दकारः नोपलभ्यते यतोहि तत्तु बाधितं ससजुषो रुः (८.२.६६) इति सूत्रेण |
प्रश्नः उदेति यत् सिप् यदा आगतः तदा कथं वा धातुसंज्ञा स्यात् ? सिपि धातो रुर्वा (८.२.७४) इति सूत्रेण 'धातोः' अपि उक्तं, 'सिपि' अपि उक्तम् | अत्र वार्ता एवं— कस्य भागस्य का संज्ञा ? 'वस + ति' इति स्थितौ 'वस' इति अङ्गस्य धातुसंज्ञा नास्ति; तत्र किन्तु 'वस्' इति अन्तर्निहितभागस्य धातुसंज्ञा तु तदानीमपि अस्त्येव | एवमेव सिपः विधानानन्तरमपि धातोः धातुसंज्ञा तिष्ठति | यथा 'असस् + स्' इत्यत्र 'असस् + स्' इत्यस्य पदसंज्ञा, 'असस्' इत्यस्य धातुसंज्ञा | तदा स्-प्रत्ययलोपानन्तरम्, 'असस्' इत्यस्य धातुसंज्ञा अपि भवति, पदसंज्ञा अपि भवति |
खरवसानयोर्विसर्जनीयः (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | रो रि (८.३.१४) इत्यस्मात् रः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम् |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
सकारान्तः अस → अस् धातुः ( परस्मैपदी, भुवि)
a) अङ्गकार्यम्—
१) हलादि पित्सु = उपधायां ह्रस्व-अकारः (लघु इक् इति न) अतः गुणकार्यं नास्ति
२) अजादि पित्सु = उपधायां ह्रस्व-अकारः (लघु इक् इति न) अतः गुणकार्यं नास्ति
३) हलाद्यपित्सु = श्नसोरल्लोपः इत्यनेन अस्-धातोः अकार-लोपः | अस् + तः → स् + तः → स्तः
४) अजाद्यपित्सु = श्नसोरल्लोपः इत्यनेन अस्-धातोः अकार-लोपः | अस् + अन्ति → स् + अन्ति → सन्ति
श्नसोरल्लोपः (६.४.१११) = श्नम्-प्रत्ययस्य अपि च अस्-धातोः अकारस्य लोपो भवति किति ङिति सार्वधातुके परे | श्नश्च अस् च तयोरितरेतरद्वन्द्वः श्नसौ | श्नसोः षष्ठ्यन्तम्, अल्लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत उत्सार्वधातुके (६.४.११०) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः; गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य श्नसोः अल्लोपः सार्वधातुके क्ङिति |
लटि—
अस् + सि → तासस्त्योर्लोपः इत्यनेन अस्-धातोः सकार-लोपः → अ + सि → असि
तासस्त्योर्लोपः (७.४.५०) = तास्-प्रत्ययस्य अपि च अस्-धातोः सकारस्य लोपो भवति सकारादि-प्रत्यये परे | अलोऽन्त्यस्य (१.१.५२) इत्यनेन तास्-प्रत्ययस्य, अस्-धातोः च अन्तिमवर्णलोपः न तु पूर्णाङ्गस्य | ताश्च अस्तिश्च तयोरितरेतरद्वन्द्वः तासस्ती, तयोः तासस्त्योः | तासस्त्योः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | सः स्यार्धधातुके (७.४.४९) इत्यस्मात् सि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अत्र सि इत्युक्ते सकारादि-प्रत्यये परे यतः अङ्गस्य इत्यस्य अधिकरः; अङ्गं तदा उच्यते यदा यः परे अस्ति सः प्रत्ययः | अनुवृत्ति-सहितसूत्रम्— तासस्त्योः अङ्गस्य लोपः सि |
अत्र प्रश्नः उदेति यत् सः स्यार्धधातुके (७.४.४९) इत्यस्मात् केवलं सि इत्यस्य अनुवृत्तिः भवति वा, सः इत्यस्यापि भवेत् वा ? सकारस्य स्थाने लोपादेशो भवति, अतः तस्यापि अनुवृत्तिः भवतु इति प्रश्नः | सिद्धान्तकौमुद्याम् उच्यते यत् सः इति अनुवृत्तेः आवश्यकता नास्ति यतोहि तासस्त्योः इति पदं षष्ठीविभक्तौ अतः अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णः एव स्थानी इति सिध्यति | काशिकायां सः इत्यस्य अनुवृत्तिः प्रदर्श्यते, किन्तु अद्यत्वे वैयाकरणानां मतं यत् सा च अनुवृत्तिः नापेक्षिता |
लोटि—
अस् + हि → घ्वसोरेद्धावभ्यासलोपश्च इत्यनेन अस्-स्थाने एकारादेशः, अलोऽन्त्यस्य इत्यनेन अन्तिमवर्णस्य (सकारस्य) स्थाने एव आदेशः → अए + हि → हुझल्भ्यो हेर्धिः इत्यनेन हि-स्थाने धि → अए + धि → हि अपित् अतः श्नसोरल्लोपः इत्यनेन अ-लोपः → ए + धि → एधि
घ्वसोरेद्धावभ्यासलोपश्च (६.४.११९) = घुसंज्ञक-धातोः अस्-धातोः च स्थाने एकारादेशो भवति हि-प्रत्यये परे; अभ्यासः अस्ति चेत् तस्य (अभ्यासस्य) लोपः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य (सकारस्य) स्थाने एव आदेशः | घुश्च अस् च तयोरितरेतरद्वन्द्वः घ्वसौ, तयोः घ्वसोः | घ्वसोः षष्ठ्यन्तम्, एत् प्रथमान्तं, हौ सप्तम्यन्तम्, अभ्यासलोपः प्रथमान्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— घ्वसोः अङ्गस्य एत् हौ अभ्यासलोपः च |
हुझल्भ्यो हेर्धिः (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | येनविधिस्तदन्तस्य (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम् अन्ते झल् | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हुझल्भ्यः अङ्गेभ्यः हेः धिः |
'अए + हि' इत्यवस्थायाम् अए इति झलन्तं न, अतः हि-स्थाने धि नाभविष्यत्; परन्तु असिद्धवदत्राभात् इत्यनेन हुझल्भ्यो हेर्धिः इत्यस्य सूत्रस्य दृष्ट्या घ्वसोरेद्धावभ्यासलोपश्च इत्यस्य सूत्रस्य कार्यम् असिद्धम् | अतः हि-प्रत्ययः 'अस्' इत्येव पश्यति न तु 'अए'; अनेन कारणेन हि-स्थाने धि-आदेशो भवति |
असिद्धवदत्राभात् (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | भस्य (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम् | असिद्धवदत्राभात् (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम्, एषां कार्याणां नाम आभीय-कार्यम् | सूत्रं स्वयं सम्पूर्णम्— असिद्धवत् अत्र आ भात् |
तुल्यबलविरोधविषये शैलीद्वयं दृश्यते | द्वयोः किन्तु फलं समानम् | मातृभिः उच्यते यत् तुल्यबलविरोधः तदा भवति यदा द्वयोः सूत्रयोः निमित्तप्रसङ्गे स्थानिप्रसङ्गे वा सङ्घर्षो वर्तते | अतः अत्र प्रकृतौ घ्वसोरेद्धावभ्यासलोपश्च (६.४.११९), हुझल्भ्यो हेर्धिः (६.४.१०१) च अनयोः सङ्घर्षः अस्ति | घ्वसोरेद्धावभ्यासलोपश्च (६.४.११९) इति सूत्रे स्थानी सकारः, निमित्तञ्च हि-प्रत्ययः; हुझल्भ्यो हेर्धिः (६.४.१०१) इति सूत्रे स्थानी हि-प्रत्ययः, निमित्तं झलप्रत्याहारस्थः सकारः | अतः विप्रतिषेधे परं कार्यम् (१.४.२) इत्यनेन परसूत्रस्य घ्वसोरेद्धावभ्यासलोपश्च (६.४.११९) इत्यस्य कार्यम् | अधुना वस्तुतस्तु घ्वसोरेद्धावभ्यासलोपश्च (६.४.११९) इत्यस्य अस्-दलस्य अन्यत्रलब्धावकाशो नास्ति इति कृत्वैव बलमिति भवति; तस्मात् प्रक् किन्तु तादृशसङ्घर्षचिन्तनं कर्तुं शक्यते शिक्षार्थम् | किन्तु श्नसोरल्लोपः (६.४.१११) इत्यस्य तादृशसङ्घर्षो नास्ति यतोहि तस्य निमित्तमस्ति कित् ङित् सार्वधातुकप्रत्ययः | नाम हि-प्रत्ययः अस्ति चेदपि तथा, धि-प्रत्ययः अस्ति चेदपि तथैव | अतः तस्य विरोधो नास्ति | तदर्थं मातृभिरुच्यते यत् प्रथमं घ्वसोरेद्धावभ्यासलोपश्च (६.४.११९), तदा हुझल्भ्यो हेर्धिः (६.४.१०१), तदा च श्नसोरल्लोपः (६.४.१११) |
भिन्ना शैली उच्यते शृङ्गेर्याचार्यैः | तैः उच्यते यत् द्वयोः अन्यत्र चरितार्थयोः अचरितार्थयोः एकत्रसमावेशः तुल्यबलविरोधः | नाम यत्र कुत्रापि द्वयोः सूत्रयोः एकत्रप्राप्तिरस्ति, अपि च तयोः अन्यत्र चारितार्थ्यं वा उभयोः अचारितार्थ्यं वा अस्ति, तत्र तुल्यबलविरोधः वर्तते | अस्मिन् चिन्तनविधौ स्थानी समानः अथवा निमित्तसङ्घर्षः इति किमपि नास्ति; केवलम् एकस्यां प्रक्रियायां एकस्मिन् काले युगपत् प्राप्तिः इत्यनेन एकत्रप्राप्तिः | तदा अन्यत्र द्वयोः चारितार्थ्यं, नाम द्वयोः अन्यत्र लब्धावकाशः, अथवा द्वयोरपि अन्यत्र अचारितार्थ्यं, नाम लब्धावकाशो न, इति चेत् तुल्यबलविरोधः | अतः प्रकृतौ त्रयाणामपि तुल्यबलविरोधो वर्तते यतोहि एकस्मिन् काले युगपत् प्राप्तिरस्ति, अपि च अन्यत्र चारितार्थ्यम् अस्ति | अन्ततो गत्वा घ्वसोरेद्धावभ्यासलोपश्च (६.४.११९) बलवत् प्रतिपदोक्तत्वात् | प्रतिपदोक्तत्वं परत्वात् बलवत् |
एध् + लट् → अनुदात्तङित आत्मनेपदम् (१.३.१२), कर्तरि शप् (६.१.६८) → तिङ्-भावी तिङ् भवति इति कृत्वा युगपत्-प्राप्तिः, तुल्यबलविरोधश्च (यद्यपि स्थानी समानो नास्ति) |
लङि—
आ + अस् + त् → अस्तिसिचोऽपृक्ते इत्यनेन अपृक्तसंज्ञक-हल्-प्रत्ययस्य ईट्-आगमः → आ + अस् + ई + त् → वर्णमेलने → आसीत्
आ + अस् + स् → अस्तिसिचोऽपृक्ते इत्यनेन अपृक्तसंज्ञक-हल्-प्रत्ययस्य ईट्-आगमः → आ + अस् + ई + स् → वर्णमेलने → आसीः
ईट्-आगमः टित् अतः त् इत्यस्य आदौ आयातीति | सामान्यतया अपृक्तसंज्ञक-हल्-प्रत्ययस्य लोपो भवति हलन्तधातुतः परन्तु अत्र लोपो न भवति यतोहि मध्ये ईडागमोऽस्तीति |
अस्तिसिचोऽपृक्ते (७.३.९६) = सिच्-प्रत्ययात् अपि च अस्-धातुतः अपृक्तसंज्ञक-हल्-प्रत्ययस्य ईडागमो भवति | अस्तिश्च सिच् च तयोः समाहारद्वन्द्वः अस्तिसिच्, तस्मात् अस्तिसिचः | अस्तिसिचः पञ्चम्यन्तं, अपृक्ते सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अतो वृद्धिर्लुकि हलि (७.३.८९) इत्यस्मात् हलि इत्यस्य अनुवृत्तिः, ब्रुव ईट् (७.३.९३) इत्यस्मात् ईट् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अस्तिसिचः अङ्गात् ईट् अपृक्ते हलि |
आद्यन्तौ टकितौ (१.१.४६) = यस्य आगमः टित्, तस्य आदौ आयाति; यस्य आगमः कित्, तस्य अन्ते आयाति | आदिश्च अन्तश आद्यन्तौ, टश्च कश्च टकौ, इतरेतरद्वन्द्वः, टकौ इतौ ययोः तौ टकितौ, बहुव्रीहिः | आद्यन्तौ प्रथमान्तं, टकितौ प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— आद्यन्तौ टकितौ |
अत्र प्रश्नः उदेति यत् लङ्लकारस्य प्रथमपुरुषद्विवचने अकारलोपः भवति वा ? आ + अस् + ताम् | यतोहि आडागमः विधीयते लकारावस्थायाम् आडजादीनाम् (६.४.७२) इति सूत्रेण, तदा आटश्च (६.१.८९) इत्यनेन आडागमात् अचि परे पूर्वपरयोः वृद्धिरेकादेशः | तदानीम् अकारः एव नास्ति, अतः कथं वा श्नसोरल्लोपः (६.४.१११) इत्यनेन अकारलोपः स्यात् ? अस्य उत्तरम् अस्ति यत् आडजादीनाम् (६.४.७२) इति सूत्रेण आडागमः विधीयते लकारावस्थायाम् इति तु सत्यं, किन्तु आटश्च (६.१.८९) इत्यनेन वृद्धिरादेशः तत्र साक्षात् न भवति | इदं सन्धिकार्यं; श्नसोरल्लोपः (६.४.१११) अङ्गकार्यं, परसूत्रं च | अतः अडागमानन्तरं श्नसोरल्लोपः (६.४.१११) इत्यनेन अकारलोपः; तदा तु आटश्च (६.१.८९) इत्यस्य अवसरः एव नास्ति |
अस् + लङ् → आडजादीनाम् (६.४.७२) → आ + अस् +लङ् → आ + अस् +ताम् → श्नसोरल्लोपः (६.४.१११) → आ + स् + ताम् → आस्ताम्
आडजादीनाम् (६.४.७२) = लुङ् लङ् लृङ् च परे चेत्, अजादिधातुरूपि-अङ्गस्य आट्-आगमो भवति; स च अडागमः उदात्त-संज्ञकः | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन अङ्गात् प्राक् आयाति | अच् आदिर्येषां ते, अजादयः बहुव्रीहिः; तेषाम् अजादीनाम् | आट् प्रथमान्तम्, अजादीनाम् षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१) इत्यस्मात् लुङ्लङ्लृङ्क्षु, उदात्तः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अजादीनाम् अङ्गस्य आट् उदात्तः लुङ्लङ्लृङ्क्षु |
आटश्च (६.१.८९) = आडागमात् अचि परे पूर्वपरयोः वृद्धिरेकादेशो भवति | आटः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | वृद्धिरेचि (६.१.८७) इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम् |
b) सन्धिकार्यम्—सकारान्तधातुः अतः आधिक्येन केवलं वर्णमेलनं भवति | यथा सकारात् तकारे परे केवलं मेलनम् | अस् + ति → अस्ति |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
हकारान्तः दुह → दुह् धातुः (उभयपदी, प्रपूरणे)
a) अङ्गकार्यम्—
१) हलादि पित्सु = उपधायां लघु-इकः गुणः | दुह् + ति → पुगन्तलघूपधस्य च → दोह् + ति → सन्धिकार्यम् → दोग्धि
२) अजादि पित्सु = उपधायां लघु-इकः गुणः | दुह् + आनि → पुगन्तलघूपधस्य च → दोह् + आनि → दोहानि
३) हलाद्यपित्सु = क्ङिति च, गुणनिषेधः | दुह् + तः → सन्धिकार्यमेव → दुग्धः
४) अजाद्यपित्सु = क्ङिति च, गुणनिषेधः | दुह् + अन्ति → वर्णमेलनमेव → दुहन्ति
b) सन्धिकार्यम्—
दकारादि-हकारान्तधातूनां सन्धिकार्यं चतुर्विधम्—
१. दकारादि-हकारान्तधातुतः तकारादि थकारादि च प्रत्ययानां योजनविधिः
- तकारादि थकारादि च प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण |
- अधुना प्रत्ययः झष्-परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्-आदेशो भवति झषस्तथोर्धोऽधः इति सूत्रेण |
- अधुना धातु-परतः झश् अस्ति (धकारः), अतः धात्वन्ते घ्-स्थाने तृतीयादेशो भवति झलां जश् झशि इति सूत्रेण | जश्त्वसन्धिरिति |
दुह् + ति → गुणकार्यम् → दोह् + ति → दादेर्धातोर्घः इत्यनेन ह्-स्थाने घ्-आदेशः → दोघ् + ति → झषस्तथोर्धोऽधः इत्यनेन त्-स्थाने ध्-आदेशः → दोघ् + धि → झलां जश् झशि इत्यनेन घ्-स्थाने ग्-आदेशः → दोग् + धि → दोग्धि
दुह् + थः → दादेर्धातोर्घः → दुघ् + थः → झषस्तथोर्धोऽधः → दुघ् + धः → झलां जश् झशि → दुग् + धः → दुग्धः
२. दकारादि-हकारान्तधातुतः सकारादि-प्रत्ययानां योजनविधिः
- सकारादि-प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण |
- तदा आदौ स्थितस्य दकारस्य धकारादेशो भवति एकाचो बशो भष् झषन्तस्य स्ध्वोः इत्यनेन |
- खर् परे अस्ति अतः खरि च इत्यनेन घकारस्य स्थाने ककारादेशो भवति |
- कवर्गीयवर्णः पूर्वम् अस्ति अतः आदेशप्रत्यययोः इत्यनेन स्-स्थाने षत्वम् |
दुह् + सि → गुणकार्यम् → दोह् + सि → दादेर्धातोर्घः → दोघ् + सि → एकाचो बशो भष् झषन्तस्य स्ध्वोः → धोघ् + सि → खरि च → धोक् + सि → आदेशप्रत्यययोः → धोक् + षि → धोक्षि
३. दकारादि-हकारान्तधातुतः धकारादि-प्रत्ययानां योजनविधिः
- धकारादि प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण |
- धात्वन्ते घ्-स्थाने तृतीयादेशो भवति झलां जश् झशि इति सूत्रेण | जश्त्वसन्धिरिति |
दुह् + हि → हुझल्भ्यो हेर्धिः → दुह् + धि → दादेर्धातोर्घः इत्यनेन ह्-स्थाने घ्-आदेशः → दुघ् + धि → झलां जश् झशि इत्यनेन घ्-स्थाने ग्-आदेशः → दुग् + धि → दुग्धि
४. दकारादि-हकारान्तधातुतः ध्वे-प्रत्ययस्य योजनविधिः
- ध्वे-प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण |
- अधुना एकाच्-बशादि-झषन्तधातुः जातः (३४ इति) | अतः एकाचो बशो भष् झषन्तस्य स्ध्वोः इत्यनेन (३४ – ४४) आदौ तृतीयसदस्य स्थाने चतुर्थसदस्यादेशो भवति |
- धात्वन्ते घ्-स्थाने तृतीयादेशो भवति झलां जश् झशि इति सूत्रेण | जश्त्वसन्धिरिति |
दुह् + ध्वे → दादेर्धातोर्घः इत्यनेन ह्-स्थाने घ्-आदेशः → दुघ् + ध्वे → एकाचो बशो भष् झषन्तस्य स्ध्वोः इत्यनेन बशः भष्-आदेशः → धुघ् + ध्वे → झलां जश् झशि इत्यनेन घ्-स्थाने ग्-आदेशः → धुग् + ध्वे → धुग्ध्वे
लङि—
अदोह् + त् → हल्-परतः अपृक्तसंज्ञक-प्रत्ययस्य लोपः → अदोह् → दादेर्धातोर्घः → अदोघ् → एकाचो बशो भष् झषन्तस्य स्ध्वोः → अधोघ् → झलां जशोऽन्ते → अधोग् → वाऽवसाने इत्यनेन विकल्पेन चर्त्वादेशः → अधोक्
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६८) = हल्-परतः अपृक्तसंज्ञक-प्रत्ययस्य लोपः | लङि त्-लोपः, स्-लोपश्च |
दादेर्धातोर्घः (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम् | हो ढः (८.२.३१) इत्यस्मात् हः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— दादेः धातोः हः घः झलि पदस्य अन्ते च |
झषस्तथोर्धोऽधः (८.२.४०) = झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ् च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम् अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्तत्पुरुषः, तस्मात् अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्, अधः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |
एकाचो बशो भष् झषन्तस्य स्ध्वोः इत्यस्य अनौपचारिकोऽर्थः—
धातोः आदौ बश् (ब, ग, ड, द) अपि च अन्ते झष् (झ, भ, घ, ढ, ध), तस्य धातोः नाम एकाच्-बशादि-झषन्तधातुः | यथा बन्ध्-धातुः, बुध्-धातुः च | यदि उपर्युक्त-हकारान्तधातुसम्बद्ध-सूत्रैः हकारस्य स्थाने झषादेशः सञ्जातः (दृष्टान्ते— दुह् → दुघ्) तर्हि सोऽपि तादृशो धातुः | एकाच्-बशादि-झषन्तधातोः आदौ स्थितस्य बशः स्थाने भषादेशो भवति (भ, घ, ढ, ध) सकारादि-प्रत्यये परे, ध्व-शब्दे परे, पदान्ते च | अतः वदामः यत् '३४ → ४४' इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्यः (३), अन्ते च वर्गस्य चतुर्थसदस्यः (४), तत्र आदौ स्थितस्य तृतीयसदस्यस्य स्थाने चतुर्थसदस्यादेशो भवति (३ → ४) | आहत्य ३४ → ४४ इति विकारः | धेयं यत् अयं बश्-वर्णः धातोः अन्तिम-अंशस्य आदौ अपि भवितुमर्हति | अनेन धातुः अनेकाच् चेदपि, तस्य धातोः एकाच्-बशादि-झषन्तधात्वंशः अस्ति चेत्, अत्रापि ३४ → ४४ इति विकारो भवति |
एकाचो बशो भष् झषन्तस्य स्ध्वोः (८.२.३७) = धातोरवयवो यो झषन्त एकाच्, तस्य बशः भषादेशो भवति सकारे परे, ध्व-शब्दे परे, पदान्ते च | अनुवृत्तिसहितसूत्रे 'एकाचः झषन्तस्य' इत्यनयोरेव विशेषणविशेष्यभावः; धातोः तादृशांशः इति तात्पर्यम् | अनेन धातोः एकाच् वा तदधिकाः वा अर्हाः | एकोऽच् यस्मिन् स एकाच् बहुव्रीहिः, तस्य एकाचः | झष् अन्ते यस्य स झषन्तः बहुव्रीहिः, तस्य झषन्तस्य | स् च ध्व् च स्ध्वौ इतरेतरद्वन्द्वः, तयोः स्ध्वोः | एकाचः षष्ठ्यन्तं, बशः षष्ठ्यन्तं, भष् प्रथमान्तं, झषन्तस्य षष्ठ्यन्तं, स्ध्वोः सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | दादेर्धातोर्घः (८.२.३२) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— धातोः एकाचः झषन्तस्य बशः भष् स्ध्वोः पदस्य अन्ते च |
परस्मैपदे आत्मनेपदे च—
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
हकारान्तः दिह → दिह् धातुः (उभयपदी, उपचये)
सर्वं दुह-धातुवत् भवति; अङ्गकार्यम् अपि सन्धिकार्यम् अपि तथा |
a) अङ्गकार्यम्—
१) हलादि पित्सु = उपधायां लघु-इकः गुणः | दिह् + ति → पुगन्तलघूपधस्य च → देह् + ति → सन्धिकार्यम् → देग्धि
२) अजादि पित्सु = उपधायां लघु-इकः गुणः | दिह् + आनि → पुगन्तलघूपधस्य च → देह् + आनि → देहानि
३) हलाद्यपित्सु = क्ङिति च, गुणनिषेधः | दिह् + तः → सन्धिकार्यमेव → दिग्धः
४) अजाद्यपित्सु = क्ङिति च, गुणनिषेधः | दिह् + अन्ति → वर्णमेलनमेव → दिहन्ति
b) सन्धिकार्यम्—
उपरि यथा दुह-धातोः कार्यं तथैव |
परस्मैपदे आत्मनेपदे च—
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
हकारान्तः लिह → लिह् धातुः (उभयपदी, आस्वादने)
a) अङ्गकार्यम्—
१) हलादि पित्सु = उपधायां लघु-इकः गुणः | लिह् + ति → पुगन्तलघूपधस्य च → लेह् + ति → सन्धिकार्यम् → लेढि
२) अजादि पित्सु = उपधायां लघु-इकः गुणः | लिह् + आनि → पुगन्तलघूपधस्य च → लेह् + आनि → लेहानि
३) हलाद्यपित्सु = क्ङिति च, गुणनिषेधः | लिह् + तः → सन्धिकार्यमेव → लीढः
४) अजाद्यपित्सु = क्ङिति च, गुणनिषेधः | लिह् + अन्ति → वर्णमेलनमेव → लिहन्ति
b) सन्धिकार्यम्—
हकारान्तधातूनां सन्धिकार्यं त्रिविधम्—
१. हकारान्तधातुतः तकारादि थकारादि च प्रत्ययानां योजनविधिः
- तकारादि थकारादि च प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, हो ढः इत्यनेन सूत्रेण |
- प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्-आदेशो भवति झषस्तथोर्धोऽधः इति सूत्रेण |
- प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्-आदेशो भवति ष्टुना ष्टुः इति सूत्रेण |
- पूर्वतनस्य ढ्-लोपो भवति ढो ढे लोपः इति सूत्रेण |
लिह् + ति → पुगन्तलघूपधस्य च इत्यनेन गुणः → लेह् + ति → हो ढः इत्यनेन झलि परे ह्-स्थाने ढ्-आदेशः → लेढ् + ति → झषस्तथोर्धोऽधः इत्यनेन त्-स्थाने ध्-आदेशः → लेढ् + धि → ष्टुना ष्टुः इत्यनेन ष्टुत्वम् → लेढ् + ढि → ढो ढे लोपः इत्यनेन पूर्वतनस्य ढकारस्य लोपः → ले + ढि → लेढि
विशेषः—
ढ्, र् इत्यनयोर्लोपानन्तरं तयोः पूर्वस्थितस्य अण् (अ, इ, उ) इत्यस्य दीर्घादेशो भवति | यथा—
लिह् + तः → हो ढः → लिढ् + तः → झषस्तथोर्धोऽधः → लिढ् + धः → ष्टुना ष्टुः→ लिढ् + ढः → ढो ढे लोपः → लि + ढः → ढ्रलोपे पूर्वस्य दीर्घोऽणः इत्यनेन ढ् इत्यस्य लोपानन्तरं पूर्वस्थितस्य अणः दीर्घादेशः → ली + ढः → लीढः
अत्र प्रश्नः उदेति— ढो ढे लोपः (८.३.१३) इति पूर्वत्रिपादिसूत्रं, ष्टुना ष्टुः (८.४.४१) इति परत्रिपादिसूत्रम् | तर्हि किमर्थं पूर्वत्रासिद्धम् (८.२.१) इत्यनेन ष्टुना ष्टुः (८.४.४१) इत्यस्य कार्यम् असिद्धं न भवेत् ?
उत्तरमिदं यत् 'आश्रयात् सिद्धम्' | वस्तुतः यत्र कुत्रापि ढो ढे लोपः (८.३.१३) इति सूत्रं प्रवर्तते, तस्मात् पूर्वं ष्टुना ष्टुः (८.४.४१) प्रवर्तते एव | सम्पूर्ण-संस्कृतभाषायां कुत्रापि नास्ति यत्र ढो ढे लोपः (८.३.१३) भवति किन्तु तस्मात् पूर्वं ष्टुना ष्टुः (८.४.४१) न स्यात् | अस्यां दशायां पूर्वत्रासिद्धम् (८.२.१) इत्यनेन ढो ढे लोपः (८.३.१३) इत्यस्य मनसि ष्टुना ष्टुः (८.४.४१) इत्यस्य कार्यम् असिद्धं चेत् ढो ढे लोपः (८.३.१३) इत्यस्य प्रवर्तनं न कुत्रापि भवेत्; निरवकाशं स्यात् | तदर्थं ढो ढे लोपः (८.३.१३) इति सूत्रं ष्टुना ष्टुः (८.४.४१) इति सूत्रस्य आश्रये अस्ति इति कृत्वा 'आश्रयात् सिद्धम्' इत्युच्यते | अनेन कारणेन ढो ढे लोपः (८.३.१३) न बाधितं पूर्वत्रासिद्धम् (८.२.१) इति सूत्रेण |
२. हकारान्तधातुतः सकारादि-प्रत्ययानां योजनविधिः
- सकारादि-प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, हो ढः इत्यनेन सूत्रेण |
- तदा ढकारस्य स्थाने ककारादेशो भवति षढोः कः सि इत्यनेन सूत्रेण |
- अन्ते प्रत्ययावयवस्य सकारस्य स्थाने षकारादेशो भवति, आदेशप्रत्यययोः इत्यनेन सूत्रेण |
यथा— लिह् + सि → पुगन्तलघूपधस्य च → लेह् + सि → हो ढः → लेढ् + सि → षढोः कः सि → लेक् + सि → आदेशप्रत्यययोः → लेक् + षि → लेक्षि
हो ढः (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हः ढः झलि पदस्य अन्ते च |
षढोः कः सि (८.२.४१) = सकारे परे षकारस्य ढकारस्य च ककारादेशो भवति | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— षढोः कः सि |
३. हकारान्तधातुतः धकारादि-प्रत्ययानां योजनविधिः
- धकारादि-प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, हो ढः इत्यनेन सूत्रेण |
- प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्-आदेशो भवति ष्टुना ष्टुः इति सूत्रेण |
- पूर्वतनस्य ढ्-लोपो भवति ढो ढे लोपः इति सूत्रेण |
- ढलोपनिमित्तस्य पूर्वस्य अणः दीर्घः भवति ढ्रलोपे पूर्वस्य दीर्घोऽणः इति सूत्रेण |
यथा—
लिह् + हि → हुझल्भ्यो हेर्धिः → लिह् + धि → हो ढः इत्यनेन झलि परे ह्-स्थाने ढ्-आदेशः → लिढ् + धि → ष्टुना ष्टुः इत्यनेन ष्टुत्वम् → लिढ् + ढि → ढो ढे लोपः इत्यनेन पूर्वतनस्य ढकारस्य लोपः → लि + ढि → ढ्रलोपे पूर्वस्य दीर्घोऽणः इत्यनेन ढ् इत्यस्य लोपानन्तरं पूर्वस्थितस्य अणः दीर्घादेशः → ली + ढि → लीढि
लिह् + ध्वे → हो ढः → लिढ् + ध्वे → ष्टुना ष्टुः → लिढ् + ढ्वे → ढो ढे लोपः → लि + ढ्वे → ढ्रलोपे पूर्वस्य दीर्घोऽणः → ली + ढ्वे → लीढ्वे
हो ढः (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हः ढः झलि पदस्य अन्ते च |
झषस्तथोर्धोऽधः (८.२.४०) = झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ् च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम् अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्तत्पुरुषः, तस्मात् अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्, अधः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |
ढो ढे लोपः (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— ढः ढे लोपः |
ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ् च र् च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन् ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्, अणः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूरणम्— ढ्रलोपे पूर्वस्य अणः दीर्घः |
लङि—
अलिह् + त् → पुगन्तलघूपधस्य च → अलेह् + त् → हल्-परतः अपृक्तसंज्ञक-प्रत्ययस्य लोपः → अलेह् → हो ढः → अलेढ् → झलां जशोऽन्ते → अलेड् → वाऽवसाने इत्यनेन विकल्पेन चर्त्वादेशः → अलेट्
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६८) = हल्-परतः अपृक्तसंज्ञक-प्रत्ययस्य लोपः | लङि त्-लोपः, स्-लोपश्च |
परस्मैपदे आत्मनेपदे च—
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
अदादिगणस्य रुदाद्यन्तर्गणः (पञ्च धातवः)
रुदिर् (अश्रुविमोचने)→ रुद् → रोदिति
अन (प्राणने) → अन् → अनिति
ञिष्वप् (शये) → स्वप् → स्वपिति
श्वस (प्राणने) → श्वस् → श्वसिति
जक्ष (भक्षहसनयोः) → जक्ष् → जक्षिति
रुदादिभ्यः सार्वधातुके (७.२.७६) = रुदादिगणे पठितेभ्यः धातुभ्यः वलादेः सार्वधातुकस्य इडागमो भवति | वल्-प्रत्याहारः आदौ यस्य सः वलादिः | वल्-प्रत्याहारस्य अन्तर्गतेषु वर्णेषु तिङ्-प्रत्ययानाम् आदौ त्, थ्, ध्, म्, व्, स्, ह् एते एव भवन्ति | रुदादिभ्यः पञ्चम्यन्तं, सार्वधातुके सप्तम्यन्तं, द्विपदमिदं सूत्रम् | आर्धधातुकस्येड् वलादेः (७.२.३५) इत्यस्मात् इट्, वलादेः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— रुदादिभ्यः अङ्गेभ्यः इट् वलादौ सार्वधातुके |
अत्र प्रश्नः उदेति यत् अयं इट् कस्य आगमः ? रुदादिभ्यः सार्वधातुके (७.२.७६) इत्यनेन रुदादिभ्यः अङ्गेभ्यः इट् वलादौ सार्वधातुके | अस्मिन् सूत्रे तस्मादित्युत्तरस्य (१.१.६७) इत्यस्य बलेन अयम् इडागमः अग्रे स्थितस्य वलादिसार्वधातुकप्रत्ययस्य आगमः स्यात्; तस्मिन्निति निर्दिष्टे पूर्वस्य (१.१.६६) इत्यस्य बलेन इडागमः पूर्वं स्थितस्य रुदादिगणीयधातोः आगमः | सूचनाद्वयमपि परस्परविरुद्धम् | षष्ठीविभक्त्यन्तपदं नास्ति यस्य आधारेण कस्य आगमः इति स्पष्टं स्यात् | अस्यां दशायाम् उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् इति परिभाषया, द्वयोः निर्देशयोर्मध्ये पञ्चमीनिर्देशः बलीयान् | इत्युक्तौ वलादिसार्वधातुकप्रत्ययस्य एव आगमः न तु रुदादिगणीयधातोः | फलितार्थः एवं यत् सप्तम्यन्तं पदं स्थानिनं निदर्शयति | अनेन रुदादिभ्यः सार्वधातुके (७.२.७६) इत्यस्य अनुवृत्ति-सहितसूत्रे 'वलादौ सार्वधातुके' सप्तम्यन्तम्, अतः तस्य एव इडागमः भवेत् |
यथा—
रुद् + ति → रोद् + ति → रोद् + इ + ति → रोदिति
अन् + ति → अन् + इ + ति → अनिति
स्वप् + ति → स्वप् + इ + ति → स्वपिति
श्वस् + ति → श्वस् + इ + त → श्वसिति
जक्ष् + ति → जक्ष् + इ + ति → जक्षिति
लङि—
विकल्पेन अरोदीत्, अरोदत् |
१. रुदश्च पञ्चभ्यः (७.३.९८) = पञ्चभ्यः रुदादिभ्यः धातुभ्यः हलादेः पितः अपृक्तस्य सार्वधातुकस्य ईडागमो भवति | रुदादिभ्यः सार्वधातुके (७.२.७६) इत्यस्य अपवादः | उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् इति परिभाषया सप्तम्यन्तस्य आगमः | रुदः पञ्चम्यन्तं, पञ्चभ्यः पञ्चम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | नाभ्यस्तस्याचि पिति सार्वधातुके (७.३.८७) इत्यस्मात् पिति, सार्वधातुके इत्यनयोः अनुवृत्तिः | उतो वृद्धिर्लुकि हलि (७.३.८९) इत्यस्मात् हलि इत्यस्य अनुवृत्तिः | गुणोऽपृक्ते (७.३.९१) इत्यस्मात् अपृक्ते इत्यस्य अनुवृत्तिः | ब्रुव ईट् (७.३.९३) इत्यस्मात् ईट् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— रुदश्च पञ्चभ्यः अङ्गेभ्यः ईट् हलि पिति अपृक्ते सार्वधातुके |
यथा—
अरुद् + त् → रुदश्च पञ्चभ्यः (७.३.९८) → अरुद् + ईट् + त् → अरुद् + ईत् → पुगन्तलघूपधस्य च (७.३.८६) → अरोद् + ईत् → अरोदीत्
अत्र ईडागमस्य विधानेन अधुना प्रत्ययः ईत्, नाम द्विवर्णकः, अतः अपृक्त-संज्ञा नास्ति; तदभावे हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) इत्यस्य प्रसक्तिर्नास्ति | अरुद् + स् → अरोदीः अपि तथा |
२. अड् गार्ग्यगालवयोः (७.३.९९) = पञ्चभ्यः रुदादिभ्यः धातुभ्यः हलादेः पितः सार्वधातुकस्य अपृक्तस्य अडागमो भवति, गार्ग्यगालवयोः मतेन | गार्ग्यश्च गालवश्च गार्ग्यगालवौ, तयोः गार्ग्यगालवयोः | उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् इति परिभाषया सप्तम्यन्तस्य आगमः | अट् प्रथमान्तं, गार्ग्यगालवयोः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | नाभ्यस्तस्याचि पिति सार्वधातुके (७.३.८७) इत्यस्मात् पिति, सार्वधातुके इत्यनयोः अनुवृत्तिः | उतो वृद्धिर्लुकि हलि (७.३.८९) इत्यस्मात् हलि इत्यस्य अनुवृत्तिः | गुणोऽपृक्ते (७.३.९१) इत्यस्मात् अपृक्ते इत्यस्य अनुवृत्तिः | रुदश्च पञ्चभ्यः (७.३.९८) इत्यस्मात् रुदश्च, पञ्चभ्यः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— गार्ग्यगालवयोः रुदश्च पञ्चभ्यः अङ्गेभ्यः अट् हलि पिति अपृक्ते सार्वधातुके |
यथा—
अरुद् + त् → पुगन्तलघूपधस्य च (७.३.८६) → अरोद् + त् → अड् गार्ग्यगालवयोः (७.३.९९) → अरोद् + अ + त् → अरोदत् | अरोद् + स् → अरोद् + अ + स् → अरोदः अपि तथा |
त्-प्रत्यये परे स्-प्रत्यये परे
रुद् → अरोद् → अरोदीत्, अरोदत् अरोदीः, अरोदः
स्वप् → अस्वप् → अस्वपीत्, अस्वपत् अस्वपीः, अस्वपः
श्वस् → अश्वस् → अश्वसीत्, अश्वसत् अश्वसीः, अश्वसः
अन् → आन् → आनीत्, आनत् आनीः, आनः
जक्ष् → अजक्ष् → अजक्षीत्, अजक्षत् अजक्षीः, अजक्षः
दकारान्तः रुद → रुद् धातुः (परस्मैपदी, अश्रुविमोचने)
a) अङ्गकार्यम्—
१) हलादि पित्सु = उपधायां लघु-इकः गुणः | रुद् + ति → पुगन्तलघूपधस्य च → रोद् + ति → इडागमः → रोदिति
२) अजादि पित्सु = उपधायां लघु-इकः गुणः | रुद् + आनि → पुगन्तलघूपधस्य च → रोद् + आनि → रोदानि
३) हलाद्यपित्सु = क्ङिति च, गुणनिषेधः | रुद् + तः → इडागमः → रुदितः
४) अजाद्यपित्सु = क्ङिति च, गुणनिषेधः | रुद् + अन्ति → वर्णमेलनमेव → रुदन्ति
b) सन्धिकार्यम्—
वलादि-प्रत्ययेषु इडागमो भवति अतः हल्-सन्धेः अवसरो न कुत्रापि भवति |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
पकारान्तः ञिष्वप् → स्वप् (परस्मैपदी, शये)
a) अङ्गकार्यम्— उपधायां ह्रस्व-अकारः (लघु इक् इति न) अतः गुणकार्यं नास्ति | वलादि-प्रत्यये परे इडागमो भवति, अपि च लङ्-लकारे अपृक्तसंज्ञक-प्रत्ययेषु ईडागमश्च अडागमश्च भवतः |
b) सन्धिकार्यम्— वलादि-प्रत्ययेषु इडागमो भवति अतः हल्-सन्धेः अवसरो न कुत्रापि भवति |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
सकारान्तः श्वस → श्वस् (परस्मैपदी, प्राणने)
a) अङ्गकार्यम्— उपधायां ह्रस्व-अकारः (लघु इक् इति न) अतः गुणकार्यं नास्ति | वलादि-प्रत्यये परे इडागमो भवति, अपि च लङ्-लकारे अपृक्तसंज्ञक-प्रत्ययेषु ईडागमश्च अडागमश्च भवतः |
b) सन्धिकार्यम्— वलादि-प्रत्ययेषु इडागमो भवति अतः हल्-सन्धेः अवसरो न कुत्रापि भवति
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
अदादिगणस्य जक्षाद्यन्तर्गणः (सप्त धातवः)
जक्षित्यादयः षट् (६.१.६) = जक्षित्यादीनां धातूनाम् अभ्यस्त-संज्ञा भवति | अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्त धातवः सन्ति— जक्ष्, जागृ, दरिद्रा, चकास्, शास्, दीधीङ्, वेवीङ् च | इति-शब्देन जक्ष्-धातोः परामर्शः | इति आदिः येषां ते इत्यादयः बहुव्रीहिः | जक्ष् प्रथमान्तम्, इत्यादयः प्रथमान्तं, षट् प्रथमान्तं, त्रिपदमिदं सूत्रम् | उभे अभ्यस्तम् (६.१.५) इत्यस्मात् अभ्यस्तम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— जक्षित्यादयः षट् अभ्यस्तम् |
उभे अभ्यस्तम् (६.१.५) इति सूत्रेण यदा धातोः द्वित्वं भवति, तदा मिलित्वा द्वयोः भागयोः नाम 'अभ्यस्तं' भवति | जक्षित्यादयः षट् (६.१.६) इत्यनेन जक्षित्यादीनां धातूनाम् अद्वित्वे सत्यपि अभ्यस्त-संज्ञा भवति |
एषां सप्तानां धातूनां तिङन्तसिद्ध्यर्थं विशिष्टे द्वे कार्ये—
१) अदभ्यस्तात् (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | झोऽन्तः (७.१.३) इत्यस्मात् झः (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | आयनेयीनीयियः फढखछगां प्रत्ययादीनाम् (७.१.२) इत्यस्मात्, वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत् |
धेयं यत् अत्-आदेशस्य तकारः हलन्त्यम् (१.३.३) इति सूत्रेण इत्-संज्ञकः न, यतोहि अत् तु विभक्तिसंज्ञक-झि-प्रत्ययस्य अवयवस्य आदेशः अतः न विभक्तौ तुस्माः (१.३.४) इत्यनेन हलन्त्यम् (१.३.३) बाधितम् |
अदभ्यस्तात् (७.१.४) इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ्-स्थाने अत् आदेशः, अतः लटि झि → अति न तु अन्ति; लोटि झि → अतु न तु अन्तु |
२) सिजभ्यस्तविदिभ्यश्च (३.४.१०९) = ङित्-लकारस्य अवस्थायां, सिच्-प्रत्ययात्, अभ्यस्तसंज्ञकात् धातोः, विद्-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्-आदेशो भवति | सिच् च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | नित्यं ङितः (३.४.९९) इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः | झेर्जुस् (३.४.१०८) इत्यस्मात् झेः जुस् इत्यनयोः अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस् |
अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्-आदेशः | जुस् इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि आहत्य अभ्यस्तसंज्ञकः धातुः अस्ति चेत्, लङि अन्-स्थाने उः इति प्रत्ययः भवति |
एषु सप्तसु जक्षाद्यन्तर्गणीयेषु धातुषु चत्वारः अजन्तः— जागृ, दरिद्रा, दीधीङ्, वेवीङ् चेत्येषां रूपाणि अस्माभिः साधितानि अदादिगणस्य अजन्तानां पाठे | त्रयः च हलन्ताः— जक्ष्, चकास्, शास्; एषां रूपाणि अधुना साधनीयानि—
षकारान्तः जक्ष → जक्ष् (परस्मैपदी, भक्षहसनयोः)
जक्ष्-धातुः रुदाद्यन्तर्गणेऽपि अस्ति, जक्षाद्यन्तर्गणेऽपि अस्ति | अतः धेयं यत् अत्र द्वयोः अन्तर्गणयोः कार्यं भवति |
a) अङ्गकार्यम्— उपधायां ककारः (लघु इक् इति न) अतः गुणकार्यं नास्ति | वलादि-प्रत्यये परे इडागमो भवति, अपि च लङ्-लकारे अपृक्तसंज्ञक-प्रत्ययेषु ईडागमश्च अडागमश्च भवतः |
b) सन्धिकार्यम्— वलादि-प्रत्ययेषु इडागमो भवति अतः हल्-सन्धेः अवसरो न कुत्रापि भवति |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
सकारान्तः चकासु → चकास् (परस्मैपदी, दीप्तौ)
चकास्-धातुः जक्षाद्यन्तर्गणे अस्ति, अतः तिङन्तसिद्ध्यर्थं विशिष्टे द्वे कार्ये मनसि निधाय रूपाणि प्रवर्तनीयानि |
a) अङ्गकार्यम्— उपधायाम् आकारः (लघु इक् इति न) अतः गुणकार्यं नास्ति |
लोटि—
हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यनेन झलन्तेभ्यः धातुभ्यशः हि-प्रत्ययस्य स्थाने धि-आदेशः |
चकास् + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) → चकास् + धि
b) सन्धिकार्यम्—
लोटि—
धि च (८.२.२५) इत्यनेन सकारस्य लोपो भवति धकारादि-प्रत्यये परे |
चकास् + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) → चकास् + धि → धि च (८.२.२५) इत्यनेन स्-लोपः → चकाधि
धि च (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | रात्सस्य (८.२.२४) इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धि च सस्य लोपः |
हुझल्भ्यो हेर्धिः (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | येनविधिस्तदन्तस्य (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम् अन्ते झल् | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हुझल्भ्यः अङ्गेभ्यः हेः धिः |
लङि—
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६८) इत्यनेन हल्-उत्तरस्य अपृक्तसंज्ञक-प्रत्ययस्य लोपः | लङि त्-लोपः, स्-लोपश्च |
अचकास् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् → चकास् → तिप्यनस्तेः इत्यनेन पदान्तस्य सकारस्य दकारादेशः → अचकाद्
अचकास् + त् → उपरि इव → अचकाद् → वाऽवसाने इत्यनेन विकल्पेन पदान्ते चर्त्वादेशः → अचकात्
तिप्यनस्तेः (८.२.७३) = पदान्तस्य सकारस्य दकारादेशो भवति तिपि परे; परन्तु अस्-धातौ न भवति | इदं सूत्रं ससजुषो रुः (८.२.६६) इत्यस्य अपवादः | न अस्तिः अनस्तिः, तस्य अनस्तेः | तिपि सप्तम्यन्तम्, अनस्तेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | ससजुषोः रुः (८.२.६६) इत्यस्मात् सः इत्यस्य अनुवृत्तिः | वसुस्रंसुध्वंस्वनडुहां दः (८.२.७२) इत्यस्मात् दः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— पदस्य सः दः तिपि अनस्तेः |
ससजुषो रुः (८.२.६६) = पदान्ते सकारस्य च सजुष्-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तम्, रुः प्रथमान्तम्, द्विपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ससजुषोः पदस्य रुः |
अत्र वस्तुतः झलां जशोऽन्ते (८.२.३९) इति अत्र सर्वसामान्यं सूत्रं; तस्य अपवादः ससजुषो रुः (८.२.६६); पुनः ससजुषो रुः इत्यस्य अपवादः तिप्यनस्तेः (८.२.७३) |
सिपि रुत्वं दत्वं वा
सिपि धातो रुर्वा (८.२.७४) = पदान्तस्य सकारस्य रु-आदेशो भवति, दकारो वा, सिपि परे | अत्र 'वा' इति समुच्चयार्थे | येनविधिस्तदन्तस्य (१.१.७२ ) इत्यनेन तदन्तविधिः; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णादेशः | 'धातोः' उक्तं परसूत्राणाम् अर्थपूर्तिकृते; प्रकृतसूत्रे आवश्यकता नास्ति | सिपि सप्तम्यन्तं, धातोः षष्ठ्यन्तं, रुः प्रथमान्तं, वा अव्ययपदम्, अनेकपदमिदं सूत्रम् | ससजुषोः रुः (८.२.६६) इत्यस्मात् सः इत्यस्य अनुवृत्तिः | वसुस्रंसुध्वंस्वनडुहां दः (८.२.७२) इत्यस्मात् दः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— सः धातोः पदस्य रुः दः वा सिपि |
प्राचीनैः उच्यते यत् वसुस्रंसुध्वंस्वनडुहां दः (८.२.७२) इत्यस्मात् दः इत्यस्य अनुवृत्त्या दकारस्य पक्षः सिध्यति साक्षात् अनेन एव सिपि धातो रुर्वा (८.२.७४) इति सूत्रेण | नवीनैः उच्यते यत् अस्यावश्यकता नास्ति यतोहि रु-अपक्षे स्-स्थाने दकारादेशः झलां जशोऽन्ते (८.२.३९) इत्यनेन | परन्तु अद्यत्वे आधिक्येन वैयाकरणाः वदन्ति यत् ससजुषोः रुः (८.२.६६), झलां जशोऽन्ते (८.२.३९) इत्यनयोर्मध्ये ससजुषोः रुः (८.२.६६) इत्यस्य अपवादभूतत्वात् झलां जशोऽन्ते (८.२.३९) इत्यस्य पुनः नितराम् अवकाशो नास्ति | इत्थञ्च सिपि धातो रुर्वा (८.२.७४) इत्यनेनैव रुश्च दश्च क्रियते |
अनेन सूत्रेण लङ्-लकारस्य स्-प्रत्यये परे सकारान्तपदस्य सकारस्य स्थाने विकल्पेन दकारादेशः रुत्वं वा भवति | यथा—
अचकास् + स् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् इत्यनेन स्-लोपः → अचकास् → सिपि धातो रुर्वा (८.२.७४) इत्यनेन विकल्पेन रु-आदेशः → अचकाद् / अचकारु → अचकारु चेत् उ इत्यस्य इत्-संज्ञा लोपश्च, खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यनेन अवसाने र्-स्थाने विसर्गादेशः → अचकाः // पुनः अचकाद् → वाऽवसाने इत्यनेन विकल्पेन चर्-आदेशः → अचकात् इति कृत्वा त्रीणि रूपाणि
अत्र दृष्टिः एवं— सकारान्तपदम् अस्ति चेत्, कीदृशं कार्यं स्यात् इति प्रश्नः | अस्मिन् प्रसङ्गे सर्वसामान्यं सूत्रं झलां जशोऽन्ते (८.२.३९) | सकारः झलि अस्ति; अनेन सूत्रेण पदान्ते सकारस्य जश्त्वं, नाम वर्गीयव्यञ्जनस्य तृतीयसदस्यः | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन दन्त्य-सकारस्य स्थाने दन्त्य-तवर्गस्य तृतीयसदस्यः दकारः भवति | अतः सर्वसामान्य-सिद्धान्तः पदान्ते सकारस्य स्थाने दकारादेशः | परन्तु ससजुषो रुः (८.२.६६) तस्य अपवादः | अनेन पदान्ते स्थितस्य सकारस्य स्थाने रु-आदेशो भवति | पुनः तिप्-प्रत्यये परे तिप्यनस्तेः (८.२.७३) तस्य अपवादः | अनेन तिपि परे पदान्तस्य सकारस्य दकारादेशो भवति | एवमेव सिप्-प्रत्यये परे सिपि धातो रुर्वा (८.२.७४) ससजुषो रुः (८.२.६६) इत्यस्य अपवादः | अनेन सिपि परे पदान्तस्य सकारस्य रु-आदेशो दकारादेशश्च भवति | यथोक्तं झलां जशोऽन्ते (८.२.३९) इत्यनेन स्-स्थाने दकारः नोपलभ्यते यतोहि तत्तु बाधितं ससजुषो रुः (८.२.६६) इति सूत्रेण |
प्रश्नः उदेति यत् सिप् यदा आगतः तदा कथं वा धातुसंज्ञा स्यात् ? सिपि धातो रुर्वा (८.२.७४) इति सूत्रेण 'धातोः' अपि उक्तं, 'सिपि' अपि उक्तम् | अत्र वार्ता एवं— कस्य भागस्य का संज्ञा ? 'वस + ति' इति स्थितौ 'वस' इति अङ्गस्य धातुसंज्ञा नास्ति; तत्र किन्तु 'वस्' इति अन्तर्निहितभागस्य धातुसंज्ञा तु तदानीमपि अस्त्येव | एवमेव सिपः विधानानन्तरमपि धातोः धातुसंज्ञा तिष्ठति | यथा 'अचकास् + स्' इत्यत्र 'अचकास् + स्' इत्यस्य पदसंज्ञा, 'अचकास्' इत्यस्य धातुसंज्ञा | तदा स्-प्रत्ययलोपानन्तरम्, 'अचकास्' इत्यस्य धातुसंज्ञा अपि भवति, पदसंज्ञा अपि भवति |
खरवसानयोर्विसर्जनीयः (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | रो रि (८.३.१४) इत्यस्मात् रः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम् |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
सकारान्तः शासु → शास् (परस्मैपदी, अनुशिष्टौ)
शास्-धातुः जक्षाद्यन्तर्गणे अस्ति, अतः तिङन्तसिद्ध्यर्थं विशिष्टे द्वे कार्ये मनसि निधाय रूपाणि प्रवर्तनीयानि |
a) अङ्गकार्यम्— उपधायाम् आकारः (लघु इक् इति न) अतः गुणकार्यं नास्ति | किन्तु अन्यत् अङ्गकार्यद्वयं वर्तते—
१. शास्-धातोः स्थाने शा-आदेशो भवति हि-प्रत्यये परे |
शा हौ (६.४.३५) = शास्-धातोः स्थाने शा-आदेशो भवति हि-प्रत्यये परे | शा लुप्तप्रथमाकं, हौ सप्तम्यन्तं, द्विपदमिदं सूत्रम् | शास इदङ्हलोः (६.४.३४) इत्यस्मात् शासः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— शासः शा हौ |
यथा—
शास् + हि → शा हौ (६.४.३५) → शा + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यनेन झलन्तेभ्यः धातुभ्यशः हि-स्थाने धि-आदेशः → शा + धि → शाधि
यदा शा-आदेशो भवति, तदानीं शा झलन्तः नास्ति अतः हि-स्थाने धि न स्यात् | किन्तु शा हौ (६.४.३५), हुझल्भ्यो हेर्धिः (६.४.१०१) इत्याभ्यां यत् कार्यं सिध्यति, उभयत्र तत् कार्यं आभीयकार्यम् | द्वाभ्यां च सूत्राभ्यां यत् कार्यं विधीयते, तस्य कार्यस्य आश्रयः 'हि'-प्रत्ययः | अतः एकवारं यदा एकम् हि-प्रत्ययाश्रितम् आभीयकार्यं जातं, तदा यदा द्वितीयं हि-प्रत्ययाश्रितम् आभीयकार्यं विधीयते,तत् कार्यं प्रति प्रथमम् आभीयकार्यं असिद्धं भवति | अस्याः सम्पूर्णप्रक्रियायाः बोधार्थम् अग्रे स्थानिवद्भावपाठे द्रष्टव्यम् |
असिद्धवदत्राभात् (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | भस्य (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम् | असिद्धवदत्राभात् (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम्, एषां कार्याणां नाम आभीय-कार्यम् | सूत्रं स्वयं सम्पूर्णम्— असिद्धवत् अत्र आ भात् |
२. शास्-धातोः उपधायाः ह्रस्व-इकारादेशो भवति हलादि किति ङिति प्रत्यये परे |
शास इदङ्हलोः (६.४.३४) = शास्-धातोः उपधायाः ह्रस्व-इकारादेशो भवति अङ्-प्रत्यये, हलादि किति ङिति च प्रत्यये परे | अङ्-प्रत्ययः लुङ्-लकारे भवति | यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन हलि इत्युक्तौ हलादि-प्रत्यये (तादृशप्रत्ययः यस्य आदौ हल् स्यात्) | क्ङिति विशेषणं, हलि इत्यस्य | अङ् च हल् च अङ्हलौ इतरेतरद्वन्द्वः, तयोः अङ्हलोः | शासः षष्ठ्यन्तम्, इत् प्रथमान्तम्, अङ्हलोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यस्मात् उपधायाः, क्ङिति इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकाराः | अनुवृत्ति-सहितसूत्रम्— शासः अङ्गस्य उपधायाः इत् क्ङिति अङ्हलोः |
यथा—
शास् + तः → शास इदङ्हलोः (६.४.३४) → शिस् + तः
b) सन्धिकार्यम्—
शासिवसिघसीनां च (८.३.६०) = शस्, वस्, घस् इत्येषां धातूनां इण्-प्रत्याहारोत्तरस्य कवर्गीयोत्तरस्य च सकारस्य स्थाने षकारादेशो भवति | सकारः आदेशस्य प्रत्ययस्य च अवयवः नास्ति इति कारणेन आदेशप्रत्यययोः (८.३.५९) इत्यस्य प्रसक्तिर्नास्ति; तस्मात् अस्य सूत्रस्य आवश्यकता | शासिश्च वसिश्च घसिश्च तेषामितरेतरद्वन्द्वः शासिवसिघसयः, तेषां शासिवसिघसीनाम् | शासिवसिघसीनां षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यस्मात् मूर्धन्यः इत्यस्य अनुवृत्तिः | इण्कोः (८.३.५७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— शासिवसिघसीनाम् च मूर्धन्यः इण्कोः |
यथा—
शिस् + तः → शासिवसिघसीनाम् च (८.३.६०) → शिष् + तः → ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वम् → शिष्टः
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
अनेन अदादिगणस्य हलन्तधातवः समाप्ताः |
१४ - अदादिगणे हलन्तधातवः (c).pdf Swarup Bhai, Aug 8, 2019, 4:45 AM v.1
Swarup – December 2013 (updated Sept 2016)