10 - धातुपाठे हल्-सन्धिः ३
एतावता अस्माभिर्दृष्टं यत् धातुपाठे हलन्तधातुभ्यः सादिः, तादिः, थादिः, धादिः च प्रत्ययः विहितः चेत् हल्-सन्धिर्भवति; प्रत्ययः वादिः, मादिः, नादिः चेदपि कुत्रचित् भवति | प्रथमे पाठे हलन्तेभ्यो धातुभ्यो लङ्-लकारस्य त्-प्रत्ययः स्-प्रत्ययश्चेत्यनयोः योजनविधिः अवलोकितः | द्वितीये पाठे हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः (लङ्-लकारस्य स्-प्रत्ययम् अतिरिच्य) अवलोकितः | अधुना तृतीये पाठे हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्-लकारस्य त्-प्रत्ययम् अतिरिच्य) परिशीलयाम |
A. विधयः चतुर्षु विभागेषु विभक्तः
१. हलन्तेभ्यो धातुभ्यो लङ्-लकारस्य त्-प्रत्ययः स्-प्रत्ययश्चेत्यनयोः योजनविधिः
२. हलन्तेभ्यो धातुभ्यस् सकारादिप्रत्ययानां योजनविधिः (लङ्-लकारस्य स्-प्रत्ययम् अतिरिच्य)
३. हलन्तेभ्यो धातुभ्यस् तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्-लकारस्य त्-प्रत्ययम् अतिरिच्य)
४. हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः
तर्हि चतुर्षु अयं पाठः तृतीयः | हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्-लकारस्य त्-प्रत्ययम् अतिरिच्य) परिशील्यते |
B. हलन्तधातुभ्यः तादिप्रत्ययः थादिप्रत्ययः चेत् अष्ट सम्भावनाः
एषु अष्टसु विभागेषु स्मरणीयं यत्— (१) तकारथकारौ खर्-प्रत्याहारे स्तः, अतः बहुत्र खरि च (८.४.५५) इत्यनेन चर्त्वसन्धेः प्रसङ्गः; (२) तकारथकारौ झल्-प्रत्याहारे स्तः, अतः यत्र 'झलि' इति सूत्रेषु अनुवर्तते, तत्र तकारे थकारे च परे सूत्रस्य प्रसङ्गः |
1. धात्वन्ते वर्गस्य प्रथमः, द्वितीयः, तृतीयः वर्णः एषु अन्यतमश्चेत्, धात्वन्ते चर्त्वम् [खरि च] |
- क्, ख्, ग् → क् [खरि च]
- लेलेख् + ति → लेलेक् + ति → लेलेक्ति
- च्, ज् → क् [चोः कुः, खरि च] |
- भुंज् + तः → भुङ्ग् + तः → भुङ्क् + तः → भुङ्क्तः
- किन्तु व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज् → ष् [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः]
- यायज् + ति → यायष् + ति → यायष्टि
- वाव्रश्च् + ति → वाव्रच् + ति → वाव्रष् + ति → वाव्रष्टि
- ट्, ठ्, ड् → ट् [खरि च]
- ईड् + ते → ईड् + टे → ईट् + टे → ईट्टे
- त्, थ्, द् → त् [खरि च]
- अद् + ति → अत् + ति → अत्ति
- झरो झरि सवर्णे इत्यनेन हल्-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे |
- छिंद् + तः → खरि च → छिन्त् + तः → छिन्त्तः / छिन्तः]
- प्, फ्, ब् → प् [खरि च]
- तेप् + ता → तेप्ता
2. धात्वन्ते वर्गस्य चतुर्थवर्णः चेत्, प्रत्ययादौ त्, थ् इत्यनयोः धकारः [झषस्तथोर्धोऽधः], धात्वन्ते जश्त्वम् [झलां जश् झशि] |
- दोघ् + ति → झषस्तथोर्धोऽधः → दोघ् + धि → झलां जश् झशि → दोग् + धि → दोग्धि
3. नकारान्त-मकारान्त-धातुभ्यः कित्-ङित्-प्रत्ययः चेत् धातोः उपधायाः दीर्घत्वम् [अनुनासिकस्य क्विझलोः क्ङिति] |
- शम् + क्त → शाम् + त → शान्त
- किन्तु पञ्चदशानां धातूनां अनुनासिकलोपः [अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति] |
- हन् + तः → हतः | गम् + तः → गतः |
- सन्धिकार्यम् [नश्चापदान्तस्य झलि, अनुस्वारस्य ययि परसवर्णः] | शाम् + तः → शान्तः | गम् + ता → गन्ता |
4. यकारान्तधातूनां यकारलोपः [लोपो व्योर्वलि]
- जाहय् + ति → जाहति
5. धात्वन्ते शकारः चेत् श् → ष् [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः], तदा तकारथकारयोः ष्टुत्वम् |
- वश् + ति → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः → वष् + ति → ष्टुना ष्टुः → वष्टि
6. धात्वन्ते षकारः चेत् ष्टुत्वम् एव |
- द्वेष् + ति → ष्टुना ष्टुः → द्वेष् + टि → द्वेष्टि
7. धात्वन्ते सकारः चेत् वर्णमेलनम् |
- आस् + ते → आस्ते
8. धात्वन्ते हकारः चेत् ह् → ढ् → लोपः, तकारथकारयोः ढकारः [हो ढः, झषस्तथोर्धोऽधः, ष्टुना ष्टुः, ढो ढे लोपः] | लिह् + ता → लेढा |
- ढकारस्य लोपानन्तरं पूर्वस्थितस्य अण् (अ, इ, उ) इत्यस्य दीर्घादेशः [ढ्रलोपे पूर्वस्य दीर्घोऽणः]
- लिह् + तः → लिढ् + तः → लिढ् + धः → लिढ् + ढः → लि + ढः → ढ्रलोपे पूर्वस्य दीर्घोऽणः → ली + ढः → लीढः
- दकारादि-हकारान्तधातोः ह् → ग्, तकारथकारयोः धकारः [दादेर्धातोर्घः, झषस्तथोर्धोऽधः, झलां जश् झशि]
- दुह् + ति → दोह् + ति → दोघ् + ति → दोघ् + धि → दोग् + धि → दोग्धि
- द्रुह्, मुह्, ष्णुह्, ष्णिह् इत्येषां वा ह् → ग्, तकारथकारयोः धकारः [वा द्रुहमुहष्णुहष्णिहाम्, झषस्तथोर्धोऽधः, झलां जश् झशि] | घ्-अभावे ह् → ढ् → लोपः |
- द्रुह् + ता → द्रोह् + ता → द्रोघ् + ता → द्रोघ् + धा → द्रोग् + धा → द्रोग्धा
- सह् वह् इति धात्वोः ह् → ढ् → लोपः, तकारथकारयोः ढकारः, अ → ओ | [सामान्यं + सहिवहोरोदवर्णस्य]
- सह् + तुमुन् → सह् + तुम् → सढ् + तुम् → सढ् + धुम् → सढ् + ढुम् → स + ढुम् → सो + ढुम् → सोढुम्
- नह्-धातोः ह् → द्, तकारथकारयोः धकारः [नहो धः, झषस्तथोर्धोऽधः, झलां जश् झशि]
- नह् + ता → नहो धः → नध् + ता → झषस्तथोर्धोऽधः → नध् + धा → झलां जश् झशि → नद् + धा → नद्धा
C. अग्रे खण्डशः प्रत्येकं विभागं परिशील्यते—
1. वर्गस्य प्रथमः, द्वितीयः, तृतीयः वर्णः प्राक् अपि च त् थ् वा परे चेत्, खरि च
धातोः अन्तिमवर्णः वर्गस्य प्रथमः, द्वितीयः, तृतीयः वा चेत्, अपि च प्रत्ययादौ त् थ् वा चेत्, चर्त्वसन्धिं करोतु |
खरि च (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | झलां जश् झशि इत्यस्मात् झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च इत्यस्मात् चर्च इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्— झलां चर् खरि च संहितायाम् |
वयं जानीमः यत् खरि च इत्यनेन खर् (त्, थ्, स्) परे अस्ति चेत्, पूर्वतनवर्गीयव्यञ्जनस्य प्रथमसदस्यादेशः (चर् आदेशो) भवति | यत्र प्राक् प्रथमो द्वितीयस्तृतीयो वा वर्णोऽस्ति, अपि च परे त्, थ् वा अस्ति, तत्र अस्माकं प्रथमं कार्यं चर्त्वम् एव | (चतुर्थो वर्णश्चेत् कार्यं भिन्नम्; तद् अनन्तरम् अवलोकयाम |) अत्र क्रमेण सर्वान् वर्गान् परिशीलयाम—
- क्, ख्, ग् → क् [खरि च]
खरि च (८.४.५५) इत्यनेन प्रथमादेशो भवति | यथा—
शशक् + ति → शशक् + ति → शशक्ति
शशक् + थः → शशक् + थः → शशक्थः
लेलेख् + ति → लेलेक् + ति → लेलेक्ति
लेलेख् + थः → लेलेक् + थः → लेलेक्थः
तात्वङ्ग् + ति → तात्वङ्क् + ति → तात्वङ्क्ति
तात्वङ्ग् + थः → तात्वङ्क् + थः → तात्वङ्क्थः
- चवर्गस्य समूहत्रयम् १)
१. चकारजकारयोः सामान्यम् = च्, ज् → क् [चोः कुः, खरि च]
रिंच् + तः → चोः कुः (८.२.३०) इत्यनेन कुत्वम् → रिङ्क् + तः → रिङ्क्तः
रिंच् + थः → चोः कुः (८.२.३०) इत्यनेन कुत्वम् → रिङ्क् + थः → रिङ्क्थः
भुंज् + तः → चोः कुः (८.२.३०) इत्यनेन कुत्वम् → भुंग् + तः → खरि च (८.४.५५) → भुंक् + तः → भुङ्क् + तः → भुङ्क्तः
भंज् + थः → चोः कुः (८.२.३०) इत्यनेन कुत्वम् → भुंग् + थः → खरि च (८.४.५५) → भुंक् + थः → भुङ्क् + थः → भुङ्क्थः
चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चोः कुः झलि पदस्य अन्ते च |
२. व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज् इति चवर्गान्तधातवः चेत्, षकारादेशो भवति
उपरितनेषु विशिष्टोक्तेषु धातुषु अन्यतमः चेत्, षकारादेशो भवति | तदा ष्टुना ष्टुः (८.४.४१) इत्यनेन प्रत्ययादौ त्-स्थाने ट्, अपि च थ्-स्थाने ठ् | यथा—
यायज् + ति → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम् → यायष् + ति → ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वम् → यायष्टि
व्रश्च्, भ्रस्ज् इति धात्वोः अन्ते संयोगः अस्ति अपि च संयोगस्य प्रथमसदस्यः सकारः, अतः स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन सकारस्य लोपो भवति | धेयं यत् वाव्रश्च्-धातोः उपधायां यः शकारः सः मूले सकारः | तदा स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन चकारस्य प्रभावेन सकारस्य श्चुत्वेन शकारः जातः | मूले सकारः इति कारणतः स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्य प्रसक्तिरस्ति |
वाव्रश्च् + ति → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन झलि परे संयोगस्य आदौ स्थितस्य सकारस्य लोपः → वाव्रच् + ति → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम् → वाव्रष् + ति → ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वम् → वाव्रष्टि
वाव्रश्च् + थः → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन स्-लोपः → वाव्रच् + थः → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम् → वाव्रष् + थः → ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वम् → वाव्रष्ठः
एवमेव—
वाव्रश्च् + ति → वाव्रष्टि वाव्रश्च् + थः → वाव्रष्ठः
बाभ्रस्ज् + ति → बाभ्रष्टि बाभ्रस्ज् + थः → बाभ्रष्ठः
यायज् + ति → यायष्टि यायज् + थः → यायष्ठः
राराज् + ति → राराष्टि राराज् + थः → राराष्ठः
बाभ्राज् + ति → बाभ्राष्टि बाभ्राज् + थः → बाभ्राष्ठः
मृज्-सृज्-धात्वोः अपि कार्यं तदेव; मृज्-धातोः वृद्धिः अपि भवति, सृज्-धातोः अम्-आगमः—
मृज् + ति → मृजेर्वृद्धिः (७.२.११४) → मार्ज् + ति → मार्ष्टि
मृज् + थः → अपित्त्वात् गुणनिषेधः → मृष्ठः
सरीसृज् + ति → सृजिदृशेर्झल्यमकिति (६.१.५८) इत्यनेन अम्-आगमः → सरीसृ-अ-ज् → इको यणचि इत्यनेन यण् → सरीस्रज् + ति → सरीस्रष्टि
सरीसृज् + थः → सरीस्रज् + थः → सरीस्रष्ठः
३. छकारान्तधातोः वर्गद्वयम्—
a) तुक्-सहित-छकारान्तधातुः इति चेत्, च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन शत्वं, तदा व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः इत्यनेन षत्वम् |
पाप्रच्छ् + ति → च्छ्वोः शूडनुनासिके च (६.४.१९) → पाप्रश् + ति → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → पाप्रष् + ति → पाप्रष्टि
एवमेव— पाप्रच्छ् + थः → पाप्रष्ठः
b) तुक्-सहित-छकारान्तधातुः नास्ति चेत्, चोः कुः (८.२.३०) इत्यनेन कुत्वम् |
वावाञ्छ् + ति → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रे तुक्-सहित-छकारः आवश्यकः अतः अस्य सूत्रस्य प्रसक्तिर्नास्ति → वावाञ्छ् + ति → चोः कुः (८.२.३०) इत्यनेन कुत्वम् → नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन झलि नकारस्य अनुस्वारादेशः → वावांख् + ति → खरि च (८.४.५५) → वावांक् + ति → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → वावाङ्क्ति
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, तुक्-सहित-छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श् च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |
च्छ्वोः शूडनुनासिके च (६.४.१९) = तुक्-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ् च व् च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श् च ऊठ् च तयोः समाहारद्वन्द्वः शूड् | झलां जशोऽन्ते (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— च्छ्वोः अङ्गस्य शूड् क्विझलोः अनुनासिके च |
ष्टुना ष्टुः (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | यथासंख्यमनुदेशः समानाम् (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम् अनुदेशिनां च यथाक्रमम् उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | ष् च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष् च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम् | स्तोः श्चुना श्चुः (८.४.४०) इत्यस्मात् स्तोः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— स्तोः ष्टुना ष्टुः संहितायाम् |
स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |
- ट्, ठ्, ड् → ट् [खरि च]
ष्टुना ष्टुः इत्यनेन प्रत्ययादौ त्-स्थाने ट्, अपि च थ्-स्थाने ठ् | तदा खरि च इत्यनेन प्रथमादेशो भवति | यथा—
ईड् + ते → ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वम् → ईड् + टे → खरि च (८.४.५५) इत्यनेन चर्त्वम् → ईट् + टे → ईट्टे
- त्, थ्, द् → त् [खरि च]
खरि च इत्यनेन प्रथमादेशो भवति | प्रत्ययादौ स्थितस्य त् थ् इत्यनयोः कोऽपि विकारो नास्ति | यथा—
अद् + ति → खरि च → अत् + ति → अत्ति
अद् + थः → खरि च → अत् + थः → अत्थः
छिंद् + तः → खरि च → छिन्त् + तः → छिन्त्तः / छिन्तः
छिंद् + थः → खरि च → छिन्त् + थः → छिन्त्थः / छिन्थः
अत्र छिन्त्तः, छिन्त्थः इत्यनयोः विकल्पेन तलोपं कृत्वा छिन्तः, छिन्थः भवतः | सूत्रमस्ति झरो झरि सवर्णे |
झरो झरि सवर्णे (८.४.६५) = हल्-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | हलो यमां यमि लोपः (८.४.६४) इत्यस्मात् हलः, लोपः चेत्यनयोः अनुवृत्तिः | झयो होऽन्यतरस्याम् (८.४.६२) इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम् |
उपरितनस्य सूत्रस्य कृते सावर्ण्यं नाम किमिति स्मरणीयम् |
तुल्यास्यप्रयत्नं सवर्णम् (१.१.९) = तालु-आदीनि स्थानानि, आभ्यन्तर-प्रयत्नाः, आभ्यां मानाभ्यां यस्य वर्णस्य येन वर्णेन सह तौल्यं, तयोः वर्णयोः सवर्णसंज्ञा स्यात् | सवर्णसंज्ञा विधायक-सूत्रम् | तुल्यः नाम सदृशः | आस्यम् [अस् + ण्यत्] नाम मुखे सञ्जायते यत् | तुल्यं च तुल्यश्च तुल्यौ, आस्यञ्च प्रयत्नश्च आस्यप्रयत्नौ, तुल्यौ आस्यप्रयत्नौ ययोः तत्तुल्यास्यपयत्नं, द्वन्द्वगर्भः बहुव्रीहिः | तुल्यास्यप्रयत्नं प्रथमान्तं, स्वर्णं प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— तुल्यास्यप्रयत्नं सवर्णम् |
वर्णद्वयं यदा मुखस्य समाने स्थाने, समानेन आभ्यन्तरप्रयत्नेन च उच्चार्यते, तदा तस्य वर्णद्वयस्य सवर्णसंज्ञा भवति | कस्यचित् वर्णस्य उच्चारणार्थं मुखे किञ्चन स्थानं भवति, मुखस्य अन्तः कश्चन प्रयत्नः भवति (आभ्यन्तरप्रयत्नः इति), अपि च मुखात् बहिः कश्चन प्रयत्नः भवति (बाह्यप्रयत्नः इति) | स्थानानि = कण्ठः, तालु, मूर्धा, दन्ताः, ओष्ठौ इत्यादिकम् | आभ्यन्तरप्रयत्नाः इत्युक्ते स्पृष्टः, ईषत्स्पृष्टः, ईषद्विवृतः, विवृतः संवृतः चेति | बाह्यप्रयत्नाः इत्युक्ते विवारः, संवारः, श्वासः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदात्तः, अनुदात्तः, स्वरितः चेति | धेयं यत् सावर्ण्यार्थं केवलं मुखस्य अन्तः यत् स्थानम् अपि च यः आभ्यन्तरप्रयत्नः सः, एते एव द्वे तत्त्वे अपेक्ष्येते | बाह्यप्रयत्नः अस्मिन् विषये नैवान्तर्भूतः | अनेन अ, आ अपि च सर्वे अष्टादश अकाराः इत्येषां सावर्ण्यं भवति | एषां वर्णानां स्थानं कण्ठः, आभ्यन्तरप्रयत्नः विवृतश्च |
यद्यपि कस्यचित् अवर्णस्य उदात्तसंज्ञा, कस्यचित् अनुदात्तसंज्ञा, तथापि स भेदः केवलं बाह्यप्रयत्नस्य अतः सावर्ण्यविषये नैव आयाति | तथैव क्, ख्, ग्, घ्, ङ् एतेषां पञ्चानां सवर्णसंज्ञा भवति | यद्यपि 'क'कारस्य बाह्यप्रयत्नः विवारः, श्वासः, अघोषः, अल्पप्राणः च अपि तु 'घ'कारस्य बाह्यप्रयत्नः संवारः, नादः, घोषः, महाप्राणः च—नाम द्वयोः वर्णयोः बाह्यप्रयत्नः नितरां भिन्नः, तथापि ककारघकारयोः सवर्णसंज्ञा भवति एव यतोहि मुखे स्थानं समानं (कण्ठः), आभ्यन्तरप्रयत्नः समानः (स्पृष्टः ) च | 'क'कारः 'च'कारः इत्यनयोः सवर्णसंज्ञा तु न भवति यतः यद्यपि आभ्यन्तरप्रयत्नः समानः (स्पृष्टः), तथापि मुखे स्थानं भिन्नं ('क'कारस्य कण्ठः, 'च'कारस्य तालु इति) | ककारङकारयोः सवर्णसंज्ञा भवति यतः मुखे स्थानं समानं (कण्ठः), आभ्यन्तरप्रयत्नः समानः (स्पृष्टः ) च | तयोः बाह्यप्रयत्नः भिन्नः यतः ङकारस्य कृते नासिकायाः प्रयोगो भवति, परञ्च स च भेदः मुखात् बहिर्वर्तते अतोऽत्र अप्रासङ्गिको विषय इति | 'अ'कारः 'क'कारः इत्यनयोः सवर्णसंज्ञा भवति वा ? नैव | द्वयोस्स्थानं समानं, परन्तु आभ्यन्तरप्रयत्नः भिन्नः ('अ'कारस्य विवृतः, 'क'कारस्य स्पृष्टः इति) |
अत्र सारांशः एवं यत् तकारथकारयोः सावर्ण्यम् अस्ति, अतः अधःस्थिते उदाहरणे तकारस्य विकल्पेन लोपो भवति—
छिंद् + थः → खरि च → छिन्त् + थः → छिन्त्थः / छिन्थः
- प्, फ्, ब् → प् [खरि च]
खरि च इत्यनेन प्रथमादेशो भवति | प्रत्ययादौ स्थितस्य त् थ् इत्यनयोः कोऽपि विकारो नास्ति | यथा—
छोप् + ता → खरि च → छोप्ता
तेप् + ता → तेप्ता
2. धात्वन्ते वर्गस्य चतुर्थवर्णः अपि च प्रत्ययादौ त् थ् वा चेत्, कार्यद्वयं वर्तते
धातोः अन्तिमवर्णः वर्गस्य चतुर्थसदस्यः चेत् झषन्तधातुरिति उच्यते | अत्र झषन्तधातुभ्यः तादि थादि च प्रत्ययानां योजनविधिः |
१) झषस्तथोर्धोऽधः इत्यनेन प्रत्ययादौ त्, थ् इत्यनयोः स्थाने धकारादेशो भवति |
झषस्तथोर्धोऽधः (८.२.४०) = झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ् च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम् अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथा | न धा, अधा नञ्तत्पुरुषः, तस्मात् अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्, अधः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |
२) तदा झलां जश् झशि इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशो भवति |
झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— झलां जश् झशि संहितायाम् |
यथा—
दोघ् + ति → झषस्तथोर्धोऽधः इत्यनेन प्रत्यये स्थितस्य तकारस्य स्थाने धकारः → दोघ् + धि → झलां जश् झशि इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशः → दोग् + धि → दोग्धि
तथैव—
लालभ् + ति → लालभ् + धि → लालब् + धि → लालब्धि
रुणध् + ति → रुणध् + धि → रुणद् + धि → रुणद्धि
जझर्झ् + ति → चोः कुः इत्यनेन कुत्वम् → जझर्घ् + ति → झषस्तथोर्धोऽधः → जझर्घ् + धि → झलां जश् झशि → जझर्ग् + धि → जझर्ग्धि
3. नकारान्त-मकारान्त-धातुभ्यः तकारादि-थकारादि-प्रत्ययानां योजनविधिः
नकारान्तधातुः मकारान्तधातुः वा चेत्, स च धातुः अनुनासिकधातुरिति उच्यते |
अत्र सोपानत्रयं वर्तते—
१. सर्वप्रथमं स च तकारादिप्रत्ययः / थकारादिप्रत्ययः कित्, ङित् वा अस्ति न वा इति निर्णेतव्यम् |
कित्-ङित् प्रत्ययाः यथा— क्त, क्तवतु, क्तिन्, तः (नाम तस् [तिप्, तस्, झि इत्येषु तस्] | तस् अपित् सार्वधातुकम् अतः ङिद्वत्)
कित्-ङित्-भिन्नाः यथा— तुमुन्, तव्य, ति |
तकारादिः/थकारादिः प्रत्ययः कित्-ङित् चेत्, द्वितीयसोपानम् आरोढव्यम् | तकारादिः/थकारादिः प्रत्ययः कित्-ङित् नास्ति चेत्, साक्षात् तृतीयसोपानं गन्तव्यम् |
२. तकारादिः/थकारादिः प्रत्ययः कित्-ङित् चेत्, अधस्तनम् अङ्गकार्यं करणीयम् |
a) सामान्यनियमः
अनुनासिकस्य क्विझलोः क्ङिति इत्यनेन झलादि-कित्-ङित्-प्रत्यये परे, अनुनासिकधातोः उपधायाः दीर्घत्वं भवति |
यथा—
शम् + क्त → शाम् + त → शान्त
वम् + क्त → वाम् + त → वान्त
अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि कित्ङित्-प्रत्यये परे | क्विश्च झल् तयोरितरेतरद्वन्द्वः क्विझलौ, तयोः क्विझलोः | क् च ङ् तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत् क्ङित्, तस्मिन् क्ङिति | अनुनासिकस्य षष्ठ्यन्तं, क्विझलोः सप्तम्यन्तं, क्ङिति च सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | नोपधायाः (६.४.७) इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति; यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन क्विझलोः क्ङिति इत्युक्तौ क्वि + झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल् स्यात्) | अनुवृत्ति-सहितसूत्रम्— अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः क्विझलोः क्ङिति |
हल्-सन्धि-पाठे क्वि इत्यस्य प्रसङ्गो नास्ति, किन्तु तस्य दृष्टान्तः दास्यते येन पूर्णसूत्रार्थः स्पष्टः स्यात् | केचन प्रत्ययाः सन्ति ये यदा प्रातिपदिकेभ्यः सुबन्तेभ्यः च विधीयन्ते, तदा नाम-धातुः निष्पद्यते | एषु क्विप्-प्रत्ययः अन्यतमः | क्विप्-प्रत्ययस्य सर्वापहार-लोपः भवति, नाम पूर्णप्रत्ययस्य लोपः | ककार: लशक्वतद्धिते (१.३.८) इत्यनेन, पकार: हलन्त्यम् (१.३.३) इत्यनेन तयोः इत्-संज्ञा भवति, तदा तस्य लोपः (१.३.९) इति सूत्रेण लोपः | इकारः केवलम् उच्चारनार्थम् | तदा वकारः एकाकी; तस्य च वेरपृक्तस्य (६.१.६७) इत्यनेन लोपः | तदानीं किमपि नावशिष्यते; किन्तु प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यनेन तस्य लक्षणं भवति एव | अतः यद्यपि तस्य लोपो जातः, किञ्च क्वि परे अस्ति इति बुध्यते |
इदम् + क्विप् → क्विप् इत्यस्य सर्वापहार-लोपः → इदम् → अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यनेन अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशः → इदाम् → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन तस्य धातु-संज्ञा → लटि इदाम् + शप् + तिप् → इदामति [= “he behaves like this one”]
राजन् + क्विप् → क्विप् इत्यस्य सर्वापहार-लोपः → राजन् → अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यनेन अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशः → राजान् → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन तस्य धातु-संज्ञा → लटि राजान् + शप् + तिप् → राजानति [= “he behaves like a king”]
b) विशेषनियमः
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) = वन्-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपो भवति झलादि-कित्ङित्-प्रत्यये परे | अनुदात्तः उपदेशे येषां ते, अनुदात्तोपदेशाः बहुव्रीहिः | तनोतिः आदिः येषां ते, तनोत्यादयः बहुव्रीहिः | अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च तेषामितरेतरद्वन्द्वः अनुदात्तोपदेशवनतितनोत्यादयः, तेषाम् अनुदात्तोपदेशवनतितनोत्यादीनाम् | क् च ङ् तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत् क्ङित्, तस्मिन् क्ङिति | अनुदात्तोपदेशवनतितनोत्यादीनां षष्ठ्यन्तम्, अनुनासिक इति लुप्तषष्ठीकं पदं, लोपः प्रथमान्तं, झलि सप्तम्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति (वनतिं विहाय 'अनुनासिक' इति पदं सर्वेषां विशेषणम्); अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः; यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन झलि क्ङिति इत्युक्तौ झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल् स्यात्) | अनुवृत्ति-सहितसूत्रम्— अनुनासिक-अनुदात्तोपदेशवनतितनोत्यादीनाम् अङ्गस्य लोपः झलि क्ङिति |
अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः | वन् धातुः (भ्वादिगणे), अनुनासिकान्त-अनुदात्तोपदेश-धातवः (यम्, रम्, नम्, गम्, हन्, मन्), अनुनासिकान्त-तनादि-धातवः (तनु, क्षिणु, क्षणु, ऋणु, तृणु, घृणु, वनु, मनु) | एषु धातुषु मन्-धातुः दिवादिगणे अस्ति; हन्-धातुः अदादिगणे अस्ति; अष्ट धातवः तनादिगणे सन्ति; अवशिष्टाः भ्वादौ एव | एषां धातूनां अन्ते स्थितस्य अनुनासिकस्य लोपो भवति झलादि-कित्ङित्-प्रत्यये परे | यथा—
हन् + तः → हतः हन् + थः → हथः [अदादिगणे विकरणं नास्ति]
गम् + तः → गतः जङ्गम् + थः → जङ्गथः [यङ्लुकि विकरणं नास्ति]
मन् + तः → मतः तन् + तः → ततः
रम् + तः → रतः यम् + तः → यतः
अत्र प्रश्नः उदेति, तनादिगणे नव अनुनासिकान्तधातवः सन्ति, किन्तु तेषु केवलम् अष्टौ धातवः अनेन सूत्रेण अनुनासिकलोपो भवति इत्युक्तम् | अन्तिमधातुः षणु (सन्) इति धातोः का गतिः ? अस्य धातोः अपि अनेन सूत्रेण कार्यं भवति स्म, किन्तु अपरेण सूत्रेण अयं धातुः साक्षात् उक्तः —
जनसनखनां सञ्झलोः (६.४.४२) = जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्-प्रत्यये परे झलादि-कित्ङित्-प्रत्यये परे च | अनुवृत्ति-सहितसूत्रम्— जनसनखनाम् अङ्गानाम् आत् झलि सञ्झलोः क्ङिति |
सन्-धातोः आत्त्वं भवति इति कारणतः अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यनेन तस्य अनुनासिकलोपो न भवति |
अन्यः प्रश्नः उदेति यत् अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इति सूत्रम् अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्य अपवादः वा ? अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इति सामान्यम्, अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इति विशेषः | यत्र यत्र अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्य प्रसक्तिः, तत्र तत्र अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्य अपि प्रसक्तिः; अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्य अन्यत्र लब्धावकाशः, अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्य अन्यत्र लब्धावकाशो नास्ति यतोहि पञ्चदशानां धातूनां स्थले अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्यापि प्रसक्तिः; तेषु पञ्चदशसु अपि यदि अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इति सूत्रं कार्यं कुर्यात्, अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इति सूत्रं निरवकाशं स्यात् | इति भाति; नाम अपवादभूतसूत्रम् अस्ति इति भाति | किन्तु वस्तुतस्तु नास्ति तथा | किमर्थम् ? द्वयोः सूत्रयोः एकत्र प्राप्तिः इति यदा कथ्यते, तदा द्वयोः कार्यस्थलं समानं भवेत्; अत्र किन्तु तथा नास्ति | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यनेन उपधा दीर्घः, अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यनेन अनुनासिकलोपः | कार्यस्थलभिन्नत्वात् अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्य कार्यानन्तरम् अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्य अवकाशो भवति | यथा गम् + तः → उपधादीर्घः → गाम् + तः → अनुनासिकलोपः → गातः इति अनिष्टं रूपं जायते | किन्तु अवकाशस्तु जातः | अनेन अपवादः वक्तुं न शक्यते | अतः गम् + तः इति स्थितौ अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) भवति परत्वात् न तु अपवादत्वात् | तथा सर्वत्र | शिक्षा अत्र एवं यत् अपवादस्य कृते कार्यं केवलं युगपत् इति न; कार्यस्थलं समानमपि भवेत् |
तर्हि येषां धातूनाम् अत्र नकारलोपो भवति, तेभ्यः इदम् अङ्गकार्यं कृत्वा अधस्तनं सन्धिकार्यं करणीयम् | (तकारादि / थकारादि प्रत्ययः कित्ङित् नास्ति चेत्, अङ्गकार्यम् अकृत्वा साक्षात् अधस्तनं सन्धिकार्यं करणीयम् |)
३) सन्धिकार्यम्
नकारान्तधातूनां मकारान्तधातूनां च तकारादि थकारादि च प्रत्यये परे, सन्धिद्वयं करणीयम्—
a) नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |
b) अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनुस्वारस्य ययि परसवर्णः संहितायाम् |
शाम् + तः → शान्तः
वाम् + तः → वान्तः
गम् + तुम् → गन्तुम्
दाम् + तः → दान्तः
गम् + ता → गन्ता
रम् + तुम् → रन्तुम्
4. यकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः
यकारान्तधातुभ्यः तकारादि थकारादि वा प्रत्ययः परे अस्ति चेत्, यकारस्य लोपो भवति लोपो व्योर्वलि इति सूत्रेण | यथा—
जाहय् + ति → जाहति
जाहय् + तः → जाहतः
जाहय् + थः → जाहथः
लोपो व्योर्वलि (६.१.६६) = वकारयकारयोः लोपो भवति वल्-प्रत्याहारे परे | व् च य् च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— व्योः लोपः वलि |
वकारान्तधातोः तकारादि थकारादि च प्रत्यये परे हल्सन्धिकार्यस्य अवसरः नास्ति | तत्र ऊठभावो भवति; स च ऊठ्भावः अङ्गकार्यं न तु सन्धिकार्यम् | इतोऽपि बोधनार्थं गतपाठः द्रष्टव्यः (सकारादिप्रत्यये परे ) |
5. शकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः
शकारान्तधातुभ्यः तादि थादि वा प्रत्यये परे—
१. शकारस्य स्थाने षकारादेशो भवति व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः इति सूत्रेण |
२. प्रत्ययादौ स्थितस्य तकारथकारयोः ष्टुत्वसन्धिना त्-स्थाने ट्, अपि च थ्-स्थाने ठ्-आदेशो भवतः |
यथा—
वश् + ति → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः इत्यनेन षत्वम् → वष् + ति → ष्टुना ष्टुः इत्यनेन ष्टुत्वम् → वष्टि
उश्+ थः → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः इत्यनेन षत्वम् → उष् + थः → ष्टुना ष्टुः इत्यनेन ष्टुत्वम् → उष्ठः
एवमेव—
ईश् + ते → ईष् + ते → ईष् + टे → ईष्टे
ऐश् + थाः → ऐष् + थाः → ऐष् + ठाः → ऐष्ठाः
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श् च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |
ष्टुना ष्टुः (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | यथासंख्यमनुदेशः समानाम् (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम् अनुदेशिनां च यथाक्रमम् उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | ष् च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष् च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम् | स्तोः श्चुना श्चुः (८.४.४०) इत्यस्मात् स्तोः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— स्तोः ष्टुना ष्टुः संहितायाम् |
6. षकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः
धात्वन्ते षकारस्य कोऽपि विकारो नास्ति | प्रत्ययादौ स्थितस्य तकारथकारयोः ष्टुत्वसन्धिना त्-स्थाने ट्, अपि च थ्-स्थाने ठ्-आदेशो भवतः | यथा—
द्वेष् + ति → ष्टुना ष्टुः इत्यनेन ष्टुत्वम् → द्वेष् + टि → द्वेष्टि
एवमेव—
द्विष् + थः → द्विष् + ठः → द्विष्ठः
अचष् + त → अचष् + ट → अचष्ट
अचष् + थाः → अचष् + ठाः → अचष्ठाः
7. सकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः
अत्र किमपि कार्यं नास्ति; केवलं वर्णमेलनम् | यथा—
आस् + ते → आस्ते
8. हकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः
अत्र मार्गः पञ्चप्रकारकः—सामान्यनियमः, चत्वारः विशेषाः च |
१. सामान्यनियमः
- तकारादि थकारादि च प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, हो ढः इत्यनेन सूत्रेण |
- प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्-आदेशो भवति झषस्तथोर्धोऽधः इति सूत्रेण |
- प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्-आदेशो भवति ष्टुना ष्टुः इति सूत्रेण |
- पूर्वतनस्य ढ्-लोपो भवति ढो ढे लोपः इति सूत्रेण |
लिह् + ता → पुगन्तलघूपधस्य च इत्यनेन गुणः → लेह् + ता → हो ढः इत्यनेन झलि परे ह्-स्थाने ढ्-आदेशः → लेढ् + ता → झषस्तथोर्धोऽधः इत्यनेन त्-स्थाने ध्-आदेशः → लेढ् + धा → ष्टुना ष्टुः इत्यनेन ष्टुत्वम् → लेढ् + ढा → ढो ढे लोपः इत्यनेन पूर्वतनस्य ढकारस्य लोपः → ले + ढा → लेढा
एवेमेव—
रुह् + ता → पुगन्तलघूपधस्य च → रोह् + ता → हो ढः → रोढ् + ता → झषस्तथोर्धोऽधः → रोढ् + धा → ष्टुना ष्टुः→ रोढ् + ढा → ढो ढे लोपः → रोढा
मिह् + ता → पुगन्तलघूपधस्य च → मेह् + ता → हो ढः → मेढ् + ता → झषस्तथोर्धोऽधः → मेढ् + धा → ष्टुना ष्टुः→ मेढ् + ढा → ढो ढे लोपः → मेढा
हो ढः (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हः ढः झलि पदस्य अन्ते च |
झषस्तथोर्धोऽधः (८.२.४०) = झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ् च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम् अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्तत्पुरुषः, तस्मात् अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्, अधः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |
ढो ढे लोपः (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— ढः ढे लोपः |
विशेषः—
ढ्, र् इत्यनयोर्लोपानन्तरं तयोः पूर्वस्थितस्य अण् (अ, इ, उ) इत्यस्य दीर्घादेशो भवति | यथा—
लिह् + तः → हो ढः → लिढ् + तः → झषस्तथोर्धोऽधः → लिढ् + धः → ष्टुना ष्टुः→ लिढ् + ढः → ढो ढे लोपः → लि + ढः → ढ्रलोपे पूर्वस्य दीर्घोऽणः इत्यनेन ढ् इत्यस्य लोपानन्तरं पूर्वस्थितस्य अणः दीर्घादेशः → ली + ढः → लीढः
ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ् च र् च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन् ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्, अणः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूरणम्— ढ्रलोपे पूर्वस्य अणः दीर्घः |
उपरि ढकारस्य उदाहरणं दृष्टम् | विसर्गसन्धौ रेफस्य प्रसिद्धोदाहरणम् | पुनः रमते → पुनर् + रमते → रो रि (८.३.१४, लघु० १११) इत्यनेन रेफस्य रेफे परे लोपः → पुन + रमते → ढ्रलोपे पूर्वस्य दीर्घोऽणः → पुना रमते | अस्मिन् वृत्तान्ते रेफः एव रेफस्य लोपस्य निमित्तम् | रेफलोपनिमित्तकरेफात् प्राक् अण्-प्रत्याहारे अन्यतमवर्णोऽस्ति (अकारः इति) अतः अणः दीर्घत्वं भवति |
२. दकारादि-हकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः
- तकारादि थकारादि च प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण |
- अधुना प्रत्ययः झष्-परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्-आदेशो भवति झषस्तथोर्धोऽधः इति सूत्रेण |
- अधुना धातु-परतः झश् अस्ति (धकारः), अतः धात्वन्ते घ्-स्थाने तृतीयादेशो भवति झलां जश् झशि इति सूत्रेण | जश्त्वसन्धिरिति |
दोह् + ति → दादेर्धातोर्घः इत्यनेन ह्-स्थाने घ्-आदेशः → दोघ् + ति → झषस्तथोर्धोऽधः इत्यनेन त्-स्थाने ध्-आदेशः → दोघ् + धि → झलां जश् झशि इत्यनेन घ्-स्थाने ग्-आदेशः → दोग् + धि → दोग्धि
एवमेव—
दुह् + थः → दादेर्धातोर्घः → दुघ् + थः → झषस्तथोर्धोऽधः → दुघ् + धः → झलां जश् झशि → दुग् + धः → दुग्धः
देह् + ति → दादेर्धातोर्घः → देघ् + ति → झषस्तथोर्धोऽधः → देघ् + धि → झलां जश् झशि → देग् + धि → देग्धि
दिह् + थः → दादेर्धातोर्घः → दिघ् + थः → झषस्तथोर्धोऽधः → दिघ् + धः → झलां जश् झशि → दिग् + धः → दिग्धः
दादेर्धातोर्घः (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम् | हो ढः (८.२.३१) इत्यस्मात् हः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— दादेः धातोः हः घः झलि पदस्य अन्ते च |
झषस्तथोर्धोऽधः (८.२.४०) = झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ् च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम् अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्तत्पुरुषः, तस्मात् अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्, अधः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |
झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— झलां जश् झशि संहितायाम् |
३. द्रुह्, मुह्, ष्णुह्, ष्णिह् एभ्यः चतुर्भ्यः धातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः
एभ्यः चतुर्भ्यः धातुभ्यः हकारस्य स्थाने विकल्पेन घकारो वा ढकारो वा भवति | यथा—
a) ह्-स्थाने घ्-आदेशः
- झलि परे धात्वन्ते ह्-स्थाने घ्-अदेशः वा द्रुहमुहष्णुहष्णिहाम् इति सूत्रेण |
- अधुना प्रत्ययः झष्-परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्-आदेशो भवति झषस्तथोर्धोऽधः इति सूत्रेण |
- अधुना धातु-परतः झश् अस्ति (धकारः), अतः धात्वन्ते घ्-स्थाने तृतीयादेशो भवति झलां जश् झशि इति सूत्रेण | जश्त्वसन्धिरिति |
द्रुह् + ता → पुगन्तलघूपधस्य च इत्यनेन गुणः → द्रोह् + ता → वा द्रुहमुहष्णुहष्णिहाम् → द्रोघ् + ता → झषस्तथोर्धोऽधः → द्रोघ् + धा → झलां जश् झशि→ द्रोग् + धा → द्रोग्धा
एवेमेव—
मुह् + ता → पुगन्तलघूपधस्य च → मोह् + ता → वा द्रुहमुहष्णुहष्णिहाम् → मोघ् + ता → झषस्तथोर्धोऽधः → मोघ् + धा → झलां जश् झशि→ मोग् + धा → मोग्धा
स्नुह् + ता → स्नोह् + ता → स्नोघ् + ता → स्नोघ् + धा → स्नोग् + धा → स्नोग्धा
स्निह् + ता → स्नेह् + ता → स्नेघ् + ता → स्नेघ् + धा → स्नेग् + धा → स्नेग्धा
वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३) = द्रुह्, मुह्, ष्णुह्, ष्णिह् एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च; घ्-अभावे हो ढः (८.२.३१) इत्यनेन ढकारादेशो भवति | द्रुहश्च मुहश्च ष्णुहश्च ष्णिहश्च तेषाम इतरेतर्तद्वान्द्वः, द्रुहमुहष्णुहष्णिहः, तेषां द्रुहमुहष्णुहष्णिहाम् | वा अव्ययपदं, द्रुहमुहष्णुहष्णिहां षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | हो ढः (८.२.३१) इत्यस्मात् हः, दादेर्धातोर्घः (८.२.३२) इत्यस्मात् घः, झलो झलि (८.२.२६) इत्यस्मात् झलि, स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्येषाम् अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— द्रुह-मुह-ष्णुह-ष्णिहाम् वा हः घः झलि पदस्य अन्ते च |
झषस्तथोर्धोऽधः (८.२.४०) = झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ् च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम् अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्तत्पुरुषः, तस्मात् अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्, अधः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |
झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— झलां जश् झशि संहितायाम् |
b) ह्-स्थाने ढ्-आदेशः
- झलि परे धात्वन्ते ह्-स्थाने ढ्-अदेशः हो ढः इति सूत्रेण |
- प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्-आदेशो भवति झषस्तथोर्धोऽधः इति सूत्रेण |
- प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्-आदेशो भवति ष्टुना ष्टुः इति सूत्रेण |
- पूर्वतनस्य ढ्-लोपो भवति ढो ढे लोपः इति सूत्रेण |
द्रुह् + ता → पुगन्तलघूपधस्य च इत्यनेन गुणः → द्रोह् + ता → हो ढः → द्रोढ् + ता → झषस्तथोर्धोऽधः → द्रोढ् + धा → ष्टुना ष्टुः→ द्रोढ् + ढा → ढो ढे लोपः → द्रो + ढा → द्रोढा
मुह् + ता → पुगन्तलघूपधस्य च → मोह् + ता → हो ढः → मोढ् + ता → झषस्तथोर्धोऽधः → मोढ् + धा → ष्टुना ष्टुः→ मोढ् + ढा → ढो ढे लोपः → मो + ढा → मोढा
स्नुह् + ता → स्नोह् + ता → स्नोढ् + ता → स्नोढ् + धा → स्नोढ् + ढा → स्नो + ढा → स्नोढा
स्निह् + ता → स्नेह् + ता → स्नेढ् + ता → स्नेढ् + धा → स्नेढ् + ढा → स्ने + ढा → स्नेढा
ढत्वं घत्वम् इति विषये
सावधानतया अत्र सूत्रक्रमं निरीक्षताम्—
हो ढः (८.२.३१)
दादेर्धातोर्घः (८.२.३२)
वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३)
प्रथमम् अस्ति हो ढः (८.२.३१) इति सामान्यसूत्रं; तदा दादेर्धातोर्घः (८.२.३२), प्रथमस्य अपवादः; तदा वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३), पुनः इतोऽपि विशेषम् | तत्र द्रुह्-धातोः विषये वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३) इति दादेर्धातोर्घः (८.२.३२) इत्यस्य बाधकम्— एकवारं यदा दादेर्धातोर्घः बाधितं, पुनः कार्यार्थं नागच्छति | अतः वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३) इत्यनेन 'वा' (विकल्पेन) घत्वं; यस्मिन् पक्षे अनेन घत्वं न भवति, तदा दादेर्धातोर्घः (८.२.३२) तत्र घत्वस्य साधनार्थं नागच्छति अपि तु हो ढः (८.२.३१) इत्यनेन ढत्वं भवति | फलितार्थे द्रुह् + ता → घत्वपक्षे द्रोग्धा, ढत्वपक्षे द्रोढा |
केचन पृच्छन्ति यत् द्रुह्-धातुः दकारादिहकारान्तधातुः अतः यदा वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३) इत्यनेन घत्वं न भवति, तदा दकारादिहकारान्तत्वात् दादेर्धातोर्घः (८.२.३२) इत्यनेन घत्वंं भवति यतोहि दादेर्धातोर्घः (८.२.३२), हो ढः (८.२.३१) इत्यस्य अपवादः; किन्तु तादृशं चिन्तनं दोषपूर्णम् | यदा वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३) इत्यनेन घत्वं न भवति, तदा हो ढः (८.२.३१) इत्यनेन ढत्वम् |
४. सह् वह् इति धातुभ्यां तकारादि थकारादि च प्रत्ययानां योजनविधिः
- तकारादि थकारादि च प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, हो ढः इत्यनेन सूत्रेण |
- अधुना प्रत्ययः झष्-परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्-आदेशो भवति झषस्तथोर्धोऽधः इति सूत्रेण |
- प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्-आदेशो भवति ष्टुना ष्टुः इति सूत्रेण |
- पूर्वतनस्य ढ्-लोपो भवति ढो ढे लोपः इति सूत्रेण |
- लुप्तढकारस्य पूर्ववर्तिनः अकारस्य ओकारादेशो भवति सहिवहोरोदवर्णस्य इति सूत्रेण | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्य अपवादः |
सह् + ता → हो ढः → सढ् + ता → झषस्तथोर्धोऽधः → सढ् + धा → ष्टुना ष्टुः → सढ् + ढा → ढो ढे लोपः → स + ढा → सहिवहोरोदवर्णस्य → सो + ढा → सोढा
एवमेव वह् + ता → वढ् + ता → वढ् + धा → वढ् + ढा → व + ढा → वो + ढा → वोढा
इदं धातुद्वयम् अतिप्रसिद्धम्—सह् (सहते), वह् (वहति) इति | तयोः तुमुन् रूपमपि प्रसिद्धम्—
सह् + तुमुन् → सह् + तुम् → सढ् + तुम् → सढ् + धुम् → सढ् + ढुम् → स + ढुम् → सो + ढुम् → सोढुम्
वह् + तुमुन् → वह् + तुम् → वढ् + तुम् → वढ् + धुम् → वढ् + ढुम् → व + ढुम् → वो + ढुम् → वोढुम्
सहिवहोरोदवर्णस्य (६.३.११२) = ढकारस्य लोपश्चेत्, सह् वह् इति धात्वोः अकारस्य स्थाने ओकारादेशो भवति | सहिश्च वह् च तयोरितरेतरद्वन्द्वः सहिवहौ, तयोः सहिवहोः | सहिवहोः षष्ठ्यन्तम्, ओत् प्रथमान्तम्, अवर्णस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात् ढलोपे इत्यस्य अनुवृत्तिः (रेफस्य कार्यं अत्र न भवति एव अतः सेफः नानीतः) | अनुवृत्ति-सहितसूत्रम्—सहिवहोः अवर्णस्य ओत् ढलोपे इति |
५. नह् धातुतः तकारादि थकारादि च प्रत्ययानां योजनविधिः
नह् + ता → नहो धः → नध् + ता → झषस्तथोर्धोऽधः → नध् + धा → झलां जश् झशि → नद् + धा → नद्धा
नहो धः (८.२.३४) = नह्-धातोः हकारस्य धकारादेशो भवति झलि पदान्ते च | नहः षष्ठ्यन्तं, धः प्रथमान्तं, द्विपदमिदं सूत्रम् | हो ढः (८.२.३१) इत्यस्मात् हः इत्यस्य अनुवृत्तिः | दादेर्धातोर्घः (८.२.३२) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— नहः धातोः हः धः झलि पदस्य अन्ते च |
इति हलन्तेभ्यो धातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः |
Swarup – October 2013 (Updated June 2016)
१० - धातुपाठे हल्-सन्धिः ३.pdf (129k) Swarup Bhai, Jul 15, 2020, 4:17 PM