14 - मनसः लक्षणम्‌

From Samskrita Vyakaranam
< न्यायशास्त्रम्‌10---nyAyashAstram/14---manasaH-lakShaNam
Jump to navigation Jump to search

मनसः आत्मनः च कः सम्बन्धः ? संयोगसम्बन्धः | किमर्थम्‌ ? मनः आत्मा च द्रव्ये; द्रव्ययोः संयोगसम्बन्धः भवति | तत्र द्वयोः मध्ये किं कस्मिन्‌ ? कः आधारः कः आधेयः ? इति चेत्‌ वृत्ति-अनियामकसम्बन्धः | केवलं संयोगः अस्ति, तावत्‌ एव |


'जीवात्मा सुखी' (अथवा सौकर्यार्थम्‌ 'आत्मा सूखी') इति आकारे, कारणं किम्‌ ? 'आत्मा सुखी' इत्येकं ज्ञानम् | तस्य च ज्ञानस्य कारणं किम्‌ ? तत्र आत्मा कारणं वा ? मनः कारणं वा ?


अत्र प्रथमतया कारणं नाम किम्‌ इति किञ्चित्‌ पुनस्स्मरामः | पूर्वमेव अस्माभिः दृष्टंं यत्‌ कस्यचित्‌ फलस्य, कार्यस्य किञ्चित्‌ 'कारणं' भवति चेत्‌, त्रयः निकषाः सन्ति—


१) कार्याधिकरणे भवेत्‌

२) कार्याधिकरणे सर्वदा भवेत्‌

३) कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे भवेत्‌ |


अतः एतत्‌ सर्वं दृष्ट्वा जानीमः यत्‌ 'अहं सुखी' इति ज्ञानम्‌, अत्र कार्यम्‌ | इदं ज्ञानं कुत्र उत्पद्यते ? आत्मनि | 'ज्ञानाधिकरणम्‌ आत्मा' इति लक्षणवाक्यम्‌ अस्ति किल | अतः कार्याधिकरणम्‌ आत्मा | आत्मा एव कार्याधिकरणं, किन्तु आत्मा कार्याधिकरणे अस्ति वा ? आत्मा स्वस्मिन्‌ भवति वा ? पूर्वम्‌ अस्माभिः दृष्टं यत्‌ आत्मा तादात्म्यसम्बन्धेन स्वस्मिन्‌ अस्ति | सर्वादा अस्ति, पूर्वक्षणेऽपि अस्ति | आत्मा नास्ति चेत्‌ ज्ञानं न उत्पद्यते इति कृत्वा आत्मा 'अहं सुखी' इति ज्ञानस्य कारणम्‌ | मनः अपि तथा | मनः संयोगसम्बन्धेन आत्मनि | (अथवा आत्मा मनसि यतोहि वृत्ति-अनियामकसम्बन्धः |) अतः आहत्य ज्ञानरूपिकार्यं प्रति आत्मा अपि कारणं, मनः अपि कारणम्‌ |


कारणं त्रिप्रकारकम्‌— समवायीकारणम्‌, असमवायीकारणं, निमित्तकारणं च | समवायीकारणस्य द्वौ निकषौ— यत्‌ (१) कार्यं प्रति कारणं भवति, अपि च (२) कार्यस्य अधिकरणं भवति समवायसम्बन्धेन— तत्‌ समवायीकारणम्‌ इति उच्यते | अतः 'अहं सुखी' इति ज्ञानं प्रति, आत्मा समवायीकारणं भवति |


असमवायीकारणं नाम किम्‌ ? समवायीकारणं सदा यत्किमपि द्रव्यं भवति एव | घटस्य समवायीकारणं कपालः; पटस्य समवायीकारणं तन्तुः | असमवायीकारणस्य द्वौ निकषौ— (१) यत्‌ समवायीकारणं द्रव्यं, तस्मिन्‌ विद्यमानः कश्चन गुणः अथवा काचित्‌ क्रिया, असमवायीकारणं भवति; (२) सः गुणः क्रिया च, कार्यं प्रति कारणीभूता स्यात्‌ | अत्र पटस्य उदाहरणं पश्यामः | पटस्य समवायीकारणं तन्तुः | तन्तौ विद्यमानः कश्चन गुणः अपेक्षितः यः पटं प्रति कारणम्‌ अस्ति | स च गुणः तन्तुसंयोगः भवति | तन्तूनां परस्परसंयोगः, पटं प्रति कारणमेव | यतोहि ते तन्तवः परस्परं संयुज्यन्ते इत्येव किल तत्र पटः जायते | अतः तन्तुसंयोगः असमवायीकारणम्‌ |


क्रियायाः उदाहरणं पश्यामः | काचन उत्पीठिका अस्ति | अहम्‌ उत्पीठिकां स्पृशामि | हस्त-उत्पीठिकयोः स्पर्शसमये संयोगः जायते | तर्हि अत्र संयोगः कार्यम्‌ | अयं संयोगः कश्चन गुणः | चतुर्विंशतौ गुणेषु संयोगः अन्यतमः | तस्य संयोगस्य समवायीकारणं किम्‌ इत्युक्ते उत्पीठिका हस्तः च | यत्‌ कार्यस्य अधिकरणं भवति समवायसम्बन्धेन, तत्‌ समवायीकारणम्‌ | समवायीकारणम्‌ उत्पीठिका हस्तः च, एतद्द्वयम्‌ | अत्र असमवायीकारणं किम्‌ इत्युक्ते, हस्ते विद्यमाना क्रिया | यतोहि हस्ते काचित् क्रिया जाता, तस्मात्‌ हस्तस्य उत्पीठिकायाः संयोगः जातः | अतः इदानीं हस्त-उत्पीठिकयोः संयोगं प्रति हस्ते विद्यमाना क्रिया असमवायीकारणं भवति |


समवायीकारणम्‌, असमवायीकारणं च विहाय अन्यानि यानि यानि कारणानि, तानि सर्वाणि निमित्तकारणानि एव | अत्र मनः निमित्तकारणं भवति | निमित्तकारणं किमर्थम्‌ ? प्रथमतया मनः कारणम्‌ अस्ति इति तु सत्यमेव | “मयि सुखं जायते" इति ज्ञाने प्रक्रिया एवं भवति— आदौ आत्मा मनसा संयुज्यते, अनन्तरं मनः इन्द्रियैः सह संयुज्यते, अन्ते इन्द्रियाणि पदर्थैः सह संयुज्यन्ते |


उदाहरणार्थम्‌ अहम्‌ एकं चित्रं पश्यामि, तस्मात्‌ च सुखं जायते इति चिन्तयन्तु | आदौ आत्मा मनसा सह संयुज्यते, तदा मनः चक्षुरिन्द्रियेण सह संयुज्यते, अन्ते इन्द्रियं चित्रेण सह संयुज्यते | तदानीं सुखं जायते आत्मनि | अतः तत्र आत्मनि यत्‌ सुखं जायते, तत्‌ प्रति मनः अपि कारणं भवति, इन्द्रियम्‌ अपि कारणं भवति, तच्चित्रमपि कारणं भवति | इमानि सर्वाणि अपि निमित्तकारणानि भवन्ति |


समवायीकारणम्‌, असमवायीकारणं च विहाय अन्यानि यानि यानि कारणानि, तानि सर्वाणि निमित्तकारणानि एव | तस्मात्‌ मनः अपि निमित्तकारणं, शरीरमपि अपि निमित्तकारणम्‌, इन्द्रियम्‌ अपि निमित्तकारणं, तच्चित्रमपि निमित्तकारणम्‌ | अपि च समवायीकारणम्‌ आत्मा, असमवायीकारणम्‌ आत्ममनस्संयोगः |


एतत्‌ सर्वं दृष्ट्वा मनसः लक्षणवाक्यकथनावसरे, दलद्वयम्‌ अपेक्षितम्‌ | एतावत्‌ पर्यन्तं यत्‌ उक्तं, तेन प्रमाणितं यत्‌ दलद्वयं नास्ति चेत्‌ अतिव्याप्तिः | अस्मिन्‌ प्रसङ्गे अग्रेऽपि शास्त्रीयरीत्या उच्यते |


सुखाद्युपलब्धिसाधनत्वम्‌, इद्रियत्वम्‌ च | सुखाद्युपलब्धिसाधनत्वे सति इन्द्रियत्वं मनसः लक्षणम्‌ | अत्र इन्द्रियवत्त्वं वक्तव्यं वा, इन्द्रियत्वं वक्तव्यं वा ? यथा रूपरहितत्वे सति स्पर्शवत्त्वं वायोः लक्षणम्‌ | तथा इन्द्रियवत्त्वम्‌ इति वक्तव्यं किल ? किन्तु स्मर्तव्यं यत्‌ वायोः प्रसङ्गे स्पर्शः कश्चन गुणः अस्ति | वायुः द्रव्यं च | अतः वायुः स्पर्शवान्‌ भवति | तस्मात्‌ वायौ स्पर्शवत्त्वम्‌ | किन्तु मनसः प्रसङ्गे इन्द्रियं गुणः वा ? नास्ति किल; मनः एव इन्द्रियम्‌ | यथा स्पर्शः वायौ अस्ति, तथा इन्द्रियं मनसि अस्ति इति नास्ति; मनः एव इन्द्रियम्‌ अतः इन्द्रियत्वम्‌ इति तावत्‌ एव | इन्द्रियवत्त्वम्‌ इति अत्र न अपेक्षितम्‌ | सुखाद्युपलब्धिसाधनत्वम्‌ अपि मनसि अस्ति, इन्द्रियत्वम्‌ अपि मनसि अस्ति | अतः सुखाद्युपलब्धिसाधनत्वे सति इन्द्रियत्वं मनसः लक्षणम्‌ |


इदानीं सुखाद्युपलब्धिसाधनत्वम्‌ | तस्य विस्तृतरूपेण वदनार्थम्‌ एकं किञ्चित्‌ दीर्घवाक्यम्‌ अपेक्षते यथा अस्माभिः दृष्टं निरूपितं च कालस्य कृते | एतत्‌ सर्वं परिशीलयामः 'आत्मा सुखी' इति प्रसङ्गे | 'आत्मा सुखी' इत्यनेन सुखं कुत्र ? आत्मनि | अधुना 'आत्मा सुखी' इति ज्ञानम्‌; अतः आत्मा अपि ज्ञानस्य विषयः, सुखम्‌ अपि ज्ञानस्य विषयः | विषये विषयता अस्ति, तस्मात्‌ उभये (आत्मनि सुखे च) विषयता | अपि च सुखम्‌ आत्मनि इति कारणेन आत्मा विशेष्यं, सुखं विशेषणम्‌ | तर्हि सुखे का नामिका विषयता ? प्रकारता | आत्मनि का नामिका विषयता ? विशेष्यता | इति कृत्वा अस्माकं वाक्यद्वयम्‌ उत्पन्नम्— सुखनिष्ठप्रकारतानिरूपकं ज्ञानम्‌, आत्मनिष्ठविशेष्यतानिरूपकं ज्ञानम्‌ | सुखे विद्यमानः धर्मः सुखत्वम्‌; आत्मनि विद्यमानः धर्मः आत्मत्वम्‌ | एतदाधारेण लक्षणवाक्यं भवति | तत्‌ किम्‌ ? सुखत्वावच्छिन्न-प्रकारतानिरूपित, आत्मत्वावच्छिन्नविशेष्यतानिरूपक-प्रत्यक्षज्ञाननिष्ठ-प्रत्यक्षत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वे सति इन्द्रियत्वं मनसः लक्षणम्‌ | अनेन सुखाद्युपलब्धिसाधनत्वे सति इन्द्रियत्वं मनसः लक्षणम्‌ |


अत्र इन्द्रियत्वं किमर्थं योजनीयम्‌ आसीत्‌ ? यतोहि सुखाद्युपलब्धिसाधनत्वम्‌ इति कारणत्वं बहुषु वर्तते न केवलं मनसि | यथा शरीरम्‌ | सुखादिसाक्षात्कारं प्रति शरीरमपि कारणं भवति | शरीरावच्छेदेन खलु सुखं जायते | शरीरं नास्ति चेत्‌, सुखं न भवति | अत्मनि एव सुखं जायते इति सत्यं किन्तु आत्मनः यावन्तं भागं शरीरम्‌ आवृणोति, तावति भागे एव सुखम्‌ अनुभूयते | दृष्टान्ते इदनीं ग्रीष्मकाले अहं व्यजनं चालयामि | वायुः वाति | वायोः स्पर्शेन सुखम्‌ अनुभूयते | कुत्र अनुभूयते इति चेत्, वस्तुतः आत्मनि एव | किन्तु आत्मनः यावन्तं भागं मम शरीरम्‌ आवृत्य तिष्ठति, तावति भागे एव सुखम्‌ अनुभूयते | अतः शरीरम्‌ अपि सुखस्य साक्षात्कारे कारणं भवति | व्यजनम्‌ अपि सुखादिसाक्षात्कारं प्रति कारणमेव | अत्र बहूनि कारणानि भवन्ति | आत्मा इति समवायीकारणं भवति, आत्ममनसंयोगः इति असमवायीकारणं, तदा अनेकानि निमित्तकारणानि | तेषाम्‌ अतिव्याप्तेः वारणाय इन्द्रियत्वम्‌ अपि वक्तव्यं भवति |


Swarup – July 2016


परिशिष्टम्‌


चित्रस्य दर्शनात्‌ आत्मनि 'अहं सुखी' इति ज्ञानावसरे मनः अपि निमित्तकारणं, चक्षुरिन्द्रियम्‌ अपि निमित्तकारणम्‌ इत्यस्मात्‌ मनसः लक्षणवाक्ये अतिव्याप्तिः अस्तीति कुत्रचित्‌ केषाञ्चित्‌ शङ्का स्यात्‌ | यतोहि सुखाद्युपलब्धिसाधनत्वे सति इन्द्रियत्वम्‌ इति मनसः लक्षणम्‌ | तत्र चक्षुरिन्द्रियं तु इन्द्रियम्‌ अस्त्येव अतः तस्मिन्‌‍ इन्द्रियत्वं; तदा सुखाद्युपलब्धिसाधनत्वम्‌ अपि चक्षुरिन्द्रिये अस्ति चेत्‌ अतिव्याप्तेः प्रसङ्गः तु नास्ति किम्‌ ?


वस्तुतस्तु उपरितनपाठे अनौपचारिकत्वेन कारणस्य परिचयः दीयते, येन समवायीकारणम्‌, असमवायीकारणं, निमित्तकारणं चास्माभिः बुद्धं स्यात्‌ | गम्भीररूपेण अवगन्तव्यं चेत्‌, ततः अग्रे बहुकिमपि वक्तव्यं भवति; तस्य वक्तव्यस्य कश्चन उपभागः अत्र प्रस्तूयते |


कारणत्वं यदा उच्यते, तदा इतोऽपि वार्ताद्वयं परिशीलनीयं भवति— साधारणासाधारणकारणत्वं, साक्षादसाक्षात्कारणत्वं च | न्यायशास्त्रे लक्षणवाक्येषु असाधारणकारणत्वं साक्षात्कारणत्वं च निविष्टम्‌ | निविष्टं नाम यद्यपि नोक्तं, किन्तु अन्तर्गतम्‌ | यथा— कालः ईश्वरः च साधारणकारणानि; तानि तु लोके सर्वेषां कारणं भवन्ति इति कृत्वा लक्षणकारणत्वे मास्तु इति स्वीकारः | असाक्षात्कारणत्वमपि तथा; यस्मिन्‌ कथञ्चित्‌ असाक्षात्कारणत्वं वर्तते, तत्‌ लक्षणवाक्ये मास्तु इति स्वीकारः |


तदर्थं प्रकृते लक्षणे, सुखाद्युपलब्धिसाधनत्वे, 'साक्षात्‌ कारणत्वं' लक्षणवाक्ये नोक्तं, किन्तु यतोहि न्यायशास्त्रे लक्षणवाक्येषु सर्वत्र अन्तर्गतं, निवेशनीयम्‌, अतः अत्रापि भवति | नो चेत्‌ साधारणकारणानि यत्रकुत्रचिदपि नेतुं शक्यन्ते यथा कालादयः |


'चित्रदर्शनात्‌ सुखं जायते' इति स्थितौ, साक्षात्‌ कारणत्वं कुत्र इति पश्येम | समवायीकारणम्‌ आत्मा, असमवायीकारणम्‌ आत्ममनस्संयोगः, तदा निमित्तकारणं किम्‌ ?


चित्रं पश्यति इत्युक्तौ चक्षुरिन्द्रियस्य चित्रस्य च सन्निकर्षः | तत्र चित्रे किञ्चन वस्तु निरूपितं, वर्णितं भवति | चित्रस्य दर्शनेन चित्रे विद्यमानस्य कस्यचित्‌ तत्सदृशवस्तुनः स्मरणं भवति | अनन्तरं तत्‌ विषयीभूतं वस्तु यस्य कृते प्रियं, तस्मिन्‌ आत्मनि सुखं जायते | तर्हि सुखस्य साक्षात्‌ कारणं किं भवति इत्युक्ते तत्‌ प्रियं वस्तु | यदि अप्रियं वस्तु, तर्हि तदनुसृत्य दुःखं जायते न तु सुखम्‌ | अतः प्रियं वस्तु सुखस्य साक्षात्‌ कारणम्‌ |


पुनः— सुखं कथं जायते इत्युक्ते चित्रदर्शनोत्तरकाले, किमपि वस्तु यस्य चित्रणं कृतं, तस्य वस्तुनः स्मरणं जायते; तस्मात्‌ स्मरणात्‌ च सुखम्‌ उत्पद्यते | किन्तु तत्‌ वस्तु अत्र चित्रे न भवति खलु | तद्वस्तु अन्यत्र कुत्रचित्‌ भवति, देशान्तरे | तस्य वस्तुनः सदृशचित्रदर्शनेन स्मरणं, तस्मात्‌ च किञ्चन ज्ञानं जायते | तस्य ज्ञानस्य उत्पत्त्यनन्तरं, वस्तु प्रियं चेत्‌, सुखं जायते |


तत्र चित्रम्‌ एकं माध्यमं येन वर्णितवस्तुनः स्मरणं स्यात्‌ | वस्तु साक्षात्‌ निमित्तकाराम्‌, अन्यत्‌ सर्वं चित्रं, चित्र-इन्द्रियसंयोगः इत्यादिकं येन वस्तुनः स्मरणम्‌ उत्पद्येत, तत्सर्वं कारणस्य कारणं— असाक्षात्‌ कारणम्‌ | असाक्षात्कारणत्वं लक्षणवाक्ये न निविष्टम्‌ |


बोध्यं यत्‌ विभिन्नरीत्या वस्तुनः स्मरणं मनसि आगच्छेत्‌; तासु रीतिषु चित्रदर्शनम्‌ एका | किन्तु मूलसाक्षात्‌ असाधारणकाराणं तत्‌ वस्तु न तु चित्रम्‌ |


तस्मात्‌ लक्षणदृष्ट्या सुखं प्रति चक्षुरिन्द्रियं न कारणम्‌‍, अपि तु प्रयोजकम्‌ एव | चित्रदर्शनेन यत्‌ सुखं जायते, तस्मिन्‌ चक्षुरादीनां साक्षात्‌ कारणत्वं नास्ति; परम्परया किञ्चन निमित्तकारणत्वमेव | ततः अग्रे सुखं प्रति चक्षुरिन्द्रियं कारणं वस्तुतः न भवति; कारणस्य कारणम्‌ इत्यस्ति, तस्मात्‌ प्रयोजकम्‌ इति वक्तव्यम्‌ | अनौपचारिकरूपेण "निमित्तकारणम्‌" इति तु उच्यते, किन्तु वस्तुस्थितिः तथा न | अस्मिन्‌ क्रमे चक्षुरिन्द्रियं साक्षात्‌ कारणं न भवति | चक्षुरिन्द्रियं कुत्र साक्षात्‌ कारणम्‌ इति चेत्‌, अस्य चित्रस्य दर्शने कारणम्‌ |


अधुना प्रतिपक्षी वदति यत् यस्य चक्षुरिन्द्रियं नास्ति, यः अन्धः, द्रष्टुमपि न शक्नोति, तस्य कृते तादृशचित्रं सुखस्य कारणं न भवितुम्‌ अर्हति | अतः यत्र चित्रेण वस्तु वर्णितं, नाम चित्रं यत्र माध्यमेन सुखस्य कारणं तत्र चक्षुरिन्द्रियम्‌ अपि कारणं— तदभावे चित्रात्‌ सुखं न जायते |


किन्तु यत्‌ प्रियवस्तु चित्रे वर्णितं, सः अन्धः कदाचित्‌ चिन्तयति तस्य प्रियवस्तुनः विषये, अनेन प्रियवस्तुनः स्मरणं जातं, तदा आत्मनि सुखं जायते | अत्र चित्रे वर्णितं वस्तु सुखस्य कारणं, किन्तु अन्धस्य चक्षुरिन्द्रियं नास्ति, अतः व्यभिचारः | नाम कार्यम्‌ अस्ति, कार्यं साधितं किन्तु चक्षुरिन्द्रियं नास्ति अतः चक्षुरिन्द्रियं कारणं न |


अधुना प्रतिपक्षी वदति यत् तच्चित्रं किन्तु सुखस्य माध्यमं न भवितुम्‌ अर्हति यत्र चक्षुरिन्द्रियं नास्ति | अत्र उत्तरम्‌ अस्ति यत्‌ चित्रं सुखस्य कारणं न; प्रियवस्तु, चित्रं च समानं न | चित्रं वस्तुस्मारक-रेखाविन्यासः, न तु प्रियवस्तु स्वयम्‌ | चित्रम्‌ अन्यत्‌, वस्तु अन्यत्‌ | चित्रे पश्यति किम्‌ ? रेखाविन्यासं न तु मूलपदार्थम्‌ | प्रियपदार्थः पुरतः नास्ति किल | रेखोपरेखाविन्यासस्य दर्शनेन तत्सदृशवस्तुनः स्मरणं भवति | प्रियवस्तुनः स्मरणमेव सुखं प्रति कारणं, न तु रेखोपरेखाविन्यासस्य दर्शनम्‌ |


वस्तुतः एतादृशसुखस्य उत्पादने दीर्घपरम्परा अस्ति, परन्तु सर्वं क्षणाभ्यन्तरे भवति इत्यतः चक्षुरिन्द्रियवशात्‌ एव सुखम्‌ उत्पन्नम्‌ इति अस्माकं भ्रमः | किन्तु चक्षुरिन्द्रियं केवलं प्रयोजकम्‌ | प्रयोजकं नाम कारणस्य कारणम्‌ | कारण-कारण-कारणम्‌ इति प्रयोजकम्‌ | अतः अत्र चित्रम्‌ अपि प्रयोजकम्‌ | न्याये यत्‌ साक्षात्‌ कारणं, तदेव कारणम्‌ |


अतः सुखाद्युपलब्धिसाधनत्वे सति इन्द्रियत्वं मनसः एव लक्षणं; चक्षुरिन्द्रियस्य अतिव्याप्तिः नास्ति | किन्तु एतदपि मनसि भवेत्‌ यत्‌ उपरितने पाठे यादृशी चर्चा कृता, साऽपि न्यायशास्त्रस्य प्रकोष्ठेषु अतिसामान्यवार्ता | केवलं मनसि स्यात्‌ यत्‌ वस्तुतः, गभीररूपेण अनेकानि 'निमित्तकारणानि' प्रयोजकानि न तु साक्षात्‌ कारणानि | एतदर्थं विद्याधर्यां लिखितं यत्‌ "चक्षुः रूपप्रत्यक्षजनकं, न तु सुखग्राहकमिति नातिव्याप्तिः" | तस्य स्पष्टतया बोधनार्थम्‌ एतत्‌ सर्वं प्रतिपादनीयम्‌ |


Swarup – July 2016

१४ - मनसः लक्षणम्‌ .pdf




–––––––––––––––––––––––––––


धेयम्‌ -- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [click here] and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.