02 - सामान्यम्
विद्याधरी-ग्रन्थस्य दशमे पृष्ठे सामान्यम् इति पदार्थस्य विषये दृष्टान्तः दीयते |
तत्र परमपरं चेति द्विविधं सामान्यमिति, अयं तर्क-सङ्ग्रहः इति मूलग्रन्थस्य वाक्यम् |
अस्य चित्ररूपेण निरूपणं क्रियते अस्माकं चित्रा-भगिन्या, अधः |
प्रथमे चित्रे अधिकरणम् अस्ति पुस्तकम्; द्वितीये चित्रे अधिकरणम् अस्ति नीलरूपम्; तृतीये चित्रे अधिकरणम् अस्ति उत्क्षेपणकर्म | एषु त्रिषु अधिकरणेषु सामान्यानि सन्ति; तानि च आधेयानि | पुस्तकत्वम् इति सामान्यं, पृथिवीत्वम् इति सामान्यं, द्रव्यत्वम् इति सामान्यं, सत्ता इति सामान्यम् | तथैव च अग्रे, द्वितीये तृतीये च चित्रयोः |
अस्माकम् अवधानम् अस्मिन् भवेत् यत् सर्वप्रथमं सानान्यस्य अधिकरणं किं किं भवितुम् अर्हति-- इति चेत्, द्रव्यं, गुणः, कर्म च | तदा किं सामान्यं कस्य अपक्षया परं, किं च कस्य अपेक्षया अपरम् |