06 - भ्वादिगणः
एतावता अस्माभिः अदन्तम् अङ्गं निर्मितम्, अपि च सार्वधातुकलकारेषु (लट्, लोट्, लङ्, विधिलिङ् इत्येषु) तिङ्-प्रत्ययाः साधिताः | तदा गते पाठे तयोः (अङ्ग-तिङ्प्रत्यययोः) संयोजनं कथं भवति परस्मैपदे आत्मनेपदे च इति अवलोकितम् | अधुना येषु धातुगणेषु अङ्गम् अदन्तं भवति (भ्वादौ, दिवादौ, तुदादौ, चुरादौ च), तेषां गणानां कृते क्रमेण समग्रं चिन्तनं करणीयम् | नाम प्रत्येकस्मिन् गणे यावन्तः धातवः सन्ति, तेषां सर्वेषां धातूनां कृते अङ्ग-निर्माण-विधिः अस्माभिः ज्ञायेत | प्रत्येकस्मिन् गणे अङ्गस्य सामान्य-चिन्तनं किं, विशेष-चिन्तनं किम् इति ज्ञेयम् | एकवारम् अङ्गं निर्मितं, ततः अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं (सिद्धतिङ्प्रत्ययाः के, अपि च अङ्ग-तिङ्प्रत्यय-संयोजनविधिः) अस्माभिः ज्ञायते एव | अतः आहत्य, अधुना केवलम् अदन्तम् अङ्गम् अपेक्ष्यते; हस्ते अङ्गम् अस्ति चेत्, लटि, लोटि, लङि, विधिलिङि च तिङन्तबुद्धिः प्राप्ता | सम्प्रति अस्मिन् पाठे भ्वादिगणीयाः धातवः परिशीलनीयाः, तदा अग्रिमेषु पाठेषु क्रमेण दिवादिगणः, तुदादिगणः, चुरादिगणः च अवलोकयिष्यन्ते |
स्मर्यते यत् तिङ्शित् सार्वधातुकम् (३.४.११३) इत्यनेन तिङ्-प्रत्ययाः सार्वधातुक-सज्ञकाः | तदा कर्तरि शप् (३.१.६८) इत्यनेन कर्त्रर्थे सार्वधातुकप्रत्यये परे, धातुतः शप्-प्रत्ययः विहितो भवति |
तिङ्शित् सार्वधातुकम् (३.४.११३) = यः प्रत्ययः तिङ् वा शित् वा अस्ति, सः प्रत्ययः सार्वधातुकम् | श् इत् यस्य सः शित्, बहुव्रीहिः | तिङ् च शित् च तयोः समाहारद्वन्द्वः तिङ्शित् | तिङ्शित् प्रथमान्तं, सार्वधातुकं प्रथमान्तं, द्विपदमिदं सूत्रम् | प्रत्ययः (३.१.१), परश्च (३.१.२), धातो: (३.१.९१) इत्येषाम् अधिकारः) | अनुवृत्ति-सहितसूत्रम्— धातोः परश्च तिङ्-शित् प्रत्ययः सार्वधातुकम् |
कर्तरि शप् (३.१.६८) = धातुतः शप्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | कर्तरि सप्तम्यन्तं, शप् प्रथमान्तं, द्विपदमिदं सूत्रम् | सार्वधातुके यक् (३.१.६७) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके |
तर्हि अस्माकं कुञ्चिका अस्ति अङ्गम्; अङ्गं ज्ञायते चेत्, लटि, लोटि, लङि, विधिलिङि च सर्वाणि रूपाणि ज्ञायन्ते |
यथा परस्मैपदे भू-धातुः, अङ्गम् अस्ति भू + शप् → भव |
लटि सिद्ध-प्रत्ययाः— लट्-लकारे तिङन्तरूपाणि—
ति तः अन्ति भवति भवतः भवन्ति
सि थः थ भवसि भवथः भवथ
मि वः मः भवामि भवावः भवामः
लोटि सिद्ध-प्रत्ययाः— लोट्-लकारे तिङन्तरूपाणि—
तु, तात् ताम् अन्तु भवतु / भवतात् भवताम् भवन्तु
०, तात् तम् त भव/भवतात् भवतम् भवत
आनि आव आम भवानि भवाव भवाम
लङि सिद्ध-प्रत्ययाः— लङ्-लकारे तिङन्तरूपाणि—
त् ताम् अन् अभवत् अभवताम् अभवन्
स् तम् त अभवः अभवतम् अभवत
अम् व म अभवम् अभवाव अभवाम
विधिलिङि सिद्ध-प्रत्ययाः— विधिलिङ्-लकारे तिङन्तरूपाणि—
इत् इताम् इयुः भवेत् भवेताम् भवेयुः
इः इतम् इत भवेः भवेतम् भवेत
इयम् इव इम भवेयम् भवेव भवेम
आत्मनेपदे वृत्-धातुः, अङ्गम् अस्ति वृत् + शप् → वर्त
लटि सिद्ध-प्रत्ययाः— लट्-लकारे तिङन्तरूपाणि—
ते इते अन्ते वर्तते वर्तेते वर्तन्ते
से इथे ध्वे वर्तसे वर्तेथे वर्तध्वे
ए वहे महे वर्ते वर्तावहे वर्तामहे
लोटि सिद्ध-प्रत्ययाः— लोट्-लकारे तिङन्तरूपाणि—
ताम् इताम् अन्ताम् वर्तताम् वर्तेताम् वर्तन्ताम्
स्व इथाम् ध्वम् वर्तस्व वर्तेथाम् वर्तध्वम्
ऐ आवहै आमहै वर्तै वर्तावहै वर्तामहै
लङि सिद्ध-प्रत्ययाः— लङ्-लकारे तिङन्तरूपाणि—
त इताम् अन्त अवर्तत अवर्तेताम् अवर्तन्त
थाः इथाम् ध्वम् अवर्तथाः अवर्तेथाम् अवर्तध्वम्
इ वहि महि अवर्ते अवर्तावहि अवर्तामहि
विधिलिङि सिद्ध-प्रत्ययाः— विधिलिङ्-लकारे तिङन्तरूपाणि—
ईत ईयाताम् ईरन् वर्तेत वर्तेयाताम् वर्तेरन्
ईथाः ईयाथाम् ईध्वम् वर्तेथाः वर्तेयाथाम् वर्तेध्वम्
ईय ईवहि ईमहि वर्तेय वर्तेवहि वर्तेमहि
अग्रे केवलम् अङ्गं च लट्-लकारस्य प्रथमपुरुषैकवचनान्तरूपं दीयेते | ततः चतुर्णां लकारणां सर्वाणि रूपाणि ज्ञायन्ते |
भ्वादिगणः (997 धातवः)
1. सामान्यधातवः
a. एषु धातुषु शपं निमित्तीकृत्य किमपि अङ्गकार्यं नास्ति— केवलं संयोजनम् (754 धातवः)
- इमे सर्वे धातवः न इगन्ताः न वा इगुपधाः अतः किमपि गुणकार्यं नास्ति |
- एषु धातुषु अदुपधधातवः (वद् इव) 237 सन्ति |
वद् + शप् → वद → वद + तिप् → वदति
मील् + शप् → मील → मील + तिप् → मीलति
मूष् + शप् → मूष → मूष + तिप् → मूषति
ओख् + शप् → ओख → ओख + तिप् → ओखति
अगि → इदितो नुम् धातोः (७.१.५८) → अन्ग् → अङ्ग् → अङ्ग् + शप् → अङ्ग + तिप् → अङ्गति
कुञ्च् + शप् → कुञ्च → कुञ्च + तिप् → कुञ्चति
अर्च् + शप् → अर्च → अर्च + तिप् → अर्चति
मेध् + शप् → मेध → मेध + तिप् → मेधति
वेल्ल् + शप् → वेल्ल → वेल्ल + तिप् → वेल्लति
धाव् + शप् → धाव → धाव + तिप् → धावति
b. इगन्तधातवः (39 धातवः)
इक् इति प्रत्याहारः | इ, ई, उ, ऊ, ऋ, ॠ येषां धातूनाम् अन्ते, ते इगन्तधातवः | शप् शित् अपि पित् अपि, अतः अङ्गस्य निर्माणार्थं भ्वादिगणीय-इगन्तधातूनां विकरणप्रत्यय-निमित्तकं गुणकार्यं भवति, तदा सन्धिकार्यं यथासङ्गम् |
सर्वेषाम् इगन्तधातूनां गुणकार्यम्—
जि + शप् → सार्वधातुकार्धधातुकयोः → जे + अ
भू + शप् → सार्वधातुकार्धधातुकयोः → भो + अ
हृ + शप् → सार्वधातुकार्धधातुकयोः → हर् + अ
तदा धात्वन्ते ए, ओ चेत्, यान्तवान्तसन्धिः—
जे + अ → एचोऽयवायावः इत्यनेन अय्-आदेशः → ज् + अय् + अ → जय
भो + अ → एचोऽयवायावः इत्यनेन अव्-आदेशः → भ् + अव् + अ → भव
ऋकारान्तः चेत्, केवलं वर्णमेलनम्—
हर्+ अ → हर
अनेन अङ्गं निर्मितम्— जय, भव, हर |
सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्, एकपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन 'इकः अङ्गस्य' इत्युक्ते न केवलम् इक् इति अङ्गं, किन्तु तादृशम् अङ्गं यस्य अन्ते इक्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |
एचोऽयवायावः (६.१.७७) = एचः (ए, ओ, ऐ, औ इत्येषां) स्थाने क्रमेण अय्, अव्, आय्, आव् इत्यादेशाः भवन्ति अचि परे | क्रमेण इत्युक्तं यथासंख्यमनुदेशः समानाम् (१.३.१०) इति परिभाषा सूत्रस्य साहाय्येन | अय् च, अव् च, आय् च, आव् च, तेषाम् इतरेतरद्वन्द्वः, अयवायावः | एचः षष्ठ्यन्तम्, अयवायावः प्रथमान्तं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७६) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— एचः अयवायावः अचि संहितायाम् |
तदा अङ्ग-सिद्धतिङ्प्रत्यययोः मेलनम् | यथा—
जि + शप् → जे + अ → जय → जय + तिप् → जयति
नी + शप् → ने + अ → नय → नय + तिप् → नयति
द्रु + शप् → द्रो + अ → द्रव → द्रव + तिप् → द्रवति
भू + शप् → भो + अ → भव → भव + तिप् → भवति
हृ + शप् → हर् + अ → हर → हर + तिप् → हरति
c. एजन्तधातवः (31 धातवः)
एते धातवः इगन्ताः न सन्ति अतः गुणस्य प्रसङ्गः न भवति | केवलं एचोऽयवायावः इत्यनेन यान्तवान्तसन्धिः |
धे + शप् → धे + अ → एचोऽयवायावः → ध् + अय् + अ → धय → धय + तिप् → धयति
गै + शप् → गै + अ → एचोऽयवायावः → ग् + आय् + अ → गाय → गाय + तिप् → गायति
धौ + शप् → धौ + अ → एचोऽयवायावः → ध् + आव् + अ → धाव → धाव + तिप् → धावति
d. लघु-इगुपधधातवः (127 धातवः)
उपधा नाम अन्तिमवर्णात् प्राक् यः वर्णः, सः | यस्य धातोः उपधायां लघु इक् (इ, उ, ऋ) अस्ति, सः लघु-इगुपधधातुः | शप् शित् अपि पित् अपि, अतः अङ्गस्य निर्माणार्थं भ्वादिगणीय-इगुपधधातूनां विकरणप्रत्यय-निमित्तकं गुणकार्यम्— नाम लघु-इकः गुणः |
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्
चित् + शप् → पुगन्तलघूपधस्य च → चेत् + अ → चेत
घुष् + शप् → पुगन्तलघूपधस्य च → घोष् + अ → घोष
वृष् + शप् → पुगन्तलघूपधस्य च → वर्ष् + अ → वर्ष
अनेन अङ्गं निर्मितम्— चेत, घोष, वर्ष |
पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघूपधम् | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्, च अव्ययपदं, द्विपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् | अनुवृत्ति-सहितसूत्रम्— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
तदा अङ्ग-सिद्धतिङ्प्रत्यययोः मेलनम् | यथा—
चित् + शप् → चेत् + अ → चेत → चेत + तिप् → चेतति
घुष् + शप् → घोष् + अ → घोष → घोष + तिप् → घोषति
वृष् + शप् → वर्ष् + अ → वर्ष → वर्ष + तिप् → वर्षति
2. विशेषधातवः (46 धातवः)
भ्वादिगणे केचन धातवः सन्ति येषां विकारः भवति शिति प्रत्यये परे | ते अधः सूचिताः | अयं विकारः धात्वादेशः इत्युच्यते |
a. गम्, यम् धात्वोः छकारादेशः
गमॢ गतौ = गमनार्थे
यम उपरमे = नियन्त्रणार्थे | नियच्छति नाम 'निग्रहं करोति' | योगी इन्द्रियाणि नियच्छति | अस्मिन् एव अर्थे यम्-धातोः 'नियमयति' भवति चुरादिगणे | अपि च भ्वादिगणस्य अस्य एव पाठस्य अग्रिमे सूत्रे दाण्-दाने इत्यनेन दानार्थे यच्छति |
गम् + शप् → इषुगमियमां छः इत्यनेन म्-स्थाने छ् → गछ् + अ → छे च (६.१.७३) इत्यनेन छकारे परे संहितायां विषये ह्रस्व-स्वरस्य तुक्-आगमो भवति (आद्यन्तौ टकितौ १.१.४६ इत्यनेन गकारोत्तरवर्ती-अकारस्य अनन्तरं न तु पूर्वम्) → गत्छ् + अ → स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन सकारस्य तवर्गीयस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन → गच्छ् + अ → गच्छ इति अङ्गम्
गम् + शप् → गच्छ् + अ → गच्छ → गच्छ + तिप् → गच्छति
यम् + शप् → यच्छ् + अ → यच्छ → यच्छ + तिप् → यच्छति
छकारादेशः भवति केवलं शिति परे इति धेयम् | अतः गच्छति परन्तु गमिष्यति, यच्छति परन्तु यंस्यति इति | इष्-धातुः (इच्छति) तुदादिगणे वर्तते अतः तस्य सूचना अत्र न दीयते |
इषुगमियमां छः (७.३.७७) = इष्, गम्, यम् एषां छकारादेशः भवति शिति परे | अलोन्त्यस्य (१.१.५२) इत्यनेन छ्-आदेशः अन्तिमवर्णस्य स्थाने न तु पूर्णधातोः स्थाने | इषुश्च गमिश्च यम् च तेषामितरेतरद्वन्द्वः इषुगमियमः, तेषाम् इषुगमियमाम् | इषुगमियमां षष्ठ्यन्तं, छः प्रथमान्तं, द्विपदमिदं सूत्रम् | ष्ठिवुक्लमुचमां शिति (७.३.७५) इत्यस्मात् शिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— इषुगमियमाम् अङ्गस्य छः शिति |
प्रश्नः उदेति सूत्रे किमर्थं गम्-धातोः गमि इति रूपम् | सानुबन्धधातुः गमॢ, निरनुबन्धधातुश्च गम्; कथं वा गमि ? उत्तरम् अस्ति इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकम् (३.३.१०८, वार्तिकम्) | अनेन द्वौ प्रत्ययौ स्तः याभ्यां सह धातु-रूपं प्रदर्श्यते सूत्रेषु | द्वौ प्रत्ययौ इक्, श्तिप् च | प्रत्यययोः अर्थः अस्ति 'धातुः' एव— धातुनिर्देशः | अपि च सूत्रेषु एव द्वयोः प्रत्यययोः उपयोगः; न तु लोके | इक्-प्रत्ययस्य एकमेव प्रयोजनम्— सूत्रालङ्कारः, छन्दः च | छन्दः तथा स्यात् तस्मिन् सूत्रे, अतः छन्दसः कृते सूत्रकारेण इक्-प्रत्ययः संयोजितः | श्तिप्-प्रत्ययस्य अपि अलङ्कार-प्रयोजनं तु अस्त्येव, ततः अग्रे अन्यत् एकं प्रयोजनं भवति, यत् अग्रिमसूत्रस्य प्रसङ्गे उच्यते |
गम्-धातोः इक्-प्रत्ययः धातुनिर्देशे
इषुगमियमां छः (७.३.७७) इति सूत्रे गमॢ + इक् → अनुबन्धलोपे → गम् + इ → गमि | अत्र यङ्लुक् इत्यस्य प्रसङ्गो नास्ति यतोहि सूत्रस्य निमित्तं शित् यस्मात् सार्वधातुकप्रकरणे एव प्रसक्तिः; यङ्लुक् च आर्धधातुकप्रकरणे अस्ति | अतः इक्-प्रत्ययस्य प्रयोगः केवलं सूत्रशैल्यर्थम्— गमि धातुनिर्देशे |
छे च (६.१.७२) = ह्रस्वस्वरस्य तुक्-आगमो भवति छकारे परे | तुक् कित् अस्ति अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | ह्रस्वस्य पिति कृति तुक् (६.१.७०) इत्यस्मात् ह्रस्वस्य, तुक् इत्यनयोः अनुवृतिः | संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ह्रस्वस्य तुक् छे च संहितायाम् |
b. पा-आदिधातूनां धात्वादेशः
एषां धातूनां धात्वादेशो भवति शिति परे |
पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदां, पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः (७.३.७८) = पा घ्रा ध्मा इत्यादीनां स्थाने पिब, जिघ्र, धम एते आदेशाः भवन्ति शिति परे | केवलं शिति परे इति धेयम् | अतः पिबति परन्तु पास्यति इति | पाश्च घ्राश्च ध्माश्च ... सद् च तेषामितरेतरद्वन्द्वः पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदः, तेषां पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदाम् | पिबश्च जिघ्रश्च धमश्च … सीदश्च तेषामितरेतरद्वन्द्वः पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः | पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदाम् षष्ठ्यन्तं, पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः प्रथमान्तं, द्विपदमिदं सूत्रम् | ष्ठिवुक्लमुचमां शिति (७.३.७५) इत्यस्मात् शिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदां अङ्गस्य पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः शिति |
अत्र पुनः प्रश्नः उदेति किमर्थं ऋ-धातोः अर्ति इति रूपं, सृ-धातोः सर्ति इति रूपम् | अत्रापि इक्श्तिपौ धातुनिर्देशे (३.३.१०८, वार्तिकम्) इति वार्तिकेन; अस्मिन् पर्याये श्तिप्-प्रत्ययः न तु इक् | ऋ-धातुः + श्तिप् → अनुबन्धलोपे → ऋ + ति → श्तिपः शित्त्वात् सार्वधातुकं यस्मात् कर्तरि शप् (३.१.६८) इत्यनेन शप् → ऋ + शप् + ति → सूत्रछ्न्दसः कृते आदादिकधातुः अर्ति इत्यर्थम् अदिप्रभृतिभ्यः शपः (२.४.७२) इत्यनेन शपः लुक् → ऋ + ति → श्तिपः सार्वधातुकत्वात् पित्त्वात् च सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः → अर् + ति → अर्ति | तथैव सृ + श्तिप् → सर्ति |
कथं जानीमः श्तिप् कर्त्रर्थकः प्रत्ययः ? प्रत्ययः (३.१.१) इत्यनेन यत् किमपि विधीयते धातुभ्यः प्रातिपदिकेभ्यश्च, तस्य नाम प्रत्ययः; श्तिप् धातुभ्यः विधीयते अतः प्रत्ययः | धातुभ्यः विधीयमानाः प्रत्ययाः द्विविधाः— तिङ्, कृत् च | कृदतिङ् (३.१.९३) इति सूत्रेण यः प्रत्ययः धातुभ्यः विधीयते अपि च तिङ् नास्ति, स च कृत् | श्तिप् अष्टादशसु तिङ्प्रत्ययेषु नास्ति इत्यस्मात् अयं कृत् | कर्तरि कृत् (३.४.६७) इति सामान्यसूत्रेण सर्वे कृत्प्रत्ययाः कर्त्रर्थकाः | तदा कैश्चित् विशिष्टसूत्रैः परिगणिताः कृत्प्रत्ययाः कर्मण्यर्थे, तेषु च श्तिप् नास्ति अतः कर्तरि कृत् (३.४.६७) इत्यनेन कर्त्रर्थकः एव |
लः कर्मणि च भावे चाकर्मकेभ्यः (३.४.६९) इत्यनेन लकाराः तेषां स्थाने तिङः च त्रिषु अर्थेषु भवन्ति— कर्तरि, कर्मणि, भावे च | तयोरेव कृत्यक्तखलर्थाः (३.४.७०) इत्यनेन कृत्सु प्रत्ययेषु कृत्य-प्रत्ययाः, क्त-प्रत्ययः, खलर्थाः च प्रत्ययाः भावे कर्मणि एव भवन्ति; एतान् विहाय सर्वे कृत्प्रत्ययाः कर्तरि कृत् (३.४.६७) इत्यनेन कर्त्रर्थकाः इति सामान्यस्थितिः |
इषुगमियमां छः (७.३.७७) इति यथावत् अत्रापि पा-घ्रा-ध्मा (७.३.७८) इति सूत्रे यङ्लुक् इत्यस्य प्रसङ्गो नास्ति यतोहि सूत्रस्य निमित्तं शित् यस्मात् सार्वधातुकप्रकरणे एव प्रसक्तिः; यङ्लुक् च आर्धधातुकप्रकरणे अस्ति | अतः अत्र श्तिप्-प्रत्ययस्य प्रयोगः केवलं सूत्रशैल्यर्थम्— अर्ति सर्ति च धातुनिर्देशे |
अधुना पा-घ्रा-ध्मा (७.३.७८) इति सूत्रे दृशि इत्यस्ति | सानुबन्धधातुः दृशिर्, निरनुबन्धधातुश्च दृश्; कथं वा दृशि ? दृशिर् + इक् → दृश् + इ | इक्-प्रत्ययः धातुभ्यः विहितः, न शित् न वा तिङ् इति कृत्वा आर्धधातुकः, तस्मात् न शप् | अतः दृश् + इ इत्येव स्थितिः | इदानीम् अग्रे किमर्थं न पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणो न स्यात् ? इक्-प्रत्ययः कित्; कित्त्वात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः | दृश् + इ → दृशि |
यङ्लुकः प्रसङ्गे
श्तिप्-प्रत्ययः सूत्रस्य अलङ्कारार्थंम् उपयुज्यते पाणिनिना इति उक्तम् | ततः अग्रे अन्यत् एकं प्रयोजनं भवति— कुत्रचित् सूत्रेषु धातुनिर्देशे धातोः श्तिप्-प्रत्ययो भवति येन यङ्लुकि तस्य सूत्रस्य कार्यं तस्य धातोः कृते न स्यात् इति प्रदर्शनार्थम् |
अत्र बहूनां जिज्ञासा व्युत्पन्ना, यङ्लुगन्तं नाम किम् ? अतः तस्मिन् सम्बन्धे किञ्चित् उपस्थाप्यते, परिचयत्वेन |
पाणिनेः धातुपाठे द्विसहस्रं धातवः सन्ति | भू, दा, पठ्, लिख्, ज्ञा, क्री इत्यादयः द्विसहस्रे धातुषु अस्माकं बहवः परिचिताः | इमे पाणिनीय-धातुपाठे स्थिताः सर्वे धातवः औपदेशिकधातवः इत्युच्यन्ते |
तदा द्वादश प्रत्ययाः सन्ति ये एभ्यः धातुभ्यः विधीयन्ते; यदा इमे प्रत्ययाः विहिताः भवन्ति, तदा नूतनधातवः निष्पन्नाः भवन्ति | एषाम् अस्माभिः नूतनतया निष्पादित-धातूनां नाम आतिदेशिकधातवः | यथा णिच्-प्रत्ययस्य संयोजनेन णिजन्तधातुः निष्पन्नः | लिख् इति औपदेशिकधातुः; तस्मात् यदा णिच् विहितो भवति, तदा लेखि इति नूतनः णिजन्तधातुः निष्पन्नः | अयं च आतिदेशिकधातुः | सन्नन्तधातवः अपि तथा | कृ इति औपदेशिकधातुः, चिकीर्ष इति सन्नन्तः आतिदेशिकधातुः; लटि चिकीर्षति |
एषु द्वादशसु प्रत्ययेषु यङ्-प्रत्ययः अन्यतमः | वारं वारम् अथवा अधिकाधिकम् इत्यस्मिन् अर्थे भवति | यथा णिच् अपि च सन्, अस्य यङ्-प्रत्ययस्य धातुना संयोजनेन नूतनधातुः निर्मितः भवति | तदा यङन्तधातुः इति वदामः | यङ्-प्रत्ययस्य किञ्चन वैशिष्ट्यम् अस्ति यत् तस्य लोपः (लुक्) अपि भवितुम् अर्हति | यत्र यङः लुक् भवति तत्र यङ्लुगन्तधातुः इत्युच्यते | यङन्तानां यङ्लुगन्तानां च अर्थः समानः, परन्तु रूपं भिद्यते |
यङ्लुगन्तधातवः आदादिकाः इत्युच्यन्ते यतोहि तत्र शपः लुक् भवति, अदादिगणवत् | (अन्ये सर्वे आतिदेशिकधातवः भ्वादिगणीयाः, यथा सन्नन्ताः, णिजन्ताः, यङन्ताः | तेषां सर्वेषां कृते शप्-विकरणप्रत्ययः भवति |)
लिख्-धातुः → यङ्लुकः प्रक्रिया → लेलिख् इति आतिदेशिक-यङ्लुगन्त-धातुः → लटि लेलिख् + ति → लेलेक्ति
प्रच्छ्-धातुः → यङ्लुकः प्रक्रिया → पाप्रच्छ् इति आतिदेशिक-यङ्लुगन्त-धातुः → लटि पाप्रच्छ् + ति → पाप्रष्टि
'बालकः लेलेक्ति' इत्युक्ते बालकः वारं वारं लिखति अथवा अधिकाधिकं लिखति | 'बालकः पाप्रष्टि' इत्युक्ते बालकः वारं वारं पृच्छति अथवा अधिकाधिकं पृच्छति |
अनेन यङ्लुगन्तानां परिचयः | कानिचन सूत्राणि सन्ति येषु कस्यचित् धातोः निर्देशो भवति श्तिप् प्रत्ययेन; तत्र श्तिपः प्रयोजनम् इदं यत् तेन सूत्रेण यत् कार्यं विधीयते, यङ्लुकः प्रसङ्गे अस्य धातोः तादृशं कार्यं न भवति |
श्तिपः यङ्लुकि उदाहरणम्— सम्प्रसारणम्
सम्प्रसारणं नामकम् एकं कार्यं भवति व्याकरणे | अनेन यणः स्थाने इगादेशो भवति | दिवादिगणे सम्प्रसारणस्य परिचयो भविष्यति | अग्रे च न केवलं दिवादिगणे, अपि तु द्रक्ष्यामः यत् बहुत्र सम्प्रसारणं भवति | यङ्लुकि अपि सम्प्रसारणस्य अवसरः | अत्र सम्प्रसारणेन किं किं भवति इति न एव लक्ष्यम् अस्माकं, तस्य च पाठः अग्रे भविष्यति | अत्र 'श्तिपा यङ्लुकि विहीतं कार्यं न भवति' इति प्रदर्शनार्थं सम्प्रसारणस्य उदाहरणं दीयते, तावदेव |
अधुना ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) इति सम्प्रसारण-विधायकं सूत्रम् | अनेन किति ङिति प्रत्यये परे सम्प्रसारणं भवति | अस्मिन् सूत्रे ग्रहि, वयि, व्यधि इति त्रयः धातवः इक्-प्रत्ययेन उक्ताः; वष्टि विचति वृश्चति पृच्छति भृज्जति इत्येते पञ्च धातवः च श्तिप्-प्रत्ययेन उक्ताः | ज्या न श्तिप्-द्वारा न वा इक्-द्वारा | आहत्य नव धातवः | एषां च सर्वेषां नवानां धातूनां सम्प्रसारणं विधीयते यत्र कित्ङित् प्रत्ययः परो भवति | किन्तु ये पञ्च धातवः श्तिप्-प्रत्ययेन उक्ताः, किति ङिति प्रत्यये परे सत्यपि यङ्लुकि तेषां सम्प्रसारणं न भवति | ये त्रयः धातवः उक्ताः इक्-प्रत्ययेन, तेषां किति ङिति प्रत्यये परे यङ्लुकि यथासामान्यं सम्प्रसारणं भवति |
दृष्टान्ते ग्रह्-धातुः सम्प्रसारणविधायकसूत्रे इक्-प्रत्ययेन उक्तः—'ग्रहि'—अतः यङ्लुकि सम्प्रसारणं भवति | यङ्लुक्-प्रक्रियायां, ग्रह्-धातोः यङ्लुगन्तधातुः जाग्रह् | लट्-लकारस्य प्रथमपुरुषस्य द्विवचने जाग्रह् + तस् → तस् अपित्त्वात् ङिद्वत् अतः सम्प्रसारणस्य प्रसक्तिः → जागृढः इति रूपम् | किन्तु प्रच्छ्-धातुः सम्प्रसारणविधायकसूत्रे श्तिप्-प्रत्ययेन उक्तः, अतः यङ्लुकि ङिति प्रत्यये परे अपि सम्प्रसाराणं न भवति | प्रच्छ्-धातोः यङ्लुगन्तधातुः पाप्रच्छ् | लट्-लकारस्य प्रथमपुरुषस्य द्विवचने पाप्रच्छ् + तस् → तस् अपित्त्वात् ङिद्वत् सम्प्रसारणं स्यात् किन्तु न भवति → पाप्रष्टः |
पा-घ्रा-ध्मा इत्यादीनां धात्वादेश-प्रक्रिया
पा + शप् → पिब + अ → अतो गुणे → पिब → पिब + तिप् → पिबति
घ्रा + शप् → जिघ्र + अ → अतो गुणे → जिघ्र → जिघ्र + तिप् → जिघ्रति
ध्मा + शप् → धम + अ → अतो गुणे → धम → धम + तिप् → धमति
स्था + शप् → तिष्ठ + अ → अतो गुणे → तिष्ठ → तिष्ठ + तिप् → तिष्ठति
म्ना + शप् → मन + अ → अतो गुणे → मन → मन + तिप् → मनति
दाण् + शप् → यच्छ + अ → अतो गुणे → यच्छ → यच्छ + तिप् → यच्छति
दृश् + शप् → पश्य + अ → अतो गुणे → पश्य → पश्य + तिप् → पश्यति
ऋ + शप् → ऋच्छ + अ → अतो गुणे → ऋच्छ → ऋच्छ + तिप् → ऋच्छति
सृ + शप् → धौ + अ → धाव → धाव + तिप् → धावति
शद् + शप् → शीय + अ → अतो गुणे → शीय → शीय + ते → शीयते |
सद् + शप् → सीद + अ → अतो गुणे → सीद → सीद + तिप् → सीदति
धेयं यत् सृ-धातोः स्थाने धौ-आदेशः भवति तदा यदा 'to run' इत्यर्थे अस्ति, न तु 'to go, to flow' इत्यर्थे | अतः भ्वादिगणे, सृ-धातोः लटि एकस्मिन् अर्थे धावति, अपरस्मिन् अर्थे 'सरति' |
दाण् दाने, अनेन सूत्रेण शिति परे यच्छ-आदेशः, अतः यथा लटि 'यच्छति' दानार्थे भवति | माता बालकाय भोजनं प्रयच्छति |
अन्यच्च अस्मिन् सूत्रे ये ये धातवः सन्ति, ते सर्वे भ्वादिकाः, किन्तु एषु केचन अपरेषु गणेष्वपि पठिताः, यथा सृ-धातुः जुहोत्यादिगणेऽपि ससर्ति; शद्, सद् च तुदादिगणेऽपि पठितौ शीयते सीदति इति |
अतो गुणे (६.१.९६) = अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात् | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं वृद्धिरेचि (६.१.८७), अकः सवर्णे दीर्घः (६.१.९९) इत्यनयोः अपवादसूत्रम् | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम् | उस्यपदान्तात् (६.१.९५) इत्यस्मात् अपदान्तात् अपि च एङि पररूपम् (६.१.९३) इत्यस्मात् पररूपम् इत्यनयोः अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम् |
अदेङ्गुणः (१.१.२) = ह्रस्व-अकारः, एकारः, ओकारः (एङ्) एषां वर्णानां गुणसंज्ञा स्यात् | अत् एङ् च गुणसंज्ञः स्यात् इति | अत् च एङ् च अदेङ् | अदेङ् प्रथमान्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— अत् एङ् गुणः |
c. दंश्, सञ्ज्, स्वञ्ज्, रञ्ज् इत्येषां न-लोपः—
दंशसञ्जस्वञ्जां शपि (६.४.२५) = दंश्, सञ्ज्, स्वञ्ज् एतेषां नकारस्य लोपः भवति शपि परे | दंशश्च, सञ्जश्च, स्वञ्जश्च तेषामितरेतरद्वन्द्वः दंशसञ्जस्वञ्जः, तेषां दंशसञ्जस्वञ्जाम् | दंशसञ्जस्वञ्जां षष्ठ्यन्तं, शपि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | श्नान्नलोपः (६.४.२३) इत्यस्मात् नलोपः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— दंशसञ्जस्वञ्जां अङ्गस्य नलोपः शपि |
यथा—
दंश् + शप् → दश् + अ → दश + तिप् → दशति
सञ्ज् + शप् → सज् + अ → सज + तिप् → सजति
स्वञ्ज् + शप् → स्वज् + अ → स्वज + ते → स्वजते
रञ्जेश्च (६.४.२६) = रञ्ज्-धातोः अपि नकारस्य लोपः भवति शपि परे | रञ्जेः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | श्नान्नलोपः (६.४.२३) इत्यस्मात् नलोपः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— रञ्जेः च अङ्गस्य नलोपः शपि |
रञ्जेश्च, दंशसञ्जस्वञ्जां शपि इति सूत्रयोः कार्यं समानम् | तर्हि रञ्जेश्च इति पृथक् सूत्रं कुतः ? यतोहि अग्रिमेषु सूत्रेषु रञ्ज्-धातोः अनुवृत्तिः भवति किन्तु दंश्, सञ्ज्, स्वञ्ज् एतेषां न भवति | अनुवृत्त्यर्थं पृथक्कृतम् |
रञ्ज् + शप् → रज् + अ → रज + तिप् → रजति
d. जभ्-धातोः नुम्-आगमः
उपदेशे अयं मूलधातुः जभी इति ईकारः अनुबन्धः न तु इकारः, अतः इदितो नुम् धातोः (७.१.५८) इत्यनेन नुम्-आगमो न भवति | परन्तु विशिष्टसूत्रम् अस्ति येन रध्, जभ् अनयोः धात्वोः नुम्-आगमो विहितः |
रधिजभोरचि (७.१.६१) = रध्, जभ् अनयोः धात्वोः नुम्-आगमो भवति अजादि-प्रत्यये परे | अङ्गस्य (६.४.१) इत्यनेन अङ्गकार्यम् इदम् अतः अचि इत्युक्तौ अजादि-प्रत्यये परे | रधिश्च जभ् च तयोरितरेतरयोगद्वन्द्वः रधिजभौ, तयोः रधिजभोः | रधिजभोः षष्ठ्यन्तम्, अचि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | इदितो नुम् धातोः (७.१.५८) इत्यस्मात् नुम्, धातोः इत्यनयोः अनुवृत्तिः (वचनपरिणामं कृत्वा धात्वोः) | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— रधिजभोः धात्वोः अङ्गयोः नुम् अचि |
जभी → जभ् इति अनुबन्धरहित-धातुः → रधिजभोरचि इत्यनेन अजादि-प्रत्यये परे नुम्-आगमः | निरनुबन्धः शप्-प्रत्ययः अजादिः → जम्भ इति अङ्गम् → जम्भ + ते → जम्भते
नुम्-आगमः नाम नकारः |
जभी → जभ् उपदेशेऽजनुनासिक इत्
जभ् → जन्भ् रधिजभोरचि
जन्भ् → जंभ् नश्चापदान्तस्य झलि
जंभ् → जम्भ् अनुस्वारस्य ययि परसवर्णः
जम्भ् + शप् → जम्भ इति अङ्गम्
नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनुस्वारस्य ययि परसवर्णः संहितायाम् |
रध्-धातुः दिवादिगणे अतः दिवादिभ्यः श्यन् (१.३.६९) इत्यनेन 'य' इति विकरणम् | य-प्रत्ययः अजादिः नास्ति अतः सार्वधातुकलकारेषु नुम्-आगमो न भवति— रध्यति, रध्यतु, अरध्यत्, रध्येत् | परन्तु कृत्सु अवसरः प्राप्यते, यथा ण्वुल् → अक इति अजादिः, अतः रन्धकः | आर्धधातुकलकारेषु अपि प्रसङ्गः, यथा लिटि ररन्ध |
e. कृप् → कल्प्
कृपूँ सामर्थ्ये
कृपो रो लः (८.२.१८) = कृप्-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम् | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम् | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तं, अनेकपदमिदं सूत्रम् | कृपः इत्यस्य द्विवारम् आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्— कृपः उः कृपः रः लः |
यत्र कृप्-धातोः उपधायाः गुणः भवति कर्प्, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प् इति फलम्; यत्र उपधागुणो न भवति, तत्र कृप् इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप् इति फलम् |
कल्पते | कृप् + शप् + ते → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन लघूपधगुणः → कर्प् + अ + ते → कृपो रो लः (८.२.१८) इत्यनेन रेफस्य स्थाने लकारादेशः → कल्प् + अ + ते → कल्प इति अङ्गम | लटि कल्पते |
लिट्-लकारे गुणनिषेधत्वात् ऋकारस्य उदाहरणम्—
लिटि चकॢपे | कृप् + ए → द्वित्वम् अभ्यासकार्यम् च → चकृप् + ए → कृपो रो लः (८.२.१८) इत्यनेन ऋकारस्य स्थाने ऌकारादेशः → चकॢप् + ए → चकॢपे
प्रश्नः उदेति यदि रेफस्य स्थाने लकारस्तु भवति एव, तर्हि किमर्थं मूलधातौ उपदेशावस्थायां कॢप् न स्यात् ? उतरम् अस्ति यत् वेदे तस्य ऋकारस्य महत्त्वं वर्तते | वेदे उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम् इङ्गितम् | अतः वेदे अयं धातुः ऋदुपदधातुः भवेत् |
f. उपदेशे षस्ज् → सज्ज
षस्ज → धात्वादेः षः सः (६.१.६३), उपदेशेऽजनुनासिक इत् (१.३.२) → सस्ज्
धात्वादेः षः सः (६.१.६३) = मूलधातोः आदौ षकारः अस्ति चेत्, षकारस्य स्थाने सकारादेशः भवति | धातोः आदिः, धात्वादिः षष्ठीतत्पुरुषः; तस्य धात्वादेः | धात्वादेः षष्ठ्यन्तं, षः षष्ठ्यन्तं, सः प्रथमान्तं, त्रिपदमिदं सूत्रम् | आदेच उपदेशे (६.१.४५) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धात्वादेः षः सः उपदेशे |
सस्ज् → स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन श्चुत्वम् → सश्ज् → झलां जश् झशि (८.४.५३) इत्यनेन जश्त्वम् → सज्ज् → सज्ज् + शप् → सज्ज इति अङ्गम् → सज्ज + ति/ते → सज्जति / सज्जते
झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जश् प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— झलां जश् झशि संहितायाम् |
तथैव—
तुदादिगणे लस्ज् → लज्जते
तुदादिगणे मस्ज् → मज्जति
तुदादिगणे भ्रस्ज् → भृज्जति/भृज्जते
g. ष्ठिव्, क्लम्, चम् एषां दीर्घत्वं शिति परे
ष्ठिवु → ष्ठिव् (ष्ठिवु निरसने = to expectorate, spit out)
क्लमु → क्लम् (क्लमु ग्लानौ = श्रान्तः भवति)
आङः चमु → आचम् (आ+चमु अदने = खादति)
ष्ठिवुक्लमुचमां शिति (७.३.७५) = ष्ठिव्, क्लम्, चम् एषां धातुरूपि-अङ्गानाम् अचः दीर्घत्वं शिति प्रत्यये परे | ष्ठिवुश्च क्लमुश्च चम् च तेषामितरेतरद्वन्द्वः ष्ठिवुक्लमुचमः, तेषां ष्ठिवुक्लमुचमाम् | ष्ठिवुक्लमुचमां षष्ठ्यन्तं, शिति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | शमामष्टानां दीर्घः श्यनि (७.३.७४) इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः | अचश्च (१.२.२८) इति परिभाषा-सूत्रेण यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र अचः इति षष्ठ्यन्तं पदम् आगत्य उपस्थितं भवति | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ष्ठिवुक्लमुचमां अङ्गस्य अचः दीर्घः शिति |
अचश्च (१.२.२८) = यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र अचः इति षष्ठ्यन्तं पदम् आगत्य उपस्थितं भवति | परिभाषा-सूत्रम् | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | ऊकालोऽज्झ्रस्वदीर्घप्लुतः (१.२.२७) इत्यस्मात् अच्, ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, ह्रस्वदीर्घप्लुतैः (शब्दैः) | अनुवृत्ति-सहितसूत्रम्— ह्रस्वदीर्घप्लुतैः अचः च अच् |
ऊकालोऽज्झ्रस्वदीर्घप्लुतः (१.२.२७) इति संज्ञा-सूत्रम् | अनेन 'उ' इत्यस्य नाम ह्रस्वः, 'ऊ' इत्यस्य नाम दीर्घः, 'ऊ३' इत्यस्य नाम प्लुतः | ततः अग्रिमं सूत्रं अचश्च (१.२.२८) वक्ति यत् यत्र यत्र एतैः शब्दैः आदेशः इष्टः, तत्र तत्र अचः स्थाने एव अयम् आदेशो भवति |
वार्तिकम्— आङि चम इति वक्तव्यम् | आचामति | आङि किम् ? चमति | विचमति | अचमीत् | नाम आ इति उपसर्गः अस्ति चेदेव चम् धातोः अच् दीर्घो भवति |
आङः चमु → आचम् → आचम् + शप् → ष्ठिवुक्लमुचमां शिति (७.३.७५) → आचाम → आचामति
क्लमु → क्लम् → क्लम् + शप् → ष्ठिवुक्लमुचमां शिति (७.३.७५) → क्लाम → क्लामति (दिवादिगणे क्लाम्यति)
ष्ठिवु → ष्ठिव् → ष्ठिव् + शप् → ष्ठिवुक्लमुचमां शिति (७.३.७५) → ष्ठीव → ष्ठीवति
सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः इति वार्तिकं, धात्वादेः षः सः (६.१.६३) इत्यस्य निषेधकम् = नामधातूनां, ष्ठिवु, ष्वष्क अनयोः धात्वोः च षकारस्य स्थाने सकारादेशो न भवति | षोडीयते (नामधातुः), षोडशब्दात् क्यचि ईत्वं बोध्यम् | षण्डीयते (नामधातुः), षण्डशब्दात् क्यचि ईत्वं बोध्यम् | ष्ठीवति | ष्वष्कते | षण्डीयतीत्यत्र तु षण्डशब्दात्क्यचि ईत्वं बोध्यम् ।
धेयं यत् 'ष्ठिव् + शप्' इति स्थितौ ष्ठिवुक्लमुचमां शिति (७.३.७५), पुगन्तलघूपधस्य च (७.३.८६) इत्यनयोर्मध्ये पुगन्तलघूपधस्य च (७.३.८६) परसूत्रम् | किन्तु ष्ठिव्-धातोः शित्-प्रत्यये परे पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणो भवति चेत्, ष्ठिवुक्लमुचमां शिति (७.३.७५) इत्यस्मिन् ष्ठिव् इति भागस्य अन्यत्रलब्धावकाशो नास्ति; तस्मात् अत्र तु अपवादस्य वार्ता | इत्थञ्च एतादृशेषु स्थलेषु ष्ठिवुक्लमुचमां शिति (७.३.७५) एव प्रवर्तते न तु पुगन्तलघूपधस्य च (७.३.८६) |
h. गुह्-धातोः उपधा दीर्घः अजादि-प्रत्यये परे
गुहू → गुह् (गुहू संवरणे = आवृणोति)
ऊदुपधाया गोहः (६.४.८९) = गुह्-धातोः उपधायाः दीर्घ-ऊकारादेशो भवति गुणहेतावजादौ प्रत्यये परे | ऊत् प्रथमान्तम्, उपधायाः षष्ठ्यन्तं, गोहः षष्ठ्यन्तम्, त्रिपदमिदं सुत्रम् | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— गोहः अङ्गस्य उपधायाः ऊत् अचि |
गुहू → गुह् → गुह् + शप् → ऊदुपधाया गोहः (६.४.८९) → गूह → गूहति / गूहते
अत्र प्रश्नः उदेति यत् सूत्रे 'गोहः' इत्यस्य कथनेन प्रथमतया गुणः भवति पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन, तदा एव गोह् इत्यस्य गुणसंज्ञक-ओकारस्य स्थाने ऊकारादेशः इति वा ? किन्तु तथा नास्ति; अत्र सूत्रे स्थितस्य 'गोहः' इत्यस्य सन्देशः अयं यत् यत्र यत्र लघूपधगुणः सम्भावनीयः, तत्र तत्र गुणं प्रबाध्य ऊकारादेशः स्यात् | अतः अत्र वास्तवे पुगन्तलघूपधस्य च (७.३.८६) इति सूत्रं कार्यं न करोति; यत्र तस्य कार्यं सम्भाव्यं, तत्र ऊदुपधाया गोहः (६.४.८९) इति सूत्रं प्रवर्तनीयम् |
i. भ्वादिगणे केषाञ्चित् धातूनां विकरणप्रत्यय-विकल्पः— कुत्रचित् विकल्पेन श्नु (स्वादिः इव), कुत्रचित् द्वित्वं (सनन्तः इव), कुत्रचित् णिङ् , कुत्रचित् श्यन् (दिवादिः इव) | एषु शप् इति सामान्यम्, अन्यत् किमपि विकरणं विकल्पेन आयाति चेत् तच्च विशेषम् | यस्मिन् गणे कश्चन धातुः पठितः—नाम यस्मिन् गणे उक्तः—तदनुसृत्य तस्मात् धातुतः स्वस्य गणस्य विकरणप्रत्ययः विहितः; कस्यचिदपि विशिष्टसूत्रस्य आवश्यकता नास्ति | केनचित् विशिष्टसूत्रेण अन्यत् विकरणं विहितं चेत्, अयं धातुः तस्य विकरणस्य तद्विकरण-सम्बद्ध-गणे न भवेत्, यतोहि तस्मिन् गणे यदि अभविष्यत् तर्हि तस्य गणस्य विकरणं निरायासेन आगमिष्यत् | स्वादिभ्यः श्नुः (३.१.७३), दिवादिभ्यः श्यन् (३.१.६९), यस्मिन् कस्मिन् अपि गणे भवतु नाम, तस्मिन् गणे एतादृशेन सूत्रेण विकरणं विहितं; तस्मिन् गणे नास्ति चेदेव तद्गणस्य विकरणस्य विधानार्थं विषिष्टसूत्रम् आवश्यकम् |
स्वादिगणीयः इव श्नु इति विकरणम्
अक्षू → अक्ष् (अक्षू व्याप्तौ = व्याप्नोति)
अक्षोऽन्यतरस्याम् (३.१.७५) = अक्ष्-धातोः शप्-प्रत्ययः भवति कर्तरि सार्वधातुके; पक्षे विकल्पेन श्नु-प्रत्ययः भवति | अक्षः पञ्चम्यन्तम्, अन्यतरस्यां सप्तम्यन्तं, द्विपदमिदं सूत्रम् | सार्वधातुके यक् (३.१.६७) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः, कर्तरि शप् (३.१.६८) इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः, स्वादिभ्यः श्नुः (३.१.७३) इत्यस्मात् श्नुः इत्यस्य अनुवृत्तिः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अक्षः धातोः शप् कर्तरि सार्वधातुके; अन्यतरस्यां श्नुः |
शपि अक्ष् + शप् → अक्ष् + अ → अक्ष इति अङ्गम् → अक्ष + ति → अक्षति
श्नौ अक्ष् + श्नु → अक्ष् + नु → णत्वं कृत्वा → अक्ष्णु → अक्ष्णु + ति → सार्वधातुकार्धधातुकयोः इत्यनेन इगन्ताङ्गस्य गुणः → अक्ष्णो + ति → अक्ष्णोति
तनूकरणे तक्षः (३.१.७६) = तक्ष्-धातोः शप्-प्रत्ययः भवति कर्तरि सार्वधातुके; तनूकरणार्थे, पक्षे विकल्पेन श्नु-प्रत्ययः भवति | तनूकरणे सप्तम्यन्तं, तक्षः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | सार्वधातुके यक् (३.१.६७) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः, कर्तरि शप् (३.१.६८) इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः, स्वादिभ्यः श्नुः (३.१.७३) इत्यस्मात् श्नुः इत्यस्य अनुवृत्तिः, अक्षोऽन्यतरस्याम् (३.१.७५) इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— तनूकरणे तक्षः धातोः शप् कर्तरि सार्वधातुके; अन्यतरस्यां श्नुः |
शपि तक्ष् + शप् → तक्ष् + अ → तक्ष इति अङ्गम् → तक्ष + ति → तक्षति
श्नौ तक्ष् + श्नु → तक्ष् + नु → णत्वं कृत्वा → तक्ष्णु → तक्ष्णु + ति → सार्वधातुकार्धधातुकयोः इत्यनेन इगन्ताङ्गस्य गुणः → तक्ष्णो + ति → तक्ष्णोति
तनूकरणं नाम 'to shave, pare, plane, make thin' | इयमेव क्रिया carpenter's लक्षणात्मकं कार्यं, तदर्थं संस्कृते carpenter इत्युक्तौ तक्षकः | वस्तुतः तक्ष्-धातुः तनूकरणार्थे एव भवति; तर्हि किमर्थं सूत्रे विशेषतया उक्तं 'तनूकरणे अन्यतरस्यां श्नु-प्रत्ययः' ? यतोहि अस्य तक्ष्-धातोः एक एव अर्थः चेदपि बहवः प्रयोगाः | अनेन सूत्रेण श्नु-प्रत्ययस्य विकल्पः केवलं सामान्यतनूकरणे, योगार्थे | अतः 'तक्षकः तक्षति काष्ठं', 'तक्षकः तक्ष्णोति काष्ठम्' इति रूपद्वयं तु भवति, किन्तु 'अधिवक्ता सन्तक्षति वाग्भिः' (The lawyer cuts with speech) इत्यस्मिन् प्रयोगे शप् एव भवति; अत्र श्नु-प्रत्ययस्य विकल्पो नास्ति | उभयत्र तनूकरणमेव; प्रथमे स्थले योगार्थः, द्वितीये तु रूढार्थः |
इमौ द्वौ धातू (अक्ष्, तक्ष्) यदि स्वादिगणे अभविष्यतां, तर्हि श्नु-प्रत्ययस्य आनयनार्थं विशिष्ट-सूत्रस्य आवश्यकता नाभविष्यत् |
सनन्ताः इव सन् इति प्रत्ययः
अत्र सप्त धातवः सन्ति; इमे च सप्त धातवः मूले चुरादिगणीयाः | अतः तस्मिन् चुरादिगणे पठिताः; तत्रैव णिच् च शप् च विहितौ भवतः | यथा गुप-धातोः गोपयति, तिज्-धातोः तेजयति, कित्-धातोः सङ्केतयति— इमानि रूपाणि चुरादिगणे एव निष्पन्नानि, सूत्राणि च तत्रैव | परन्तु एषां धातूनां सनन्तरूपाणि अपि भवन्ति; तानि चुरादिगणे निष्पादयितुं न शक्यते यतोहि तत्र णिच्-प्रत्ययः सर्वदा विधीयते | चुरादौ णिच् तु भवत्येव, तदा सन् अपि आयाति चेत् फलं दोषाय | येन तन्न स्यात्, एषां सनन्तरूपाणि भ्वादिगणे पठितानि | तर्हि फलितार्थः एवं यत् एषां सप्तानां धातूनां कृते सन्-प्रत्ययः इति विशेषः भ्वादौ; सन्-अभावे णिच्-प्रत्ययः इति सामान्यं चुरादिगणे |
गुप्तिज्किद्भ्यः सन् (३.१.५) = 'गुप गोपने', 'तिज निशाने', 'कित निवासे', एतेभ्यः धातुभ्यः सन्-प्रत्ययो भवति | "अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति" इत्यनेन यदा कश्चन प्रत्ययः विहितः भवति किन्तु तस्य अर्थः नोक्तः, तदा स्वार्थे अस्ति इति मन्यते | स्वार्थे नाम तस्य प्रत्ययस्य संयोजनेन अर्थपरिवर्तनं न भवति | गुप् च तिज् च किच्च तेषामितरेतरद्वन्द्वः गुप्तिज्किदः, तेभ्यः गुप्तिज्किद्भ्यः | गुप्तिज्किद्भ्यः पञ्चम्यन्तं, सन् प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— गुप्तिज्किद्भ्यः सन् |
एतैः वार्तिकैः बुद्धं यत् एषां त्रयाणां धातूनाम् अर्थविशेषे एव सन्-प्रत्ययः विधीयते –
वार्तिकं – गुपेर्निन्दायाम् | वार्तिकं – तिजेः क्षमायाम् | वार्तिकं – कितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च | निन्दाक्षमाव्याधिप्रतीकारेषु सन्निष्यते, अन्यत्र यथाप्राप्तं प्रत्ययाः भवन्ति |
गुप्-धातुः—
सामान्यः अर्थः 'to hide' चुरादौ, तत्र न सन्-प्रत्ययः— गोपयति
वार्तिकं – गुपेर्निन्दायाम् | विशेषार्थः निन्दायां 'to despise' भ्वादौ, तत्र सन्-प्रत्ययः— जुगुप्सते
तिज्-धातुः—
सामान्यः अर्थः 'to sharpen' चुरादौ, तत्र न सन्-प्रत्ययः— तेजयति
वार्तिकं – तिजेः क्षमायाम् | विशेषार्थः क्षमायां 'to endure' भ्वादौ, तत्र सन्-प्रत्ययः— तितिक्षते
कित्-धातुः—
सामान्यः अर्थः 'to make a sign' चुरादौ, तत्र न सन्-प्रत्ययः— सङ्केतयति
वार्तिकं – कितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च | विशेषार्थाः व्याधिप्रतीकारे 'to heal', निग्रहे "to restrain", अपनयने "to remove" , नाशने "to destroy", संशये " to doubt/suspect", भ्वादौ, तत्र सन्-प्रत्ययः— चिकित्सति | प्रायेण हि लोके व्याधिप्रतीकारे चिकित्सतीति प्रयुज्यते |
तर्हि एषु रूपेषु सन्-प्रत्ययः स्वार्थे अस्ति, नाम धातोः मूलार्थः यः सः एव भवति; सन्-प्रत्ययस्य संयोजनेन अर्थपरिवर्तनं न भवति | धातोः विशेषार्थे सन्-प्रत्ययः विहितः इति तु उक्तम्; किन्तु सन्-प्रत्ययस्य स्वस्य अर्थः यत्र भवति, सः तु इच्छार्थः यथा चिकीर्षति = कर्तुम् इच्छति, जिगमिषति = गन्तुम् इच्छति | अत्र जुगुप्सते, तितिक्षते, चिकित्सति एषु एतादृशार्थः कोऽपि नास्ति |
अत्र सनन्तानां प्रक्रियावसरो नास्ति, किन्तु सङ्क्षेपे प्रदर्श्यते—
गुप् + सन् → सन्-संयोजनेन द्वित्वम्, कुहोश्चुः (७.४.६२) इत्यनेन तालव्यादेशः → जुगुप् + स → जुगुप्स → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा → जुगुप्स इति धातुः → कर्त्रर्थे सार्वधातुके परे कर्तरि शप् (३.१.६८) → जुगुप्स + शप् → जुगुप्स इति अङ्गम् → लटि जुगुप्स + ते → जुगुप्सते
मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य (३.१.६) = 'मान पूजायाम्', 'बध बन्धने', 'दान अवखण्डने', 'शान अवतेजने', इत्येभ्यः धातुभ्यः सन्-प्रत्ययः भवति; अभ्यासस्य च इकारस्य दीर्घादेशो भवति | अत्र सन्-प्रत्ययः स्वार्थे, नाम तस्य संयोजनेन अर्थपरिवर्तनं न भवति | मान् च बधश्च दान च शान च तेषामितरेतरद्वन्द्वः मान्बधदान्शानः, तेभ्यः मान्बधदान्शान्भ्यः | मान्बधदान्शान्भ्यः पञ्चम्यन्तं, दीर्घः प्रथमान्तं, च अव्ययम्, अभ्यासस्य षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | गुप्तिज्किद्भ्यः सन् (३.१.५) इत्यस्मात् सन् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— मान्बधदान्शान्भ्यः सन्; दीर्घः च अभ्यासस्य |
पूर्वोभ्यासः (६.१.४) इत्यनेन द्वित्वे सति प्रथमभागस्य अभ्यास-संज्ञा भवति |
सन्यतः (७.४.७९) इत्यनेन सन्-प्रत्यये परे अभ्यासस्य ह्रस्व-अकारस्य स्थाने इकारादेशो भवति |
एतैः वार्तिकैः बुद्धं यत् एषां चतुर्णां धातूनाम् अर्थविशेषे एव सन्-प्रत्ययः विधीयते —
वार्तिकं – मानेर्जिज्ञासायाम् | वार्तिकं – बधेश्चित्तविकारे | वार्तिकं – दानेरार्जवे | वार्तिकं – शानेर्निशाने |
'मान पूजायाम्' (to honor, मानयति चुरादौ) = जिज्ञासायां to investigate इत्यस्मिन् अर्थे मीमांसते भ्वादौ |
'बध बन्धने' (to bind, बाधयति/ते चुरादौ) = चित्तविकारे to loath इत्यस्मिन् अर्थे बीभत्सते भ्वादौ |
'दान अवखण्डने' (to cut, दानयति/ते चुरादौ) = स्पष्टीकरणं, to straighten इत्यस्मिन् अर्थे दीदांसति/ते भ्वादौ |
'शान अवतेजने' (to whet, शानयति/ते चुरादौ) = तीक्ष्णीकरणं to sharpen इत्यस्मिन् अर्थे शीशांसति/ते भ्वादौ |
आय-प्रत्ययः
गुपू रक्षणे → गुप्
धूप सन्तापे → धूप्
पण व्यवहारे → पण्
पन स्तुतौ → पन्
गुपूधूपविच्छिपणिपनिभ्य आयः (३.१.२८) = गुपू, धूप, विच्छ, पण, पन, एतेभ्यः धातुभ्यः आय-प्रत्ययो भवति स्वार्थे | गुपूश्च धूपश्च विच्छिश्च पणिश्च पनिश्च तेषामितरेतरद्वन्द्वः गुपूधूपविच्छिपणिपनयः, तेभ्यः गुपूधूपविच्छिपणिपनिभ्यः | गुपूधूपविच्छिपणिपनिभ्यः पञ्चम्यन्तम्, आयः प्रथमान्तं, द्विपदमिदं सूत्रम् | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः; धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— गुपूधूपविच्छिपणिपनिभ्यः धातुभ्यः आयः प्रत्ययः परश्च |
गुप् + आय → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः → गोपाय → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा → कर्त्रर्थे सार्वधातुके परे कर्तरि शप् (३.१.६८) → गोपाय + शप् + ति → अतो गुणे (६.१.९७) इति पररूपे → गोपाय् + अ + ति → गोपायति
गुप् → गोपाय → गोपायति
धूप् → धूपाय → धूपायति
पण् → पणाय → पणायति
पन् → पनाय → पनायति
विच्छ-धातुः तुदादिगणे | विच्छ → विच्छाय → विच्छायति |
आयादय आर्धधातुके वा (३.१.३१) = आर्धधातुक-प्रत्ययस्य विवक्षायाम् आय-आदयः प्रत्ययाः विकल्पेन भवन्ति | आयादौ त्रयः प्रत्ययाः अन्तर्भूताः— आय, ईयङ्, णिङ् | आय आदिर्येषां ते, आयादयः | आयादयः प्रथमान्तम्, आर्धधातुके सप्तम्यन्तं, वा अव्ययपदं, त्रिपदमिदं सूत्रम् | अत्र आर्धधातुके इति विषयसप्तमी अस्ति, अतः "आर्धधातुकस्य विषये" अथवा "आर्धधातुकस्य विवक्षायाम्" इत्यर्थः | सूत्रं स्वयं सम्पूर्णम्— आयादयः आर्धधातुके वा |
आर्धधातुकलकारेषु विकल्पेन आय-प्रत्ययः | यथा गुप्-धातुः लृटि आय-पक्षे गोपायिष्यति, आय-अभावे गोपिष्यति | लिटि आय-पक्षे गोपायाञ्चकार, आय-अभावे जुगोप |
णिङ्-प्रत्ययः
कमेर्णिङ् (३.१.३०) = 'कमु कान्तौ' (इच्छार्थे) इत्यस्मात् णिङ्-प्रत्ययः भवति स्वार्थे | कमेः पञ्चम्यन्तं, णिङ् प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— कमेः णिङ् |
णिङ्-प्रत्यये णकारङकारयोः इत्-संज्ञा, इ इति अवशिष्यते | ङित् इत्यनेन आत्मनेपदं भवति; णित् इत्यस्मात् अत उपधायाः (७.२.११६) इत्यनेन उपधाभूतस्य अकारस्य वृद्धिः भवति |
कमु → कम् → कमेर्णिङ् (३.१.३०) → कम् + इ → अत उपधायाः (७.२.११६) → कामि → कामि + शप् → गुणः → कामे + अ → कामय → कामयते
आर्धधातुकलकारेषु आयादय आर्धधातुके वा (३.१.३१) इत्यनेन विकल्पेन णिङ्-प्रत्ययः | यथा लृटि णिङ्-पक्षे कामयिष्यते, णिङ्-अभावे कमिष्यते |
दिवादिगणीयः इव श्यन् इति विकरणम्
वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः (३.१.७०) = भ्राश्, भ्लाश्, भ्रमु चलने, क्रम्, क्लम्, त्रस्, त्रुट्, लष्, एतेभ्यः श्यन् विकल्पेन भवति, कर्त्रर्थके प्रत्यये परे | भ्राशश्च भ्लाशश्च भ्रमुश्च क्रमुश्च, क्लमुश्च, त्रसिश्च त्रुटिश्च लष् च तेषां समाहारद्वन्द्वः भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलष्, तस्मात् भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः | वा अव्ययपदं, भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | दिवादिभ्यः श्यन् (३.१.६९) इत्यस्मात् श्यन् इत्यस्य अनुवृत्तिः, कर्तरि शप् (३.१.६८) इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः, सार्वधातुके यक् (३.१.६७) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातुभ्यः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः धातुभ्यः श्यन् प्रत्ययः परश्च वा कर्तरि सार्वधातुके |
टुभ्राशृ दीप्तौ = प्रकाशते | भ्राश् + शप्/श्यन् → भ्राश/भ्राश्य → भ्राशते/भ्राश्यते
टुभ्लाशृ दीप्तौ = प्रकाशते | भ्लाश् + शप्/श्यन् → भ्लाश/भ्लाश्य → भ्लाशते/भ्लाश्यते
भ्रमु चलने = भ्रमणं करोति | भ्रम् + शप्/श्यन् → भ्रम/भ्रम्य → भ्रमति/भ्रम्यति
क्रमु पादविक्षेपे = पादाभ्यां चलति | क्रम् + शप्/श्यन् → क्रमः परस्मैपदेषु (७.३.७६)* → क्रम/क्रम्य/क्राम/क्राम्य → क्रमते***/क्रम्यते ***/क्रामति/क्राम्यति
क्लमु ग्लानौ = श्रान्तः भवति | क्लम् + शप्/श्यन् → ष्ठिवुक्लमुचमां शिति (७.३.७५)** → क्लाम/क्लाम्य → क्लामति/क्लाम्यति
त्रस = भयेन कम्पते | त्रस् + शप्/श्यन् → त्रस्/त्रस्य → त्रसति/त्रस्यति
लष कान्तौ = इच्छति | लष् + शप्/श्यन् → लष/लष्य → लषति/लषते/लष्यति
*क्रमः परस्मैपदेषु (७.३.७६) = क्रम्-धातुरूपि-अङ्गस्य अचः दीर्घत्वं परस्मैपदे शिति परे | क्रमः षष्ठ्यन्तं, परस्मैपदेषु सप्तम्यन्तं, द्विपदमिदं सूत्रम् | ष्ठिवुक्लमुचमां शिति (७.३.७५) इत्यस्मात् शिति इत्यस्य अनुवृत्तिः, वचनपरिणामं कृत्वा शित्सु | शमामष्टानां दीर्घः श्यनि (७.३.७४) इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः | अचश्च (१.२.२८) इति परिभाषा-सूत्रेण यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र अचः इति षष्ठ्यन्तं पदम् आगत्य उपस्थितं भवति | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— क्रमः अङ्गस्य अचः दीर्घः शित्सु परस्मैपदेषु |
***अनुपसर्गाद्वा ( १.३.४३) = उपसर्गरहितात् 'क्रम्' धातोः विकल्पेन आत्मनेपदस्य प्रत्ययाः भवन्ति | उपसर्गसहितः चेत् सङ्क्रामति |
अचश्च (१.२.२८) = यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र अचः इति षष्ठ्यन्तं पदम् आगत्य उपस्थितं भवति | परिभाषा-सूत्रम् | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | ऊकालोऽज्झ्रस्वदीर्घप्लुतः (१.२.२७) इत्यस्मात् अच्, ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, ह्रस्वदीर्घप्लुतैः (शब्दैः) | अनुवृत्ति-सहितसूत्रम्— ह्रस्वदीर्घप्लुतैः अचः च अच् |
**ष्ठिवुक्लमुचमां शिति (७.३.७५) = ष्ठिव्, क्लम्, चम् एषां धातुरूपि-अङ्गानाम् अचः दीर्घत्वं शिति प्रत्यये परे |
इमे धातवः भ्वादिगणे पठिताः न तु दिवादिगणे | अनेन विशिष्टसूत्रेण श्यन् इति विकरणप्रत्ययः विहितः; श्यन्-अभावे शप् इति सामान्यं भ्वादौ, कर्तरि शप् (३.१.६८) इति सूत्रेण |
त्रुट्-धातुः तुदादिगणे अस्ति, तत्र गुण-निषेधे त्रुटति/त्रुट्यति |
इति भ्वादिगणे समग्रं तिङ्-सम्बद्धं सार्वधातुकप्रकरण-चिन्तनं समाप्तम् |
Swarup – June 2015 (Updated December 2016)
---------------------------------
धेयम्-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.
To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet. ][> ].
६ - भ्वादिगणः.pdf (123k)
Swarup Bhai, Jul 15, 2020, 4:26 PM v.1
भ्वादिगणः - विशेषधातवः pdf, भ्वादिगणः - अभ्यासः pdf, अष्टाध्याय्याः समग्रदृष्टिः pdf