28 - व्याप्तिचिन्तनम्‌

From Samskrita Vyakaranam
10---nyAyashAstram/28---vyApticintanam
Jump to navigation Jump to search
ध्वनिमुद्रणानि
१) vyApticintanam_2020-09-19  
२) vyApticintanam-2_2020-09-26
३) vyApticintanam-3_2020-10-03
४) vyApticintanam-4_2020-10-10
५) vyApticintanam-5---vyApyavyApaka-bhAve-abhAvashabdasya-shaktiH_2020-10-17
६) vyApticintanam-6---vyApyavyApaka-bhAvaH---bhAvarUpeNa-nirUpitaM---vyApakatvena_2020-10-24


व्याप्तिचिन्तनम्‌


अन्वयव्याप्तेः लक्षणम्‌ - किमर्थं न भावरूपेण उच्येत ?


अन्वयः इत्युक्ते भावरूपेण विद्यमानत्वम्‌ | व्यतिरेकः इत्युक्ते अभावरूपेण विद्यमानत्वम्‌ | अन्वयः यतः भावरूपी अतः अन्वयव्याप्तिः एवं रीत्या उच्यते—"यत्र यत्र हेतुः तत्र तत्र साध्यं"; नाम तत्सम्बद्धव्याप्तिरपि भावरूपेण उच्यते | किन्तु तस्य लक्षणं तथा न अपि तु अभावरूपी इति प्रश्नः | किमर्थं न भावरूपेण उच्येत ? नाम, 'हेतुसत्त्वे साध्यसत्त्वम्‌' इति अनुक्त्वा किमर्थम्‌ अभावरूपेण उच्यते—'साध्याभाववदवृत्तित्वम्‌' | व्यतिरेकः अभावरूपी अतः तत्सम्बद्धयाप्तिः एतादृशी एव स्यात्‌ | किन्तु अन्वयव्याप्तेः लक्षणाम्‌ अभावरूपेण किमर्थम्‌ उक्तम्‌ ? धूमसत्त्वे वह्निसत्त्वम्‌ इति कथने कः दोषः ?


अन्वययोः व्याप्तिः अथवा व्यतिरेकयोः व्याप्तिः—हेतुसाध्ययोः व्याप्तिः अथवा हेत्वभावसाध्याभायोः व्याप्तिः—तदनुसृत्य अन्वयव्याप्तिं वा व्यतिरेकव्याप्तिं वा वदामः | परन्तु लक्षणस्य कथनसमये ययोः व्याप्तिः अस्ति तौ द्वौ भावरूपेण विद्यमानौ वा अभावरूपेण विद्यमानौ इत्यपेक्षया प्रमुखं भवति लक्षणे दोषराहित्यम्‌ | अव्याप्ति-अतिव्याप्ति-असम्भवदोषाः न स्युः इति लक्ष्यमत्र | लक्षणे साध्यं स्वीकरणीयं वा, साध्याभावः स्वीकरणीयः वा इत्यपेक्षया लक्षणे दोषः न स्यात्‌ | अतः साध्याभाववदवृत्तित्वम्‌ इति अन्वयव्याप्तेः लक्षणं भवति चेदपि काऽपि चिन्ता नास्ति | नाम, लक्षणव्याक्ये अभावयोः व्याप्तिः उक्ता इत्यस्य अर्थः एवं नास्ति यत्‌ अन्वयव्याप्तेः लक्षणं भवितुं नार्हति |


वस्तुतस्तु इदं 'साध्याभाववदवृत्तित्वम्‌' अन्वयव्याप्तेः पूर्वपक्षलक्षणम्‌;इदं लक्षणवाक्यं खण्डितं, नैयायकैः निराकृतम्‌ | परन्तु व्यवहारे अस्ति बहुत्र यतोहि सारल्यमस्ति अपि च केवलम्‌ एकस्मिन्‌ स्थले क्लेशो जायते—यत्र स्थलं केवलान्वयिसाध्यकम्‌ | यत्र साध्याभावः एव न भवति, अथवा हेत्वभावः न भवति, तादृशस्थले पूर्वपक्षव्याप्तिः त्यक्तव्या | तत्र व्याप्तेः सिद्धान्तलक्षणं 'हेतुव्यापकसाध्यसामानाधिकरण्यम्‌' इति आश्रयणीयम्‌ | तादृशस्थलं विहाय अन्यत्र सर्वत्र पूर्वपक्षलक्षणेन अन्वयं कर्तुं शक्नुमः | समन्वयः भवति, सारल्यमपि अस्ति |


अधुना किन्तु प्रश्नः इदानीमपि अस्ति यत्‌, साध्याभाववदवृत्तित्वम्‌ इति अन्वयव्याप्तिलक्षणस्य स्थाने किमर्थं 'हेतुसत्त्वे साध्यसत्त्वम्‌' इति न स्यात्‌ | तत्तु बहु सरलमस्ति | नाम भावरूपेण वदामश्चेत्‌ अवगमने सौकर्यं वर्तते | ‘यत्र यत्र हेतुः तत्र तत्र साध्यम्‌' इत्यस्मिन्‌ अर्थे 'हेतुसत्त्वे साध्यसत्त्वम्‌'— एतत्‌ लक्षणत्वेन किमर्थं न स्वीक्रियेत ?अत्र अव्याप्ति-अतिव्याप्ति-असम्भवदोषाः एषु अन्यतमः अस्ति किम्‌ ?


व्याप्तेः अर्थः - सामानाधिकरण्यं च वीप्सा च


अस्य बोधनार्थं किञ्चित्‌ परिशीलनीयं भवति | व्याप्तेः अर्थसाधनार्थम् अंशद्वयम्‌ अपेक्षितम्—‌ सामानाधिकरण्यं च वीप्सा च | यथा ‘यत्र यत्र हेतुः तत्र तत्र साध्यम्‌', अस्मिन्‌ वाक्ये द्वयमपि अस्ति | ‘यत्र-तत्र' इति शब्दद्वयेन सामानाधिकरण्यम्‌ | सामानाधिकरण्यम्‌ इत्युक्ते वस्तुद्वयोः एकस्मिन्‌ अधिकरणे विद्यमानत्वम्‌ | अनेकेषु अधिकरणेषु इति तथा किमपि नापेक्षितम्‌; एकस्मिन्‌ समाने अधिकरणे विद्यमानत्वम्‌ इति एव सामानाधिकरण्यम्‌ | तदपि एकस्मिन्‌ समये; श्वः अपि तथा भवेत्‌ इति अपि नास्ति | उदाहरणार्थम्‌ उत्पीठिकायां पुस्तकमपि अस्ति, लेखनी अपि अस्ति इति चिन्तयतु | उभयोः उत्पीठिकायां विद्यमानत्वात्‌ पुस्तकलेखन्योः सामानाधिकरण्यम्‌ अस्ति | किन्तु अन्यत्र अपि तथा भवेत्‌ इति नास्ति अतः अत्र वीप्सा नास्ति | पुस्तकसत्त्वे लेखनीसत्त्वम्‌ इत्यस्य कथनेन द्वयोः सामानाधिकरण्यं, नाम यत्र पुस्तकमस्ति, तत्र लेखनी अस्ति | किन्तु व्याप्तिः नास्ति; वीप्सा, नाम यत्र यत्र पुस्तकं तत्र तत्र लेखनी, इति तु नास्ति |


वीप्सार्थं ‘यत्र यत्र’ इति अपेक्षितम्‌ | नाम, एकस्मिन्‌ स्थले न अपि तु सर्वेषु स्थलेषु यत्र यत्र पुस्तकमस्ति, तत्र तत्र लेखनी अपि अस्ति; तत्तु पुस्तकलेखन्योः प्रसङ्गे न सङ्गच्छते | किन्तु विप्सार्थं साहचर्यम्‌ अपेक्षितम्‌—‌व्याप्यः यत्र यत्र अस्ति तत्र तत्र व्यापकः; व्यापकः यत्र यत्र नास्ति तत्र तत्र व्याप्यः नास्ति | तर्हि ‘यत्र यत्र हेतुः तत्र तत्र साध्यम्‌', अस्मिन्‌ वाक्ये सामानाधिकरण्यं च वीप्सा च द्वयमपि अस्ति—‌'यत्र तत्र' इत्यनेन सामानाधिकरण्यं, ‘यत्र यत्र तत्र तत्र' इत्यनेन वीप्सा |


तर्हि व्याप्तेः, सामानाधिकरण्यस्य च, अनयोः मध्ये कश्चन भेदः अस्ति | व्याप्तौ सामानाधिकरण्यम्‌ इति अंशः अन्तर्भूतः | किन्तु व्याप्तिः सामानाधिकरण्यापेक्षया इतोऽपि किञ्चित्‌ अधिका | यतोहि तत्र वीप्सा अस्ति | नाम पुस्तकं यत्र अस्ति तत्र लेखनी अपि अस्ति इति चेत्‌ सामानाधिकरण्यं वर्तते | किन्तु तावदेव भवति चेत्‌ व्याप्तिः नास्ति | पुस्तकं यत्र यत्र अस्ति तत्र सर्वत्र लेखनी अपि अस्ति इति भवति चेदेव व्याप्तिः |


‘यत्र यत्र हेतुः तत्र तत्र साध्यम्‌' इत्यस्मिन्‌ अर्थे 'हेतुसत्त्वे साध्यसत्त्वम्‌' इति भवति वा ?’ - सतिसप्तमी इत्यस्य परिशीलनम्‌


अधुना ‘यत्र यत्र हेतुः तत्र तत्र साध्यम्‌' इत्यस्मिन्‌ अर्थे 'हेतुसत्त्वे साध्यसत्त्वम्‌’ इति अपि भवति वा इति प्रश्नः | अस्य अवगमनार्थं सतिसप्तमी इति अंशः द्रष्टव्यः | 'हेतुसत्त्वे' इति रूपं सतिसप्तमी-घटितम्‌ | सतिसप्तमी इति आकृत्या त्रयः अर्थाः सम्भवन्ति—‌ ज्ञाप्यज्ञापकभावः, व्याप्यव्यापकभावः, कार्यकारणभावश्च | तत्र कार्यकारणभावः अतीव न्यूनदेशवृत्तिः; तस्य क्षेत्रं लघुतमम्‌ | तदपेक्षया अधिकदेशवृत्तिः व्याप्यव्यापकभावः; तदपेक्षया अधिकदेशवृत्तिः ज्ञाप्यज्ञापकभावः |


यत्र यत्र कार्यकारणभावः तत्र तत्र व्याप्यव्यापकभावः; यत्र यत्र व्याप्यव्यापकभावः तत्र तत्र ज्ञाप्यज्ञापकभावः | किन्तु ज्ञाप्यज्ञापकभावः अस्ति चेत्‌ अन्ययोर्मध्ये द्वयमपि व्याप्यव्यापकभावः कार्यकारणभावः नापि भवितुमर्हति | ज्ञाप्यज्ञापकभावः व्याप्यव्यापकभावं प्रति व्यापकः; व्याप्यव्यापकभावः कार्यकारणभावं प्रति व्यापकः | अधुना पुस्तकलेखन्योः मध्ये न कार्यकारणभावः, न वा व्याप्यव्यापकभावः , न वा ज्ञाप्यज्ञापकभावः | अतः अस्मिन्‌ स्थले सतिसप्तम्याः व्यवहारः न कर्तव्यः |


यत्र केवलं ज्ञाप्यज्ञापकभावः वर्तते, तत्र सामान्यतया 'यदा तदा' इति अर्थे भवति अथवा 'यदि तर्हि' इति अर्थः भवति; किन्तु तत्र न व्याप्यव्यापकभावः, न वा कार्यकारणभावः | यथा 'भवति आगते सति अहं कार्यस्य आरम्भं करोमि' | अस्य अर्थद्वयं सम्भवति, प्रसङ्गानुसृत्य—‌ 'यदा भवान्‌ आगच्छति तदा अहं कार्यस्य आरम्भं करोमि'; 'यदि भवान्‌ आगच्छति तर्हि अहं कार्यस्य आरम्भं करोमि' | नाम भवति आगते सति कर्यस्य आरम्भं करोमि; अनागते सति न करोमि | अस्मिन्‌ स्थले ज्ञाप्यज्ञापकभावः अस्ति | ज्ञापकमस्ति भवतः आगमनं; ज्ञाप्यमस्ति मम कार्यारम्भः | किन्तु व्याप्यव्यापकभावो वा कार्यकारणभावो वा अस्ति किम्‌ ?


भवति गृहे प्राप्ते सति वृष्टिः आरब्धा | अतः कीदृशः अर्थः ? कीदृशः च भावः ? कोऽपि आगत्य पृच्छति "वृष्टिः कदा आरब्धा ?” तदा भवान्‌ वृष्टि-आरम्भ-क्रियां ज्ञापयितुम्‌ इच्छति | अतः तां क्रियां ज्ञापयितुम्‌ अन्यां क्रियां ज्ञापकत्वेन स्वीकरोति | तत्र ज्ञापकक्रिया का इत्युक्ते भवतः गृहप्राप्तिः; वृष्टेः आरम्भक्रिया ज्ञाप्यक्रिया | गृहप्राप्तिः ज्ञापिका, आरम्भक्रिया ज्ञाप्या | ज्ञापिकायाः सतिसप्तमी-आकारः | यस्य सतिसप्तमी अस्ति, तत्‌ ज्ञापकं; तद्विहाय अन्यः भागः ज्ञाप्यः | किन्तु प्रकृतोदाहरणे यदा कदापि भवान्‌ गृहं प्राप्नोति, श्वः वा परश्वः वा, तस्मिन्‌ समयेऽपि वृष्टिः सदा आरप्स्यते इति काऽपि वार्ता नास्ति |


यत्र सतिसप्तमी इति रूपं व्यवह्रियते, तत्र अस्माभिः चिन्तनीयमस्ति यत्‌ अत्र ज्ञाप्यज्ञापकभावः अस्ति वा ? अस्ति चेत्‌, व्याप्यव्यापकभावः अस्ति किम्‌ ? तदस्ति चेत्‌, कार्यकारणभावः अस्ति किम्‌ ? यथा, दण्डसत्त्वे घटसत्त्वं, दण्डाभावे घटाभावः; अत्र कार्यकारणभावः | घटसत्त्वे दण्डसत्त्वम्‌ इति उच्यते चेत्‌, पूर्वक्षणावच्छेदेन व्याप्यव्यापकभावः | अतः सर्वत्र विवक्षा का इति चिन्तनीयं भवति |


'हेतुसत्त्वे साध्यसत्त्वम्‌' इति स्थले सतिसप्तमी कस्मिन्‌ अर्थे ?


अधुना प्रकृतौ 'हेतुसत्त्वे साध्यसत्त्वम्‌' इति स्थले सतिसप्तमी कस्मिन्‌ अर्थे ? इति चेत्, ज्ञाप्यज्ञापकभावः अस्ति; व्याप्यव्यापकभावः अपि अस्ति | अतः सतिसप्तमी इत्यस्य बलेन अस्मिन्‌ वाक्ये वीप्सा अस्ति | अर्थः भवति 'यत्र यत्र धूमः तत्र तत्र वह्निः' | नाम, सामानाधिकरण्यं च, वीप्सा च |


'हेतुसत्त्वे साध्यसत्त्वम्‌' व्याप्तेः लक्षणम्‌ ?


तर्हि मूलप्रश्नः आसीत्‌ यत्‌ यतः अन्वयव्याप्तौ 'विद्यमानत्वे व्याप्तिः’, ततः, दोषः नास्ति चेत्‌ किमर्थं 'हेतुसत्त्वे साध्यसत्त्वं' इति लक्षणवाक्यं न स्यात्‌ ? अस्मिन्‌ अव्याप्ति-अतिव्याप्ति-असम्भवदोषाः इत्येषु अन्यतमः अस्ति वा ? सामानाधिकरण्यं च वीप्सा च द्वयमपि अस्ति, समन्वयश्च अस्ति; तर्हि तादृशः कोऽपि दोषः न भाति | एका शङ्का जायेत यत्‌ मतुप्‌-प्रत्ययस्य च वृत्ति-शब्दस्य च अभावे अधिकरणस्य इङ्गीतमेव नास्ति; अधिकरणस्य निवेशः नास्ति चेत्‌ सामानाधिकरण्यमेव नोक्तम् इति आपत्तिः | किन्तु अत्र नैयायकैरुच्यते यत्‌ तात्पर्यार्थः सङ्गृहीतः— हेतुरस्ति चेत्‌ साध्यमस्ति इत्युक्तौ साध्यं विना हेतुः न तिष्ठति | अनेन सामानाधिकरण्यं स्वीक्रियते | तर्हि अन्ततो गत्वा त्रिषु लक्षनणदोषेषु एकोऽपि नास्ति |


इति कृत्वा 'हेतुसत्त्वे साध्यसत्त्वम्‌' इति अन्वयव्याप्तेः लक्षणं किमर्थं न स्यात्‌ ? नैयायकानां नियमः एवं यत्‌ लक्षणवाक्यम्‌ अखण्डम्‌ एकं पदं भवेत्‌ | 'हेतुसत्त्वे साध्यसत्त्वम्‌' एकम्‌ अखण्डपदं नास्ति अपि तु पदद्वयम्‌ | तदर्थं यद्यपि तादृशी अतिव्याप्तिः वा अव्याप्तिः वा इति दोषो नास्ति, नाम वाक्यरूपेण सत्यमेव, तथापि लक्षणरूपेण न स्वीक्रियते |


अखण्दरूपेण, भावरूपेण अन्वयव्याप्तेः लक्षणम्‌ - हेतुमद्वृत्तित्वम्‌'


अस्तु | व्याप्तिः भावरूपेण सखण्डरीत्या—यत्र यत्र हेतुः तत्र तत्र साध्यम्‌—वक्तुं शक्यं, पुनः सखण्डरीत्या—हेतुसत्त्वे साध्यसत्त्वम्‌—इत्यपि शक्यते | रूपद्वयमपि साधु, रूपद्वयेन अपि व्याप्तेः अर्थः सम्पूर्णरीत्या जायते | किन्तु द्वयमपि लक्षणस्य स्वरूपं नास्ति | तर्हि तस्मिन्नेव अर्थे एकम्‌ अखण्डवाक्यं रचयाम ! 'साध्याभाववदवृत्तित्वम्‌' इति यथा अभावरूपेण उक्तं, तस्यामेव शैल्यां वदामः भावरूपेण— तदा लक्षणस्य स्वरूपं सेत्स्यति | एकं‌ कृत्वा अखण्डपदम्‌ अपि भविष्यति, लक्षणसार्थख्ये कोऽपि दोषो न स्थास्यति | तर्हि साध्याभाववदवृत्तित्वम्‌ इत्यस्य विपरीतरूपं किम्‌ ? हेतुमद्वृत्तित्वम्‌ | 'हेतुसत्त्वे साध्यसत्त्वम्‌' इति वाक्यम्‌ अखण्डरूपेण उच्यते चेत्‌, 'हेतुमद्वृत्तित्वम्‌' इति वाक्यं जायते | तच्च 'हेतुमद्वृत्तित्वं' कुत्र वर्तते ? साध्ये | अधुना अस्माभिः ज्ञायते यत्‌ अनुमितिप्रकरणे व्याप्तिः भवेत्‌ हेतौ न तु साध्ये | परन्तु अत्र अधुना अनुमितिः न इष्यते; इष्यते व्याप्तिलक्षणाम्‌ | तर्हि साध्याभाववदवृत्तित्वं हेतौ इति रीत्या हेतुमद्वृत्तित्वं साध्ये इति वदामः चेत्‌ सम्यगेव किल | हेतुमद्वृत्तित्वम्‌— यत्र यत्र हेतुः तत्र तत्र साध्यम्‌ इति अर्थे इदम्‌ अन्वयव्याप्तेः लक्षणं भवतु |


किन्तु अत्र एका वार्ता अस्ति यत्‌ 'हेतुसत्त्वे साध्यसत्त्वम्‌' इति वाक्ये, सतिसप्तम्याः बलेन व्याप्यव्यापकभावः सिध्यति | यदा एकेन अखण्डपदेन परिवर्तयामः, तदानीं सतिसप्तमी नास्ति | न 'यत्र यत्र' इति अस्ति, न वा सतिसप्तमी | फलतः 'हेतुमद्वृत्तित्वम्‌' इति अखण्डपदे वस्तुतस्तु केवलं सामान्याधिकरण्यमस्ति | 'हेतुमद्वृत्तित्वम्‌' इत्युक्ते 'यत्र हेतुः अस्ति, तत्र साध्यमस्ति' | ‘हेतुमति—हेतु-अधिकरणे—वृत्तित्वम्‌ अस्ति साध्ये | अस्मिन्‌ वाक्ये किमपि नास्ति यस्य बलेन 'यत्र यत्र' इति अर्थः साध्येत |


हेतुमद्वृत्तित्वम्‌ अतिव्याप्तम्‌


तर्हि अत्र किं वक्तव्यम्‌ ? हेतुमद्वृत्तित्वम्‌ अथवा व्याप्यवद्वृत्तित्वम्‌ अतिव्याप्तम्‌ अस्ति | उदाहरणार्थं धूमवद्वृत्तित्वम्‌ | धूमवन्महानसे एकं पात्रम्‌ अस्ति | अनेन धूमवन्महानसे तद्वृत्तित्वं न केवलं वह्नौ अपि तु पात्रे अपि | धूमवद्वृत्तित्वं पात्रे अस्ति इत्यतः पात्रं धूमस्य व्यापकं फलितमस्ति | परन्तु पात्रं धूमस्य व्यापकं नास्ति | अतः 'धूमवति सर्वत्र तदस्ति वा' इति प्रश्नः करणीयः | कुत्रचित्‌ वने धूमो भवति; तत्र पात्रम्‌ अस्ति वा ? पात्रं तत्र नास्ति | किन्तु व्यापकत्वार्थं धूमवत्‌ यद्यत्‌, तद्वृत्तित्वम्‌ अपेक्षितम्‌ | धूमाधिकरणं यद्यत्‌ भवति—महानसं वा, पर्वतो वा—तत्र यत्किमपि वस्तु अस्ति, तद्वस्तु 'धूमवद्वृत्ति’ अतः तस्मिन्‌ वस्तुनि धूमवद्वृत्तित्वं तु भवति | किन्तु तादृशधूमाधिकरणेषु सर्वेषु भवेत्‌, नाम व्यापकत्वं तस्मिन्‌ भवेत्‌ | एतद्व्यापकत्वं 'व्याप्यवद्वृत्तित्वम्‌' इति प्रस्तुतलक्षणवाक्ये नास्ति | अतः अतिव्याप्तम्‌ अस्ति |


सिद्धान्तलक्षणं न तथा


तदर्थं सिद्धान्तलक्षणे केवलं हेत्वधिकरणवृत्तित्वम्‌ इति नोक्तम्‌; अपि तु हेत्वधिकरणवृत्ति-अत्यन्ताभाव-अप्रतियोगित्वम्‌ इति | हेतुव्यापकसाध्यसामानाधिकरण्यम्‌ इत्यस्य कथनेन अयमेव अर्थः विवक्षितः | नाम हेत्वधिकरणे साध्यस्य अभावः न भवेत्‌ | "हेत्वधिकरणे सर्वत्र वर्तते चेत्‌" इति अर्थः आगन्तव्यः अतः हेत्वधिकरणे विद्यमानः यः अभावः तदप्रतियोगी चेत्‌, व्यापकः भवति | धूमाधिकरणे विद्यमानः अभावः इत्युक्ते जलाभावः, मीनाभावः, घटाभावः इति अभावाः | तत्प्रतियोगित्वम्‌ अस्ति जले, मीने, घटे इत्यादिषु | अप्रतियोगित्वम्‌ अस्ति वह्नौ | कः अर्थः फलति ? धूमाधिकरणे कदापि वह्न्यभावः न भवति |


विपरीतत्वेन पूर्वपक्षलक्षणे व्याप्तिः भवति चेत्‌ किमर्थं न भावरूपेण ?


अस्तु, 'हेतुमद्वृत्तित्वम्‌' अतिव्याप्तम्‌ इत्युक्तम्‌ | किन्तु विपरीतत्वेन यदा वयं 'साध्याभाववदवृत्तित्वम्‌' उक्तवन्तः, तत्र व्याप्यव्यापकभावः अस्ति इति स्वीकृतवन्तः | तत्तु पूर्वपक्षलक्षणमस्ति अन्वयव्याप्तेः | तत्र केवलान्वयी इति स्थलं विहाय व्याप्यव्यापकभावः संगच्छते | यदि तत्र अस्ति, तर्हि किमर्थं 'हेतुमद्वृत्तित्वम्‌' इत्यस्मिन्नपि स्थले न स्यात्‌ ? (वस्तुतः अस्मिन्‌ पूर्वपक्षलक्षणवाक्ये अपि परिष्कारः कृतः | परन्तु परिष्कारेण विनाऽपि अर्थतः वीप्सा स्वीकरणीया |) एतत्सर्वं कथमिति ज्ञायते चेत्‌, 'हेतुमद्वृत्तित्वम्‌' इति स्थले वीप्सायाः अभावः किमर्थमिति अपि स्पष्टः भविष्यति |


अभाव-शब्दस्य शक्तिः


'साध्याभाववदवृत्तित्वम्‌' इति लक्षणवाक्ये 'अवृत्तित्वम्‌' इति शब्दः अस्ति; अवृत्तित्वम्‌ इत्युक्तौ वृत्तित्वस्य अभावः | वृत्तित्वाभावः | ‘अभाव'-शब्दे एका विशिष्टा शक्तिः वर्तते यतोहि अभावः एकः एव | अस्य अर्थः कः ? घटाभावः भूतले अस्ति; घटाभावः उत्पीठिकायाम्‌ अस्ति; घटाभावः स्थालिकायाम्‌ अस्ति—एतेषु त्रिषु स्थलेषु यः घटाभावः सः समानः | भिन्नस्थलेषु यः घटाभावः सः समानः; यत्र कुत्रापि घटाभावः स्यात्‌, स च घटाभावः समानः, एकः एव | वृत्तित्वं तथा नास्ति | वृत्तित्वं भिद्यते—एक एव वह्निः सर्वत्र न वर्तते | यः वह्निः महानसे अस्ति अपि च यः वह्निः पर्वते अस्ति, तौ द्वौ भिन्नौ | अपि च महानसीयवह्नौ यत्‌ वृत्तित्वम्‌ अस्ति, पर्वतीयवह्नौ यत्‌ वृत्तित्वम्‌ अस्ति तस्मात्‌ भिन्नम्‌ | अतः वृत्तित्वं भिन्नं भिन्नं भवति किन्तु अभावः सर्वत्र समानः एकः एव |


तर्हि 'साध्याभाववदवृत्तित्वम्‌' इति लक्षणवाक्ये 'अवृत्तित्वम्‌' इत्युक्ते 'वृत्तित्वाभावः' | अभावः यतोहि एकः एव, अतः अनेन, अर्थतः साध्याभाववद्‌ह्रदनिरूपितवृत्तित्वाभावः समानः, साध्याभाववद्‌भूतलनिरूपितवृत्तित्वाभावः समानः, साध्याभाववज्जलनिरूपितवृत्तित्वाभावः समानः | अस्य एकार्थकत्वस्य बलेन, एकः एव अभावः सर्वेषु अधिकरणेषु इत्यस्मात्‌ 'यत्र यत्र तत्र तत्र' इति अर्थः सिध्यति |


अन्यरीत्यापि अभावशब्दस्य व्याप्यव्यापकभावसाधने शक्तिः प्रदर्शयितुं शक्यते | कथम्‌ ? व्याप्तिः इत्युक्ते अविनाभावसम्बन्धः | 'वह्निं विना धूमः न भवति'—अस्य वाक्यस्य बलेन पूर्वपक्षलक्षणम्‌ आगतम्‌ | अस्य च वाक्यस्य अर्थः कः ? वह्न्यभावाधिकरणे धूमः न भवति | 'वहिं विना धूमः न भवति' इति कथनेन कः अर्थः फलति ? वह्न्यभावः यत्र अस्ति, तत्र धूमः न भवति | तदेव उक्तं वह्न्यभाववदवृत्तित्वम्‌ | 'वह्निं विना' इत्युक्ते 'वह्न्यभाववत्‌' | ‘धूमः न भवति' इत्युक्ते 'अवृत्तित्वम्‌ अस्ति धूमे' | अनेन जायते वह्न्यभाववदवृत्तित्वम्‌ | अनेन च हेतुः ‘कुत्रचित्‌ न भवति' इति न; अपि तु 'कुत्रापि न भवति' इति अर्थः सिद्धः | वह्निं विना धूमः कुत्रापि न भवति |


इत्थञ्च पूर्वपक्षलक्षणस्य फलितार्थः एवमस्ति—साध्याभाववद्वृत्तित्वसामान्याभावः | अस्मिन्‌ अखण्डपदे 'सामान्य'-शब्दस्य कः अर्थः ? साध्याभाववान्‌ जलह्रदः, तद्वृत्तित्वं नास्ति धूमे | अतः वृत्तित्वाभावः अस्ति धूमे | एवमेव अन्यत्र, यत्र यत्र धूमः नास्ति, तत्र सर्वत्र एकः एव समानः वृत्तित्वाभावः अस्ति धूमे | अनेन 'सामान्य'-शब्दस्य अर्थः सिद्धः—यत्र यत्र धूमः नास्ति, तत्र सर्वत्र एकः एव समानः वृत्तित्वाभावः अस्ति धूमे | अतः अभावस्थले ‘सामान्य'-शब्दः न व्यवहृयते चेदपि एतादृशार्थः गृह्यते यतोहि अभावः भिन्नभिन्नस्थलेषु एकः एव |


वृत्तित्वं स्थलम्‌ अधिकृत्य भिन्नं भिन्नम्‌


परन्तु वृत्तित्वं भिन्नस्थलेषु, तत्तत्स्थलनिरूपितं वृत्तित्वं भिन्नं भिन्नं भवति इत्युक्तम्‌; अनुभवसिद्धम्‌ अपि अस्ति—जानीमः यत्‌ स्थलभेदात्‌ वस्तु भिन्नम्‌ | कोऽपि वदति ‘सः एव वह्निः'; अन्यः कोऽपि 'कः वह्निः' इति पृच्छति; प्रथमः उत्तरयति 'सः एव वह्निः, यः रामस्य गृहे अस्ति' | ‘यः वह्निः रामस्य गृहे' इति वदनेन स्पष्टं भवति यत्‌ भिन्नस्थलेषु वह्निः भिन्नः | यथा नीलघटः, पीतघटः, रक्तघटः, श्वेतघटः इत्यादयः घटाः भिन्नाः | प्रत्येकस्मिन्‌ घटे घटवृत्तित्वं भिन्नं—नीलरूपनिरूपितघटत्वं, पीतरूपनिरूपितघटत्वं, रक्तरूपनिरूपितघटत्वम्‌ | एवमेव स्थलम्‌ अधिकृत्य वह्न्यभाववद्‌ह्रदवृत्तित्वं, वह्न्यभाववज्जलवृत्तित्वं, वह्न्यभाववद्भूतलवृत्तित्वम्‌ इति बहूनि वृत्तित्वानि सन्ति; एतानि वृत्तित्वानि सर्वाणि भिन्नानि |


अभाव-शब्दस्य शक्तिः - शास्त्रीयरीत्या प्रदर्शनम्‌


'अभावः एकः एव', 'वृत्तिः भिन्ना भिन्ना' इत्यस्य कथनेन अभाव-शब्दस्य मध्ये एका शक्तिः आयति | सा च का ? सामान्याभावः | कथम्‌ ? उदाहरणार्थं 'घटसामान्याभावः' इति स्वीकुर्मः | घटसामान्याभावस्य कोऽर्थः ? श्यामघटः, पीतघटः, रक्तघटः इत्येषाम्‌ अभावः | भूतले नीलघटस्य सत्त्वे घटसामान्यं नास्ति इति वक्तुं शक्यते किम्‌ ? नीलवर्णविशिष्टघटः वर्तते; पीतवर्णविशिष्टघटः, रक्तवर्णविशिष्टघटः नस्ति, परन्तु नीलघटः वर्तते | तत्र घटसामान्यं नास्ति इति वक्तुं न शक्यते | तत्र घटसामान्यं नाम किम् ? घटत्वेन रूपेण यद्भवति तत्‌ घटसामान्यम्‌ | घटसामान्याभावः इति चेत्‌, घटत्वेन रूपेण काऽपि व्यक्तिः न भवेत् | नाम, घटत्वावच्छिन्नप्रतियोगिताकः अभावः इति घटसामान्याभावः | तद्वत्‌, हेतौ साध्याभाववन्निरूपितवृत्तित्वं नास्ति इति अभावः स्वीकर्तव्यः | अत्र वृत्तित्वं प्रतियोगि; वृत्तित्वनिष्ठा प्रतियोगिता | साध्याभाववन्निरूपितवृत्तित्वनिष्ठा प्रतियोगिता; प्रतियोगितावच्छेदकं साध्याभाववन्निरूपितवृत्तित्वत्वम्‌ | घटो नास्ति इत्युक्ते घटत्वावच्छिन्नप्रतियोगिताकः अभावः; साध्याभाववन्निरूपितवृत्तित्वं नास्ति इत्युक्ते साध्याभाववन्निरूपितवृत्तित्वत्वावच्छिन्नप्रतियोगिताकः अभावः | स एव अभावः साध्याभाववन्निरूपितवृत्तित्वसामान्याभावः इति विवक्षितः |


अभाव-शक्तेः फलम्‌


प्रकृतौ 'वह्न्यभाववन्निरूपितवृत्तित्वं रासभे नास्ति' इति वक्तुं शक्यते किम्‌ ? न, वक्तुं न शक्यते यतोहि वह्न्यभाववन्निरूपितवृत्तित्वं रासभे भवति क्वचित्‌; भूतले यत्र वह्निः नास्ति, तत्र कुत्रचित्‌ रासभवृत्तिः भवति एव | वह्न्यभाववन्निरूपितवृत्तित्वं रासभे अस्ति; वह्न्यभाववन्निरूपितवृत्तित्वानि यानि यानि सन्ति, तेषां सर्वेषाम्‌ अभावः रासभे नास्ति किन्तु धूमे अस्ति | वह्न्यभाववति भूतले रासभः भवति किन्तु धूमः न भवति | अतः रासभे वह्न्यभाववन्निरूपितवृत्तित्वाभावः नास्ति—इति कृत्वा साध्याभाववदवृत्तित्वम्‌ इत्यस्मिन्‌ व्याप्तिलक्षणरूपेण अतिव्याप्तिः नास्ति; नाम पूर्वपक्षलक्षणे केवलं सामानाधिकरण्यं न अपितु वीप्साऽपि अस्ति |


अन्यथाबोधस्य निवारणम्


तर्हि 'अभावः एकः एव' इत्यस्य कथनेन अभावः इत्युक्ते 'सामान्याभावः' इति उक्तम्‌ | तथापि, अभावः ‘यत्किञ्चित्‌ अभावः' इति अर्थे कुत्रचित्‌ प्रदर्शितः | साध्याभाववति ह्रदे वह्निः नास्ति; तत्र रासभः अपि नास्ति | साध्याभाववान्‌ जलह्रदः तद्वृत्तित्वम्‌ अस्ति मीनादौ, अवृत्तित्वम्‌ अस्ति रासभे, इति कृत्वा अतिव्याप्तिः; यतोहि वह्न्यभाववत्‌ इति भूतलं; तद्वृत्तित्वमस्ति रासभे; वृत्तित्त्वाभावः नास्ति अतः रासभं प्रति वह्निः व्यापको नास्ति अपि च वह्निं प्रति रासभः व्याप्यः नस्ति | एतादृशस्य अन्यथाबोधस्य वारणार्थं, स्पष्टतार्थम्‌ अवृत्तित्व-शब्दस्य स्थाने वृत्तित्वसामान्याभावः विवक्षणीयः; 'सामान्य'-शब्दः संयोजनीयः | वस्तुतः साध्याभाववदवृत्तित्वम्‌ इत्यस्य कथनेन व्याप्यव्यापकभावः अस्ति; किन्तु यत्किञ्चित्‌ अभावः इत्यस्य निवारणार्थं, स्पष्टीकरणार्थम्‌ 'अवृत्तित्व'-शब्दस्य स्थाने वृत्तित्वसामान्याभावः योजितः | साध्याभाववद्वृत्तित्वत्वावच्छिन्नप्रतियोगिताकः अभावः | नाम वृत्तित्वसामान्याभावः |


आहत्य 'साध्याभाववदवृत्तित्वम्‌' इति पुर्वपक्षलक्षणे अर्थतः साध्याभाववद्वृत्तित्वसामान्याभावः इति आगच्छति | स्पष्टतार्थं, प्रदर्शनार्थं च यत्‌ अनेन 'कुत्रचित्‌ वृत्तित्वं नास्ति' (रासभः वह्याभाववद्‌ह्रदे इतिवत्‌) इति अर्थः न अपि तु 'कुत्रापि वृत्तित्वं नास्ति' इत्यर्थ‌म्‌ 'अवृत्तित्व'-शब्दस्य स्थाने 'वृत्तित्वसामान्याभावः' इति योजितम्‌ | अतः 'साध्याभाववद्वृत्तित्वसामान्याभावः' इति परिष्कृतरूपम्‌ | अनेन अतीव स्पष्टं भवति यत पूर्वपक्षलक्षणे केवलं 'यत्र तत्र' (सामानाधिकरण्यम्‌') इति न, अपि तु 'यत्र यत्र तत्र तत्र' इति कृत्वा वीप्सा अपि अस्ति | सर्वेषु अधिकरणेषु यत्र साध्याभावः अस्ति, तत्र सर्वत्र हेत्वभावः अपि अस्ति | अयं वृत्तित्वसामान्याभावः धूमे एव अस्ति; रासभे नास्ति |


प्रकृतौ 'हेतुमद्वृत्तित्वम्‌' इत्यस्य परिष्कारः एवमेव ?


अधुना प्रकृतौ 'हेतुमद्वृत्तित्वम्‌' इति स्थले उक्तं यत्‌ अनेन केवलं सामानाधिकरण्यं सिद्धं; व्याप्यव्यापकभावः नास्ति | तर्हि यया रीत्या पूर्वपक्षलक्षणे 'सामान्य'-शब्दस्य संयोजनेन 'सर्वेषु अधिकरणेषु' इति कृत्वा व्याप्यव्यापकभावः सिद्धः, एवं रीत्या अत्रापि परिष्कर्तुं शक्यते किम्‌ ? आं, शक्यते | ‘हेतुमत्सामान्यवृत्तित्वम्‌' इति उच्यते चेत्‌ कार्यं सिध्येत | अनेन यत्र यत्र हेतुः वर्तते, तन्निरूपितवृत्तित्वं भवति साध्ये | तर्हि अनेन अस्माकं कार्यं समाप्तं किल ? वीप्सा साधिता, अनेन कोऽपि दोषः न स्यात्‌ |


परन्तु अत्र काचन नूतना समस्या आगच्छति 'वृत्तित्व'-प्रयोगात्‌ | धूमवत्सामान्यवृत्तित्वं वह्नौ | यथोक्तं पूर्वम्‌ अभावः एकः एव, किन्तु वृत्तित्वं भिन्नं भिन्नम्‌ | अतः तस्य वह्नेः सर्वधूमाधिकरणवृत्तित्वं वक्तुं न शक्यते | सर्वधूमाधिकरणवृत्तित्वं कस्य वह्नेः स्यात्‌ ? वृत्तित्वं भिन्नं भिन्नम्‌ अस्ति | यदि हेत्वधिकरणसामान्यवृत्तित्वं विवक्षितं, हेत्वधिकरणं महानसं भवति, पर्वतः भवति— तत्र सर्वत्र विद्यमानः वह्निः एक एव नास्ति; तर्हि कस्मिन्‌ वह्नौ समन्वयः स्यात्‌ | यथा धूमाधिकरणं भवति पर्वतः, तद्वृत्तित्वं महानसे विद्यमानवह्नौ नास्ति | यदा धूमाधिकरणं भवति महानसं, तद्वृत्तित्वं पर्वते विद्यमानवह्नौ नास्ति | कुत्र उपपादयति; धूमाधिकरणसामान्यनिरूपितवृत्तित्वं कुत्र उपपादयितुम्‌ इच्छति ? अत्र समस्या जायते यतोहि वृत्तित्वं भिन्नं भिन्नं वर्तते; वृत्तिता इत्युक्ते आधेयता; आधेयस्य भेदात्‌ आधेयता भिद्यते |


यथोक्तम्‌ अभावस्तु तथा नास्ति | वह्न्यभाववद्वृत्तित्वाभावः एक एव | स च अभावः सर्वेषु धूमेषु वर्तते | वह्यभाववान्‌ जलह्रदः, तद्वृत्तित्वाभावः सर्वेषु धूमेषु वर्तते | अनेन साध्याभाववदवृत्तित्वम्‌ इति लक्षणवाक्ये व्याप्तिः अस्ति | यतोहि विद्यमानः अभावः एक एव; परन्तु यतः वृत्तित्वं भिन्नं भिन्नं भवति, अतः एक एव इति तु नास्ति | एकस्य वह्नेः तदधिकरणसर्वत्र वृत्तित्वं नास्ति | धूमाधिकरणे सर्वत्र एक एव वह्निः नास्ति; स्थलम्‌ अधिकृत्य भिन्न-भिनाः वह्नयः वर्तन्ते |


पर्यवसितम्‌ इदं यत्‌ अवृत्तित्वाधारे व्याप्तिं साधयितुं शक्यते, परन्तु यतः वृत्तित्वं स्थलम्‌ अनुसृत्य भिन्नम्‌ अतः अनेन व्याप्तिं साधयितुं न शक्यते | अवृत्तित्वम्‌ अभावस्वरूपम्‌, अनेकेषु वस्तुषु एकमेव भवति | वृत्तित्वं चेत्‌, भावस्वरूपं; तत्र वस्तु भिद्यते चेत्‌, तन्निष्ठवृत्तित्वमपि भिन्नं भवति | अतः सर्वेषु वह्निषु, सर्वेषु व्यापकेषु समन्वयः कर्तुं न शक्यते | महानसे विद्यमानवह्निः भिन्नः, पर्वते विद्यमानवह्निः भिन्नः | धूमाधिकरणं पर्वतः, तद्वृत्तित्वम्‌ अस्ति पर्वतीयवह्नौ | धूमाधिकरणं महानसं, तद्वृत्तित्वम्‌ अस्ति महानसीयवह्नौ | धूमाधिकरणसामान्यवृत्तित्वं कस्य वह्नेः भवति ?पर्वतीयवह्नौ महानसवृत्तित्वं नास्ति; महानसीयवह्नौ पर्वतवृत्तित्वं नास्ति | अतः वीप्सा, व्याप्तिः अत्र न सङ्गच्छते |


सारांशः


'यत्र यत्र धूमः तत्र तत्र वह्निः' इत्यस्मिन्‌ 'यत्र यत्र' द्वारा वीप्सा प्रविष्टा |


'धूमसत्त्वे वह्निसत्त्वम्‌' इत्यस्मिन्‌ सतिसप्तमी इत्यस्य बलेन वीप्सा प्रविष्टा |


धूमवद्वृत्तित्वम्‌ इत्यस्मिन्‌ वीप्सा नास्ति अतः अत्र केवलं सामानाधिकरण्यम्‌ | नाम अतिव्याप्तिदोषः |


धूमवत्सामान्यवृत्तित्वम्‌ इत्यस्मिन्‌ यद्यपि 'सामान्य'-शब्दः प्रविष्टः, तथापि वृत्तित्वस्य वस्तुभेदात्‌ तत्र वृत्तित्वभेदात् वीप्सा न सिध्यति |


समाधानम्‌


अस्य पुनः परिष्कारः सम्भवति किम्‌ ? यथोक्तं वृत्तिः वह्निः भिन्न-भिन्नः भवति; पर्वतीयवह्निः भिन्नः, महानसीयवह्निः भिन्नः | आधेयभेदात्‌ आधेयता (वृत्तित्वं, वृत्तिता) अपि भिन्ना | परन्तु उभयत्र वृत्तित्वावच्छेदकं तु वह्नित्वमेव | हेत्वधिकरणसामान्यवृत्तित्वम्‌ इति उच्यते चेत्‌ हेत्वधिकरणं पर्वतः, तद्वृत्तित्वं नास्ति महानसीयवह्नौ | हेत्वधिकरणं महानसम्‌ इति चेत्‌, तद्वृत्तित्वं नास्ति पर्वतीयवह्नौ | अस्य समाधानं भवति वृत्तित्वावच्छेदके वह्नित्वे | हेत्वधिकरणसामान्यवृत्तित्वावच्छेदकम्‌ | हेत्वधिकरणं महानसं, पर्वतः इत्यादयः, तन्निरूपितवृत्तित्वं वह्नौ | तदवच्छेदकं वह्नित्वम्‌ | तद्वत्त्वं वह्नौ अस्ति | अतः हेत्वधिकरणसामान्यनिरूपितवृत्तितावच्छेदकं वह्नित्वं, तद्वत्त्वं वह्नौ | वृत्तिः वह्निः, वृत्तिता वह्निनिष्ठा, वृत्तितावच्छेदकं वह्नित्वम्‌ |


हेत्वधिकरणं महानसम्‌ | महानसनिष्ठा वह्निनिरूपिता अधिकरणता | वह्निः आधेयः, आधेयता वह्नौ | महानसे अधिकरणता, वह्नौ आधेयता, नाम वृत्तिता | तर्हि महानसनिष्ठा-अधिकरणतानिरूपित-वृत्तिता वह्नौ | तदेव उक्तं धूमाधिकरणसामान्यनिरूपितवृत्तितावच्छेदकं वह्नित्वं, तद्वत्त्वं वह्नौ | सामान्यं वदामश्चेत्‌, वह्नित्व-स्थाने साध्यतावच्छेदकम्‌ इति प्रवेशनीयम्‌ | हेत्वधिकरणसामान्यनिरूपितवृत्तितावच्छेदकं यत्‌ साध्यतावच्छेदकं, तद्वत्त्वम्‌ | हेत्वधिकरणसामान्यनिरूपितवृत्तितावच्छेदकवत्त्वं; तत्र 'धर्म'-शब्दस्य निवेशः अपि अपेक्षितः; किमर्थमिति चेत्‌, वृत्तितावच्छेदकः सम्बन्धः अपि भवति, संयोग-सम्बन्धः | वृत्तितावच्छेदकसम्बन्धः संयोगः द्विनिष्ठः अतः महानसे‍ऽपि अस्ति; तत्सम्बन्धवत्वं महानसे | तदर्थं 'धर्म'-शब्दस्य निवेशो न भवति चेत्‌ अतिव्याप्तिः | अतिव्याप्तेः वारणाय वृत्तितावच्छेदकधर्मवत्त्वम्‌ | आहत्य हेत्वधिकरणसामान्यनिरूपितवृत्तितावच्छेदकधर्मवत्त्वम्‌ इति पर्यवसितम्‌ | एतत्‌ कुत्र अस्ति इति चेत्‌, साध्ये व्यापके | अस्मिन्‌ व्याप्यव्यापकभावः अस्ति; वाक्यं व्यापकत्वस्य स्वरूपम्‌ |


अतः अन्ततो गत्वा हेत्वधिकरणसामान्यनिरूपितवृत्तितावच्छेदकधर्मवत्त्वं साध्ये इत्यनेन 'यत्र यत्र धूमः तत्र तत्र वह्निः' इत्यर्थः आगतः | सामानाधिकरण्यमपि अस्ति, व्याप्यव्यापकभावः अपि अस्ति | परन्तु अत्र वक्तव्यम्‌ अस्ति यत्‌ धूमाधिकरणसामान्यवृत्तित्वं नाम धूमव्यापकत्वम्‌ | अतः अस्मिन्‌ वाक्ये 'सामान्य'-शब्दस्य निवेशेन व्यापकत्वम्‌ इति अंशः लभ्यते | हेतुमत्सामान्यवृत्तित्वं नाम हेतुमत्त्वव्यापकत्वं लभ्यते | तदधिकरणवृत्ति-अत्यन्ताभाव-अप्रतियोगित्वम्‌ | तदधिकरणनिष्ठ-अत्यन्ताभाव-अप्रतियोगित्वं तद्व्यापकत्वम्‌ (इति व्यापकस्य लक्षणम्‌) | धूमव्यापकत्वं वह्नौ—धूमाधिकरण-पर्वतमहानसादिनिष्ठ-जलादि-अत्यन्ताभाव-अप्रतियोगी वह्निः, अप्रतियोगित्वं वह्नौ |


अतः अनेन लक्षणवाक्येन व्यापकत्वं सिद्धं न तु व्याप्तिः | 'व्याप्तिः' इति शब्दः व्याप्यत्वार्थे भवति अतः व्याप्तिः व्याप्ये एव भवति न तु व्यापके* | परन्तु यत्र यत्र व्यापकः अस्ति तत्र तत्र व्याप्यव्यापकभावः अपि अस्ति; यत्र यत्र व्याप्यव्यापकभावः अस्ति तत्र तत्र व्याप्तिः (व्याप्यत्वम्‌) अपि अस्ति | अपि च  व्याप्यव्यापकयोर्मध्ये यः सम्बन्धः सः द्विनिष्ठः | अतः व्यापकम्‌ अस्ति चेत्‌ व्याप्यम्‌ अपि अस्त्येव | ‘पिता' अस्ति चेत्‌, ‘पुत्रः' अस्ति एव साकाङ्क्षत्वात्‌ | तर्हि अस्माकं व्यापकत्वरूपिवाक्यस्य अर्थः साध्ये व्यापके अस्ति, न तु व्याप्ये | तथा चेदपि अनेन व्याप्यव्यापकभावः अवश्यं जायते | अतः 'व्याप्तिः' इत्यस्य एतेत्‌ लक्षणवाक्यं नास्ति चेदपि व्याप्यव्यापकभावः अनेन सिध्यति | अपि च किञ्चित्‌ संयुज्यते चेत्‌, यया रीत्या सिद्धान्तलक्षणे व्यापकत्वेन उक्तं च 'साध्य-सामानाधिकरण्यम्' इत्यस्य योजनेन हेतौ व्याप्ये प्रदर्शितं तथा अत्रापि | हेत्वधिकरणवृत्ति-अत्यन्ताभाव-अप्रतियोगी इति तावत्‌ एव उच्यते चेत्‌, हेतौ समन्वयः न भवति; अतः हेत्वधिकरणवृत्ति-अत्यन्ताभाव-अप्रतियोगि-साध्यसामानाधिकरण्यम्‌ इति उच्यते, अनेन हेतौ समन्वयः जायते | एवमेव हेत्वधिकरणसामान्यनिरूपितवृत्तितावच्छेदकधर्मवत्-साध्यसामानाधिकरण्यं हेतौ |


अन्ततो गत्वा व्यापकत्वस्य च व्याप्तेः च भावरूपेण लक्षणं वक्तुं शक्यते, परन्तु यतोहि अभावस्य या शक्तिः वर्तते सा वृत्तित्वे नास्ति, अतः वीप्सा-साधनार्थम्‌ इतोऽपि दीर्घः मार्गः आश्रयणीयः; अस्मिन्‌ लाघवं नास्ति | अभावरूपेण वदामः चेत्‌ लाघवमपि अस्ति, सारल्यमपि अस्ति |


Swarup  - October 2020  


*अत्र प्रश्नः उदेति यत्‌ सम्बन्धः द्विनिष्ठः, यथा घटः भूतले संयोगसम्बन्धेन; अयं संयोगसम्बन्धः घटे अपि अस्ति, भूतले अपि अस्ति | अधुना व्याप्तिः अपि द्विनिष्ठः ? व्याप्तिव्यापकसम्बन्धः इति उच्यते चेत्‌ स च सम्बन्धः हेतौ अपि साध्ये अपि वर्तते | परन्तु व्याप्तिः ? उभयत्र अस्ति किम्‌ ?


वह्निनिरूपितव्याप्तिः धूमे अस्ति | व्याप्तिः स्वरूपसम्बन्धेन धूमे, निरूपकत्वसम्बन्धेन वह्नौ वर्तते | व्याप्तेः निरूपकः अस्ति वह्निः | वह्निनिष्ठव्यापकता, धूमनिष्ठव्याप्यता; वह्निनिष्ठव्यापकता-निरूपित-धूमनिष्ठव्याप्यता |  व्याप्यता नाम व्याप्तिः | धूमनिष्ठा या व्याप्तिः, तन्निरूपकः वह्निः | व्याप्तिनिरूपकत्वम्‌ अस्ति वह्नौ; व्याप्ति-आश्रयत्वम्‌ अस्ति धूमे | तर्हि व्याप्तिः 'द्विनिष्ठा' इति वक्तुं शक्यते किन्तु एकेन सम्बन्धेन द्विनिष्ठा न | घटः भूतले संयोगसम्बन्धेन; स च संयोगसम्बन्धः समवायसम्बन्धेन घटे भूतले च  | व्याप्तेः एकः आश्रयः, एकः च निरूपकः इति कृत्वा एकस्मिन् स्वरूपसम्बन्धेन (धूमे), अपरस्मिन्‌ निरूपकत्वसम्बन्धेन (वह्नौ) | यथा 'अयं घटः' इति आकारे विषयः घटः, विषयतायाः आश्रयः घटः; विषयता-निरूपकम्‌ अस्ति ज्ञानम्‌ | विषयता द्विनिष्ठा—घटनिष्ठा अपि भवति, निरूपकत्वसम्बन्धेन ज्ञाननिष्ठा अपि भवति |