27 - अन्यथासिद्धनिरूपणम्
कारणं नाम किमिति आरम्भे एव अस्माभिः दृष्टम्—
किञ्चन कस्यचित् कारणमिति निर्धारयितुं
१) तेन कार्याधिकरणे स्थातव्यम् |
२) तेन कार्याधिररणे सर्वदा स्थातव्यम् |
३) तेन कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम् | [विद्याधरी पृस० ३०]
अनन्तरं किन्तु अवलोक्तं यत् वस्तुतस्तु तत् पर्याप्तं नास्ति, यतोहि कदाचित् पूर्वक्षणे अस्ति चेदपि कारणं न भवति, यथा घटकार्याधिकरणे उपस्थिता पिपीलिका | अथवा सदा पूर्वक्षणे स्त्यपि न कारणं, यथा घटं प्रति दण्डत्वम् | एतदर्थं कारणस्य सम्पूर्णलक्षणवाक्यम् एतादृशम्—
अन्यथासिद्धिशून्यत्वे सति कार्यनियतपूर्ववृत्तित्वं कारणत्वम् |
पूर्वमपि अस्माभिः चर्चितम् अस्य कार्यलक्षणवाक्यस्य प्रसङ्गे | किञ्च तस्मिन् समये स्थूलरीत्या अन्यथासिद्धत्वं नाम किमित्युकत्म् | अस्मिन् अवसरे सम्पूर्णरीत्या वक्तव्यं यतोहि मध्ये मध्ये अयं विचारः आयाति; प्रतिवारं 'स्थूलरीत्या अन्यथासिद्धत्वं एवम्; इदमित्थम् इति वक्तुं नार्हः' इति अलं वदनेन | तर्हि अस्य निवारणार्थं सम्प्रति अन्यथासिद्धत्वस्य सम्पूर्णविवरणं दीयते |
येन सह पूर्वभावः कारणमादाय वा यस्य |
अन्यं प्रति पूर्वभावे ज्ञाते यत्पूर्वभावविज्ञानम् || १९
जनकं प्रति पूर्ववृत्तितामपरिज्ञाय न यस्य गृह्यते |
अतिरिक्तमथापि यद्भवेन्नियतावश्यकपूर्वभाविनः || २०
एते पञ्चान्यथासिद्धा दण्डत्वादिकमादिमम् |
घटादौ दण्डरूपादि द्वितीयमपि दर्शितम् | २१
तृतीयं तु भवेद्व्योम कुलालजनकोऽपरः |
पञ्चमो रासभादिः स्यादेतेष्वावश्यकस्त्वसौ || २२ न्यायसिद्धान्तमुक्तावली ||
तर्हि पञ्च अन्यथासिद्धयः सन्ति | उपरितनपङ्क्तिषु प्रथमचतसृभिः पञ्चानां वर्णनं क्रियते | द्वितीयचतसृभिः पङ्क्तिभिः प्रत्येकं अन्यथासिद्धेः उदाहरणं दीयते | तद्यथा क्रमेण—घटं प्रति दण्डत्वं, दण्डरूपं, आकाशः, कुलालपिता, रासभश्च इति एकैकस्य निदर्शनम् |
तत्र च प्रथमा अन्यथासिद्धिः उपस्थाप्यते—
इदानीमन्यथासिद्धत्वमेव कियतां पदार्थानामत आह—येनेति | यत्कार्यं प्रति कारणस्य पूर्ववृत्तिता येन रूपेण गृह्यते कार्यं प्रति तद्रूपमन्यथासिद्धमित्यर्थः | यथा घटं प्रति दण्डत्वमिति | इति प्रथमान्यथाऽसिद्धनिरूपणम् |
पञ्चसु अन्यथासिद्धिषु प्रथमवर्णने उच्यते— 'येन सह पूर्वभावः' | यत् कर्यं प्रति किमपि वस्तु येन धर्मेण कारणं भवति, तत् कार्यं प्रति तस्य वस्तुनः स च धर्मः अन्यथासिद्धो भवति | यद्यपि स च धर्मः कार्यं प्रति नियतपूर्ववर्ती स्यात्, तथापि सः धर्मः कार्यं प्रति कारणं न भवति | यथा घटं प्रति दण्डत्वम् | अत्र वक्तव्यं यत् घटं प्रति दण्डः कारणं; तस्य च दण्डस्य पूर्ववृत्तिता दण्डत्वेन गृह्यते इति कृत्वा तच्च दण्डत्वं घटं प्रति अन्यथासिद्धम् | इत्युक्तौ घटं प्रति दण्डस्य कारणता दण्डत्वेन भवति अतः दण्डः कारणं, दण्डत्वम् अन्यथासिद्धम् | घटं प्रति दण्डत्वस्य कोऽपि उपयोगो नास्ति |
अस्य सम्यक् बोधनार्थं प्रष्टव्यं यत् घटं प्रति दण्डः कारणं केन धर्मेण—द्रव्यत्वधर्मेण वा, पृथिवीत्वधर्मेण वा, दण्डत्वधर्मेण वा ? उत्तरं भवति यत् न द्रव्यत्वधर्मेण, न वा पृथिवित्वधर्मेण, अपि तु दण्डत्वधर्मेण एव दण्डः कारणं घटं प्रति | एतदर्थं दण्डत्वं अन्यथासिद्धम् इति स्वीकार्यम् | एतदर्थञ्च उक्तं 'येन सह पूर्वभावः’, ‘कारणस्य पूर्ववृत्तिता येन रूपेण गृह्यते कार्यं प्रति तद्रूपमन्यथासिद्धमित्यर्थः’ | दण्डस्य घटपूर्ववृत्तिता केन रूपेण गृह्यते ? दण्डत्वेन रूपेण | अतः घटकार्यं प्रति दण्डत्वम् अन्यथासिद्धम् | एवमेव गन्धं प्रति पृथिवीत्वम् अन्यथासिद्धम् |
सारांशत्वेन उच्यते यत् घटं प्रति दण्डः कारणं, दण्डे कारणता, दण्डनिष्ठकारणता दण्डत्वावच्छिन्ना, दण्डकारणतायाः अवच्छेदकधर्मः दण्डत्वं, तथा च घटकार्यं प्रति दण्डत्वम् अन्यथासिद्धम् | एवञ्च कारणतावच्छेदकधर्मत्वं प्रथमम् अन्यथासिद्धमिति भावः |
द्वितीयमन्यथासिद्धमाह—कारणमिति | यस्य स्वात्रन्त्र्येणान्वयव्यतिरेकौ न स्तः किन्तु कारणमादायैवान्वयव्यतिरेकौ गृह्येते तदन्यथासिद्धम् | यथा दण्डरूपम् | इति द्वितीयमन्यथाऽसिद्धनिरूपणम् |
दण्डे विद्यमानरूपमपि घटनियतपूर्ववर्ति | किन्तु दण्डरूपस्य स्वातन्त्र्येण घटं प्रति अन्वयव्यतिरेकौ न स्तः | दण्दवर्णस्य घटं प्रति अन्वयसहचारः, व्यतिरेकसहचारश्च स्वातन्त्र्येण न भवतः | अपि तु कारणम् आदाय, दण्डरूपकारणमादाय एव, दण्डवर्णस्य घटं प्रति अन्वयव्यतिरेकसहचारौ ज्ञायेते | अतः दण्डरूपं घटं प्रति अन्यथासिद्धम् |
यत्कार्यं प्रति यस्य वस्तुनः अन्वयः व्यतिरेको वा स्वातन्त्र्येण न भवति अपि तु कारणमादाय एव भवति, तत्कार्यं प्रति तच्च वस्तु अन्यथासिद्धम् | अत्र धेयं यत् कारणम् इत्युक्ते वस्तुनः कारणम् | दण्डरूपस्य घटम्प्रति न स्वतन्त्रतया पूर्वभावः, किन्तु स्वकारणस्य—दण्डरूपस्य समवायिकारणदण्डस्य—पूर्वभावं गृहीत्वैव दण्डरूपस्यापि घटम्प्रति पूर्वभावो गृह्यते, अतः दण्डरूपं घटोत्पत्तेः पूर्वक्षणे सदपि अन्यथासिद्धमेव इति भावः |
प्रश्नः उदेति यत् प्रथमविधान्यथासिद्धिः, द्वितीयविधान्यथासिद्धिः, अनयोः भेदः कः ? दण्डत्वं दण्डे विद्यमानजातिः; दण्डरूपमिति दण्डे विद्यमानः गुणः | द्वयोः घटनियतपूर्ववृत्तित्वम् | परन्तु दण्डत्वं कारणतावच्छेदकं; दण्डरूपं तथा न किमपि | घटकार्यं प्रति दण्डरूपं न कारणतावच्छेदकं, न वा प्रयोजकं (प्रयोजकम् अत्र इत्युक्ते कारणं वा कारणतावच्छेदकम्) न वा अन्यत् किमपि; केवलं दण्डाश्रितः गुणः | अतः पृथक्तया उक्तम् |
तदर्थं श्लोकस्य आरम्भे उक्तं—येन सह पूर्वभावः कारणमादाय वा यस्य | प्रथमविधस्य 'येन सह पूर्वभावः’; द्वितीयविधस्य 'कारणमादाय वा यस्य (पूर्वभावः)’ | प्रथमविधे येन सह इत्यस्य कथनेन यस्य बलेन पूर्वभावः उक्तः; दण्डः घटं प्रति कारणं दण्डत्वेन रूपेण | किन्तु दण्डरूपमिति चेत्, वैपरीत्यम्— कारणमादाय एव तस्य पूर्वभावः सिध्यति, नाम समवायिकारणं दण्डम् अवलम्ब्य तस्य पूर्वभावः |
तृतीयमाह—अन्यं प्रतीति | अन्यं प्रति पूर्ववृत्तित्वं गृहीत्वैव यस्य यत्कार्यं प्रति पूर्ववृत्तित्वं गृह्यते तस्य तत्कार्यं प्रत्यन्यथासिद्धत्वम् | यथा घटकादिकं प्रत्याकाशस्य | तस्य हि घटादिकं प्रति कारणत्वमाकाशत्वेनैव स्यात् | आकाशत्वं हि शब्दसमवायिकारणत्वम् | एवं च तस्य शब्दं प्रति जनकत्वं गृहीत्वैव घटादिकं प्रति जनकत्वं ग्राह्यमतस्तदन्यथासिद्धम् | इति तृतीयमन्यथाऽसिद्धनिरूपणम् |
अन्यं प्रति पूर्ववृत्तित्वं (कारणत्वं) ज्ञात्वा यत्कार्यं प्रति पूर्ववृत्तित्वं ज्ञायते, तत् तृतीयमन्यथासिद्धम् | यथा घटं प्रति आकाशः | आकाशः नित्यः, व्यापकश्च | अतः सः कार्यमात्रं प्रति नियतपूर्ववर्ती | एवञ्च घटं प्रति अपि आकाशः नियतपूर्ववर्ती अस्त्येव | नाम आकाशे नियतपूर्ववर्तित्वस्वरूपं कारणत्वम् आकाशे सिद्धम् | परन्तु घटं प्रति आकाशस्य केन रूपेण पूर्ववृत्तित्वं, केन रूपेण कारणत्वम् इति चेत्, आकशत्वेन रूपेण | नाम आकाशत्वेन रूपेण कारणं मन्तव्यं साधनीयञ्च |
तर्हि आकशत्वम् इत्युक्ते किम् ? आकाशत्वं शब्दसमवायिकारणत्वम् इति वक्तव्यमस्ति | शब्दसमवायिकारणत्वम् इत्यस्य कथनेन आकाशः शब्दं प्रति कारणम् इत्येव सिद्धं भवति, नान्यत् प्रति | तर्हि आकाशः शब्दं प्रति कारणं ज्ञात्वा, शब्दसमवायिकारणत्वम् आदौ ज्ञात्वा, अनन्तरमेव घटं प्रति आकाशपूर्ववृत्तित्वं ज्ञातुं शक्यते, अतः घटकार्यं प्रति आकाशः अन्यथासिद्धः |
अपरैः शब्दैः घटं प्रति आकाशः नियतपूर्ववर्ती इति ज्ञातव्यं चेत्, आकाशः नाम कः इति आदौ ज्ञातव्यम् | आकाशः नाम कः इति चेत्, शब्दसमवायिकारणम् | इत्थञ्च आकाशस्य शब्दनियतपूर्ववृत्तित्वं ज्ञात्वा, अनन्तरं घटनियतपूर्ववृत्तित्वं ज्ञायते | अतः आकाशः अन्यथासिद्धः |
तर्हि प्रश्नः उदेति, किमर्थं न अत्र साक्षात् आकाशप्रसङ्गे चर्चां कुर्मः ? आकाशत्वस्य विषयः अत्र किमर्थम् आनेतव्यः ? उत्तरत्वेण वक्तव्यं यत् यदि आकशः घटं प्रति कारणं स्यात्, तर्हि केन रूपेण कारणं स्यात् ? इति चेत्, आकाशत्वेन रूपेण | न तु द्रव्यत्वेन रूपेण अथवा अन्येन रूपेण | यया रीत्या दण्डः घटं प्रति कारणं भवति दण्डत्वेन रूपेण न तु द्रव्यत्वेन रूपेण वा पृथिवीत्वेन रूपेण, तया एव रीत्या आक्शः विशिष्टधर्म-आकाशत्वेन रूपेण तस्य घटं प्रति करणं यदि स्यात् तर्हि तेन एवे रूपेण स्यात् | नाम आकाशे विद्यमाना कारणता आकाशत्वावच्छिन्ना | अतः तच्च आकाशत्वं कीदृशम् इति अवश्यं ज्ञातव्यम् | इदानीं दण्डे विद्यमानधर्मः दण्डत्वं जातिरूपः | दण्डत्वं जातिः अस्ति इति कृत्वा पर्याप्तं, ततः अग्रे तस्य वर्णने न अपेक्षितं किमपि | किन्तु आकाशत्वे एक एव सदस्यः आकाशः इति कृत्वा इदम् आकाशत्वं जातिः नास्ति | जातिः नास्ति इति कारणतः अस्माभिः वक्तव्यं भवति, यदि आकाशः घटं प्रति कारणम् आकाशत्वेन रूपेण, तर्हि इदम् आकाशत्वं नाम किम् ? अनेन कारणेन उपरतना आकाशत्वसम्बद्धचर्चा अपेक्षिता | आकाशत्वं शब्दसमवायिकारणत्वम् इति कृत्वा 'अन्यं प्रति पूर्वभावः', अनेन आकाशः अन्यथासिद्धः |
आहत्य आकाशः शब्दं प्रत्येव कारणं; तस्य आकाशस्य कार्यमात्रं प्रति पूर्ववृत्तित्वं चेदपि शब्दं विहाय अन्यत्सर्वं प्रति आकाशः अन्यथासिद्धः | तदर्थं तृतीयमन्यथाऽसिद्धम् उक्तम्—अन्यं प्रति पूर्वभावे ज्ञाते यत्पूर्वभावविज्ञानम् |
अत्र प्रश्नः उदेति यत् वक्ष्यमाणकार्यजनकपूर्ववृत्तित्वरूप-कुलालपितृत्वम् अन्यथासिद्धम् इति तु अङ्गीकृतं; कुलालपितुः मरणानन्तरमपि कुलालः घटम् उत्पादयितुं शक्नोति | किन्तु आकाशः नित्यः; सः तु सदा किमपि कार्यं प्रति पूर्ववर्ती भवत्येव | तर्हि यथा अन्यसाधारणकारणानि कालः, दिक्, ईश्वरः इत्यादीनि तथा आकाशः नित्यत्वात् साधारणकारणं स्यात् |
उत्तरत्वेन कालप्रसङ्गे साधारणकारणत्वं स्वीक्रियते यतोहि 'अस्मिन् काले घटः उत्पन्नः' इति लोके प्रसिद्धव्यवहारः | एवमेव दिक्प्रसङ्गे 'अस्मिन् स्थाने घटः उत्पन्नः', अतः दिशः अपि साधारणकारणत्वं स्वीकृतम् | परन्तु आकाशस्य तादृशव्यवहारो नास्ति लोके | 'अस्मिन् आकाशे घटः उत्पन्नः' इति लोके व्यवहारो नास्ति | अत्र एका वार्ता अस्ति यत् द्रव्यैः सह आकाशस्य वृत्त्यनियामकसंयोगसम्बन्धः, तदर्थम् व्यवहारे अप्रसिद्धिः | दिक्प्रसङ्गे तु 'तस्मिन् देशे' घटः उत्पन्नः—दैशिकविशेषणतासम्बन्धेन दिशः कारणत्वम् | एवमेव कालिकविशेषणतासम्बन्धेन कालस्य कारणत्वम् | परन्तु आकाशस्य सम्बन्धः वृत्त्यनियामकः अतः एतदर्थमपि आकाशस्य घटं प्रति वा पटं प्रति वा कारणत्वं न भवति | नियमेन पूर्ववृत्तित्वम् अस्ति चेदपि कारणत्वं नास्ति | अन्यच्च कर्ता यदा कार्यं कर्तुम् उद्युक्तः, तदा कारणानां सङ्ग्रहं करोति | चक्रं, दण्डः, मृत्तिका इत्यादिकम् | आकाशस्य संग्रहः न सम्भवति | एतदर्थमपि कारणं न भवितुमर्हति |
प्रश्नः— परन्तु साधारणकारणानां सङ्ग्रहस्य आवश्यकता नास्ति किल | यथा कालस्य |
उत्तरं— नास्ति, सत्यम् | तथापि दिक्कालयोः यद्यपि सङ्ग्रहो न भवतः, किन्तु कालं देशं च उद्दिष्य कर्ता कार्यं करोति | ‘मङ्गलवासरे, तस्मिन् काले, घटस्य निर्माणं करिष्यामि' | तस्मिन् देशे च | काले देशे च उद्देश्यत्वं वर्तते | आकाशप्रसङ्गे तथा नास्ति | आकाशे उद्देश्यत्वम् अपि नास्ति, कार्योत्पादनार्थम् आहरणमपि न क्रियते | तन्तुवायः तन्तुम् आनयति पटस्य निर्माणार्थं; तन्तुत्वं किन्तु नानीयते | तन्तुत्वमपि आगच्छति इति तु सत्यं, किन्तु तत्प्रति तन्तुवायस्य उद्देश्यत्वं नास्ति | तन्तुः आनीयते न तु तन्तुत्वम् | एवम् आकाशस्य कार्यमात्रं प्रति पूर्ववृत्तित्वं वर्तते तस्य विभुत्वात्, किन्तु कार्योत्पादने तस्मिन् आकाशे उद्देश्यत्वं नास्ति |
अस्मिन् आकाशप्रसङ्गे अन्ये केचन आक्षेपाः सन्ति; तेषाम् उपस्थापनं समाधानञ्च वक्ष्यमाणं पञ्चममन्यथाऽसिद्धनिरूपणावसरे |
चतुर्थमन्यथासिद्धमाह—जनकं प्रतीति | यत्कार्यजनकं प्रति पूर्ववृत्तित्वं गृहीत्वैव यस्य यत्कार्यं प्रति पूर्ववृत्तित्वं गृह्यते तस्य तत्कार्यं प्रत्यन्यथासिद्धत्वम् | यथा कुलालपितुर्घटं प्रति | तस्य हि कुलालपितृत्वेन घटं प्रति जनकत्वे एवान्यसिद्धिः - कुलालत्वेन जनक्त्वेत्विष्टापत्तिः, कुलालमात्रस्य घटं प्रति जनकत्वात् | इति चतुर्थमन्यथाऽसिद्धनिरूपणम् |
यत् वस्तु यस्य कार्यस्य उत्पादकं प्रति कारणम् अस्ति, तत् ज्ञात्वा अनन्तरं तत् कार्यं प्रति कारणं भवति इति बोधः चेत्, तत् कार्यं प्रति तद्वस्तु अन्यथासिद्धम् अस्ति | तदर्थम् श्लोके उक्तं— जनकं प्रति पूर्ववृत्तितामपरिज्ञाय न यस्य गृह्यते | जनकं प्रति पूर्ववृत्तिता-ज्ञानं विना यस्य पूर्वावृत्तिता न ज्ञायते इत्यर्थः | 'जनकं' नाम घटरूपकार्यं प्रति कुलालजनकः, तं (जनकं) प्रति 'पूर्ववृत्तिता-ज्ञानं', नाम कुलालपितुः कुललं प्रति या पूर्ववृत्तिता, तादृशपूर्ववृत्तिताज्ञानं विना यस्य घटरूपकार्यं प्रति पूर्वावृत्तिता न ज्ञायते, सः घटरूपकार्यं प्रति अन्यथासिद्धः | अतः जनकं प्रति पूर्ववृत्तितामपरिज्ञाय न यस्य गृह्यते, सः अन्यथासिद्धः |
अन्य रीत्या उच्यते— स्वजन्यतानिरूपितजनकतानिरूपितजनकतावत्त्वं चतुर्थमन्यथासिद्धम् | दृष्टान्ते घटः इति स्वम् | घटकार्यं प्रति कुलालः कारणम् | अतः कुलालस्य कारणं पिता, घटं प्रति अन्यथासिद्धः | कुलालस्य पिता स्वस्य पुत्रस्य उत्पत्तेः कारणं ज्ञात्वा अनन्तरं कुलालस्य पिता कुललपितृत्वेन रूपेण घटकार्यं प्रति कारणं मन्यते चेत्, स च कुलालपिता घटकार्यं प्रति अन्यथासिद्धः | इत्युक्तौ कुलालस्य पिता 'कुलालस्य पिता' मत्वा यदि सः कुलालपिता घटं प्रति कारणं स्वीक्रियेत, यद्यपि सः एव कुलालपिता घटकार्यस्य कारणस्य कारणम् अतः तस्मात् घटं प्रति कारणं भवेदेव, तथापि सः तु कारणं नास्ति अपि तु अन्यथासिध एव | अपि च स एव कुलालपिता यदि कुलालत्वेन रूपेण घतकार्यं प्रति कारणं मन्येत, तर्हि न कापि आपत्तिः अपि तु अभीष्टमेव | यतोहि सर्वे कुलालाः घटं प्रति कारणं सन्ति एव | नूनं कोऽपि कुलालः अद्य पर्यन्तं यद्यपि कदापि घटं न निर्मितवान् स्यात्, तथापि तस्मिन् कुलाले स्वरूपयोग्यतारूपकारणता वर्तते एव | निष्कर्षः एवं यत् पिता च पुत्रः च यदि उभौ कुलालौ स्तः, तर्हि जनद्वयेऽपि घटकार्यकारणता वर्तते एव |
तर्हि पितुः कुलालत्वेन इष्टापत्तिः; कुलालपितृत्वेन तस्य अन्यथासिद्धत्वम् | इष्टापत्तिः इति प्रसङ्गे एकवारं पूर्वमपि विचारः जातः | ‘भवान् आपत्तिः इति यत् चिन्तयति, तत् मम इष्टमेव' इति भावः | चिन्तयतु कुलालस्य पिता अन्यथासिद्धः इति रामः उक्तवान् | तदा श्यामः पृच्छति 'कुलालस्य पिता अन्यथासिद्धः इति भवान् कथं कथयति ?कुलालस्य पिता अपि घटं निर्माति खलु | कुलालस्य पिता अपि घटं निर्माति इति कारणेन, कुलालस्य पिता अपि घटं प्रति कारणं भवति किल; कथम् अन्यथासिद्धः ?’ तदा रामः उत्तरयति, ‘सत्यं भोः, कुलालस्य पिता यदि स्वयं घटं निर्माति, तर्हि सोऽपि घटस्य कारणम् इत्येव, इति अहं स्वीकरोमि; सा तु मम इष्टापत्तिः | केवलं कुलालपितृत्वेन अन्यथासिद्धः; घटजनकत्वेन कारणमेव' | अत्र रामस्य कृते कुलालपिता कुलालत्वेन इष्टापत्तिः | कुलालस्य पिता अन्यथासिद्धः इति रामः यत् वदति, तत्तु न समीचीनमिति श्यामः आपादयति—'कारणमेव भवति खलु' इति श्यामः आपादयति—तत्तु रामस्य सम्मतमेव | कथं सम्मतम् ? कुलालपितृत्वेन अन्यथासिद्धः; किन्तु घटजनकत्वेन तस्य कारणत्वम् अवश्यमस्ति |
पञ्चममन्यथासिद्धमाह—अतिरिक्तमिति | अवश्यक्लृप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तद्भिन्नमन्यथासिद्धमित्यर्थः | अत एव प्रत्यक्षे महत्त्वं कारणम् | अनेकद्रव्यवत्त्वमन्यथासिद्धम् | तत्र हि महत्त्वमवश्यक्लृप्तं तेनानेकद्रव्यवत्त्वमन्यथासिद्धम् | इति पञ्चममन्यथाऽसिद्धनिरूपणम् |
न च वैपरीत्ये किं विनिगमकमिति वाच्यं, महत्त्वत्वजातेः कारणतावच्छेदकत्वे लाघवात् |
रासभादिरिति | यद्यपि यत्किञ्चिद्घटव्यक्तिं प्रति रासभस्य नियतपूर्ववर्त्तित्वमस्ति, तथापि घटजातीयं प्रति सिद्धकारणभावैर्दण्डादिभिरेव तद्व्यक्तेरपि सम्भवे रासभोऽन्यथासिद्ध इति भावः |
एतेष्विति | एतेषु पञ्चस्वन्यथासिद्धेषु मध्ये पञ्चमोऽन्यथासिद्ध आवश्यकः, तेनैव परेषां चरितार्थत्वात् | तथाहि—दण्डादिभिरवश्यक्लृप्तनियतपूर्ववर्तिभिरेव कार्यसम्भवे दण्डत्वादिकमन्यथासिद्धम् |
न च वैपरीत्ये किं विनिगमकमिति वाच्यं, दण्डत्वस्य कारणत्वे दण्डघटितपरम्परायाः सम्बन्धत्वकल्पने गौरवात् | एवमन्येषामप्यनेनैव चरितार्थत्वं सम्भवतीति बोध्यम् |
अस्मिन् विषये, आरम्भे श्लोके उक्तमासीत्—अतिरिक्तमथापि यद्भवेन्नियतावश्यकपूर्वभाविनः | इत्युक्ते 'नियतावश्यकपूर्वभाविनः अतिरिक्तं यत्, तत् अन्यथासिद्धं भवेत्' | नियमेन कार्यात् प्राक् यावन्ति वस्तूनि भवन्ति, तेषु यानि आवश्यकानि इति मन्यामहे, तादतिरिक्तं यत्किमपि स्यात् तत् पञ्चमविध-अन्यथासिद्धम् | घटोत्पत्तौ दण्डः, चक्रं, कुलालः, मृत्तिका इत्यदिकम् अवश्यं नियमितरूपेण भवति; तेषां समवधानेन यदि घटनिर्माणं सम्भवति, तर्हि तानि अतिरिच्य यत्किमपि उपस्थितं स्यात्, तत्सर्वम् अन्यथासिद्धम् इति बोध्यम् | तात्पर्यमिदं यत् कार्योत्पत्तौ ये न केवलं नियतपूर्ववतिनः अपि तु आवश्यकाः अस्माकं मतेन, तान् एव कारणत्वेन स्वीकुर्मः; तदतिरिक्तं यत्सर्वम् अन्यथासिद्धम् |
दृष्टान्ते, यद्यपि कुत्रचित् घटस्य निर्मणावसरे मृत्तिकायाः आनयनं गर्दभेन सञ्जातम् इत्यस्मात् घटनिर्माणस्थले गर्दभः अपि उपस्थितः जातः, तथापि तस्य गर्दभस्य सर्वघटकार्याधिकरणे उपस्थितिः न सम्भवति, न वा आवश्यकी | दण्डः, चक्रं, कुलालः इत्यादयः अवश्यं नियमितरूपेण भवन्ति, तेषां विना च घटः न सम्भवति इत्यस्मात् इमानि एव कारणरूपेण स्वीक्रियन्ते | गर्दभः अन्यथासिद्धः निष्प्रयोजनश्च | तथैव पिपीलिका इत्यादिकम् यत्किमपि एवमेव कर्याधिकरणे उपस्थितं भवति तत्सर्वम् अन्यथासिद्धम् |
तदर्थम् उक्तं—रासभादिरिति | यद्यपि यत्किञ्चिद्घटव्यक्तिं प्रति रासभस्य नियतपूर्ववर्त्तित्वमस्ति, तथापि घटजातीयं प्रति सिद्धकारणभावैर्दण्डादिभिरेव तद्व्यक्तेरपि सम्भवे रासभोऽन्यथासिद्ध इति भावः | नाम यद्यपि कमपि घटं प्रति रासभस्य नियतपूर्ववर्त्तित्वमस्ति, तथापि घटजातीयं प्रति तद्व्यक्तेरपि व्युत्पत्तौ रासभः अन्यथासिद्धः, दण्डादीनां सिद्धकारणत्वात् |
एतावता बुद्धं यत् पञ्चमान्यथासिद्धत्वेन रासभः, पिपीलिका इत्यादीनां ग्रहणं भवति, नाम ये मध्ये मध्ये कार्याधिकरणे उपस्थितं भवन्ति | किन्तु एतादृशं विहाय अनेन पञ्चमान्यथासिद्धत्वेन अन्यत् किमपि गृह्यते किम् ? अस्य बोधनार्थम् अग्रे द्रष्टव्यम्—
नियतावश्यकपूर्वभाविनः इति कर्मधारयसमासः | तस्य च विग्रहवाक्यम् एतादृशं—नियतश्चासौ आवश्यकः पूर्वभावी च तस्य | एतदेव पञ्चम-अन्यथासिद्धस्य लक्षणं—नियतावश्यकपूर्वभाविभिन्नः यः सः अन्यथासिद्धः | नियतावश्यकपूर्वभावभिन्नत्वम् अन्यथासिद्धे | अपि च अस्य अर्थम् आधारीकृत्य इदमेव तु अन्यथासिद्धसाधारणस्य हि सामान्यलक्षणम् | न केवलं पञ्चमान्यथासिद्धस्य, अपि तु सर्वेषाम् अन्यथासिद्धानां लक्षणम् | यतोहि पञ्चमान्यथासिद्धिः पञ्चानाम् एव सङ्ग्रहः |
अस्य च अवगमनार्थम् अग्रे इदं वाक्यं बोध्यम्—अवश्यक्लृप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तद्भिन्नमन्यथासिद्धमित्यर्थः | अत एव प्रत्यक्षे महत्त्वं कारणम् | अनेकद्रव्यवत्त्वमन्यथासिद्धम् | तत्र हि महत्त्वमवश्यक्लृप्तं तेनानेकद्रव्यवत्त्वमन्यथासिद्धम् |
आरम्भे, श्लोके उक्तं 'नियतावश्यकपूर्वभाविनः'; अधुना उच्यते 'अवश्यक्लृप्तनियतपूर्ववर्तिनः’ | नाम आरम्भे 'आवश्यकम्' इति पदम् प्रयुक्तं; सम्प्रति 'अवश्यक्लृप्तत्वम्' इति परिवर्तनं किमर्थम् ? द्वयोः मध्ये भेदः अस्ति वा ?वार्ता एवमस्ति यत् 'आवश्यकम्' इत्यस्य कथनेन पिपीलिका, रासभः इत्यादीनां प्रकटोदाहरणानां निवारणं सिध्यति; कुत्रचित् किन्तु द्वयोः प्रस्तुतकारणयोः मध्ये किम् आवश्यकं किम् अनावश्यकमित्यस्य बोधः कष्टकरः | यथा वक्ष्यमाणे उदाहरणे (प्रत्यक्षं प्रति कारणं किम्) | एतादृशेषु स्थलेषु 'आवश्यकम्' इत्यस्य एव कथनेन प्रतिपक्षी शङ्काम् आक्षेपयति 'कथं जानीमः किम् आवशयकं किं च अनावश्यकम्' इति | तस्य निवारणार्थम् इतोऽपि स्पष्टीकरणार्थम् 'अवश्यक्लृप्तत्वम्' इत्यस्य व्यवहारः कृतः |
अवश्यक्लृप्तत्वम् इत्युक्ते लाघवम् | तच्च लाघवं त्रिविधम्—उपस्थितिकृतं लाघवं, शरीरकृतं लाघवं, सम्बन्धकृतं लाघवञ्च |
दृष्टान्ते प्रत्यक्षं प्रति किं कारणम् ? महत्त्वं (महत्परिमाणं) कारणं वा ? अथवा अनेकद्रव्यवत्त्वंं कारणं वा ? अनेकद्रव्यवत्त्वम् इत्युक्ते अनेकैः अवयवभूतद्रव्यैः जन्यत्वम् | अत्र उच्यते यत् प्रत्यक्षं प्रति महत्त्वस्य पूर्ववृत्तित्वम् आवश्यकम्, इति अस्माभिः अवश्यं मन्तव्यम् इति कृत्वा, यया रीत्या दण्डः, चक्रं, कुललः इत्यादीनां घटं प्रति नियतावश्यकपूर्ववृत्तित्वं, तथा अत्रापि | अनेकद्रव्यवत्त्वस्य तु तथा नास्ति इति कृत्वा तदन्यथासिद्धम् | कमपि कार्यं प्रति न्यूनातिन्यूनं यदपेक्षितं तदेव कारणम् इति ‘आवश्यक'-पदेन स्वीकृतम् | नाम यस्मिन् कार्यकल्पनायाः लाघवं वर्तते, तदेव 'आवश्यकं', तदेव च कारणं इति उच्यते | एतद् विहाय, एतद् अतिरिक्तं, सर्वम् अन्यथासिद्धम् |
एवञ्च येषु वस्तुषु महत्त्वं वर्तते, तेषामेव प्रत्यक्षं भवति इति कृत्वा प्रत्यक्षं प्रति महत्त्वं कारणम् | यथा पुस्तके, लेखन्यां, सङ्गणके, एतादृशेषु द्रव्येषु महत्परिमाणम् अस्ति, तदर्थं तेषां प्रत्यक्षं भवति | महत्त्वं विना प्रत्यक्षं न भवति एव; परमाणौ, द्व्यणुके, आकाशे च महत्परिमाणं नास्ति, तदर्थं एषां प्रत्यक्षं न सम्भवति | इत्थञ्च प्रत्यक्षे महत्त्वम् 'आवश्यकम्' इति |
अत्र किन्तु शङ्का उदेति यत् यथा महत्त्वं नियतपूर्ववर्ति, तथैव अनेकद्रव्यवत्त्वम् अपि | यतोहि सर्वाणि प्रत्यक्षयोग्यद्रव्याणि सावयवानि; तेषु अनेकद्रव्यवत्त्वं वर्तते एव | अतः प्रत्यक्षं प्रति अनेकद्रव्यवत्त्वं किमर्थं कारणं न स्यात् ?
उत्तरत्वेन सिन्धान्ती वदति यत् पूर्वमपि उक्तं यत् कमपि कार्यं प्रति न्यूनातिन्यूनं यदपेक्षितं तदेव कारणम् इति ‘आवश्यक'-पदेन स्वीकृतम् | महत्त्वं नियतावश्यकपूर्ववृर्ति अस्ति इति मन्तव्यमेव; यदा महत्त्वेन एव कार्यं सिध्यति, नाम यदा तदेव पर्याप्तं, तदा तदतिरिक्तं मास्तु | अतः अनेकद्रव्यवत्त्वम् असिद्धम् |
अत्र प्रतिपक्षी आक्षेपयति यत् वस्तुतस्तु द्वयमपि—महत्त्वं च अनेकद्रव्यवत्त्वञ्च—नियतपूर्ववर्ति | अस्यां दशायां किमर्थं न विपरीतत्वेन वदेम यत् अनेकद्रव्यवत्त्वं नियतावश्यकपूर्ववृर्ति, तेन एव कार्यं सिध्यति इति कृत्वा तस्मिन्नेव लाघवं, तदेव पर्याप्तं; महत्त्वम् अत्रातिरिक्तम् इत्यस्मात् असिद्धम् | अस्यां शङ्कायां भो सिद्धान्ति, भवतः किं विनिगमकं, का निर्णायकयुक्तिः ?
अस्य समाधानत्वेन त्रिविधलाघवस्य प्रथमविधं—शरीरकृतं लाघवं—सिद्धान्तिना उपयुज्यते |
प्रथमतया इतोऽपि काचित् पृष्ठभूमिः अपेक्षिता | प्रत्यक्षं केषां भवति ? त्र्यणुकात् आरभ्य प्रत्यक्षम् इत्युक्तम् | परमाणोः द्व्यणुकस्य च प्रत्यक्षं न भवति | तर्हि प्रत्यक्षं प्रति एतादृशं कारणं वक्तव्यं येन परमाणोः द्व्यणुकस्य च प्रत्यक्षं वार्येत | त्र्यणुके महत्त्वमपि अस्ति, अनेकद्रव्यवत्त्वमपि अस्ति | द्वयमपि अस्ति; अनयोः मध्ये कस्य कारणत्वं स्वीकर्तव्यम् ?
महत्त्वम् इत्युक्ते तत्परिमाणं गुणरूपम् | घटः महान्, तस्मिन् च महत्त्वं नाम गुणः वर्तते | अनेकद्रव्यवत्त्वम् इत्यस्य समानार्थी शब्दः अनेकद्रव्यत्वम् | यतोहि 'घटः अनेकद्रव्यवान्' अपि साधु, 'घटः अनेकद्रव्यः' इति बहुव्रीहिसमासत्वेन तस्मिन्नेव अर्थे वक्तुं शक्यते | नाम अनेकानि द्रव्याणि यैः जातः सः अनेकद्रव्यः, अथवा अनेकद्रव्यवान् | अतः तस्मिन् अनेकद्रव्यवत्त्वम् अथवा अनेकद्रव्यत्वं—द्वयमपि वक्तुं शक्यते | इत्युक्तौ अनेकावयवभूतद्रव्यम् इति फलितार्थः |
अनेकद्रव्यत्वम् इत्युक्ते समवेतसमवेतद्रव्यत्वम् | यथा, कपालिकासमवेतः कपालः; तत्र च समवेतः घटः | अनेन घटः समवेतसमवेतः, समवेतसमवेतद्रव्यत्वं घटे | अतः घटः समवेतसमवेतद्रव्यं; तेन च घटस्य अनेकद्रव्यत्वम् अस्ति | अनेके अवयवाः सन्ति इत्यर्थः | एवमेव पटस्य वदामः चेत्, तन्त्ववयवे समवेतः तन्तुः; तत्र समवेतः पटः | अनेन पटे अपि समवेतसमवेतद्रव्यम् अस्ति |
अग्रे सारल्यार्थम् अनेकद्रव्यत्व-शब्दस्य व्यवहारः क्रित्यते | अनेकद्रव्यत्वस्य प्रत्यक्षं प्रति कारण्त्वं सङ्गच्छते न वा इति विषये किञ्चित् इतोऽपि द्रष्टव्यम् | आकाशस्य प्रत्यक्षं न भवति | किमर्थम् इत्युक्तौ, तत्र अनेकद्रव्यत्वं नास्ति | आकाशः कुत्रापि समवायसम्बन्धेन वर्तते वा ? नैव | द्रव्यं समवायसम्बन्धेन कुत्रचित् भवति इति चेत्, कुत्र ? स्वस्य अवयवे | आकाशस्य तु अवयवः एव नास्ति | अतः आकाशस्य समवेतसमवेतत्वं न भवति | तदर्थम् आकाशस्य प्रत्यक्षं न सम्भवति | परमाणुरपि समवेतद्रव्यं नास्ति | कुत्रापि समवेतं नास्ति परमाणुः यतोहि तस्य अवयवः एव नास्ति; अतः तस्य अपि प्रत्यक्षं न भवति | द्व्यणुकं परमाणौ समवेतम् इति तु अस्ति, किन्तु परमाणुः कुत्रापि न समवेतः; तस्य फले समवेतसमवेतत्वं द्व्यणुके अपि नास्ति अतः प्रतक्षं न भवति तस्यापि | इति कृत्वा अनेकद्रव्यत्वस्य प्रत्यक्षं प्रति कारणत्वं वदामः चेदपि परमाणौ आकाशादौ च प्रत्यक्षवारणं सम्भवति |
महत्त्वस्य प्रत्यक्षं प्रति कारणत्वं वदामः चेदपि तथा | परमाणौ महत्त्वं नस्ति, द्व्यणुके अपि महत्त्वं नास्ति; आकाशे परममहत्परिमाणं. नाम अपकृष्टमहत्त्वं नास्ति इत्यतः त्रयाणामपि प्रत्यक्षं वारयितुं शक्यते |
तर्हि द्वयोः मध्ये कस्य कारणत्वं स्वीकार्ययोग्यम् इति चेत्, शरीरकृतलाघवं भवति महत्त्वकारणस्य स्वीकारे | महत्त्वम् इत्युक्ते कश्चन गुणः; अतः तस्मिन् महत्त्वत्वं नाम जातिः अस्ति | प्रत्यक्षं प्रति महत्त्वं कारणमिति स्वीकारे महत्त्वे विद्यमानायाः कारणतायाः अवच्छेदकं भवति महत्त्वत्वजातिः |
प्रत्यक्षं प्रति अनेकद्रव्यत्वं कारणमिति स्वीकारे कारणतावच्छेदकं भवति अनेकद्रव्यत्वत्वम् | इदम् अनेकद्रव्यत्वत्वं जातिः नास्ति अपि तु कश्चन धर्मः | स च धर्मः कीदृशः ? समवेतसमवेतद्रव्यत्वत्वम् | नाम अनेकैः पदार्थैः सिद्धः धर्मः | महत्त्वे विद्यमाना जातिः एका एव | किन्तु अनेकद्रव्यत्वे विद्यमानधर्मः अनेकैः सिद्धः इति कृत्वा गुरुभूतम् | महत्त्वत्वे शरीरकृतलाघवम्, अनेकद्रव्यत्वत्वे शरीरकृतगौरवम् | अत्र शरीरं नाम कारणतावच्छेदकम् | गौरवम् इत्यनेन बाहुल्यम् | अनेकैः सिद्धम् इति कृत्वापि बहुल्यम्, 'अनेक' च 'द्रव्यत्वत्वम्' च इति भागद्वयेनापि बाहुल्यम् | अनेकद्रव्यत्वस्य कारणतावच्छेदकं गुरुभूतम् इत्यस्मात् अनेकद्रव्यत्वं यद्यपि नियतपूर्ववर्ति, किन्तु न कारणम् |
एतावता पञ्चमान्यथासिद्धिः नाम का इति ज्ञातं, तत्सम्बद्धरासभस्य दृष्टान्तः अपि परिशीलितः | तत्पश्चात् शास्त्रीयोदाहरणप्रत्यक्षकारणस्य अवलोकनेन लाघवञ्च शरीरकृतं लाघवञ्चेत्यनयोः परिचयः जातः | अग्रे द्रष्टव्यं यत् अन्यथासिद्धेषु पञ्चानां सङ्ग्रहः पञ्चमे एव भवति | सार्वप्रथमं प्रश्नः आयाति यत् तथा सति किमर्थं पञ्चविधम् उक्तम् ? उत्तरत्वेन, केवलं शिष्याणां स्पष्टबोधनार्थम् | केषां केषाम् अन्यथासिद्धत्वं भवति इति स्पष्टप्रतिपत्त्यर्थम् एषां पृथक् पृथक् उपन्यासाः | नो चेत् वस्तुतस्तु पञ्चम-अन्यथासिद्धिलक्षणेन एव सर्वेषां सङ्ग्रहः भवति |
अतः आरम्भे, श्लोके उक्तं—पञ्चमो रासभादिः स्यादेतेष्वावश्यकस्त्वसौ | अपि च एतदर्थम् अग्रे उक्तं यत्—एतेष्विति | एतेषु पञ्चस्वन्यथासिद्धेषु मध्ये पञ्चमोऽन्यथासिद्ध आवश्यकः, तेनैव परेषां चरितार्थत्वात् | तथाहि—दण्डादिभिरवश्यक्लृप्तनियतपूर्ववर्तिभिरेव कार्यसम्भवे दण्डत्वादिकमन्यथासिद्धम् | न च वैपरीत्ये किं विनिगमकमिति वाच्यं, दण्डत्वस्य कारणत्वे दण्डघटितपरम्परायाः सम्बन्धत्वकल्पने गौरवात् | एवमन्येषामप्यनेनैव चरितार्थत्वं सम्भवतीति बोध्यम् |
अधुना क्रमेण अवलोकयाम कथं प्रथमचतुर्णाम् अन्यथासिद्धानां विचारः समाहितः भवति पञ्चमेन एव | पूर्वं प्रथमविध-अन्यथासिद्धत्वप्रसङ्गे परिशीलितं यत् घटं प्रति दण्डकारणस्य पूर्ववृत्तिता दण्डत्वरूपेण गृह्यते इति कृत्वा कार्यं प्रति दण्डत्वम् अन्यथासिद्धम् | सम्प्रति गन्धं प्रति पृथिवी कारणं वा, पृथिवीत्वं कारणं वा इति दृष्टान्तेन परिशीलयाम | उभयोः दृष्टान्तयोः सिद्धान्तः समानः—प्रथमविध-अन्यथासिद्धत्वम् |
तर्हि गन्धं प्रति पृथिवी कारणं वा, पृथिवीत्वं कारणं वा ? पृथिवीत्वं समवायसम्बन्धेन पृथिव्याम्, अपि च गन्धः समवायेन उत्पद्यते पृथिव्याम् | तर्हि द्वयोः सामानाधिकरण्यम् अस्ति | पृथिवीत्वं सदा कार्याधिकरणे पृथिव्याम् अस्ति, अपि च कार्योत्पत्तेः पूर्वक्षणे अस्ति, कार्यनियतपूर्ववृत्तित्वम् अस्ति | तर्हि किमर्थं गन्धं प्रति पृथिवीत्वम् असमवायिकारणं न स्यात् ?अधुना 'अन्यथासिद्धिशून्यत्वे सति कार्यनियतपूर्ववृत्तित्वं' कारणस्य लक्षणमित्यस्मात् केवलं कार्यनियतपूर्ववृत्तित्वं वर्तते चेत् पर्याप्तं नास्ति इति तु जानीमः | अन्यथासिद्धिशून्यत्वमपि भवेत् | सम्प्रति पृथिवीत्वम् अन्यथासिद्धम् अस्ति न वा इति द्रष्टव्यम् | वस्तुतस्तु 'येन सह पूर्वभावः’, ‘कारणस्य पूर्ववृत्तिता येन रूपेण गृह्यते कार्यं प्रति तद्रूपमन्यथासिद्धमित्यर्थः’ इति प्रथमविधया पृथिवी पृथिवीत्वेन रूपेण गन्धं प्रति कारणम्, इति पूर्वमेव दृष्ट्वा ज्ञातम् अस्माभिः यत् गन्धं प्रति पृथिवीत्वम् अन्यथासिद्धम् | सम्प्रति पञ्चमविधया एतदेव साधयिष्यते |
पञ्चमविधया किं वक्तव्यम् ? गन्धं प्रति पृथिव्याः अपेक्षया पृथिवीत्वस्य कारणविषये गौरवं वर्तते | गौरवं लाघवञ्च त्रिविधम् इति पूर्वमुक्तम्—उपस्थितिकृतं, शरीरकृतं, सम्बन्धकृतञ्च | पृथिवीत्वस्य कारणत्वस्वीकारे उपस्थितिकृतगौरवम् अस्ति, शरीरकृतगौरवमपि अस्ति | तर्हि प्रथमतया उपस्थितिकृतलाघवम्, उपस्थितिकृतगौरवं, शरीरकृतलाघवं, शरीरकृतगौरवं च किमिति द्रष्टव्यम् |
उपस्थितिकृतलाघवस्य स्पष्टम् उदाहरणं भवति यत्र घटे पाको भवति | पाकानन्तरं रूपं, स्पर्शः इत्यादयः नूतनगुणाः उत्पद्यन्ते | 'पाकः' इत्यनेन पाकक्रिया, अग्निसंयोगः | मृदा च कपालद्वयसंयोगेन च यदा घटः आरम्भे निर्मीयते , तदा स च घटः इतोऽपि न पक्वः यतोहि पाकः न कृतः | श्यामरूपम् अस्ति, मृदुरूपस्पर्शश्च अस्ति | पाकेन स्पर्शः अन्यरीत्या भवति—मृदुस्पर्शः नश्यति, कठिनस्पर्शः उत्पद्यते; एवमेव श्यामरूपं नश्यति, रक्तरूपञ्च उत्पद्यते | नूतनं रूपं प्रति नियतपूर्ववृत्तिः भवति गन्धप्रागभावः, रूपप्रागभावः, स्पर्शप्रागभावश्च | एतेषु त्रिषु रूपं प्रति किं कारणमिति विचार्यमाणे सति रूपप्रागभावस्य कारणत्वस्वीकारे उपस्थितिकृतं लाघवम् अस्ति | यतोहि रूपप्रागभावं प्रति प्रतियोगी रूपम् एव | प्रतियोगिरूपेण उपस्थितं रूपं, तस्य अनुयोगी रूपप्रागभावः इति कृत्वा रूपस्य कारणं किमिति पृष्टे सति गन्धप्रागभावः, स्पर्शप्रागभावः बुद्धौ उपस्तिथौ न भवतः किन्तु रूपप्रागभावः झटिति साक्षात् उपस्थितः भवति | तदर्थम् उपस्थितिकृतं लाघवम् इत्युच्यते | अनेन रूपं प्रति कारणं रूपप्रागभावः न तु गन्धप्रागभावः, स्पर्शप्रागभावः वा |
अभावस्य कारणत्वं स्वीक्रियते इति पूर्वमपि अस्माभिः ज्ञातं; किमपि कार्यं प्रति तस्य प्रागभावस्य कारणत्वम् अङ्गीकृतं; भावस्य कारणत्वम् अभावे वर्तते इति अन्यत्रापि दृष्टम् | वृष्टेः कारणत्वं प्रतिबन्धकस्य अभावे अस्ति | महान् वायुः अस्ति चेत् वृष्टिः न भवति; महता वेगेन वायुः नास्ति चेत्, वृष्टिः आरभ्यते | इत्थञ्च महद्वायुरूप-प्रतिबन्धकस्य अभावे कारणत्वम् | एवमेव अनुमितिस्थले साध्यज्ञानाभावः अनुमितिं प्रति कारणम् | यदा गजः दृष्टः एव, तदा तच्चीत्कारेण तद्गजस्य अनुमानं न कुर्मः | अनुमितिं प्रति प्रत्यक्षनिश्चयः प्रतिबन्धकः; यत्र प्रत्यक्षनिश्चयः नास्ति, तत्र अनुमानं प्रवर्तते | अतः अनुमितिं प्रति प्रत्यक्षनिश्चयाभावः कारणम् | एवमेव वह्निः न दृष्टः चेदव 'पर्वतः वह्निमान् धूमात्' इत्यपेक्षते | इत्थञ्च अनुमितिरूपभावकार्यं प्रति प्रत्यक्षाभावरूप-अभावकारणत्वं भवति | तथैव रूपं प्रति रूपप्रागभावस्य कारणत्वम् |
इदानीं प्रकृतौ गन्धं प्रति पृथिवी कारणमिति कार्यकारणभावस्वीकारे उपस्थितिकृतलाघवम् अस्ति | यतोहि पृथिव्याः कारणत्वं झटिति बुद्धौ आगच्छति | गन्धस्य श्रवणेन पृथिवीत्वकारणत्वं बुद्धौ उपस्थितं न भवति अतः उपस्थितिकृतं गौरवमस्ति |
गन्धं प्रति पृथिवी कारणमिति कार्यकारणभावस्वीकारे शरीरकृतलाघम् अपि अस्ति | कथम् इति चेत्, 'गन्धं प्रति पृथिवी कारणम्' इति उच्यमाने सति कारणता पृथिवीनिष्ठा, कारणतावच्छेदकञ्च पृथिवीत्वम् | पृथिवीत्वम् इत्युक्ते काचन जातिः, एका एव, सर्वेषु पार्थिवपदार्थेषु विद्यमाना | कारणतावच्छेदकम् एकमेव अस्ति चेत्, कार्यकार्णभावः एक एव वक्तुं शक्यते गन्धं प्रति | गन्धत्वावच्छिन्नं कार्यत्वं प्रति पृथिवीत्वावच्छिन्नं कारणत्वम् |
पृथिवीत्वस्य कारणत्वं यदि स्वीक्रियते, तर्हि कारणता पृथिवीत्वनिष्ठा, कारणतावच्छेदकं पृथिवीत्वत्वम् | किं तत् पृथिवीत्वत्वम् ? पृथिवीत्वे विद्यमानधर्मः पृथिवीत्वत्वम् | इदञ्च पृथिवीत्वत्वं जातिः नास्ति, यतोहि जातौ जतिः नाङ्गीक्रियते | तदर्थं पृथिवीत्वत्वं किमिति भिन्नरीत्या वक्तव्यमस्ति—सकलपृथिवीसमवेतत्वे सति पृथिवीतर-असमवेतत्वम् | पृथिवीत्वं सकलपृथिवीसमवेतं, नाम सकलपार्थिवद्रव्येषु समवायसम्बन्धेन वर्तते | यथा पुस्तके पृथिवीत्वम् अस्ति, सङ्गणके पृथिवीत्वम् अस्ति, दूरवाण्यां पृथिवीत्वम् अस्ति | एवं पृथिवीत्वं सकलपृथिवीसमवेतं; सकलपृथिवीसमवेतत्वं पृथिवीत्वे | तदा 'पृथिवीतर-असमवेतत्वम्'—पृथिवीतरं नाम पृथिवी-इतरं, पृथिवीभिन्नं—यथा जलं, वायुः, आकाशः इत्यादीनि द्रव्याणि पृथिवीभिन्नानि, तेषु पृथिवीत्वं समवायसम्बन्धेन नास्ति | अतः पृथिवीत्वं पृथिवीतर-असमवेतं; पृथिवीतर-असमवेतत्वं पृथिवीत्वे | आहत्य पृथिवीत्वे विद्यमानधर्मः पृथिवीत्वत्वं; तदेव सकलपृथिवीसमवेतत्वे सति पृथिवीतर-असमवेतत्वम् |
तर्हि पृथिवीत्वे विद्यमानधर्मः कः ? पृथिवीत्वत्वम्, इत्युक्तौ सकलपृथिवीसमवेतत्वे सति पृथिवीतर-असमवेतत्वम् | अस्मिन् दलद्वयं वर्तते | एकम् अस्ति सकलपृथिवीसमवेतत्वं, नाम समवायसम्बन्धेन वृत्तित्वम् | तस्य दलप्रयोजनं कुर्मः चेत्, पृथिवीत्वं सकलपार्थिवद्रव्येषु वर्तते | किन्तु एतद्दलमेव स्वीकुर्मः चेत्, अतिव्याप्तिः भवति | यतोहि सकलपृथिवीसमवेतत्वं न केवलं पृथिवीत्वे अपि तु द्रव्यत्वे अपि | यतोहि पार्थिवं सर्वं द्रव्यमेव | सकलपार्थिवद्रव्येषु समवायसम्बन्धेन द्रव्यत्वम् अस्त्येव | अतः जलाद्यसमवेतत्वम् अपि वक्तव्यम् अतिव्याप्तेः वारणार्थम् | जलाद्यसमवेतत्वम् इत्युक्तौ जलादिषु समवायसम्बन्धेन न भवेत् | द्रव्यत्वे जलाद्यसमवेतत्वम् अस्ति वा ? नैव | अतः केवलं सकलपृथिवीसमवेतत्वम् इत्युच्यते चेत् अपर्याप्तं, पृथिवीतर-असमवेतत्वस्य उपादाने लक्षणसमन्वयो भवति |
अपि च पृथिवीतर-असमवेतत्वम् इत्येव उच्यते चेत्, अत्रापि अतिव्याप्तिः | यतोहि पृथिवीत्वम् अतिरिच्य पृथिवीतर-असमवेतत्वम् अन्यत्रापि वर्तते | यथा पृथिव्याम् अस्ति; गन्धे अस्ति; परमाणौ, अभावे, समवाये, च एतेषु अपि अस्ति | द्वयोः दलयोः मेलनेन पृथिवीत्वे विद्यमानः असाधारणधर्मः, पृथिवीत्वत्वम् |
जातौ विद्यमानधर्मस्य प्रतिपादनम् एवं सर्वत्र भवति यतोहि जातौ जातिः नास्ति इति कृत्वा तस्य स्वभावः अन्यरीत्या वक्तव्यः | तथा हि द्रव्यत्वे द्रव्यत्वत्वं वर्तते | द्रव्यत्वत्वं जातिः नास्ति | तर्हि द्रव्यत्वत्वं नाम किम् ? सकलद्रव्यसमवेतत्वे सति द्रव्येतर-असमवेतत्वम् | गुणत्वत्वं नाम किम् ?सकलगुणसमवेतत्वे सति गुणेतर-असमवेतत्वम् | दण्डत्वत्वमपि तथा, दण्डत्वे विद्यमानः धर्मः |
किमर्थं पृथिवीत्वत्वधर्मः अपि च पृथिवीत्वजातिः अनयोः महत्त्वपूर्णभेदः ? यतोहि पृथिवीत्वत्वधर्मः जातिः नास्ति चेत्, सः कः इति प्रश्ने सति भिन्नरीत्या उत्तरं दातव्यं भवति | यथा अन्योन्याभावे विद्यमानधर्मः अन्योन्याभावत्वम् | इदम् अन्योन्याभावत्वं जातिः नास्ति:; तर्हि अन्योन्याभावत्वं नाम किम् ? तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वम् | एवमेव व्याप्यत्वम्, इदं तु जातिः नास्ति, तर्हि किं तत् ? व्याप्यत्वधर्मः इत्युक्तौ साध्याभाववदवृत्तित्वं व्याप्यत्वम् | तदभाववत् अवृत्तित्वं व्याप्यत्वम् | समानाधिकरणत्वम् इत्यपि जातिः नास्ति, तर्हि तस्य अर्थः कः ? तदधिकरणवृत्तित्वम् | तस्मिन्नेव अधिकरणे एषः अपि वर्तते, अतः तत्र समानाधिकरणत्वम् अस्ति | यत्र कुत्रापि कश्चन धर्मो वर्तते,स च धर्मः जातिः नास्ति चेत् अन्यरीत्या तस्य विवरणं करणीयम् |
तर्हि गन्धं प्रति पृथिवीत्वं कारणमिति चेत्, पृथिवीत्वे कारणतावच्छेदकं पृथिवीत्वत्वम् | अर्थात् सकलपृथिवीसमवेतत्वे सति पृथिवीतर-असमवेतत्वम् | गन्धं प्रति पृथिवी करणमिति कार्यकारणभावस्वीकारे कारणतावच्छेदकं पृथिवीत्वजातिः, सा च एका एव | किन्तु कारणतावच्छेदकं पृथिवीत्वत्वम् अस्ति चेत्, कारणतावच्छेदकधर्मे पदार्थानां बाहुल्यं वर्तते | प्रथमतया दलद्वयमस्ति—सकलपृथिवीसमवेतत्वञ्च पृथिवीतर-असमवेतत्वं च | तद्दलद्वयमपि पुनः गुरुभूतं; प्रत्येकदलम् अनेकपदार्थघटितम् | सकलपृथिवीसमवेतत्वे सकलपृथिवी इति अन्तर्भूता; सकलपृथिवी इत्यस्य कथनेन अनेकेषां पदार्थानां समाहारः | अग्रे वक्तवयं यत् पदार्थत्रयं वर्तते सकलपृथिवीसमवेतत्वे—साकल्यं, पृथिवी, समवेतत्वम् | पृथिवीतर-असमवेतत्वम् इत्यस्य कथनेन 'पृथिवी', ‘इतर', ‘असमवेत' इति पुनः पदार्थत्रयम् आगतम् | अग्रे पृथिवीतर-असमवेतत्वम् इत्युक्ते तादृशसमवेतत्वाभावः, जलादिसमवेतत्वाभावः— जलसमवेतत्वाभावः, तेजसमवेतत्वाभावः, वायुसमवेतत्वाभावः इति अनेके पदार्थाः कारणतावच्छेदकाः भवन्ति | अपरैः शब्दैः वक्तुं शक्यते यत् पृथिवीतर-समवेतत्वाभवः एक एव, परन्तु अस्य अभावस्य प्रतियोगिनः बहवः सन्ति | प्रतियोगि पृथिवीतर-समवेतत्वम् | तत्र अवच्छेदकपदार्थाः नाना पृथिवीतराः— जलं, तेजः, वायुः इत्यादयः | शरीरकृतगौरवम् इत्यनेन बाहुल्यमित्यर्थः | "सकलपृथिवीसमवेतत्वे सति पृथिवीतर-असमवेतत्व"-रूप-पृथिवीत्वत्वरूपकारणतावच्छेदके, पृथिवीत्वरूपकारणतावच्छेदकस्य अपेक्षया शरीरकृतगौरवम् अस्ति यतोहि पृथिवीत्वम् इत्युक्तौ एक एव पदार्थः |
अधुना कश्चन प्रश्नः उदेति—'सकलपृथिवीसमवेतत्वे सति पृथिवीतर-असमवेतत्वम्' इति कस्य लक्षणवाक्यम् ? पृथिवीत्वस्य वा, पृथिवीत्वत्वस्य वा ?
अस्य अवगमनार्थं क्रमेण पश्येम | पृथिव्याः लक्षणं किम् ? गन्धवत्त्वं पृथिव्याः लक्षणम् | पृथिव्यां विद्यमानः असाधारणधर्मः गन्धवत्त्वम् | एवमेव पृथिवीत्वे विद्यमानः धर्मः सकलपृथिवीसमवेतत्वे सति पृथिवीतर-असमवेतत्वम् | परन्तु अस्माकं मूलप्रश्नः कः आसीत् ?गन्धं प्रति पृथिवीत्वं कारणम् इति चेत्, तस्मिन् विद्यमानायाः कारणतायाः अवच्छेदकधर्मः पृथिवीत्वत्वं; तच्च पृथिवीत्वत्वं कीदृशम् इति प्रश्नः | तस्य एव उत्तरे उक्तं सकलपृथिवीसमवेतत्वे सति पृथिवीतर-असमवेतत्वम् | तर्हि इदं वाक्यं कस्य वर्णनम् ? पृथिवीत्वस्य वा, पृथिवीत्वत्वस्य वा ?
स्मर्यतां यत् लक्षणवाक्यं द्विविधं—तटस्थलक्षणं, स्वरूपलक्षणञ्च | तटस्थलक्षणे लक्ष्यं षष्ठीविभक्तौ, लक्षणं प्रथमाविभक्तौ | गन्धवत्त्वं पृथिव्याः लक्षणम् | स्वरूपलक्षणे लक्ष्य-लक्षणयोः समानविभक्तिकत्वम् | उभयं प्रथमाविभक्तौ भवति | व्याप्तिः साध्याभाववत्-अवृत्तित्वम् | लक्ष्य-लक्षणयोः समानविभक्तिकत्वं भवति चेत्, तयोः आधाराधेयभावः न बुध्यते | द्वयोः आधाराधेयभावस्य प्रकटीकरणार्थं तटस्थलक्षणम् अपेक्षितम् | तदर्थं पूर्वमेव अस्माभिः अवलोकितं यत् द्वयोः लक्षणवाक्ययोः मध्ये तटस्थलक्षणं समीचीनम् |
साधारणतया लक्ष्ये एव लक्षणस्य समन्वयं कृत्वा प्रदर्शयामः | पृथिव्यां गन्धवत्त्वम् | एतादृशचिन्तनमेव इष्टं यत्र सम्भवति | परन्तु कुत्रचित् तथा कर्तुं न शक्यते | यथा सामानाधिकरण्यस्य लक्षणम् | तस्य समन्वयः सामानाधिकरण्ये कृत्वा दर्शयितुं न शक्यते | तदधिकरणवृत्तित्वम् इति लक्षणं कुत्र समन्वयं कर्तुं शक्यते ? समानाधिकरणे द्रव्ये लक्षणसमन्वयं कर्तुं शक्यते | यथा घटसमानाधिकरणः पटः इति वदामश्चेत्, घटस्य अधिकरणे वृत्तित्वम् अस्ति पटे | इति पटे समन्वयं कृत्वा दर्शयामः | एतादृशलक्षणं स्वरूपलक्षणम् इत्युचते |
पृथिवीत्व-पृथिवीत्वत्वयोः अस्मिन् प्रसङ्गे अग्रे गमनात् प्राक् प्रथमतया वक्तव्यं यत् अत्र केचन विवादास्पदं अंशाः वर्तन्ते | लक्षणशब्दस्य कथनेन, अथवा असाधारणशब्दस्य कथनेन, सङ्केतः दीयते यत् अयं धर्मः प्रकृतौ एव लभ्यते; अन्यत्र न लभ्यते | सम्प्रति अस्माकं प्रकृतधर्मः केवलं अत्र, अन्यत्र नास्ति इति स्वीकुर्मः; तदाधारेण सिद्धान्तः स्पष्टो भवतु; तदा पुनः अन्यत्र अस्ति न वा, इति विषये परिशीलयाम | तर्हि पृथिवीसमवेतत्वे सति पृथिवीतर-असमवेतत्वं पृथिवीत्वे | अपि च पृथिवीत्वत्वं तादृशम् | इति कृत्वा सकलपृथिवीसमवेतत्वे सति पृथिवीतर-असमवेतत्वम् इति पृथिवीत्वस्य लक्षणं, पृथिवीत्वस्य असाधारणधर्मः | स च असाधारणधर्मः पृथिवीत्वे | तस्य नामकरणं च पृथिवीत्वत्वम् | इत्युक्तौ पृथिवीत्वत्वं तादृशम् | नाम पृथिवीत्वत्वस्य कृते इदमेव लक्षणवाक्यं स्वरूपलक्षणम् |
पृथिवीत्वत्वम् एतत्स्वरूपम् इति कृत्वा पृथिवीत्वत्वस्य स्वरूपलक्षणम् | यतोहि पृथिवीत्वत्वे समन्वयः न क्रियते, अपि तु पृथिवीत्वे क्रियते | आहत्य 'सकलपृथिवीसमवेतत्वे सति पृथिवीतर-असमवेतत्वम्' इति कस्य लक्षणम् इति पृष्टे सति, द्वयोः अपि | पृथिवीत्वस्य कृते तटस्थलक्षणं; पृथिवीत्वत्वस्य कृते स्वरूपलक्षणम् | सकलपृथिवीसमवेतत्वम् अस्ति पृथिवीत्वे; पृथिवीतर-असमवेतत्वम् अपि अस्ति पृथिवीत्वे | सकलपृथिवीसमवेतत्वे सति पृथिवीतर-असमवेतत्वम् एव पृथिवीत्वत्वं, पृथिवीत्वे विद्यमानम् | पृथिवीत्वत्वस्य कृते किमपि तटस्थलक्षणं न सम्भवति |
अधुना चर्चयाम | सर्वप्रथमं वक्तव्यं यत् पृथिवीत्वं जातिः | जातौ सत्यां तस्य परिचयान्तरं नैव अपेक्षते, न वा भवति; खण्डशः जातेः वर्णनं न क्रियते— जातिः अखण्डोपाधिः | पृथिवीत्वत्वं किन्तु जातिः नास्ति अपि तु सामान्योपाधिः अतः तस्य एतादृशवर्णनं सम्भवति | यत्किमपि भवतु नाम, एकवारं परिशीलयाम यत्, जातिः अस्ति न वा इति त्यक्त्वा, किं किं कुत्र कुत्र भवति | प्रश्नः अस्ति यत् सकलपृथिवीसमवेतत्वे सति पृथिवीतरासमवेतत्वम् इत्यस्य कथनेन गन्धे अतिव्याप्तिः वर्तते किम् ? अतिव्याप्तिः अस्ति चेत् कथञ्चित् लक्षणशब्दस्य औचित्यं विद्यते किम् ?
एकः पक्षः वदति यत् वस्तुतस्तु 'सकलपृथिवीसमवेतत्वे सति पृथिवीतर-असमवेतत्वं' पृथिवीत्वे अस्ति; न केवलं पृथिवीत्वे अपि तु गन्धे अपि | तथा सति तत्स्वरूपं पृथिवीत्वत्वमपि, गन्धत्वमपि | नाम पृथिवीत्वत्वमपि तथा, गन्धत्वमपि | अयं पक्षः वदति यत् 'सकलपृथिवीसमवेतत्वे सति पृथिवीतर-असमवेतत्वं' केवलं पृथिवीत्वत्वस्य परिचयः; स्वरूपलक्षणं नास्ति | लक्षणशब्दम् उपयुज्महे चेत् अतिव्याप्तिः भवति यतोहि गन्धत्वमपि तथा | अपि च पृथिवीत्वेऽपि अस्ति, गन्धेऽपि अतः तत्रापि अतिवाप्तिः अस्त्येव | इति कृत्वा अयं कश्चन धर्मः, तावदेव | असाधारणधर्मो न, धर्मः एव |
अयं पक्षः अग्रे वदति यत् अयं धर्मः भेदकः नास्ति इति कृत्वा एकस्मात् अधिकेषु वस्तुषु भवति चेत् काऽपि हानिः नास्ति | यया रीत्या 'फलमपि खाद्यं, शाकः अपि खाद्यम् अतः द्वयमपि समानम्’ इति तु न भवति (तयोः मध्ये किञ्चित् साम्यमपि वर्तते, किञ्चित् पार्थक्यमपि वर्तते एव), तया रीत्या पृथिवीत्वत्वमपि 'सकलपृथिवीसमवेतत्वे सति पृथिवीतर-असमवेतत्वं', गन्धत्वमपि तथा, इत्यस्य तात्पर्यं नास्ति यत् द्वयोः अर्थः समानः | द्वयोः अपि एकः अर्थः सः धर्मः; किन्तु भेदकस्तु भवति यस्याधारेण बोधो जायते यत् आं, द्वयं समानं न | यतोहि गन्धः, पृथिवीत्वञ्च समानं न किल यद्यपि तयोः अधिकरणं सदा समानम् | अनयोः परस्परभेदे कारणीभूतः अंशः अस्ति, यथा— गन्धः घ्राणग्राह्यः; पृथिवीत्वं घ्राणग्राह्यं न | एवमेव द्वयोः मध्ये पृथिवीत्वत्वञ्च गन्धत्वञ्च अनयोः परस्परभेदे कारणीभूतः अंशः अस्ति, यथा— गन्धत्वे घ्राणग्राह्यत्वम् अस्ति | पृथिवीत्वत्वे घ्राणग्राह्यत्वं नास्ति | इति एकः भेदकः अंशः | अनेन तयोः भेदसाधकः अंशः अस्त्येव | परन्तु पृथिवीत्वत्व-प्रसङ्गे 'तत् किम्' इति प्रश्नस्य उत्तरे अयं धर्मः सन्तोषजनकः— पृथिवीत्वत्वमित्युक्ते 'सकलपृथिवीसमवेतत्वे सति पृथिवीतर-असमवेतत्वम्' |
अन्यः पक्षः वदति यत् 'सकलपृथिवीसमवेतत्वे सति पृथिवीतर-असमवेतत्वं' पृथिवीत्वत्वस्य स्वरूपलक्षणमेव | अपि च पृथिवीत्वे एव अस्ति; गन्धे नास्ति | कथम् ? प्रत्येकस्यां पृथिव्यां विद्यमानः गन्धः भिन्नः (घटे विद्यमानः गन्धः भिन्नः, पटे विद्यमानः गन्धः भिन्नः) इति सकलपृथिवीसमवेतत्वं कस्मिन्नपि गन्धे नास्तीति तत्र अतिव्याप्तिः न विद्यते | पृथिवीत्वं तु सकलपृथिव्यां वर्तमानम् एकमेव इति तत्र सकलपृथिवीसमवेतत्वं विद्यते |
अत्र कोऽपि वदेत् एवमस्ति चेत्, कथं वा वदेम "गन्धवती पृथिवी" ? नाम, पृथिवीसामान्ये गन्धसामान्यमस्ति किल ? "गन्धवती पृथिवी" इत्यस्य कथनेन सकलपृथिव्यां गन्धः अस्ति, गन्धे च सकलपृथिवीसमवेतत्वमस्ति | अस्मिन् चिन्तने दोषः कुत्र इति कृपया प्रकाशयन्तु | अत एव गन्धत्वावच्छिन्नाधेयतानिरूपिताधिकरणतावत्त्वमिति परिष्करणम् | नाम लक्षणार्थं गन्धत्वं गन्धे अस्ति, तदवच्छिन्नाधेयतानिरूपिताधिकरणतावत्त्वं पृथिव्याम् इत्यस्य कथनेन गन्धसामान्यं पृथिव्यां प्राप्तं, गन्धविशेषः भिन्नभिन्नः इति समस्या निवारिता |
अपि च अयं पक्षी यः वदति यत् 'सकलपृथिवीसमवेतत्वे सति पृथिवीतर-असमवेतत्वं' पृथिवीत्वत्वस्य स्वरूपलक्षणमेव, गन्धे अतिव्याप्तिर्नास्ति, तस्य पक्षे अन्यः उपायः एवं यत् गन्ध-प्रथिवीत्वयोः अयं भेदः यत् गन्धः कालिकाव्याप्यवृत्तिः; कालिकाव्याप्यवृत्तित्वम् अस्ति गन्धे | किञ्चित् कालावच्छेदेन गन्धः नास्ति पृथिव्यामिति कृत्वा अतिव्याप्तिर्न विद्यते यतोहि पृथिव्याः उत्पत्तिक्षणे गुणो न विद्यते, गन्धराहित्यावस्था | अतः सकलपृथिवीषु सर्वेषु कालेषु गन्धः तस्यां समवायसम्बन्धेन नास्ति | अतः नातिव्यप्तिः | इति कृत्वा सकलपृथिवीसमवेतत्वे सति पृथिवीतरासमवेतत्वम् असाधारणधर्मः पृथिवित्वे, पृथिवीत्वत्वस्वरूपम् |
उष्णस्पर्शवत्त्वं तेजसः लक्षणम् | नाम तेजसि एव उष्णस्पर्शः अस्ति, तेजसि एव उष्णस्पर्शवत्त्वम् अस्ति | तत्रैव तेजसि समन्वयं कृत्वा प्रदर्शयामः | यत्र तथा न सम्भवति, तत्र तत्शालिनि स्वरूपलक्षणम् वदामः | यथा व्याप्तिलक्षणं चेत्, व्याप्ये समन्वयः | सामानाधिकरण्यस्य लक्षणं चेत्, समानाधिकरणे द्रव्ये समन्वयः | व्यापकत्वस्य लक्षणं चेत्, व्यापके द्रव्ये लक्षणसमन्वयः | यतोहि एतानि सर्वाणि स्वरूपलक्षणानि; तत्स्वरूपमेव | तटस्थलक्षणं तस्मिन् अस्ति; स्वरूपलक्षणं तदेव अस्ति | स्वरूपलक्षणं तस्य आश्रये समन्वयः; तदर्थं सकलपृथिवीसमवेतत्वे सति पृथिवीतर-असमवेतत्वम् इति पृथिवीत्वत्वस्य स्वरूपलक्षणं पृथिवीत्वत्वस्य आश्रये पृथिवीत्वे समन्वयः |
एवमेव उदाहरणचतुष्टेयं स्वीकृत्य द्रष्टव्यम् | घटत्वम् इति जातिः अस्ति; घटत्वजातौ घटत्वत्वम् इति धर्मः अस्ति | तस्य घटत्वत्वस्य स्वरूपलक्षणं किम् ? सकलघटसमवेतत्वे सति घटेतर-असमवेतत्वम् | घटत्वस्य सकलघटसमवेतत्वम् अस्ति | एवञ्च पटादिषु समवायसम्बन्धेन न वर्तते घटत्वम् | इदं लक्षणं च तदेव घटत्वत्वम्, इति असाधारणधर्मः | एवञ्च द्रव्यत्वत्वं नाम किम् ? सकलद्रव्यसमवेतत्वे सति द्रव्येतर-असमवेतत्वम् | गुणत्वत्वस्य तथैव सकलगुणसमवेतत्वे सति गुणेतर-असमवेतत्वम् | जले विद्यमानजातिः जलत्वं; तस्मिन् च विद्यमानधर्मः जलत्वत्वम् | जलत्वत्वस्य स्वरूपलक्षणम् अस्ति सकलजलसमवेतत्वे सति जलेतर-असमवेतत्वम् |
प्रकृतौ अनुसरामः | गन्धं प्रति पृथिवी कारणं वा, पृथिवीत्वं वा इति प्रश्ने सति, पृथिवीत्वे कारणतायाः अवच्छेदकं पृथिवीत्वत्वम् | तच्च कीदृशम् ? सकलपृथिवीसमवेतत्वे सति पृथिवीतर-असमवेतत्वम् | पृथिवीतर-असमवेतत्वम् इत्यनेन जलादिसमवेतत्वाभावः प्रविष्टः, नाम बहूनाम् अभावः | जलसमवेतत्वाभावः, तेजसः समवेतत्वाभावः, वायोः तथा समवेतत्वाभावः, आकाशस्य अपि तथा | एतेषां समवेतत्वाभावः पृथिवीत्वे वर्तन्ते यतोहि पृथिवीत्वं तेषु नास्ति | एवं च सकलपृथिवीसमवेतत्वम् इत्यनेन सकलपार्थिवद्रव्याणां प्रवेशः | द्वयोः बाहुल्यप्रवेशात् पृथिवीत्वत्वस्य शरीरं गुरुभूतम् अस्ति | तदपेक्षया पृथिव्याः कारणत्वस्वीकारे कारणतावच्छेदकं पृथिवीत्वम् | तच्च एकमेव | अतः शरीरकृतं लाघवम् | यथोक्तम्, अत्र शरीरम् इत्यनेन कारणतावच्छेदकं विवक्षितम् | अपि च गौरवं नाम बाहूल्यम् | इत्थञ्च प्रथमविध-अन्यथासिद्धत्वस्य पञ्चमविधया साधनं समाप्तम् |
एवं कृत्वा क्रमेण सर्वेषु पञ्चसु पञ्चमो रासभादिः स्यादेतेष्वावश्यकस्त्वसौ | दण्डत्वं, दण्डरूपम्, आकाशः, कुलालपिता...रासभादिरिति | यद्यपि यत्किञ्चिद्घटव्यक्तिं प्रति रासभस्य नियतपूर्ववर्त्तित्वमस्ति, तथापि घटजातीयं प्रति सिद्धकारणभावैर्दण्डादिभिरेव तद्व्यक्तेरपि सम्भवे रासभोऽन्यथासिद्ध इति भावः | अस्य बलेन सिद्धान्ती वदति यत् पञ्चमान्यथासिद्धत्वं सर्वेषां सङ्ग्राहकम् |
तत्र प्रतिपक्षिणः शङ्का जायते यत् तर्हि अपरेषां चतुर्णां का आवश्यकता ? इति कृत्वा सिद्धान्ती वदति, आदिमचतुष्टेयं स्पष्टीकरणार्थं, विद्यार्थिनां बुद्धिविकाशस्य कृते | येन बुद्धिः विशदा स्यात् | एवञ्च पञ्चमान्यथासिद्धस्य लक्षणं—नियतावश्यकपूर्वभाविभिन्नः यः सः अन्यथासिद्धः—इत्यनेन सर्वेषां ग्रहणम् | एतेषु पञ्चस्वन्यथासिद्धेषु मध्ये पञ्चमोऽन्यथासिद्ध आवश्यकः, तेनैव परेषां चरितार्थत्वात् | तथाहि—दण्डादिभिरवश्यक्लृप्तनियतपूर्ववर्तिभिरेव कार्यसम्भवे दण्डत्वादिकमन्यथासिद्धम् |
अत्र प्रतिपक्षी आक्षेपयति यत् किमर्थं न दण्डत्वम् आवश्यकं न तु दण्डः, एवं एव दण्डरूपम्, आकाशः, कुलालपिता च एव आवश्यकं न तु दण्डचक्रादिकम् |
अत्र च सिद्धान्तिना उच्यते—न च वैपरीत्ये किं विनिगमकमिति वाच्यं, दण्डत्वस्य कारणत्वे दण्डघटितपरम्परायाः सम्बन्धत्वकल्पने गौरवात् | एवमन्येषामप्यनेनैव चरितार्थत्वं सम्भवतीति बोध्यम् |
अत्र सिन्धान्ती उत्तरयति यत् दण्डत्वस्य कारणत्वे दण्डघटितपरम्परायाः सम्बन्धत्वकल्पने गौरवात् | अग्रे द्वितीयादिकं कथं पञ्चमेन अन्यथासिद्धमिति प्रदर्श्यते |
सम्प्रति घटं प्रति दण्डं न अपि तु दण्डरूपं कारणं स्यात् | दण्डस्य कारणस्वीकारे सम्बन्धः कः इति चेत्, स्वजन्यभ्रमिजन्यभ्रमिमत्तासम्बन्धः | यथादृष्टं पूर्वं, भ्रमि नाम भ्रमणम् | दण्डेन चक्रे भ्रमणं जायते; तेन चक्रभ्रमणेन कपाले भ्रमणं भवति | ततः घटः उत्पद्यते | अधुना अनेन सम्बन्धेन—स्वजन्यभ्रमिजन्यभ्रमिमत्तासम्बन्धेन—दण्डः कार्याधिकरणे कपाले अस्ति | स्वज्नयभ्रमिः अस्ति चक्रे, तज्जन्यभ्रमिः अस्ति कपाले, अतः स्वजन्यभ्रमिजन्यभ्रमिमत्तासम्बन्धेन दण्डः कपाले | तत्रैव समवायसम्बन्धेन घटः उत्पद्यते | इत्थञ्च समवायसम्बन्धेन घटं प्रति, स्वजन्यभ्रमिजन्यभ्रमिमत्तासम्बन्धेन दण्डः कारणम् |
दण्डरूपं कारणं यदि वदामः, ततः इतोऽपि एकसोपानम् अधिकम् अपेक्षितम् | स्वाश्रयभ्रमिजन्यभ्रमिमत्तासम्बन्धेन दण्डरूपं कारणम् इति वक्तव्यम् | समवायसम्बन्धेन घटः उत्पद्यते कपाले; तत्र कार्याधिकरणे दण्डरूपं केन सम्बन्धेन भवति इति चेत्, स्वाश्रयभ्रमिजन्यभ्रमिमत्तासम्बन्धेन | स्वं दण्डरूपं, स्वाश्रयः दण्डः; तज्जन्यभ्रमिः चक्रे, तज्जन्यभ्रमिः कपाले | अनेन सम्बन्धेन दण्डरूपं कपाले, तत्रैव समवायसम्बन्धेन घटः उत्पद्यते |
दण्डस्य कारणत्वस्वीकारे स्वजन्यभ्रमिजन्यभ्रमिमत्तासम्बन्धः; दण्डरूपस्य कारणत्वस्वीकारे स्वाश्रयभ्रमिजन्यभ्रमिमत्तासम्बन्धः इति कृत्वा सम्बन्धकृतं गौरवम् अस्ति | अतः दण्डरूपं न कारणं, दण्डः एव कारणम् | इति द्वितीयान्यथासिद्धिः अपि पञ्चमान्यथासिद्ध्या एव सङ्गृहीतो भवति |
तृतीयान्यथासिद्धस्य प्रसङ्गे उक्तम् आसीत् यत् घटं प्रति आकाशः नियतपूर्ववर्ती, परन्तु केन रूपेण पूर्ववृत्तित्वं, केन रूपेण कारणत्वम् इति चेत्, आकशत्वेन रूपेण | तर्हि आकशत्वम् इत्युक्ते किम् ? आकाशत्वं शब्दसमवायिकारणत्वम् इति उक्तम् | तत्र शब्दसमवायिकारणत्वम् इत्यस्य कथनेन आकाशः शब्दं प्रति कारणम् इत्येव सिद्धं भवति, नान्यत् प्रति | तर्हि आकाशः शब्दं प्रति कारणं ज्ञात्वा, शब्दसमवायिकारणत्वम् आदौ ज्ञात्वा, अनन्तरमेव घटं प्रति आकाशपूर्ववृत्तित्वं ज्ञातुं शक्यते, अतः घटकार्यं प्रति आकाशः अन्यथासिद्धः |
अत्र किन्तु प्रतिपक्षिणा आक्षेपः आपादितः यत् आकाशत्वं शब्दसमवायिकारणत्वम् इति मास्तु; शब्दगुणकम् आकाशम् इति उक्तं खलु, अनेन 'आकाशः शब्दस्य आश्रयः' इति प्रतीतिः न तु कारणम्; अस्य च बलेन तदा कारणम् इति वक्तुं न शक्यते | अनेन आकाशत्वम् इत्युक्ते शब्दाश्रयत्वम् | शब्दाश्रयत्वेन आकाशः घटं प्रति कारणम् इत्युच्यते चेत् तदा तृतीयान्यथासिद्धत्वेन आकाशः अन्यथासिद्धः इति वक्तुं नार्हम् |
अस्यां स्थितौ सिद्धान्ती उत्तरयति यत् समाधानं भवति पञ्चमासिद्धत्वे | गन्धं प्रति पृथिवी मास्तु, आकाशः कारणमिति स्वीकुर्यात् | इति चेत्, पूर्ववत् पृथिव्याः कारणत्वस्वीकारे पृथिवीत्वम् कारणतावच्छेदकं, तच्च जातिः एका एव | आकाशस्य कारणत्वस्वीकारे तु कारणतावच्छेदकम् आकाशत्वम् | आकाशत्वं जातिः नास्ति, एकव्यक्तिमात्रवृत्तित्वात् | एकस्यां व्यक्तौ विद्यमानधर्मः जातिः न भवति | तर्हि आकाशत्वम् इत्युक्ते किम् ? शब्दाश्रयत्वम् | अनेकेषां शब्दानाम् आश्रयः इति कृत्वा कारणतावच्छेदकं गुरुभूतम् | इत्थञ्च अनन्तशब्दानां प्रविष्टत्वात् पृथिव्याः कारणत्वस्वीकारे शरीरकृतलाघवम् |
शब्दनिष्ठाधेयतानिरूपिताधिकरणताश्रयत्वम् इति आकाशत्वम् | आकाशस्य एकत्वापि शब्दानाम् आनन्त्यात् शब्दाश्रयत्वम् एकमेव इति वक्तुं न शक्यते; अनेकं भवितुम् अर्हति | आधेयभेदेन अधिकरणतायाः भेदः सिध्यति |
चतुर्थान्यथासिद्धेः कुलालपितुः एवमेव पञ्चमेन अन्यथासिद्धत्वं सिध्यति, द्वितीयस्य यथा | नाम सम्बन्धपरम्परया सम्बन्धकृतलाघवं कुलालकारणत्वे, सम्बन्धकृतगौरवं कुलालपितृकारणत्वे | अपि च अनया दृष्ट्या प्रथमान्यथासिद्धं दण्डत्वं, द्वितीयान्यथासिद्धत्वं दण्डरूपमपि समानं—तयोः कारणतायां सम्बन्धकृतगौरवं दण्डकारणत्वापेक्षया | इति कृत्वा—एवमन्येषामप्यनेनैव चरितार्थत्वं सम्भवतीति बोध्यम् |
Swarup – June 2019