01 - सार्वधातुकलकाराः आर्धधातुकलकाराः च

From Samskrita Vyakaranam
< 04 - अष्टाध्यायी-परिचयः04---aShTAdhyAyI-paricayaH/01---sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca
Jump to navigation Jump to search
ध्वनिमुद्रणानि
2016 वर्गः
१) sArvadhAtuka-prakaraNam--paricayaH_2016-05-15
२) sArvadhAtuka-ArdhadhAthuka-ca-lakArAH_2016-05-18
2014 वर्गः
१) sArvadhAtukaprakaraNasya_paricayaH_2014-12-16
२) sArvadhAtukaprakaraNasya_paricayaH_II_2014-12-23

यत्र सार्वधातुकलकाराणाम्‌ आर्धधातुकलकाराणां च विषयः उदेति, केचन पारिभाषिकशब्दाः अवगन्तव्याः |


१. सार्वधातुकलकाराः = लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ च | (किमर्थमिति अधः उच्यते |)


२. सार्वधातुकलकारेषु प्रत्येकं क्रियापदस्य अंशत्रयं वर्तते-- धातुः + विकरणप्रत्ययः + तिङ्‌प्रत्ययः | यथा भू + शप्‌ + ति |


३. विकरणं नाम किम्‌ इति तु वयं जानीमः एव; प्रथमपाठे (धातुगण-परिचये) विस्तरेण चर्चितम्‌ | तिङ्प्रत्ययः कः इत्यपि प्रायः एतावता किञ्चित्‌ ज्ञातम्‌; अस्मिन्‌ पाठे बहु किमपि वक्ष्यते | भू + शप्‌ + ति इत्यस्मिन्‌ ति "तिङ्‌"-प्रत्ययः इति | सर्वेषां‍ तिङ्प्रत्ययानां मूलरूपम्‌ अस्ति |



परस्मैपदिधातूनां मूल-तिङ्‌प्रत्ययाः

तिप्‌    तस्‌    झि

सिप्‌    थस्‌    थ

मिप्‌    वस्‌    मस्‌‍



आत्मनेपदिधातूनां मूल-तिङ्‌प्रत्ययाः

त     आताम्    झ

थास्‌  आथाम्‌   ध्वम्‌

इड्‌    वहि      महिङ्‌



अत्र प्रथमप्रत्ययः तिप्‌ अस्ति अतः सामूहिकरूपेण एते प्रत्ययाः तिबादयः इति उच्यन्ते | अपि च आत्मनेपदे अन्तिमप्रत्ययः महिङ्‌ अतः तिप्‌ इत्यस्मात्‌ आरभ्य महिङ्‌ पर्यन्तं, तिप्‌-तः महिङ्-अन्त्यः‌, आहत्य तिङ्‌ इत्येषां प्रत्ययानां नाम |


क्रियापदानाम्‌ अन्तिमभागः तिङ्‌प्रत्ययः एव, अतः क्रियापदं तिङन्तपदम्‌ इति उच्यते |


४. तिङन्तपदस्य निर्माणसमये यः धातोः "अनन्तरम्" आयाति सः प्रत्ययः इति अवगच्छतु | सूत्रत्रयेण अयं बोधो भवति— धातोः (३.१.९१), प्रत्ययः (३.१.१), परश्च (३.१.२) | धातुः प्रथमः, धातोः 'अनन्तरं' विकरणम्‌ अतः विकरणं प्रत्ययः | तथैव तिङ्‌ अपि; धातोः अनन्तरं तिङ्‌ आयाति अतः तिङ् ‌अपि प्रत्ययः | तर्हि प्रथमं धातुः अस्ति, तदा प्रत्ययस्य आगमनम्‌ | अस्याः आगमनक्रियायाः व्यक्तीकरणार्थं प्रत्ययस्य विधानम्‌ इत्युच्यते | विधानं, विधीयते, विहितः—सर्वं समानम्‌ | प्रत्ययः यदा आगच्छति‌, तदा प्रत्ययस्य विधानम्‌, प्रत्ययः विधीयते, प्रत्ययः विहितः चेत्युच्यते |


५. अङ्ग-शब्दस्य विशेषार्थः व्याकरणे | कस्मात्‌ अपि प्रत्ययात्‌ प्राक्‌ यः भागः अस्ति, सः अङ्गम्‌ इत्युच्यते | अतः विकरणप्रत्ययस्य कृते धातुः इति अङ्गम्‌ | तिङ्‌प्रत्ययस्य कृते धातुः + विकरणप्रत्ययः, तयोः संयुक्तरूपम्‌ इति अङ्गम्‌ | अतः भू + शप्‌ + ति इत्यस्मिन्‌ उदाहरणे शप्‌-प्रत्ययस्य कृते भू-धातुः अङ्गम्‌ अस्ति | ति-प्रत्ययस्य कृते भू + शप्‌ + ति → भव + ति | भू शप्‌ चेत्यनयोः संयुक्तरूपं भव | ति इत्यस्मात्‌ पूर्वं यावत्‌ अस्ति, तत्‌ सर्वम्‌ अङ्गम्‌ अतः ति इत्यस्य कृते अङ्गं भव इति | पुनः वद्‌ + अ + ति इति स्थितौ, अ (शप्‌) इत्यस्य दृष्ट्या वद्‌ इति अङ्गम्‌; ति इत्यस्य दृष्ट्या वद (वद्‌ + अ) इत्यङ्गम्‌ |


परं द्रक्ष्यामः यत्‌ अङ्गं च प्रत्ययः च, द्वयोः कार्य-कारण-सम्बन्धः भवति | आधिक्येन अङ्गे कार्यं क्रियते; तस्य कार्यस्य कारणम्‌ अस्ति परे स्थितः प्रत्ययः | यथा भू + शप्‌ → भू + अ | अत्र भू + अ → भो + अ इति गुणकार्यं भवति | तस्य गुणकार्यस्य कारणं शप्‌-प्रत्ययः | अस्य कार्य-कारण-सम्बन्धस्य कृते निमित्तम्‌ इति उच्यते | अतः भू-धातौ यत्‌ अङ्गकार्यं भवति, तदर्थं शप्‌ निमित्तम्‌ अस्ति, इत्युक्ते शप्‌ कारणम्‌ अस्ति | अपि च अस्मिन्‌ एव अर्थे वदामः यत्‌ भू-धातौ यत्‌ अङ्गकार्यं भवति, तत्‌ शपं निमित्तं मत्वा अङ्गकार्यम्‌, अथवा शपं निमित्तीकृत्य अङ्गकार्यम्‌, अथवा शप्‌-निमित्तकम्‌ अङ्गकार्यम्‌ इति | (कदाचित्‌ प्रत्यये कार्यं क्रियते न तु अङ्गे, यथा इडागमविषये | अग्रे गत्वा तादृशप्रसङ्गोऽपि परिशीलयिष्यते |)


६. तिबादीन्‌ निमित्तीकृत्य धातु-विकरणयोः मेलनेन यत्‌ अङ्गं निष्पद्यते, तस्य अन्तिमः वर्णः अकारः अस्ति चेत्‌, अङ्गम्‌ अदन्तम्‌ इत्युच्यते | (अत्‌ इत्युक्ते ह्रस्वः अकारः; तपरस्तत्कालस्य इति सूत्रेण तकारे परे सति प्राक्‌ यः स्वरः, तस्य एव कालस्य सङ्केतः | अत्‌ + अन्तम्‌ = अदन्तम्‌ |) धातु-विकरणयोः मेलनेन निष्पन्नस्य अङ्गस्य अन्तिमवर्णः अकारः नास्ति चेत्‌, अङ्गम्‌ अनदन्तम्‌ इत्युच्यते |


७. धातूनां दश गणाः सन्ति इति तु ज्ञातम्‌ | दश धातुगणाः पुनः विभक्ताः अङ्गस्य अन्तिमवर्णस्य अनुसारम्‌ | येषु धातुगणेषु अङ्गम्‌ अदन्तं भवति, ते धातुगणाः प्रथमगणसमूहे वर्तन्ते | येषु धातुगणेषु अङ्गम्‌ अनदन्तं भवति, ते धातुगणाः द्वितीयगणसमूहे वर्तन्ते |



प्रथमगणसमूहः = भ्वादिगणः, दिवादिगणः, तुदादिगणः, चुरादिगणः

द्वितीयगणसमूहः = अदादिगणः, जुहोत्यादिगणः, स्वादिगणः, रुधादिगणः, तनादिगणः, क्र्यादिगणः


८. दश लकाराः अपि गणद्वये विभक्ताः—सार्वधातुक-लकाराः आर्धधातुक-लकाराः च |


तयोः भेदः कः ? क्रियापदस्य निर्माण-क्रमे सर्वप्रथमम्‌ अस्माकं विवक्षानुगुणम्‌ धातुः आनीयते | यथा, वद्‌ इति धातुः | तदा पुनः विवक्षानुगुणं लकारः आनीयते, यथा लट्‌-लकारः | वद्‌ + लट्‌ | परं लटः स्थाने तिबादयः आनीयन्ते यथेच्छम्, यथा प्रथमपुरुषैकवचने तिप्‌ | पकारस्य इत्‌-संज्ञा लोपश्च, ति अवशिष्यते | वद्‌ + ति | अत्र सर्वमहत्त्वपूर्णसिद्धान्तः—वद्‌ ति इत्यनयोः सम्पर्कः अस्ति, स्पर्शः अस्ति यतः तयोः मध्ये अन्यः कोऽपि प्रत्ययः नास्ति | अत्र वदामः यत्‌ वद्‌-धातुना ति-प्रत्ययः "दृश्यते" | दृश्यते यतः तयोः मध्ये बाधा नास्ति, अन्यः कोऽपि प्रत्ययः नास्ति | येषु लकारेषु क्रियापदस्य निर्माणक्रमे धातुना सार्वधातुक-तिङ्‌प्रत्ययः दृश्यते, अपि च सः तिङ्‌प्रत्ययः कर्त्रर्थे अस्ति, तत्र सः लकारः सार्वधातुक-लकारः इति उच्यते | क्रियापदस्य निर्माणक्रमे धातुना तिङ्‌प्रत्ययः न दृश्यते चेत्‌, सः लकारः आर्धधातुक-लकारः |


सार्वधातुक-लकाराः— लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌

आर्धधातुक-लकाराः— लिट्‌, लुट्‌, लृट्‌, आशीर्लिङ्‌, लुङ्‌, लृङ्‌



९. अयं भेदः नितरां महत्त्वपूर्णः यतः धातुना तिङ्प्रत्ययः दृश्यते चेत्‌, तर्हि तेन एव सम्पर्केण विकरणप्रत्ययः विहितः अस्ति | एकैकस्य गणस्य स्वस्य पृथक्‌ विकरणप्रत्ययः (विकरणलोपो वा) इति अस्माभिः प्रथमपाठे दृष्टम् | तेन विकरणभेदेन तिङन्तरूपाणि भिद्यन्ते | तर्हि भिन्नगणेषु तिङन्तरूपाणि भिद्यन्ते विकरणप्रत्ययानां कारणेन | गणस्य लक्षणं प्रत्ययेन ज्ञायते | अतः अत्र अवधेयम्‌—विकरणप्रत्ययाः यत्र आयान्ति, तत्र धातोः तिङन्तरूपस्य ज्ञानार्थम्‌, धातुः कस्मिन्‌ गणे अस्ति इति अवश्यं बोध्यम्‌ | केषु लकारेषु विकरणप्रत्ययाः आयान्ति ? यत्र कर्त्रर्थे धातुना तिङ्प्रत्ययः दृश्यते | तत्‌ कुत्र ? सार्वधातुकलकारेषु इति | आर्धधातुकलकारेषु धातुना तिङ्प्रत्ययः न दृश्यते, अतः विकरणप्रत्ययः नायाति | विकरणप्रत्ययः नायाति अतः तत्र गणभेदेन तिङन्तभेदः न जायते | फलितार्थः एवं यत्‌ सार्वधातुकलकारेषु गणीया चर्चा करणीया; आर्धधातुकलकारेषु गणीया चर्चा नापेक्षिता | तत्र गणस्य विषयः नायाति एव |



उदा--

सार्वधातुक-लकारः लट्‌



* वद्‌ + लट्‌ →

* वद्‌ + ति →

* वद्‌ + शप्‌ + ति →

* वद्‌ + अ + ति →

* वदति



उपरितने क्रमे धातुना तिङ्प्रत्ययः ति "दृश्यते" (वद्‌ + ति) | नाम मध्ये काऽपि बाधा, किमपि व्यवधानं नास्ति | धातुना तिङ्प्रत्ययः दृश्यते इति कारणतः कर्तरि शप् इत्यनेन सूत्रेण मध्ये विकरण-प्रत्ययः शप्‌ विहितः | भ्वादिगणे शप्‌ तिष्ठति; अपरेषु गणेषु शपं प्रबाध्य तत्तत्‌ गणे अन्ये विकरणप्रत्ययाः आयान्ति | एतदर्थं सार्वधातुकलकारेषु धातुः कस्मिन्‌ गणे अस्ति इति ज्ञातव्यम्‌ |



आर्धधातुकलकारेषु विकरणप्रत्ययः किमर्थं नायाति इत्यत्र किञ्चित्‌ पश्येम—



आर्धधातुक-लकारः लृट्‌



* वद्‌ + लृट्‌ →

* वद्‌ + स्य + लृट्‌ →

* वद्‌ + स्यति →

* वद्‌ + इ + स्यति →

* वदिष्यति


उपरितने क्रमे प्रथमं स्य प्रत्ययः आयाति, तदा एव ति आयाति | तत्र धातु-ति इत्यनयोः मध्ये स्य अस्ति इति कारणेन धातुना ति न दृश्यते (वद्‌ + स्यति) | मध्ये स्य अस्ति अतः बाधा अस्ति, व्यवधानम्‌ अस्ति | धातुः तिङ्प्रत्ययं "ति" द्रष्टुं न शक्नोति; धातुः केवलं "स्य" पश्यति | धातुना तिङ्प्रत्ययः ति न दृश्यते इति कारणतः कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति (यदा हि ति दृश्यते तदा हि कर्तरि शप्), अतः मध्ये विकरण-प्रत्ययः नायाति | विकरण-प्रत्ययः न विहितः इति कारणेन गणीयः विचारः नापेक्षितः | धातुः यस्मिन्‌ कस्मिन्‌ अपि गणे भवतु, कार्यं समानमेव | अतः आर्धधातुकलकारेषु गणस्य ज्ञानं नापेक्षितम्‌ | किन्तु आर्धधातुकलकारेषु अन्यत्‌ कार्यम्‌ अस्ति | पश्यन्तु रूपं कथम्‌ अस्ति— "वदिष्यति" इति | अत्र मध्ये इकारः आगतः अस्ति वद्‌-इ-ष्यति | यद्यपि आर्धधातुकलकारेषु गणीयः विचारः नापेक्षितः, किन्तु इडागमस्य विचारः अपेक्षितः एव | स च विषयः अग्रे आयास्यति |


१०. सार्वधातुकलकारः अस्ति चेत्‌, धातु-विकरणयोः अङ्गं भवति; तच्च अङ्गम्‌ अदन्तम्‌ अनदन्तं वा इत्युक्तम्‌‌ | अस्मिन्‌ पाठे सार्वधातुकलकाराः (लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌) परिशीलयिष्यन्ते यत्र अङ्गम्‌ अदन्तम्‌ अस्ति | अङ्गम्‌ अदन्तं केषु गणेषु ? भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे च | यतः एषां चतुर्णां गणानाम्‌ अङ्गम्‌ अदन्तम्‌, अतः एषां सिद्ध-तिङ्प्रत्ययाः समानाः | अस्य पाठस्य तृतीयाध्याये चतुर्थाध्याये च एते सिद्ध-तिङ्प्रत्ययाः निष्पन्नाः भवन्ति | अदन्तम्‌ अङ्गम्‌ + सिद्ध-तिङ्प्रत्ययः = तिङन्तपदं (क्रियापदम् इति) | यथा वद्‌ + शप्‌ → वद्‌ + अ → वद इति अदन्तम्‌ अङ्गम्‌; तिप्‌ → पकारस्य इत्-संज्ञा लोपश्च → ति इति सिद्ध-तिङ्प्रत्ययः; वद + ति → वदति इति तिङन्तपदम्‌ | तथैव वद + तः = वदतः, वद + अन्ति = वदन्ति इति | आहत्य भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे च 1700 धातवः सन्ति | एवं च अस्मिन्‌ पाठे कण्ठस्थीकरणेन विना 1700 धातूनां लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ इत्येषां तिङन्तरूपाणि ज्ञास्यन्ते | अत्र अस्ति मातुः पाठस्य वैलक्षण्यम्‌ !


एवं च दीक्षितपुष्पायाः पाणिनीय-धातुपाठः अत्यन्तं शक्तिशाली | कश्चन बोधोऽस्ति चेत्‌, बहूनि क्रियापदरूपाणि ज्ञातुं शक्नुमः | अग्रे अङ्गं कथं निष्पाद्यते, तिङ्प्रत्ययाः कथं साधनीयाः, अपि च अङ्ग-तिङ्प्रत्यययोः मेलनं कथं कार्यते इत्येषु विषयेषु चर्चयिष्यामः |

Swarup - July 2013


०१ - सार्वधातुकलकाराः आर्धधातुकलकाराः च.pdf (42k) Swarup Bhai, May 18, 2016, 8:40 PM v.1




–––––––––––––––––––––––––––


धेयम्‌ -- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [click here] and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.