01 - प्रेरणार्थे णिच्
एतावता सार्वधातुकलकाराणां तिङन्तरूपाणि अवलोकितानि | तत्र वैशिष्ट्यं वर्तते यत् शबादयः विधीयन्ते इत्यतः तिङन्तपदस्य ज्ञानार्थं प्रथमप्रश्नः अस्माकं भवति—अयं धातुः कस्मिन् गणे अस्ति ? सम्प्रति आर्धधातुकचिन्तनम् आरभ्यते; तत्र सर्वप्रथमं ण्यन्तप्रकरणं परिशील्यते | अत्र णिचः वैशिष्ट्यं वर्तते यत् अयं प्रत्ययः आर्धधातुकः इति कारणेन गणीया चर्चा नितरां नापेक्षिता | धातुः कस्मिन् अपि गणे भवतु नाम, तस्य ण्यन्तरूपस्य गणेन सह न कोऽपि सम्बन्धः | पठति भ्वादिगणे, लिखति तुदादिगणे, क्षालयति चुरादिगणे, प्राप्नोति स्वादिगणे—परन्तु पाठयति, लेखयति, क्षालयति, प्रापयति इत्येषां कृते तिङन्तस्य रूपसाधनार्थं गणस्य आवश्यकता नास्ति एव | एषां गणः अपि नास्ति एव | “कस्मिन् गणे" इति प्रश्नस्तु नैव उदेति | उदेति चेत्, तस्य उत्तरं नास्ति हि | तर्हि अस्मिन् करपत्रे—सार्वधातुकलकारः यत्र नास्ति, तत्र गतिः कीदृशी इति अनेन ण्यन्तप्रकरणेन सम्यक्तया ज्ञास्यते |
प्रेरणार्थकणिचः व्यवस्था
स्वतन्त्रः कर्ता (१.४.५४) = क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् | कस्मिन्नपि वाक्ये यः वक्तुः इच्छया स्वतन्त्रतया क्रियां जनयति, तस्य कर्तृसंज्ञा भवति | कर्तृसंज्ञा-विधायकं सूत्रम् इदम् | स्वतन्त्रः प्रथमान्तं, कर्ता प्रथमान्तं, द्विपदमिदं सूत्रम् | कारके (१.४.२३) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— कारके स्वतन्त्रः कर्ता |
क्रियाजनकत्वं कारकत्वम् | लेखकः इति यथा लेखं जनयति, जनकः इति शिशुं जनयति, तथा 'कारकः' इत्युक्ते यः क्रियां जनयति | क्रियायाः जनकः, क्रियानिष्पादकः कारकः | तत्र कारकं षड्विधम् इति प्रसिद्धिः | न केवलं कतृ-कारकं भवति; कर्म-कारकं, करण-कारकं, सम्प्रदान-कारकं, अपादान-कारकम्, अधिकरण-कारकम् अपि कारकाणि | प्रत्येकं कारकं क्रियायाः सिद्धौ साधकं, जनकं, निमित्तञ्च; तदर्थम् एव कारकम् इति नामकरणम् |
'क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात्' | 'क्रियायाम्' इत्यनेन 'क्रियायाः जनकत्वे'; कारकत्वे इति फलितार्थः | 'स्वातन्त्र्येण' इत्यनेन मुख्यतः, प्रधानतः | कारकं वक्तुः इच्छायाः अधीने नित्यं भवति इति कृत्वा 'विवक्षितोऽर्थः' | वक्तुः इच्छा चेदेव कारकं भवति; तथा नास्ति चेत्, कारकं नास्ति | आहत्य क्रियायाः सिद्धौ स्वतन्त्रः वक्त्रा यः उच्यते, सः कर्तृसंज्ञको भवति |
'देवदत्तः काष्ठैः अग्निना ओदनं स्थाल्यां पचति' इति वाक्ये पञ्च कारकाणि सन्ति; सर्वाणि अपि पचनक्रियां प्रति जनकानि | किन्तु देवदत्तः एव वक्त्रा मुख्यरूपेण प्रकटीकृतः, विवक्षितः | तदर्थं स्वान्त्र्येण इत्युक्तम् | स्वं तन्त्रं यस्य इति स्वतन्त्रः; नाम कुविन्दः | आशयः एवं— यः मुख्यः, प्रधानः | तर्हि यद्यपि उक्ते वाक्ये पञ्च कारकाणि क्रियाजनकानि सन्ति, किन्तु देवदत्तः एव मुख्यः | किमर्थमिति चेत्, पञ्चसु कारकेषु देवदत्तः एव अन्यानि कारकाणि अनवलम्ब्य, स्वतन्त्रतया तानि उपयुज्य, पचनक्रियां जनयति |
'स्वतन्त्रतया' इति कथनस्य आशयः— (१) कर्तृ-कारकः देवदत्तः पचनक्रियांं जनयितुं सक्रियः भवति सर्वप्रथमं, यदा अन्यानि कारकाणि क्रियाशीलानि न; (२) अपरेषां चतुर्णां कारकाणां प्रवृत्तिः निवृत्तिः च कर्तुः अधीने, किन्तु तत्र कर्तृ-कारकः देवदत्तः स्वतन्त्रः; (३) कर्तृ-कारकः अन्येषां कारकाणां प्रतिनिधिः भवितुम् अर्हति, किन्तु अन्ये कारकाः तस्य प्रतिनिधिः न भवितुम् अर्हन्ति; (४) अन्यानि कारकाणि न सन्ति चेदपि कर्तृ-कारकः क्रियां जनयितुं पारयति— यथा 'देवदत्तः आस्ते', 'देवदत्तः शेते', 'देवदत्तः पचति' इति |
अस्य सर्वस्य दर्शनेन एवं भाति यत् कर्ता सचेतनः भवेत् | किन्तु यथोक्तं, कारकं वक्तुः इच्छायाः अधीने भवति | तदर्थं प्रसिद्धवाक्यम् अस्ति 'विवक्षातः कारकाणि भवन्ति' | अतः पचनक्रियायां यदा देवदत्तस्य स्वतन्त्रता-प्रधानता विवक्षिता तदा 'देवदत्तः पचति' इत्यस्मिन् देवदत्तस्य, यदा स्थाल्याः स्वतन्त्रता-प्रधानता विवक्षिता तदा 'स्थाली पचति' इत्यस्मिन् स्थाल्याः, कर्तृसंज्ञा भवति | अनेन स्पष्टं भवति यत् कर्तुः स्वतन्त्रता वक्तुः इच्छाम् अवलम्ब्य भवति | तत्र कर्तुः चेतना अस्ति एव इति नास्ति; कर्ता प्रमुखो भवति क्रियायाः साधने इति पर्यवसितम् |
कर्तुः अर्थः अग्रिमसूत्रस्य आधारः—
तत्प्रयोजको हेतुश्च (१.४.५५) = कर्तुः प्रयोजको हेतुसञ्ज्ञः कर्तृसञ्ज्ञश्च स्यात् | सामान्यकर्तुः प्रेरकस्य कर्तृ-संज्ञा अपि भवति, हेतु-संज्ञा अपि भवति | 'तस्य' (कर्तुः) 'प्रयोजकः' (प्रवर्तयिता), तत्प्रयोजकः षष्ठीतत्पुरुषः | तत्प्रयोजकः प्रथमान्तं, हेतुः प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | स्वतन्त्रः कर्ता (१.४.५४) इत्यस्मात् कर्ता इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— तत्प्रयोजकः हेतुः च कर्ता |
प्रयोज्यकर्ता कार्यं करोति, प्रयोजककर्ता तं (प्रयोज्यकर्तारं) कार्यार्थं प्रेरयति | अस्यां दशायां प्रयोज्यकर्तुः स्वतन्त्रता तिष्ठति किम् इति जिज्ञासायां वैयाकरणाः वदन्ति यत् आं तिष्ठति | स च प्रेरितो भवति न वा इति स्वेच्छया अस्ति, कार्यं करोति न वा इति पुनः स्वेच्छया | यः कर्तारं प्रेरयति, तस्य कर्तृसंज्ञा हेतुसंज्ञा च स्याताम् | हेतु-संज्ञायाः महत्त्वं भवति अग्रिमे सूत्रे |
चुरादिगणे णिच्-प्रत्ययः विधीयते भिन्नसूत्रेण; ण्यन्तप्रकरणे णिच्-प्रत्ययः विधीयते पुनः पृथक्तया, भिन्नसूत्रेण—
हेतुमति च (३.१.२६) = प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच् स्यात् | णिच्-विधायकं सूत्रम् | क्रियार्थं यः प्रयोज्यं प्रेरयति, सः प्रयोजकः क्रियायाः हेतुः | आधारतया अस्यास्तीति हेतुमान्, मतुप्प्रत्ययः— प्रयोजकनिष्ठः प्रेषणादिव्यापारः हेतुमान्, तस्मिन् हेतुमति | व्यापारः इति प्रेषणादिक्रिया, स च व्यापारः हेतुमान् | 'स्वनिष्ठाधारतानिरूपिताधेयतासम्बन्धेन हेतुः यत्रास्ति स हेतुमान् व्यापारः, तस्मिन् वाच्ये णिज् इत्याहुः' इति तत्त्वबोधिनी | अस्यां स्थितौ—यत्र हेतुमाति व्यापारे प्रयोजकः हेतुः अस्ति—तत्र धातोः णिच्-प्रत्ययः विधीयते | हेतुमति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच् (३.१.२५) इत्यस्मात् णिच् इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१) परश्च (३.१.२) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ धातुभ्यः | अनुवृत्ति-सहितसूत्रं— हेतुमति च धातुभ्यः णिच् प्रत्ययः परश्च |
अत्र 'प्रेषणादौ' इत्युक्तम् | विभिन्नरीत्या कार्यार्थं प्रवर्तना, नाम प्रेरणा, भवति | अस्य प्रकटीकरणार्थं प्रेषणादौ इति व्यवहृतं सिद्धान्तकौमुद्याम् | बालमनोरमा इति सिद्धान्तकौमुदी-टीकाग्रन्थे दीयते— 'प्रेषणादावित्यादिशब्देन अध्येषणानुमत्युपदेशादीनां ग्रहणम् | तत्र भृत्यादेर्निकृष्टस्य प्रवर्तना प्रेषणम् | आज्ञेत्यर्थः | समानस्याऽधिकस्य च सख्याचार्यादेः प्रवर्तना- अध्येषणा | अनुमति -- राजादेः समंतिः | ज्वरितस्य कषायपाने हितावबोधनेन प्रवर्तना-- उपदेशः | हननाद्भीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापारः |'
क्रमेण—
प्रेषणादौ इत्यादिशब्देन अध्येषणा-अनुमति-उपदेशादीनां ग्रहणम् | अनेन विभिन्नरीत्या कार्यार्थं प्रवर्तना, प्रेरणा, भवति इत्युक्तम् | तत्र भृत्यादेः निकृष्टस्य प्रवर्तना प्रेषणम् | आज्ञा इत्यर्थः | स्वामी कर्मचारिणा कार्यं कारयति | समानस्य अधिकस्य च सख्याचार्यादेः प्रवर्तना— अध्येषणा | सज्जनः प्रार्थनां कृत्वा मित्रेण कार्यं कारयति | अनुमतिः— राजादेः सम्मतिः | राजा अनुमतिं दत्त्वा कृषकैः तद्वर्षस्य कृषिकार्यं प्रारम्भयति | ज्वरितस्य कषायपाने हितौ अवबोधनेन प्रवर्तना— उपदेशः | वैद्यः रोगिणं तिक्तम् औषधं पाययति | हननात् भीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापारः— अनुग्रहः | दुर्जनः हन्त्रा भीतग्रस्तं पलायमानं गृहीत्वा मारयति | दुर्जनस्य हन्तारं प्रति अनुग्रहः |
णिजन्तधातोः च धातुसंज्ञा भवति अनेन सूत्रेण—
सनाद्यन्ता धातवः (३.१.३२) = गुप्तिज्किद्भ्यः सन् (३.१.५) इत्यस्य सन् इत्यारभ्य कमेर्णिङ् (३.१.३०) इत्यस्य णिङ् इत्यन्तं द्वादश प्रत्ययाः येषाम् अन्ते भवन्ति, तेषां धातु-संज्ञा स्यात् | सन् आदौ येषां ते सनादयः; सनादयः अन्ते येषां ते सनाद्यन्ताः | सनाद्यन्ताः प्रथमान्तं, धातवः प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— सनाद्यन्ताः धातवः |
द्वादश प्रत्ययाः सन्ति येषां योजनेन नूतनाः धातवः सृष्टाः भवन्ति— सन्, क्यच्, काम्यच्, क्यष्, क्यङ्, क्विप्, णिङ्, ईयङ्, णिच्, यक्, आय, यङ् इति | एषां प्रकृतिः क्वचित् धातुः, क्वचित् प्रातिपदिकम् | एषु द्वादशसु प्रत्ययेषु अन्यतमः णिच् एव | अतः णिच्-प्रत्ययस्य योजनेन चोरि, पाठि, लेखि इत्यादयः यावन्तः धातवः सृष्टाः, ते सर्वे सनाद्यन्ता धातवः (३.१.३२) इति सूत्रेण धातुसंज्ञकाः | एते आतिदेशिकधातवः | औपदेशिकधातवः उपद्विसहस्रं, ते भूवादयो धातवः (१.३.१) इति सूत्रेण धातुसंज्ञकाः भवन्ति |
णिच्-प्रत्ययः त्रिप्रकारकः
१. यः णिच् प्रातिपदिकेभ्यः विधीयते = मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभो णिच् (३.१.२१) इत्यनेन, सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (३.१.२५) इत्यनेन च | प्रातिपदिकेभ्यः णिच् भिन्नार्थेषु भवति अतः अस्मिन् पाठे न प्रतिपाद्यते | नामधातुप्रकरणे अयं विषयः आयाति |
२. यः णिच् चुरादिभ्यः स्वार्थे विधीयते = सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (३.१.२५) इत्यनेन |
३. यः णिच् प्रेरणार्थे विधीयते = हेतुमति च (३.१.२६) इत्यनेन |
प्रेरणार्थे णिचि तिङन्तनिष्पादनप्रक्रिया
ये सामान्यनियमाः प्रयुक्ताः चुरादिगणे स्वार्थे, ते सर्वे प्रेरणार्थे ण्यन्तप्रक्रियायाम् अपि प्रयुक्ताः | अत्रापि तिङन्तरूपस्य साधनार्थं सोपानत्रयम्—
१. धातुः + णिच्-प्रत्ययः → णिजन्तधातुः
२. णिजन्तधातुः + शप्-विकरणप्रत्ययः → अङ्गम् (तिङ्-प्रत्ययं निमित्तं मत्वा)
३. अङ्गम् + तिङ्-प्रत्ययः → तिङन्तरूपम्
अत्रापि णिच्-प्रत्ययस्य संयोजनेन तस्य निमित्तत्वात् प्रमुखकार्यत्रयं सम्भवति औपदेशिकधातोः स्वरूपम् अनुसृत्य—
१. अचो ञ्णिति (७.२.११५) = अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अचः अङ्गस्य नाम न केवलम् अच् इत्यङ्गस्य, अपि तु अजन्तस्य अङ्गस्य | अलोऽन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः | ञ् च ण् च ञ्णौ, ञ्णौ इतौ यस्य तत् ञ्णित्, तस्मिन् ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अचः अङ्गस्य वृद्धिः ञ्णिति |
प्रेरणार्थकणिचि यथा नी + णिच् → नै + इ → नायि → नाययति |
२. अत उपधायाः (७.२.११६) = उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे | अतः षष्ठ्यन्तम्, उपधायाः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः; अचो ञ्णिति (७.२.११५) इत्यस्मात् ञ्णिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति |
प्रेरणार्थकणिचि यथा पठ् + णिच् → पाठि → पाठयति
३. पुगन्तलघूपधस्य च (७.३.८६) = सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति | पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघूपधम् | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्, च अव्ययपदं, द्विपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यस्मात् परिभाषा-सूत्रात् इकः आयाति यत्र स्थानी नोक्तम् | अनुवृत्ति-सहितसूत्रम्— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
प्रेरणार्थकणिचि यथा लिख् + णिच् → लेखि → लेखयति
चुरादिगणे प्रेरणार्थे वैशिष्ट्यम्
चुरादिगणे णिच्-प्रत्ययः स्वार्थे विधीयते एव चुर् + णिच् → चोरि; तदा प्रेरणार्थे विवक्षा भवति चेत्, द्वितीयः णिच्-प्रत्ययः विधीयते चोरि + णिच् | अस्यां दशायां किं भवति इत्यस्य निर्णयार्थं सूत्रम् इदम्—
णेरनिटि (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात् णिङ्, णिच् द्वयोः ग्रहणम्; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तं, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अतो लोपः (६.४.४८) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— णेः लोपः अनिटि आर्धधातुके |
णिच्-प्रत्ययः वलादिः नास्ति इति कारणतः तस्य इडागमो न कदापि भवति | अनेन चुरादिगणे कश्चन णिजन्तधातुः अस्ति चेत्, प्रेरणार्थे यदा द्वितीयः णिच्-प्रत्ययः विधीयते, तदा प्रथमणिचः (स्वार्थिकणिचः) लोपो भवति | अतः एकस्मिन् धातौ णिच् केवलं एकैव वारं सम्भवति | द्वितीयवारं णिचः विधानं भवति किन्तु णेरनिटि (६.४.५१) इत्यनेन प्रथमस्य लोपो भवति | अतः चुरादिगणे स्वार्थिकणिचः प्रेरणार्थकणिचः तिङन्तरूपं समानम् |
चुर् → सत्यापपाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच् (३.१.२५) इत्यनेन चुरादिगणे णिच्-प्रत्ययः विधीयते स्वार्थे → चुर् + णिच् → चोरि स्वार्थे → हेतुमति च (३.१.२६) इत्यनेन प्रेरणार्थे णिच् → चोरि + णिच् → चोरि + इ → णेरनिटि (६.४.५१) इत्यनेन प्रथम-णिचः लोपः → चोर् + इ → चोरि प्रेरणार्थे
सामान्यधातूनां समग्रप्रक्रियाचिन्तनम्
क्रमेण अजन्तधातवः (अकारान्ताः, आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः, एजन्ताः), तदा हलन्तधातवः (अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, अवशिष्टाः) अस्माभिः परिशील्यते | अकारान्तधातवः (इत्युक्ते अदन्ताः) हलन्तधातुषु पश्येम यतोहि तेषां अकारलोपः भवति अतः ते हलन्तधातुभिः तुल्याः |
अस्मिन् करपत्रे सामान्यधातूनाम् आलोचना क्रियते; अग्रिमे करपत्रे विशेषधातवः परिशील्यन्ते |
A. अजन्तधातवः
१. आकारान्तधातवः
अ) पुगागम-सहिताः ण्यन्तधातवः
अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) = ऋ, ह्री, व्ली, री, क्नूयी, क्ष्मायी, एभ्यः धातुभ्यः अपि च आकारान्तधातुभ्यः पुक्-आगमः भवति, णिच्-प्रत्यये परे | एषां धातूनां पुक्-आगमः णौ (णि इत्यस्य सप्तम्यन्तम्), णि इत्युक्ते णिच् इत्यतः णिच्-प्रत्यये परे इत्यर्थः | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन धातोः परम् आयाति अयं पुगागमः | पुक् इत्यस्मिन क्, उ इत्यनयोः इत्-संज्ञा लोपश्च; प् अवशिष्यते | अर्तिश्च ह्रीश्च व्लीश्च रीश्च क्नूयीश्च क्ष्मायीश्च आच्च तेषामितरेतर्द्वन्द्वः, अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातः तेषाम् | अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां षष्ठ्यन्तं, पुक् प्रथमान्तं, णौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अर्तिह्रीव्लीरीक्नूयीक्ष्माय्याताम् अङ्गानां पुक् णौ |
सामान्येषु चुरादिगणीयधातुषु ज्ञा-धातुः एकैव आकारान्तधातुः, स च अस्माभिः दृष्टः | इदानीं प्रेरणार्थकणिचि आकारान्ताः यथा दा, धा इति | णिच् इत्यस्मिन् ण्, च् इत्यनयोः इत्-संज्ञा, पुक् इत्यस्मिन् उ, क् इत्यनयोः इत्-संज्ञा, लोपश्च |
दा + णिच् → दा + पुक् + इ → दा + प् + इ → दापि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा → दापि + शप् + ति → दापयति
धा + णिच् → धा + पुक् + इ → धा + प् + इ → धापि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा → धापि + शप् + ति → धापयति
धातुपाठे यावन्तः आकारान्तधातवः, तेषां सर्वेषां पुगागमो भवति |
धेयं यत् दापि, धापि इव पाठि, लेखि अपि यः कोऽपि णिजन्तः, सनाद्यन्ता धातवः (३.१.३२) इति सूत्रेण धातुसंज्ञां प्राप्नोति | यत्र धातुः जातः, तत्र विवक्षायां लट्, लोट्, लङ्, विधिलिङ् लकाराः विधीयन्ते, तेषां स्थाने तिङ्-प्रत्ययाः, तदा कर्तरि शप् इत्यनेन शप् विहितः, अन्ते वर्णमेलनेन तिङन्तरूपं निष्पन्नम् | दापि, धापि इत्यादयः णिजन्तधातवः नूतनतया धातुसंज्ञां यदि न प्राप्स्यन्, तर्हि तिबादयः तिङ्-प्रत्ययाः विहिताः नाभविष्यन् |
दापि इकारान्तधातुः अस्ति | शपः परत्वात् दापि + अ | सार्वधातुकार्धधातुकयोः इत्यनेन गुणः दापे, एचोऽयवायावः इत्यनेन अय् आदेशः दापय् + अ → दापय इति अङ्गम् |
एवमेव णिजन्तधातवः सर्वे इकारान्ताः— पाठि, लेखि, गमि, निन्दि, क्षालि— अतः सर्वत्र अयमेव चिन्तनक्रमः | अग्रे गत्वा अस्मिन् करपत्रे, बोध्यं यत् सर्वत्र धातोः व्युत्पत्त्यनन्तरं सार्वधातुकार्धधातुकयोः, एचोऽयवायावः इत्याभ्याम् अङ्गं, तदा तिङः योजनेन तिङन्तपदं निष्पन्नम् |
आ) एजन्तधातवः—सर्वे आकारान्तधातवः भवन्ति
आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— एचः धातोः आत् उपदेशे अशिति |
यथा—
ग्लै → ग्ला
म्लै → म्ला
ध्यै → ध्या
शो → शा
सो → सा
वे → वा
छो → छा
अतः णिच्-प्रकरणे एजन्तधातवः आकारान्ताः एव इति अवगम्यताम् | आकारान्ताः इति कारणतः अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ इत्यनेन पुगागमः भवति इति सामान्यनियमः |
यथा—
ग्लै + णिच् → ग्ला + इ → ग्ला + पुक् + इ → ग्ला + प् + इ → ग्लापि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा → ग्लापि + शप् + ति → ग्लापयति
तथैव म्लै → म्लापयति, ध्यै → ध्यापयति, गै → गापयति, रै → रापयति, खै → खापयति
परन्तु केषाञ्चित् एजन्तानां च आकारान्तानां च युक् भवति न तु पुक्—
इ) युक्-आगमः (पुक्-आगम-अपवादः)
शाच्छासाह्वाव्यावेपां युक् (७.३.३७) = शो, छो, सो, ह्वे, व्ये, वे, पै इत्येषां धातूनां युक्-आगमो भवति णिचि परे | पुगागमस्य अपवादः | शाश्च, छाश्च, साश्च, ह्वाश्च, व्याश्च, वेश्च, पाश्च, तेषामितरेतरयोगद्वन्द्वः, शाच्छासाह्वाव्यावेपाः तेषां, शाच्छासाह्वाव्यावेपाम् | शाच्छासाह्वाव्यावेपां षष्ठ्यन्तं, युक् प्रथमान्तं, द्विपदमिदं सूत्रम् | अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इत्यस्मात् णौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— शाच्छासाह्वाव्यावेपाम् अङ्गानां युक् णौ |
आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन एषाम् एजन्तधातूनाम् आत्त्वम् | शो, छो, सो, ह्वे, व्ये, वे, पै |
शो तनूकरणे (कृशं करोति, श्यति) → शा + युक् + णिच् → शायि → शाययति
छो छेदने (छ्यति) → छा + युक् + णिच् → छायि → छाययति
षो अन्तकर्मणि (समापनं करोति, स्यति) → सा + युक् + णिच् → सायि → साययति
ह्वेञ् स्पर्धायां शब्दे च (आह्वयति) → ह्वा + युक् + णिच् → ह्वायि → ह्वाययति
व्येञ् संवरणे (आच्छादयति, व्ययति) → व्या + युक् + णिच् → व्यायि → व्याययति
वेञ् तन्तुसन्ताने (कुविन्दस्य कार्यम्, वयति) → वा + युक् + णिच् → वायि → वाययति
पै शोषणे (शुष्कं करोति, पायति) → पा + युक् + णिच् → पायि → पाययति
पा पाने → पा + युक् + णिच् → पायि → पाययति
२. इकारान्तधातवः, ईकारान्तधातवः च
अचो ञ्णिति (७.२.११५) इत्यनेन एषां धातूनाम् अन्त्यस्य इकारस्य ईकारस्य च वृद्धिः | तदा एचोऽयवायावः इत्यनेन अय्, आय् च आदेशः |
यथा—
नी + णिच् → नै + इ → नाय् + इ → नायि → सनाद्यन्ता धातवः → नायि + शप् + ति → नाययति
धातुपाठे यावन्तः इकारान्ताः ईकारान्ताः च धातवः सन्ति, तेषां सर्वेषाम् एवमेव क्रमो भवति |
३. उकारान्तधातवः, ऊकारान्तधातवः च
अचो ञ्णिति (७.२.११५) इत्यनेन एषां धातूनाम् अन्त्यस्य उकारस्य ऊकारस्य च वृद्धिः | तदा एचोऽयवायावः इत्यनेन अव्, आव् च आदेशः |
यथा—
भू + णिच् → भौ + इ → भाव् + इ → भावि → सनाद्यन्ता धातवः → भावि + शप् + ति → भावयति
लू + णिच् → लौ + इ → लाव् + इ → लावि → सनाद्यन्ता धातवः → लावि + शप् + ति → लावयति
पू + णिच् → पौ + इ → पाव् + इ → पावि → सनाद्यन्ता धातवः → पावि + शप् + ति → पावयति
द्रु + णिच् → द्रौ + इ → द्राव् + इ → द्रावि → सनाद्यन्ता धातवः → द्रावि + शप् + ति → द्रावयति
धातुपाठे यावन्तः उकारान्ताः ऊकारान्ताः च धातवः सन्ति, तेषां सर्वेषाम् एवमेव क्रमो भवति |
४. ऋकारान्तधातवः, ॠकारान्तधातवः च
अचो ञ्णिति (७.२.११५) इत्यनेन एषां धातूनाम् अन्त्यस्य ऋकारस्य ॠकारस्य वा वृद्धिः |
यथा—
कृ + णिच् → कार् + इ → कारि → सनाद्यन्ता धातवः → कारि + शप् + ति → कारयति
हृ + णिच् → हार् + इ → हारि → सनाद्यन्ता धातवः → हारि + शप् + ति → हारयति
तॄ + णिच् → तार् + इ → तारि → सनाद्यन्ता धातवः → तारि + शप् + ति → तारयति
धातुपाठे यावन्तः ऋकारान्ताः ॠकारान्ताः च धातवः सन्ति, तेषां सर्वेषाम् एवमेव क्रमो भवति |
B. हलन्तधातवः
१. अदुपधधातवः
अत उपधायाः (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः |
पठ् + णिच् → पाठि → पाठयति
वद् + णिच् → वादि → वादयति
पत् +णिच् → पाति → पातयति
नट् + णिच् → नाटि → नाटयति
धातुपाठे यावन्तः अदुपधधातवः सन्ति, तेषां सर्वेषाम् एवमेव क्रमो भवति |
२. इदुपधधातवः
पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः |
लिख् + णिच् → लेख् + इ → लेखि → लेखयति
छिद् + णिच् → छेद् + इ → छेदि → छेदयति
धातुपाठे यावन्तः इदुपधधातवः सन्ति, तेषां सर्वेषाम् एवमेव क्रमो भवति |
३. उदुपधधातवः
पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः |
बुध् + णिच् → बोध् + इ → बोधि → बोधयति
मुद् + णिच् → मोद् + इ → मोदि → मोदयति
धातुपाठे यावन्तः उदुपधधातवः सन्ति, तेषां सर्वेषाम् एवमेव क्रमो भवति |
४. ऋदुपधधातवः
पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः |
कृष् + णिच् → कर्ष् + इ → कर्षि → कर्षयति
वृष् + णिच् → वर्ष् + इ → वर्षि → वर्षयति
धातुपाठे यावन्तः ऋदुपधधातवः सन्ति, तेषां सर्वेषाम् एवमेव क्रमो भवति |
५. शेषधातवः
कार्यं नास्ति यतोहि उपधायाम् अत् अपि नास्ति, लघु इक् अपि नास्ति |
बुक्क् + णिच् → बुक्क् + इ → बुक्कि → बुक्कयति
एध् + णिच् → एध् + इ → एधि → एधयति
इति सामान्यधातूनां ण्यन्तव्यवस्था | अग्रिमे करपत्रे विशेषाः अजन्तधातवः वीक्ष्यन्ते |
Swarup – May 2013 (Updated April 2017)