12 - द्वौ धात्वधिकारौ— आकृतिः कारणं च

From Samskrita Vyakaranam
04---aShTAdhyAyI-paricayaH/12---dvau-dhAtvadhikArau----AkRutiH-kAraNaM-ca
Jump to navigation Jump to search

विषयपरिचयः


धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यनेन प्रथमधात्वधिकारः |

धातोः (३.१.९१) इत्यनेन द्वितीयधात्वधिकारः |


धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः ३.१.२२ - ३.१.९० |

धातोः (३.१.९१) इत्यस्य अधिकारः ३.१.९१ - ३.४.११७.


किमर्थं धात्वधिकारद्वयम्‌ अस्ति ? यदा धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः भवति ३.१.२२ - ३.१.९०-पर्यन्तं, तदा धातोः (३.१.९१) यस्य अधिकारो भवति ततः एव आरभ्य तृतीयाध्यायस्य अन्तपर्यन्तं, तस्य का आवश्यकता ? पाणिनिः धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारं वर्धयितुं शक्तवान्‌, तृतीयाध्यायस्य अन्तपर्यन्तं खलु |


उत्तरम्‌— धातुभ्यः विहिताः प्रत्ययाः चतुर्विधाः | धातुप्रत्ययाः, विकरणप्रत्ययाः, तिङ्‌-प्रत्ययाः, कृत्‌-प्रत्ययाः च | सनादयः द्वादश धातुप्रत्ययाः सन्ति, यैः आतिदेशिकाः सनन्ताः णिजन्ताः चादयः धातवः निष्पन्नाः | धातुप्रत्ययाः, विकरणप्रत्ययाः च प्रथमे धात्वधिकारे स्तः; तिङ्‌-प्रत्ययाः, कृत्‌-प्रत्ययाः च द्वितीये धात्वधिकारे स्तः | तत्र द्वितीये धात्वधिकारे एकं प्रमुखं सूत्रम्‌ अस्ति कृदतिङ्‌ (३.१.९३) | अनेन सूत्रेण अस्मिन्‌ द्वितीये अधिकारे यः कोऽपि प्रत्ययः विहितः, सः तिङ्‌ नास्ति चेत्‌ कृत्‌ अस्त्येव इति अर्थः | एक एव धात्वधिकारो यदि अभिविष्यत्‌, तर्हि अनेन कृदतिङ्‌ इति सूत्रेण सर्वे विकरणप्रत्ययाः शप्‌, श्यन्‌, श, श्नु इत्यादयः आपि च सर्वे सन्‌-प्रत्ययाः सन्‌, क्यच्‌, काम्यच्‌ इत्यादयः, इमे सर्वे कृत्‌-सज्ञकाः अभविष्यन् | तन्न स्यात्‌; अस्य च निवारणार्थं धात्वधिकारद्वयम्‌ आवश्यकम्‌ आसीत्‌ |


अग्रे गत्वा अस्य उपस्थापनं विस्तारयिष्यते …


१०_-_द्वौ_धात्वधिकारौ—_आकृतिः_कारणं_च_.pdf ‎


Swarup - May 2015