17 - लुट्-लकारः, द्वितीयभागः
पवर्गान्तधातवः
एकाच्-पकारान्तधातवः - १३ धातवः अनिटः | एषु दश धातवः सामान्याः; त्रयः ये ऋदुपधधातवः, तेषां विशिष्टकार्यम् |
दश सामान्यपकारान्ताः अनिट्-धातवः
दश सामान्यपकारान्ताः अनिट्-धातवः—
तप् + ता → खरि च (८.४.५५) → तप्ता
वप् + ता →
शप् + ता →
स्वप् + ता →
क्षिप् + ता →
तिप् + ता →
लिप् + ता →
छुप् + ता →
लुप् + ता →
आप् + ता →
तृप्, दृप्, सृप् एते त्रयः धातवः अनुदात्ताः च ऋदुपधाः
तृप्, दृप्, सृप् एते त्रयः धातवः अनुदात्ताः च ऋदुपधाः च इत्यतः विकल्पेन तेषाम् अमागमो भवति | अधस्थसूत्रद्वयं दृश्यताम्—
एकाच उपदेशेऽनुदात्तात् (७.२.१०)
एकाच उपदेशेऽनुदात्तात् (७.२.१०) = यः औपदेशिकधातुः एकाच् अपि अनुदात्तः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति |
अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९)
अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) = उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे | तृप्, दृप्, सृप्, मृश्, स्पृश्, कृष् (भ्वादि,तुदादि च) इति सप्त धातवः अनुदात्ताः च ऋदुपधाः | ऋत् उपधायां यस्य सः ऋदुपधः बहुव्रीहिः, तस्य ऋदुपधस्य | अनुदात्तस्य षष्ठ्यन्तं, च अव्ययपदम्, ऋदुपधस्य षष्ठ्यन्तम्, अन्यतरस्यां सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | सृजिदृशोर्झल्यमकिति (६.१.५८) इअत्यस्मात् झलि, अम्, अकिति इत्येषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— उपदेशे अनुदात्तस्य ऋदुपधस्य अम् झलि अकिति अन्यतरस्याम् |
सृप्, स्पृश्, मृश्, कृष् इत्येते चत्वारः धातवः अनिटः
सृप्, स्पृश्, मृश्, कृष् इत्येते चत्वारः धातवः अनिटः; तृप्, दृप् इत्येतौ द्वौ धातू वेटौ |
तृप्, दृप् इत्येतौ द्वौ धातू वेटौ
तृप्, दृप् इत्येतौ द्वौ धातू तौ एव यौ अनिट्-हलन्तधातुपाठे उक्तौ— तृपँ प्रीणने दि प० (तृप्यति), दृपँ हर्षमोहनयोः दि प० (दृप्यति) | तर्हि कथम् अत्र वेट्-धातुषु अपि पठितौ ? वस्तुतस्तु एतौ द्वौ धातू मूलतः 'अनुदात्तौ' | अनुदात्तः नाम कः अपि च कथं जानीमः के के धातवः अनुदात्ताः ? अनुदात्तः धातोः एका संज्ञा; अत्र पाणिनिना प्रसङ्गवशात् द्वयोः सूत्रयोः अस्याः संज्ञायाः उपयोगः कृतः— एकाच उपदेशेऽनुदात्तात् (७.२.१०), अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) | तर्हि 'अनुदात्तः' इति संज्ञा उपयुज्यते अष्टाध्याय्यां, किन्तु अस्मिन् ग्रन्थे के के धातवः अनुदात्ताः इति नोक्तम | प्रायः पाणिनेः धातुपाठे दत्तं स्यात् परन्तु तादृशग्रन्थः आधुनिकयुगे लुप्तः | तर्हि सूत्रद्वयस्य दर्शनेन प्रकटमस्ति यत् अस्याः संज्ञायाः महत्त्वमस्ति | अधुना किं प्रमाणं कस्य कस्य धातोः अनुदात्तसंज्ञा ?
महाभाष्ये दीयते यत् हलन्तधातुषु १०२ धातवः अनुदात्ताः | अपि च एवमपि दीयते यत् अजन्तेषु १२ +सर्वे ऊकारान्ताः च ॠकारान्ताः च सेटः; तान् विहाय सर्वे अजन्ताः अनिटः | तत्र एकाच उपदेशेऽनुदात्तात् (७.२.१०) इति सामान्यसूत्रेण यः धातुः एकाच् च अनुदात्तः च, तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति | परन्तु त्रिभिः सूत्रैः विकल्पेन इडागमः विधीयते | एभिः त्रिभिः सूत्रैः धातुभ्यः इडागमः वा भवति; तेषु धातुषु केवलं द्वौ धातू अनुदात्तौ— तृप्, दृप् | येषाम् इडागमः वा भवति, तेषु तृप्, दृप् इति धातू विहाय अवशिष्टधातवः सर्वे सेट् इति क्षेत्रात् स्वीकृताः |
एषु च त्रिषु सूत्रेषु एकमस्ति रधादिभ्यश्च (७.२.४५), येन विशिष्टसूत्रेण रध्, नश्, तृप्, दृप्, द्रुह्, मुह्, ष्णुह्, ष्णिह् इत्येभ्यः धातुभ्यः वलादेरार्धधातुकस्य इडागमः विकल्पेन भवति | एवञ्च रधादिभ्यश्च (७.२.४५) इति सूत्रम् एकाच उपदेशेऽनुदात्तात् (७.२.१०) इति सामान्यसूत्रस्य अपवादः | एकाच उपदेशेऽनुदात्तात् (७.२.१०) इति सानान्यसूत्रेण इडागमनिषेधः भवति स्म, तदा रधादिभ्यश्च (७.२.४५) इत्यनेन विकल्पेन विधीयते | त्रीणि अपि वेट्-विधायकसूत्राणि इडागमनिषेधापवादाः वा इडागमविधानापवादाः वा भवन्ति | तृप्, दृप् स्वीकृत्य इडागमनिषेधापवादाः; अन्यान्नपि वेट्-धातून् स्वीकृत्य इडागमविधानापवादाः |
बोध्यं यत् अष्टाध्याय्यां केवलम् 'इट्' शब्दः लभ्यते; ‘सेट्', 'अनिट्', ‘वेट्' इत्येते त्रयः शब्दाः अष्टाध्याय्यां न लभ्यन्ते | तर्हि इट् इति संज्ञा लभ्यते; अपि च 'अनुदात्तः' इत्यपि लभ्यते | सौकर्यार्थं ‘सेट्', 'अनिट्', ‘वेट्' इति वदामः, परन्तु मूलसंज्ञा अस्ति 'अनुदात्तः' |
अतः अष्टाध्याय्याः च महाभाष्यस्य च पठनेन धातुस्वभावप्रसङ्गे किं जानीमः ? महाभाष्यात् जानीमः के धातवः अनुदात्ताः | अतः 'स्वभावतः', ‘मूलतः' धातुः अनुदात्तः अस्ति न वा इति जानीमः, न तु ‘सेट्', 'अनिट्', ‘वेट्' | धातुः अनुदात्तः चेत्, एकाच उपदेशेऽनुदात्तात् (७.२.१०) इति सूत्रेण सामान्यतया तस्मात् धातुतः इडागमः न भवति, नाम स च धातुः 'अनिट्' इति वदामः | अपि च अनुदात्तः नास्ति चेत्, उदात्तः—नाम धातुतः इडागमः विधीयते—धातुः 'सेट्' | एवं च महाभाष्यस्य द्वारा के धातवः अनुदात्ताः, के च उदात्ताः च इति ज्ञायते | तादा अष्टाध्याय्यं त्रिभिः सूत्रैः केभ्यः धातुभ्यः इडागमः विकल्पेन विधीयते—नाम के धातवः 'वेटः'—इति ज्ञायते |
आहत्य तृप्, दृप् इति द्वौ धातू मूलतः अनुदात्तौ; परन्तु किमर्थम् अनुदात्तौ इति चेत्, येन इडागमनिषेधः स्यात् इति तु नास्ति यतोहि रधादिभ्यश्च (७.२.४५) इत्यनेन साक्षात् उच्यते यत् अनयोः धात्वोः इडागमः विकल्पेन विधीयते | तर्हि तृप्, दृप् इत्यनयोः द्वयोः अनुदात्तत्वं किमर्थम् उक्तम् ? येन अमागमः भवेत् | अनयोः द्वयोः धात्वोः, अनिट्ट्वेन सह, कोऽपि सम्बन्धो नास्ति | अनयोः अनुदात्तत्वं तर्हि किमर्थम् उक्तम् ? अमागमार्थम् | येन अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन अम्-आगमः विकल्पेन विधीयेत |
धेयं यत् यद्यपि एतौ द्वौ धातू वेटौ—नाम इडामः भवति विकल्पेन—तथापि अम्-आगमपक्षे इडागमसहितरूपं न भवति—यतोहि झलादौ प्रत्यये परे एव अमागमः विधीयते | अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे | तर्हि रधादिभ्यश्च (७.२.४५) इत्यनेन एताभ्यां द्वाभ्यां धातुभ्याम् इडागमः विकल्पेन विधीयते, किन्तु इडागमः न भवति चेदव अमागमः विधीयते |
रधादिभ्यश्च (७.२.४५)
रधादिभ्यश्च (७.२.४५) = रध्, नश्, तृप्, दृप्, द्रुह्, मुह्, ष्णुह्, ष्णिह् इत्येभ्यः धातुभ्यः वलादेरार्धधातुकस्येड् वा स्यात् |
अनिडादि-तास्-प्रत्ययः झलादि अकित्, अतः तस्य अम्-आगमो भवति | तदा इको यणचि (६.१.७६) इत्यनेन यण्-आदेशः |
सृप्-धातुः अनिट्
सृप् + ता → अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन अम्-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे → सृ + अम् + प् + ता → सृ + अ + प् + ता → इको यणचि (६.१.७६) → स्रप् + ता → खरि च (८.४.५५) → स्रप्ता
यस्मिन् पक्षे अम्-आगमो न भवति—
सृप् + ता → पुगन्तलघूपधस्य च (७.३.८६) → सर्प् + ता → सर्प्ता
तृप्, दृप्, इति द्वौ धातू वेटौ
यथोक्तम् इडादि-तास्-प्रत्यये परे अम्-आगमः न भवति यतोहि अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन अम्-आगमो भवति झलादि-प्रत्यये परे | इडादि-तास्-प्रत्ययः झलादिः नास्ति | अतः आहत्य तृप्-धातोः त्रीणि रूपाणि भवन्ति; तथैव च दृप्-धातोः |
इडादिपक्षे
तृप् + इता → पुगन्तलघूपधस्य च (७.३.८६) → तर्पिता
अनिडादिपक्षे
तृप् + ता → अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन अम्-आगमः → त्रप्ता
अमागमः न भवति चेत्—
तृप् + ता → पुगन्तलघूपधस्य च (७.३.८६) → तर्प्ता
दृप्-धातुः अपि तथा, त्रीणि रूपाणि
दृप् + इता →
दृप् + ता → अमागमे सति →
दृप् + ता → अमागमे असति →
प्रश्नः उदेति यत् अत्र अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९), पुगन्तलघूपधस्य च (७.३.८६) इति बाध्यबाधकभावप्रसङ्गे द्वयोः कः सम्बन्धः ? 'तृप् + ता' इति स्थितौ द्वयोरपि युगपत् प्रसक्तिः | अपि च पुगन्तलघूपधस्य च (७.३.८६) स्वीक्रियते चेत् अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इति सूत्रं निरवकाशं भवति | अतः अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इति पुगन्तलघूपधस्य च (७.३.८६) इति सूत्रं प्रति अपवादभूतम् |
अन्यः प्रश्नः उदेति यत् अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इति सूत्रे प्रसज्यप्रतिषेधः भवति वा, पर्युदासप्रतिषेधः भवति वा ? सूत्रार्थः उक्तः यत् उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे | यथा आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | अनुवृत्ति-सहितसूत्रम् अस्ति एचः धातोः आत् उपदेशे अशिति | अस्य सूत्रार्थस्य व्यक्तीकरणार्थं वाक्यद्वयं वक्तव्यं भवति—उपदेशे एजन्तस्य धातोरात्त्वं भवति | शिति प्रत्यये परे न भवति | नाम अत्र आत्वस्य विधानार्थं सप्तमीविभक्तौ किमपि निमित्तं नास्ति | ‘उपदेशे एजन्तस्य धातोरात्त्वं भवति' | विधानपक्षे किमपि नियमनं नास्ति | तर्हि एवमेव प्रकृतौ तथा कुर्मः चेत् किं भवति—उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्-आगमः विकल्पेन भवति | झलादौ किति प्रत्यये परे न भवति | एवं वदामः चेत् कः दोषः ? अजादिप्रत्यये परे अपि अमागमः भविष्यति | यकारादिप्रत्यये परे अपि अमागमः भविष्यति | केवलं न भवति कुत्र ? झलादौ किति प्रत्यये परे न भवति |
यङ्लुगन्तस्य उदाहरणं स्वीकुर्मः | तृप्-धातोः यङ्लुकि आतिदेशिकधातुः भवति तरीतृप्| लटि तरीतृप् + ति → अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन विकल्पेन अमागमः → तरीत्रप्ति | यस्मिन् पक्षे अमागमः न भवति, तस्मिन् पक्षे पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः → तरीतर्प्ति | अधुना लोटि तरीतृप् + आनि → अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन 'उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्-आगमः विकल्पेन भवति' → अत्रापि अमागमः विकल्पेन भविष्यति → तरीत्रपाणि | यत् अनिष्टम् | तथैव विधिलिङि यकारादिप्रत्यये परे अमागमः भविष्यति— तरीतृप् + यात् → तरीत्रप्यात् | एतदपि अनिष्टं रूपम् | कुत्र न भविष्यति ? परः स्थितः प्रत्ययः झलादिः कित् अस्ति चेदेव अमागमः न स्यात् |
नूनं सार्वधातुकलकारेषु कोऽपि कित्-प्रत्ययः एव नास्ति, अतः यङ्लुकि, लटि लोटि लङि विधिलिङि च, त्रिषु अपि वचनेषु, त्रिषु अपि पुरुषेषु सर्वत्र अमागमो भविष्यति | अनेन महती समस्या | अस्याः समस्यायाः निवारणार्थं प्रसज्यप्रतिषेधः न भवेत्; अपि तु पर्युदासः एव स्वीकर्तव्यः | अमागमस्य विधानार्थं प्रत्ययः अपेक्षितः; स च प्रत्ययः झालादिः भवेत्, कित् न स्यात् | अनेन अजादिप्रत्ययाः यकारादिप्रत्ययाः च निवार्यन्ते |
अन्यः प्रश्नः उदेति यत् इडागमः अथवा अमागमः—द्वयोः मध्ये कस्य विधानं प्रथमम् ? रधादिभ्यश्च (७.२.४५) इत्यनेन रध्, नश्, तृप्, दृप्, द्रुह्, मुह्, ष्णुह्, ष्णिह् इत्येभ्यः धातुभ्यः वलादेरार्धधातुकस्येड् वा स्यात् | अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे | द्वयोः कृते धातोः परः कश्चन प्रत्ययः अपेक्षितः एव | रधादिभ्यश्च (७.२.४५) च परसूत्रम् अतः प्रथमम् इडागमः | तदा एव अमागमः परिशीलनीयः | अन्यच्च प्रथमम् अमागमः आनीयते चेत् समस्या भवति यत् इडागमस्य विधानात् पूर्वं तास्-प्रत्ययः झलादिः एव | अतः प्रथमम् अमागमः भवति चेत्, स च अमागमः आगमिष्यति यत्र न आगन्तव्यमस्ति | तदा इडागमः भविष्यति; इडागमविधानसूत्रे अमागमः धातौ अस्ति न वा इति प्रसङ्गे किमपि नोक्तम् अतः अमागमः अस्ति चेदपि इडागमविधानं भवति | तस्य निवारणार्थं रधादिभ्यश्च (७.२.४५) परसूत्रम् | अनेन प्रथमम् इडागमः | अनेन इडागमः यत्र भवति तत्र प्रत्ययः झलादिः नास्ति; तस्माच्च तत्र अमागमः न भवति यतोहि प्रत्ययः अजादिः | प्रथमम् इडागमविधानं भवति चेदेव अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यस्य निमित्तम् 'झलादि अकिति प्रत्यये परे' व्यवहारे आगच्छति |
गुपू-धातुः
स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४)
स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) इति सूत्रेण 'स्वृ शब्दोपतापयोः',षूङ् प्राणिगर्भविमोचने' अदादिगणे, ‘षूङ् प्राणिप्रसवे' दिवादिगणे, ‘धूञ् कम्पने' (स्वादौ क्र्यादौ च), अपि च येषाम् ऊकारस्य इत्संज्ञा, एभ्यः सर्वेभ्यः धातुभ्यः परस्य वलादेरार्धधातुकस्येड् वा स्यात् |
अतः स्वभावतः गुपू-धातुः वेट् |
तदा गुपू-धातोः आय-प्रत्ययः गुपूधूपविच्छिपणिपनिभ्य आयः (३.१.२८) इति सामान्यसूत्रेण नित्यः, परन्तु आर्धधातुके आयादय आर्धधातुके वा (३.१.३१) इत्येनन विकल्पेन | 'आय' इति धातुप्रत्ययस्य विधानेन अयं धातुः अनेकाच् अतः सेट् |
आयादय आर्धधातुके वा (३.१.३१) इत्यनेन आर्धधातुकप्रत्ययस्य विवक्षायां स्वार्थे आय-प्रत्ययः विकल्पेन भवति | लुट्-लकारस्य तास्-प्रत्ययः आर्धधातुकसंज्ञकः, अतः अत्र आय-प्रत्ययः विकल्पेन विधीयते |
गुप् + आय → पुगन्तलघूपधस्य च (७.३.८६) → गोपाय → गोपाय अनेकाच् अतः अयं धातुः सेट् → गोपाय + इता → अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → गोपाय् + इता → गोपायिता
यस्मिन् पक्षे 'आय' इति धातु-प्रत्ययः न विधीयते, स्वभावतः गुपू-धातुः वेट् |
इडादिपक्षे
गुप् + इता → पुगन्तलघूपधस्य च (७.३.८६) → गोप् + इता → गोपिता
अनिडादिपक्षे
गुप् + ता → पुगन्तलघूपधस्य च (७.३.८६) → गोप् + ता → गोप्ता
आयादय आर्धधातुके वा (३.१.३१) =आर्धधातुकप्रत्ययस्य विवक्षायां स्वार्थे आय-प्रत्ययः विकल्पेन भवति | आय-आदिषु त्रयः प्रत्ययाः अन्तर्भूताः— आय, ईयङ्, णिङ् | आय आदौ येषां ते आयादयः | आयादयः प्रथमान्तम्, आर्धधातुके सप्तम्यन्तं, वा अव्ययपदं, त्रिपदमिदं सूत्रम् | धातोः (३.१.२२), प्रत्ययः (३.१.१), परश्च (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— आर्धधातुके, धातोः आयादयः वा प्रत्ययाः परश्च |
अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |
चुरादिगणे विशिष्टधातूनां पाठे इदं सूत्रम् अवलोकितमासीत् | णिच्-प्रत्ययः आर्धधातुकः अस्ति अतः धातुः अदन्तः चेत्, अतो लोपः (६.४.४८) इत्यस्य प्रसक्तिः भवति |
यथा—
कथ + णिच् → कथ्
गृह + णिच् → गृह्
त्रप् इति वेट्-धातुः
इडादिपक्षे
त्रप् + इता → त्रपिता
अनिडादिपक्षे
त्रप् + ता → त्रप्ता
स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) इति सूत्रेण येषां धातूनाम् ऊकारस्य इत्संज्ञा, एभ्यः सर्वेभ्यः धातुभ्यः परस्य वलादेरार्धधातुकस्येड् वा स्यात् | त्रपूष् इति धातुः ऊदित्, अतः अस्मात् धातोः इडागमो वा भवति |
कृपू इति वेट्-धातुः
कृपो रो लः (८.२.१८) = कृप्-धातोः रेफस्य लकारादेशो भवति | सूत्रं स्वयं सम्पूर्णम्— कृपः उः कृपः रः लः |
कृपो रो लः (८.२.१८) इति सूत्रेण, आहत्य कृप्-धातोः रेफस्य लकारादेशः; कृप्-धातोः ऋकारस्य अंशः यः रेफसदृशः, तस्य स्थाने लकारसदृशादेशो भवति | यत्र कृप्-धातोः उपधायाः गुणः भवति कर्प्, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प् इति फलं; यत्र उपधागुणो न भवति, तत्र कृप् इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप् इति फलम् |
तासि च क्लृपः (७.२.६०) = कृप्-धातोः परस्य परस्मैपदसंज्ञक-तास् च परस्मैपदसंज्ञक-सकारादि-आर्धधातुकप्रत्ययः च अनयोः इडागमो न भवति | नाम, केवलम् आत्मनेपदसंज्ञक-तासः च आत्मनेपदसंज्ञक-सकारादि-आर्धधातुकप्रत्ययस्य इडागमो भवति | अनुवृत्ति-सहितसूत्रं— क्लृपः परस्मैपदेषु आर्धधातुकस्येड्वलादेः न तासि से च |
कृपू-धातुः उपदेशे आत्मनेपदी |
किन्तु लुटि च क्लृपः (१.३.९३) इत्यनेन स्य, सन्, तास् इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृप्-धातुः विकल्पेन परस्मैपदी अपि भवति |
अतः लुटि परस्मैपदे इडागमाभावे 'कल्प्ता' | आत्मनेपदे इडागमे सति 'कल्पिता' |
कृप् → पुगन्तलघूपधस्य च (७.३.८६) → कर्प् → कल्प् → कल्पिता आत्मनेपदे / परस्मैपदे तासि च क्लृपः (७.२.६०) इत्यनेन इडागमनिषेधः अतः कल्प्ता |
भकारान्तधातवः
एकाच्-भकारान्तधातवः - ३
एकाच्-भकारान्तधातवः - ३ धातवः अनिटः
त्रिषु अपि सामान्यहल्सन्धिकार्यमस्ति |
१) झषस्तथोर्धोऽधः इत्यनेन प्रत्ययादौ त्, थ् इत्यनयोः स्थाने धकारादेशो भवति |
झषस्तथोर्धोऽधः (८.२.४०) = झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ् च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम् अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथा | न धा, अधा नञ्तत्पुरुषः, तस्मात् अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्, अधः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |
२) तदा झलां जश् झशि इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशो भवति |
झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— झलां जश् झशि संहितायाम् |
यभ् + ता → यभ् + धा → यब् + धा → यब्धा
रभ् + ता →
लभ् + ता →
एकः भकारान्तधातुः वेट् - लुभ्
इडादिपक्षे
लुभ् + इता → पुगन्तलघूपधस्य च (७.३.८६) → लोभ् + इता → लोभिता
अनिडादिपक्षे
लुभ् + ता → पुगन्तलघूपधस्य च (७.३.८६) → लोभ् + ता → लोब्धा
लुभ्-धातोः लुट्-लकारे इडागमवैशिष्ट्यम्—
तीषसहलुभरुषरिषः (७.२.४८) = इष्-धातुः (तुदादौ क्र्यादौ) च, सह्, लुभ्, रुष्, रिष् इत्येभ्यः पञ्चभ्यः धातुभ्यः तकारादि-आर्धधातुकप्रत्ययाः विकल्पेन इडागमानुकूलाः | ति सप्तम्यन्तम्, इषसहलुभरुषरिषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् |
तास्-प्रत्ययः तकारादि-आर्धधातुकप्रत्ययः अतः तस्य वा इडागमो भवति एभ्यः पञ्चभ्यः धातुभ्यः—
इष् → एष्टा / एषिता
सह् → सोढा / सहिता
लुभ् → लोब्धा / लोभिता
रुष् → रोष्टा / रोषिता
रिष् → रेष्टा / रेषिता
मकारान्तधातवः
चत्वारः मकारान्तधातवः अनिटः - गम्, नम्, यम्, रम्,
अत्र नश्चापदान्तस्य झलि (८.३.२४), अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्राभ्याम् अनुस्वारः, तदा परसवर्णादेशः |
गम् + ता → गं + ता → गन्ता
नम् + ता →
यम् + ता →
रम् + ता →
एकः मकारान्तधातुः वेट् - क्षम्
इडादिपक्षे
क्षम् + इता → क्षमिता
अनिडादिपक्षे
क्षम् + ता → क्षं + ता → क्षन्ता
उष्मान्तधातवः
शकारान्तधातवः
शकारान्तधातवः - १० धातवः अनिटः
सप्त धातवः सामान्याः
एषु दशसु, सप्त धातवः सामान्याः | तेषां कृते पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं तदा व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन शकारान्तानां झलि परे षत्वं, तदा ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वम् |
दिश् + ता → देश् + ता → देष् + ता → देष्टा
रिश् + ता →
लिश् + ता →
विश् + ता →
रुश् + ता →
क्रुश् + ता →
दंश् + ता →
दृश्-धातुः
दृश्-धातुः अनिट्, परन्तु अमागमः विकल्पेन अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन न भवति यतोहि साक्षात् इति सृजिदृशोर्झल्यमकिति (६.१.५८) उक्तः, अनेन च अमागमः नित्यः |
सृजिदृशोर्झल्यमकिति (६.१.५८) इत्यनेन दृश्-धातोः अम्-आगमो भवति कित्-भिन्न-झलादि प्रत्यये परे |
दृश् + ता → दृश् + अम् + ता → दृ-अ-श् + ता → इको यणचि (६.१.७६) → द्रश् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → द्रष् + ता → ष्टुना ष्टुः (८.४.४१) → द्रष्टा
सृजिदृशोर्झल्यमकिति (६.१.५८) = सृज्-धातोः च दृश्-धातोः च अम्-आगमो भवति कित्-भिन्न-झलादि प्रत्यये परे | सृजिश्च दृश्च तयोरितरेत्तरद्वन्द्वः सृजिदृशौ, तयोः सृजिदृशोः | न कित् अकित् नञ्तत्पुरुषः, तस्मिन् अकिति | सृजिदृशोः षष्ठ्यन्तं, झलि सप्तम्यन्तम्, अम् प्रथमान्तम्, अकिति सप्तम्यन्तम्,अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णाम्— सृजिदृशोः अम् झलि अकिति |
मृश्, स्पृश् धातू
मृश्, स्पृश् इति धात्वोः विकल्पेन अम्-आगमः, अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इति सूत्रेण |
अमागमपक्षे
मृश् + ता → मृश् + अम् + ता → मृ-अ-श् + ता → इको यणचि (६.१.७६) → म्रश् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → म्रष् + ता → ष्टुना ष्टुः (८.४.४१) → म्रष्टा
अमागमाभावे
मृश् + ता → पुगन्तलघूपधस्य च (७.३.८६) → मर्श् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → मर्ष् + ता → ष्टुना ष्टुः (८.४.४१) → मर्ष्टा
अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) = उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे | तृप्, दृप्, सृप्, मृश्, स्पृश्, कृष् इति षड् धातवः अनुदात्ताः च ऋदुपधाः | ऋत् उपधायां यस्य सः ऋदुपधः बहुव्रीहिः, तस्य ऋदुपधस्य | अनुदात्तस्य षष्ठ्यन्तं, च अव्ययपदम्, ऋदुपधस्य षष्ठ्यन्तम्, अन्यतरस्यां सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | सृजिदृशोर्झल्यमकिति (६.१.५८) इअत्यस्मात् झलि, अम्, अकिति इत्येषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— उपदेशे अनुदात्तस्य ऋदुपधस्य अम् झलि अकिति अन्यतरस्याम् |
एवमेव स्पृश्-धातुः → स्प्रष्टा, स्पर्ष्टा |
त्रयः धातवः वेटः— अशू, क्लिशू, नश
अशू-धातुः
इडागमपक्षे अश् + इता → अशिता | एवमेव अशितुम्, अशितव्यम् |
अनिडागमपक्षे अश् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → अष् + ता → ष्टुना ष्टुः (८.४.४१) → अष्टा
क्लिशू-धातुः
इडागमपक्षे क्लिश् + इता → क्लेशिता | एवमेव क्लेशितुम्, क्लेशितव्यम् |
अनिडागमपक्षे क्लेश् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → क्लेष् + ता → ष्टुना ष्टुः (८.४.४१) → क्लेष्टा
नश्-धातुः
इडागमपक्षे नश् + इता → नशिता | एवमेव नशितुम्, नशितव्यम् |
अनिडागमपक्षे नश् + ता → मस्जिनशोर्झलि (७.१.६०) इत्यनेन नश्-धातोः नुमागमः भवति झलादिप्रत्यये परे → नंश् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → नंष् + ता → ष्टुना ष्टुः (८.४.४१) → नंष्टा
मस्जिनशोर्झलि (७.१.६०) = मस्ज्-धातोः च नश्-धातोः च नुम्-आगमो भवति झालादि-प्रत्यये परे | मस्जिश्च नश् च तयोरितरेतरद्वन्द्वः मस्जिनशौ, तयोर्मस्जिनशोः | मस्जिनशोः षष्ठ्यन्तं, झलि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | इदितो नुम् धातोः (७.१.५८) इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः, येन 'प्रत्यय'-पदस्यापि सूत्रार्थे आक्षेपः | अनुवृत्ति-सहितसूत्रम्— मस्जिनशोः अङ्गस्य नुम् झलि प्रत्यये |
षकारान्तधातवः
षकारान्तधातवः - १२ धातवः अनिटः
दश धातवः सामान्याः
एषु द्वादशसु, दश धातवः सामान्याः | तेषां कृते पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं तदा ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वम् |
त्विष् + ता → त्वेष् + ता → त्वेष्टा
द्विष् + ता → द्वेष् + ता → द्वेष्टा
पिष् + ता → पेष् + ता → पेष्टा
विष् + ता → वेष् + ता → वेष्टा
शिष् + ता → शेष् + ता → शेष्टा
श्लिष् + ता → श्लेष् + ता → श्लेष्टा
तुष् + ता → तोष् + ता → तोष्टा
दुष् + ता → दोष् + ता → दोष्टा
पुष् + ता → पोष् + ता → पोष्टा
शुष् + ता → शोष् + ता → शोष्टा
अनिट्-धातुषु विशिष्टौ द्वौ धातू - कृष् भ्वादौ तुदादौ च
अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन अमागमः विकल्पेन झलादौ अकिति प्रत्यये परे |
अमागमपक्षे—
कृष् + ता → अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन अम्-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे → कृ + अम् + ष् + ता → कृ + अ + ष् + ता → इको यणचि (६.१.७६) → क्रष् + ता → ष्टुना ष्टुः (८.४.४१) → क्रष्टा
यस्मिन् पक्षे अम्-आगमो न भवति—
कृष् + ता → पुगन्तलघूपधस्य च (७.३.८६) → कर्ष् + ता → कर्ष्टा
अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) = उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे | तृप्, दृप्, सृप्, मृश्, स्पृश्, कृष् इति षड् धातवः अनुदात्ताः च ऋदुपधाः | ऋत् उपधायां यस्य सः ऋदुपधः बहुव्रीहिः, तस्य ऋदुपधस्य | अनुदात्तस्य षष्ठ्यन्तं, च अव्ययपदम्, ऋदुपधस्य षष्ठ्यन्तम्, अन्यतरस्यां सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | सृजिदृशोर्झल्यमकिति (६.१.५८) इअत्यस्मात् झलि, अम्, अकिति इत्येषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— उपदेशे अनुदात्तस्य ऋदुपधस्य अम् झलि अकिति अन्यतरस्याम् |
षकारान्तधातवः - ७ धातवः वेटः [इष्, रुष्, रिष्, निर्-उपसर्गपूर्वक-कुष्, अक्षू, तक्षू, त्वक्षू]
इडागमे सति यथासङ्गं पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यम् | अनिडागमपक्षे यथासङ्गं पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं, तदा ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वम् |
इष् + ता → एष्टा / एषिता
रुष् + ता → रोष्टा / रोषिता
रिष् + ता → रेष्टा / रेषिता
निर् + कुष् + ता → निष्कोष्टा / निष्कोषिता [खरवसानयोर्विसर्जनीयः (८.३.१५), इदुदुपधस्य चाप्रत्ययस्य (८.३.४१)
अक्षू, तक्षू, त्वक्षू
अनिडादिपक्षे स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन ककारलोपः, तदा ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वम् |
अक्ष् + ता → अष्टा / अक्षिता
तक्ष् + ता → तष्टा / तक्षिता
त्वक्ष् + ता → त्वष्टा / त्वक्षिता
स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |
चक्ष्-धातुः - धात्वादेशः
चक्षिङ्-धातुः—
चक्ष्-धातोः ख्या / क्शा इति आदेशौ | यद्यपि चक्ष्-धातुः सेट्, तथापि तस्य ख्या/क्शा इति धात्वादेशौ अनिटौ |
चक्ष् + लुट् → ख्या + ता → ख्याता
चक्ष् + लुट् → क्शा + ता → क्शाता
चक्षिङः ख्याञ् (२.४.५४) | ख्याता | क्शाता |
चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्-आदेशः | किन्तु अत्र भाष्यकारो वदति यत् क्शादिरयमादेशः, इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि च पूर्वत्रासिद्धम् (८.२.१) इति अधिकारे एकं वार्तिकम् अस्ति ख्शाञः शस्य यो वा वक्तवयः | अनेन ख्शाञ् इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति | फलितार्थः अयं यत् आर्धधातुकप्रत्यये परे चक्षिङ्-धातोः स्थाने ख्याञ्, ख्शाञ् इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्, अपरस्मिन् पक्षे ख्शाञ् |
चक्षिङः ख्याञ् (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ् प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चक्षिङः ख्याञ् आर्धधातुके |
सकारान्तधातवः
एकाच्-सकारान्तधातवः - द्वौ धातू अनिटौ [वस्, घस्]
अत्र न अङ्गकार्यं वर्तते, न वा सन्धिकार्यम्
वस् + ता → वस्ता
घस् + ता → घस्ता
धात्वादेशः - अस्-धातुः
अस्तेर्भूः (२.४.५२) | भविता |
अस्तेर्भूः (२.४.५२) = आर्धधातुकविवक्षायाम् अस्-धातोः स्थाने भू-आदेशो भवति | अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अस्तेः भूः आर्धधातुके |
हकारान्तधातवः
एकाच्-हकारान्तधातवः - ८ धातवः अनिटः, १२ धातवः वेटः (११ सामान्य-वेट्-धातवः + सह्-धातुः)
१. सामान्यहकारान्तधातवः
त्रयः सामान्यहकारान्तधातवः अनिटः - मिह्, लिह्, रुह्
- गुणकार्यं यथासङ्गम् |
- तकारादि प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, हो ढः (८.२.३१) इत्यनेन सूत्रेण |
- प्रत्ययादौ स्थितस्य तकारस्य ध्-आदेशो भवति झषस्तथोर्धोऽधः (८.२.४०) इति सूत्रेण |
- प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्-आदेशो भवति ष्टुना ष्टुः (८.४.४१) इति सूत्रेण |
- पूर्वतनस्य ढ्-लोपो भवति ढो ढे लोपः (८.३.१३) इति सूत्रेण |
मिह् + ता → पुगन्तलघूपधस्य च (७.३.८६) → मेह् + ता → हो ढः (८.२.३१) → मेढ् + ता → झषस्तथोर्धोऽधः (८.२.४०) → मेढ् +धा → ष्टुना ष्टुः (८.४.४१) → मेढ् + ढा → ढो ढे लोपः (८.३.१३) → मेढा
एवमेव—
लिह् → लेह् → लेढा
रुह् → रोह् → रोढा
षड् सामान्यहकारान्तधातवः वेटः - तृह्, स्तृह्, वृह्, तृंह्, गृह्, गाह्
इडादिपक्षे
तृह् + इता → तर्हिता
स्तृह् + इता →
वृह् + इता →
तृंह् + इता → तृंहिता
गृह् + इता →
गाह् + इता →
अनिडादिपक्षे
तृह् + ता → तर्ढा
स्तृह् + ता →
वृह् + ता →
तृंह् + ता → तृण्ढा
गृह् + ता →
गाह् + ता →
हो ढः (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हः ढः झलि पदस्य अन्ते च |
झषस्तथोर्धोऽधः (८.२.४०) = झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ् च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम् अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्तत्पुरुषः, तस्मात् अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्, अधः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |
ढो ढे लोपः (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— ढः ढे लोपः |
२. त्रयः दकारादिहकारान्तधातवः - दह्, दिह्, दुह्
२. त्रयः दकारादिहकारान्तधातवः - दह्, दिह्, दुह् | एते सर्वे अनिटः |
- गुणकार्यं यथासङ्गम् |
- तकारादि प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः (८.२.३२) इत्यनेन सूत्रेण |
- अधुना प्रत्ययः झष्-परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य ध्-आदेशो भवति झषस्तथोर्धोऽधः (८.२.४०) इति सूत्रेण |
- अधुना धातु-परतः झश् अस्ति (धकारः), अतः धात्वन्ते घ्-स्थाने तृतीयादेशो भवति झलां जश् झशि इति सूत्रेण | जश्त्वसन्धिरिति |
दह् + ता → दादेर्धातोर्घः (८.२.३२) → दघ् + ता → झषस्तथोर्धोऽधः (८.२.४०) → दघ् +धा → झलां जश् झशि (८.४.५३) → दग् + धा → दग्धा
एवमेव—
दिह् → देह् → देग्धा
दुह् → दोह् → दोग्धा
दादेर्धातोर्घः (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम् | हो ढः (८.२.३१) इत्यस्मात् हः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— दादेः धातोः हः घः झलि पदस्य अन्ते च |
झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— झलां जश् झशि संहितायाम् |
३. चत्वारः धातवः येषां विकल्पेन हकारस्य घकारादेशः ढकारादेशः च - द्रुह्, मुह्, ष्णुह्, ष्णिह्
३. चत्वारः धातवः येषां विकल्पेन हकारस्य घकारादेशः ढकारादेशः च - सर्वे चत्वारः वेटः
द्रुह्, मुह्, ष्णुह्, ष्णिह्
इडादिपक्षे
द्रुह् + इता → द्रोहिता
मुह् + इता →
ष्णुह् + इता → स्नोहिता
ष्णिह् + इता →
अनिडादिपक्षे
द्रुह् + ता → द्रोढा / द्रोग्धा
मुह् + ता →
ष्णुह् + ता →
ष्णिह् + ता →
वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३) = द्रुह्, मुह्, ष्णुह्, ष्णिह् एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च; घ्-अभावे हो ढः (८.२.३१) इत्यनेन ढकारादेशो भवति | द्रुहश्च मुहश्च ष्णुहश्च ष्णिहश्च तेषाम इतरेतर्तद्वान्द्वः, द्रुहमुहष्णुहष्णिहः, तेषां द्रुहमुहष्णुहष्णिहाम् | वा अव्ययपदं, द्रुहमुहष्णुहष्णिहां षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | हो ढः (८.२.३१) इत्यस्मात् हः, दादेर्धातोर्घः (८.२.३२) इत्यस्मात् घः, झलो झलि (८.२.२६) इत्यस्मात् झलि, स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्येषाम् अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— द्रुह-मुह-ष्णुह-ष्णिहाम् वा हः घः झलि पदस्य अन्ते च |
झषस्तथोर्धोऽधः (८.२.४०) = झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ् च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम् अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्तत्पुरुषः, तस्मात् अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्, अधः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |
४. सह् वह् इति द्वौ धातू - वह्-धातुः अनिट्; सह्-धातुः वेट्
- तकारादि प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, हो ढः इत्यनेन सूत्रेण |
- अधुना प्रत्ययः झष्-परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्-आदेशो भवति झषस्तथोर्धोऽधः इति सूत्रेण |
- प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्-आदेशो भवति ष्टुना ष्टुः इति सूत्रेण |
- पूर्वतनस्य ढ्-लोपो भवति ढो ढे लोपः इति सूत्रेण |
- लुप्तढकारस्य पूर्ववर्तिनः अकारस्य ओकारादेशो भवति सहिवहोरोदवर्णस्य इति सूत्रेण | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्य अपवादः |
सह् + ता → हो ढः → सढ् + ता → झषस्तथोर्धोऽधः → सढ् + धा → ष्टुना ष्टुः → सढ् + ढा → ढो ढे लोपः → स + ढा → सहिवहोरोदवर्णस्य → सो + ढा → सोढा
एवमेव वह् + ता → वढ् + ता → वढ् + धा → वढ् + ढा → व + ढा → वो + ढा → वोढा
सहिवहोरोदवर्णस्य (६.३.११२) = ढकारस्य लोपश्चेत्, सह् वह् इति धात्वोः अकारस्य स्थाने ओकारादेशो भवति | सहिश्च वह् च तयोरितरेतरद्वन्द्वः सहिवहौ, तयोः सहिवहोः | सहिवहोः षष्ठ्यन्तम्, ओत् प्रथमान्तम्, अवर्णस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात् ढलोपे इत्यस्य अनुवृत्तिः (रेफस्य कार्यं अत्र न भवति एव अतः रेफः नानीतः) | अनुवृत्ति-सहितसूत्रम्—सहिवहोः अवर्णस्य ओत् ढलोपे इति |
इडादिपक्षे
सह्-धातुः
सह् + इता → सहिता
तीषसहलुभरुषरिषः (७.२.४८) = इष्, सह्, लुभ्, रुष्, रिष् इत्येतेभ्यः पञ्चभ्यः धातुभ्यः तकारादेः आर्धधातुकप्रत्ययस्य इडागमो विकल्पेन भवति | इच्छत्यादेः परस्य तादेरार्धधातुकस्येड्वा स्यात् | एते पञ्च धातवः नियमेन सेटः; अनेन सूत्रेण तकारादि-आर्धधातुकप्रत्यये परे वेटः | इष् एष्टा, एषिता | सह सोढा, सहिता | लुभ लोब्धा, लोभिता | रुष रोष्टा, रोषिता | रिष रेष्टा, रेषिता | तीति किम् ? एषिष्यति | इष् इत्यनेन तुदादिगणीयः च क्र्यादिगणीयः च न तु दिवादिगणीयः | इषेस्तकारे श्यन्प्रत्ययात् प्रतिषेधः इति वार्तिकेन प्रकृतसूत्रस्य कार्यं दिवादिगणीय-इष्-धातोः न भवति | इषश्च सहश्च लुभश्च रुषश्च रिषश्च तेषां समाहारद्वन्द्वः इषसहलुभरुषरिष्, तस्मात् इषसहलुभरुषरिषः | ति सप्तम्यन्तम्, इषसहलुभरुषरिषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | विभक्ति-परिणाम इति सिद्धान्तेन प्रसङ्गवशात् ति इत्यस्य षष्ठ्यन्तत्वं जायते, तः इति | आर्धधातुकस्येड् वलादेः (७.२.३५) इत्यस्मात् आर्धधातुकस्य, इट् इत्यनयोः अनुवृतिः | स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) इत्यस्मात् वा इत्यस्य अनुवृतिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्—इषसहलुभरुषरिषः अङ्गात् तः आर्धधातुकस्य वा इट् इति |
५. नह्-धातुः - अनिट्
नह् + ता → नहो धः → नध् + ता → झषस्तथोर्धोऽधः → नध् + धा → झलां जश् झशि → नद् + धा → नद्धा
नहो धः (८.२.३४) = नह्-धातोः हकारस्य धकारादेशो भवति झलि पदान्ते च | नहः षष्ठ्यन्तं, धः प्रथमान्तं, द्विपदमिदं सूत्रम् | हो ढः (८.२.३१) इत्यस्मात् हः इत्यस्य अनुवृत्तिः | दादेर्धातोर्घः (८.२.३२) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— नहः धातोः हः धः झलि पदस्य अन्ते च |
६. गुहू-धातुः - वेट्
ऊदुपधाया गोहः (६.४.८९) इत्यनेन गुह्-धातोः उपधा-गुणादेशं प्रबाध्य ऊत्-आदेशो भवति अजादि-प्रत्यये परे |
इडागमपक्षे
अत्र ता-प्रत्ययः अजादिः | अतः उपधा-गुणादेशं प्रबाध्य ऊत्-आदेशः |
गुह् + इता → गूहिता
अनिडादिपक्षे
अजादिप्रत्ययाभावे न ऊत्वम्
गुह् + ता → गोढा
ऊदुपधाया गोहः (६.४.८९) = गुहू (संवरणे) इति गुह्-धातोः उपधा-गुणादेशं प्रबाध्य ऊत्-आदेशो भवति अजादि-प्रत्यये परे | गुह उपधाया ऊत्स्यात् गुणहेतौ अजादौ प्रत्यये | ऊत् प्रथमान्तम्, उपधायाः षष्ठ्यन्तं, गोहः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— गोहः अङ्गस्य उपधायाः ऊत् अचि |
धेयं यत् अत्र आर्धधातुकत्वस्य निमित्तिकत्वं नास्ति एव; केवलम् गुणनिमित्तक-अजादि प्रत्यये परे | अतः लटि अपि भवति— गुह् + शप् + ति → गुह् + अ + ति → उपधागुणस्य प्रसङ्गत्वात् ऊत्-आदेशः → गूह् + अ + ति → गूहति |
इति भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां वेटाम् अनिटां च हलन्तधातूनां लुट्-लकारस्य रूपसिद्धिः समाप्ता |
४) णिजन्तधातूनां लुट्-लकारस्य रूपसिद्धिः
चुरादिगणे स्वार्थे णिच् चेदपि प्रेरणार्थे णिच् चेदपि यत्र यत्र णिच्-सम्बद्धरूपमपेक्षितं, तत्र तत्र प्रथमकार्यमस्ति धातुतः णिचः विधानम् | अतः लुट्-लकारस्य प्रसङ्गे सति सर्वप्रथमं णिजन्तधातुः सिध्यति तदा एव लुट्-लकारसम्बद्धकार्यम् | सर्वे णिजन्तधातवः अनेकाचः इकारान्ताः च |
फलतः लुट्ः तास् यदा आयाति, तावता, पूर्वम् अनेकाच् इकारान्तधातुः वर्तते एव | अनेकाच् इति कृत्वा सेट्; इकारान्तः इति कृत्वा सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रस्य कार्यक्षेत्रम् | धातुः सेट्, तास् च वलादिः इत्यतः इडागमः भवति एव इति कृत्वा गुणकार्यानन्तरम् एचोऽयवायावः (६.१.७७) इति सूत्रस्य अवसरः | एवं सति णिजन्तधातूनां लुट्-लकारस्य रूपसिद्धिमार्गः सर्वत्र समानः |
तद्यथा—
चुर् + णिच् → चोरि इति अनेकाच् इकारान्तधातुः → अनेकाच् अतः सेट् → चोरि + इता → चोरि इगन्तः अतः सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रस्य कार्यक्षेत्रम् → चोरे + इता → धातुः सेट्, तास् च वलादिः इत्यतः इडागमः भवति एव इति कृत्वा गुणकार्यानन्तरम् एचः स्थाने अयादेशः अचि परे → एचोऽयवायावः (६.१.७७) चोरय् + इता → चोरयिता
तथा च सर्वेभ्यः धातुभ्यः, लुट्-लकरस्य त्रिषु अपि पुरुषेषु त्रिषु च वचनेषु |
परस्मैपदे आत्मनेपदे
प्र०पु० | चोरयिता | चोरयितारौ | चोरयितारः | प्र०पु० | चोरयिता | चोरयितारौ | चोरयितारः |
म०पु० | चोरयितासि | चोरयितास्थः | चोरयितास्थ | म०पु० | चोरयितासे | चोरयितासाथे | चोरयिताध्वे |
उ०पु० | चोरयितास्मि | चोरयितास्वः | चोरयितास्मः | उ०पु० | चोरयिताहे | चोरयितास्वहे | चोरयितास्महे |
५) सन्नन्तधातूनां लुट्-लकारस्य रूपसिद्धिः
सर्वेषां सन्नन्तधातूनाम् अन्तिमवर्णः अकारः— इत्युक्तौ सर्वे सन्नन्तधातवः अदन्ताः | तदर्थं लुट्-लकारस्य विवक्षायां तास्-प्रत्यये आर्धधातुके सति अतो लोपः (६.४.४८) इत्यस्य प्रसक्तिश्च प्राप्तिश्च भवति एव | तस्मात् सन्नन्तधातोः अन्ते यः अकारः तस्य लोपः | सन्नन्तधातुः च सदा अनेकाच् इति कृत्वा सर्वे सन्नन्तधातवः सेटः | एवं सति सन्नन्तधातूनां लुट्-लकारस्य रूपसिद्धिमार्गः सर्वत्र समानः |
तद्यथा—
जिगमिष + इता → अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → जगमिष् + इता → जिगमिषिता
एवमेव त्रिषु पुरुषेषु त्रिषु वचनेषु च | जिगमिषिता, जिगमिषितारौ, जिगमिषितारः इत्यदीनि रूपाणि |
अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |
६) यङन्तधातूनां लुट्-लकारस्य रूपसिद्धिः
सर्वेषां यङन्तधातूनाम् अन्तिमवर्णः अकारः— इत्युक्तौ सर्वे यङन्तधातवः अदन्ताः |
यङ्-प्रत्ययात् पूर्वं यः वर्णः सः अच्-वर्णः चेत् लुट्-लकारस्य रूपमेवम्
यङ्-प्रत्ययात् पूर्वं यः वर्णः सः अच्-वर्णः चेत् लुट्-लकारस्य रूपमेवम्—
तदर्थं लुट्-लकारस्य विवक्षायां तास्-प्रत्यये आर्धधातुके सति अतो लोपः (६.४.४८) इत्यस्य प्रसक्तिश्च प्राप्तिश्च भवति एव | तस्मात् यङन्तधातोः अन्ते यः अकारः तस्य लोपः | यङन्तधातुः च सदा अनेकाच् इति कृत्वा सर्वे यङन्तधातवः सेटः | एवं सति यङन्तधातूनां लुट्-लकारस्य रूपसिद्धिमार्गः सर्वत्र समानः |
तद्यथा—
नेनीय + इता → अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → नेनीय् + इता → नेनीयिता
एवमेव—
लोलूय +इता → लोलूयित
बोभूय + इता → बोभूयिता
यङ्-प्रत्ययात् पूर्वं यः वर्णः सः हल्-वर्णः चेत् लुट्-लकारस्य रूपमेवम्
यङ्-प्रत्ययात् पूर्वं यः वर्णः सः हल्-वर्णः चेत् लुट्-लकारस्य रूपमेवम्—
यस्य हलः (६.४.४९) = हलुत्तरयशब्दलोपो भवति आर्धधातुकप्रत्यये परे | अनेन 'य' इत्यस्य लोपः बेभिद्य → बेभिदिता |
बाभ्रश्य + इता → यस्य हलः (६.४.४९) इत्यनेन हलुत्तरयशब्दलोपो भवति आर्धधातुकप्रत्यये परे → बाभ्रश् + इता → बाभ्रशिता
एवमेव—
दन्द्रम्य + इता →
चङ्क्रम्य + इता →
लेलिख्य + इता →
पापठ्य + इता →
वावश्य + इता →
नेनिज्य + इता →
वेविध्य + इता →
मोमुद्य + इता →
अत्र धेयं यत् यशब्दस्य लोपानन्तरम् पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणप्रसक्तिर्भवति स्म, परन्तु—
अचः परस्मिन् पूर्वविधौ (१.१.५७) = परनिमित्तकः अजादेशः स्थानिवत् भवति, पूर्वविधौ कर्तव्ये | अचः स्थाने यः आदेशः सः अजादेशः | यस्य स्थाने आदेशः विधीयते सः स्थानी | 'अजादेशः स्थानिवत्' नाम यः आदेशः अचः स्थाने विहितः, सः पुनः मूलः अच् इव— 'स्थानिवत्' भवति | पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते | परस्मिन् इति निमित्तसप्तमी | पूर्वविधौ इति विषयसप्तमी | पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः, तस्मिन् पूर्वविधौ | अचः षष्ठ्यन्तं, परस्मिन् सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यस्मात् स्थानिवत्, आदेशः इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रम्— अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ |
यदा पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां स्थितस्य लघु-इकः गुणः जायमानः, तदा 'तास्' निमित्तं मत्वा अल्लोपः स्थानिवत् भवति अतः उपधागुणः न सम्भवति |
यस्य हलः (६.४.४९) = हलुत्तरस्य यशब्दस्य लोपो भवति आर्धधातुकप्रत्यये परे | यस्य षष्ठ्यन्तं, हलः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | अतो लोपः (६.४.४८) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम् हलः यस्य अङ्गस्य लोपः आर्धधातुके |
७) यङ्लुगन्तधातूनां लुट्-लकारस्य रूपसिद्धिः
आकारान्तधातुः दादा + इता → दादिता
इकारान्तधातुः शोश्रि + इता → शोश्रयिता
उकारान्तधातुः बोभू + इता → बोभविता
ऋकारान्तधातुः चर्कृ + इता → चर्करिता
ॠकारान्तधातुः तातॄ + इता → तातरिता
अदुपधधातुः शाशक् + इता → शाशकिता
इदुपधधातुः लेलिख् + इता → लेलेखिता
उदुपधधातुः मोमुद् + इता → मोमोदिता
ऋदुपधधातुः वरीवृत् + इता → वरीवर्तिता
अवशिष्टधातूनां किमपि कार्यं नास्ति—
बाबन्ध् + इता → बाबन्धिता
८) क्यच्, क्यष्, क्यङ्-प्रत्ययान्तधातूनां लुट्-लकारस्य रूपसिद्धिः
क्यस्य विभाषा (६.४.५०) = हलः परयोः क्यच्-क्यङोः प्रत्यययोः लोपो वा स्यादार्धधातुके |
समिध्य → समिधिता, समिध्यिता |
इति सर्वेषां धातूनां लुट्-लकारस्य रूपसिद्धिः समाप्ता |
Swarup September 2019