24 - विभागसंयोगनाशयोः कार्यकारणभावः

From Samskrita Vyakaranam
10---nyAyashAstram/24---vibhAga-saMyoga-nAshayoH-kArykAraNabhAvaH
Jump to navigation Jump to search
ध्वनिमुद्रणानि
१) vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-1_2017-10-07
२) vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-2_2017-10-14
३) vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-3_2017-10-21
४) vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-4_2017-10-28


यथोक्तं पूर्वं, न्यायशास्त्रे विभागसंयोगनाशयोः प्रक्रिया एतादृशी उच्यते— आकाशदेशघटयोः संयोगः; घटे क्रिया; यस्मिन्‌ आकाशदेशे घटः स्थितः ततः विभागः; तेन विभागेन आकाशदेशघटयोः संयोगस्य नाशः; अन्येन आकाशदेशेन सह संयोगः; क्रियानाशः | तत्र संयोगः द्विविधः— कर्मजः, संयोगजः च | कर्मजसंयोगः इत्युक्ते कर्मणा संयोगः उत्पद्यते | यथा हस्ते विद्यमानया क्रियया हस्तपुस्तकयोः संयोगः, स च कर्मजः | (तत्र कायपुस्तकयोः संयोगः संयोगजः |) सङ्क्षेपे आहत्य क्रमः एवम्‌— संयोगः, क्रिया, विभागः, संयोगनाशः |


अत्र स्वतन्त्रतया किञ्चित् अन्तिमं चिन्तनम्‌ अस्मिन्‌ विषये | चिन्तनं प्रश्नोत्तररूपेण क्रियते |


[केनचित्‌ सह आलापः]


प्रश्नः— यया रीत्या संयोगः उत्पद्यते कर्मणा तया एव रीत्या किमर्थं वक्तुं न शक्नुमः यत्‌ संयोगनाशः अपि कर्मणा उत्पद्येत ?


उत्तरं— कर्मवशात्‌ एव संयोगः नश्यति इति विवक्षा वा ? एकस्य एव वस्तुनः उत्पादकः नाशकः समानः इति कुत्र दृष्टम्‌ ? उत्पादकः एव नाशकः इति भवान् वदति | उत्पादकः एव नाशकः इति भवितुं नार्हति यतोहि उत्पादकत्वं नाशकत्वम्‌ इति परस्परविरुद्धम्‌ | परस्परविरुद्धधर्मद्वयम्‌ |


प्रश्नः— किमर्थं तथा ? किमर्थम्‌ एकः एव उत्पादकः सोऽपि नाशकः इति भवितुं नार्हति ?


उत्तरं— कुत्र दृष्टम्‌ ? कुत्रचिदपि नास्ति किल |


प्रश्नः— अस्तु कुत्रचिदपि न दृष्टम्‌ इति भवतु | प्रथमवारं किमर्थं न स्यात्‌ ?


उत्तरम्‌— एवं सति द्वितीयक्षणे नाशः कुतो न भवति ? यदि कर्म संयोगं नाशयति, संयोगोत्पत्तेः अग्रिमक्षणे एव संयोगं नाशयितुं विलम्बः कुतः ? कर्म एव कारणं संयोगनाशस्य इत्युच्यते किल |


प्रश्नः— न बुद्धम्‌ | कः विलम्बः ?


उत्तरम्‌— इदानीं पश्यतु | संयोगः प्रथमक्षणे उत्पद्यते | नश्यति च कस्मिन्‌ क्षणे ? द्वितीयक्षणे नश्यति वा ? न नश्यति | कतिपयक्षणानन्तरमेव नश्यति | किमर्थं तावान्‌ विलम्बः ? संयोगस्य उत्पत्तिक्षणे कर्म अस्ति किल, संयोगस्य एव कारणं यत्‌ | कर्म एव नाशकमिति चेत्‌, कुतो न अग्रिमे क्षणे संयोगनाशो न स्यात्‌ ?


प्रश्नः— यतोहि तत्कर्म न, कर्मान्तरम्‌ | हस्ते विद्यमाना या क्रिया, यया क्रियया हस्तपुस्तकसंयोगः निष्पन्नः, द्वयोः संयोगनाशः तया क्रियया न; अन्यया क्रियया |


उत्तरं— किन्तु तथा सति प्रक्रिया अनुसर्तव्या भवति | नाम क्रिया, ततो विभागः, तदा पूर्वसंयोगनाशः इति प्रक्रिया | तदानीं क्रिया अन्यथा सिद्धा भवति | संयोगनाशात्‌ पूर्वक्षणे विभागः अस्ति | तर्हि क्रिया कारणत्वेन अन्यथा सिद्धा |


प्रश्नः— यया क्रियया विभागः निष्पन्नः, तया क्रियया किमर्थं संयोगनाशः न स्यात्‌ ?


उत्तरं— तर्हि विभागस्य क्षणे संयोगनाशः | यदि क्रिया एव कारणं संयोगनाशस्य, तर्हि विलम्बः कुतः ? प्रथमक्षणे क्रिया, द्वितीयक्षणे विभागः, तृतीयक्षणे संयोगनाशः इति अस्ति किल प्रक्रिया |


प्रश्नः— तथा मन्यते चेत्‌ | किन्तु प्रतिपक्षी वदेत्‌ यत्‌ विभागः संयोगनाशः च समानकाले किमर्थं न स्यात्‌ ? नाम विभागः अतिरिक्तगुणः मा भवतु |


उत्तरं— तर्हि संयोगनाशः एव विभागः भवतु इति वा ?


प्रश्नः— सत्यम्‌ |


उत्तरं— संयोगनाशः एव विभागः इति स्वीक्रियते चेत्‌, 'विभक्तः' इति प्रत्ययः भवति लोके | 'हस्तात्‌ विभक्तं पुस्तकम्‌' | 'विभक्तः' इति प्रत्ययस्य प्रत्यक्षं लोके अस्ति | हस्तपुस्तयोर्विभागो जातः इति | संयोगो नष्टः इत्यर्थः इति वदतु | किन्तु 'विभक्तः' इत्यस्य कथनेन एकः अवधिः अस्माभिः अनुभूयते | हस्तात्‌ पुस्तकं विभक्तम्‌ | पञ्चम्यन्तप्रयोगः क्रियते इत्युक्ते कश्चन अवधिः अस्ति | संयोगनाशः इति चेत्‌ नाशस्य अवधिः न भवति | अतः पृथक्तया सावधिकः कश्चन पदार्थः अस्ति इति वक्तव्यम् |


प्रश्नः— सत्यम्‌ | तर्हि अतिरिक्तः गुणः विभागः इति भवतु | किन्तु स च विभागः संयोगनाशात्‌ पूर्वम्‌ अस्ति इति तु नोक्तम्‌ | पूर्ववृत्तित्वं प्रमाणितं भवेत्‌ | केचन वदन्ति यत्‌ विभागः संयोगनाशात्‌ भिन्नः इति चेदपि तस्य पूर्ववृत्तित्वस्य प्रमाणं नास्ति | संयोगनाशस्य पूर्ववृत्तित्वाभावात्‌ यद्यपि तादृशविभागरूपप्रत्ययः स्यात्‌, किन्तु विभागः संयोगनाशं प्रति कारणं पूर्ववृत्तित्वाभावात्‌ कथं वा स्यात्‌ ?


उत्तरं— विभागः अन्यः इति यदा स्वीक्रियते, तदानीं पूर्वतरभावः आयाति एव | अत्र विभागसंयोगनाशयोः भेदः कर्तव्यः इति आयाति किल | यदा भेदः स्वीकृतः, तदानीं तयोः कश्चन सम्बन्धः अपि वक्तव्यः अस्ति | कः सम्बन्धः ? कार्यकारणभावः |


प्रश्नः— यद्यपि तयोः भेदः स्यात्‌, तथापि तयोः समानकालिकम्‌ अस्तित्वं भवितुं नार्हति वा ?


उत्तरं— किन्तु द्वयोः भेदः अस्ति चेत्‌, तयोः कश्चन सम्बन्धः उपपादनीयः | कः सम्बन्धः द्वयोः भवितुम्‌ अर्हति ? कार्यकारणभावः |


प्रश्नः— किमर्थं न समानकाले क्रियया विभागः अपि उत्पद्यते, तस्मिन्नेव काले तया एव क्रियया संयोगनाशः अपि जायते ?


उत्तरं— विभागसंयोगनाशयोः कार्यकारणभावः अस्ति; तदर्थं कारणस्य पूर्ववृत्तित्वं भवेत्‌ |


प्रश्नः— द्वयोः कार्यकारणभावः न मन्यते चेत्‌ ? यथा भूतले सूर्यकिरणैः सस्यमपि उत्पद्यते, तस्य पार्श्वे समानकाले वृक्षः अपि उत्पद्यते | सस्यवृक्षयोः कार्यकारणभावः नास्ति; द्वयोरपि कारणं सूर्यकिरणानि | एवमेव हस्तपुस्तकयोः संयोगः जातः, तदा हस्ते विद्यमानया क्रियया द्वयोः विभागः भवति | तस्मिन्नेव काले विभागः अपि भवति, संयोगनाशः अपि भवति; क्रिया कारणम्‌ अस्ति द्वयोः |


उत्तरं— क्रियया संयोगः जायते; तदा क्रियया संयोगः नश्यति इति न भवितुम्‌ अर्हति खलु |


प्रश्नः— क्रियान्तरम्‌ | विभागः भिन्नः, संयोगनाशः भिन्नः; द्वयोः मध्ये कार्यकारणभावः नास्ति इति चिन्त्यते चेत्‌, किमर्थं न समानकाले द्वावपि जायेयाताम्‌ ?


उत्तरं— किन्तु विभागः भिन्नः, संयोगनाशः भिन्नः इति स्वीक्रियते चेत्‌, द्वयोः कश्चन सम्बन्धः मन्तव्यः | यतोहि यत्र संयोगनाशः भवति, तत्र विभागः प्रतीयते |


प्रश्नः— द्वयोः सम्बन्धः किमर्थं वक्तव्यः ?


उत्तरं— यतोहि यत्र 'द्वयोः संयोगः नष्टः' इति भवति, तत्र विभागः अपि प्रतीयते | यदा सहचर्यम्‌ अनुभूयते, तदानीं कश्चन सम्बन्धः भवेत्‌ |


प्रश्नः— यथोक्तं भूतले सूर्यकिरणैः बहूनि सस्यानि उत्पद्यन्ते | तेषां सर्वेषां कोऽपि विशिष्टसम्बन्धो नास्ति | कुत्रचित्‌ सस्यम्‌ उत्पद्यते; पार्श्वे वृक्षः उत्पद्यते | द्वयोः सम्बन्धस्य वदनस्य का आवश्यकता ? आवश्यकता नास्ति किल ?


उत्तरम्‌— अस्तु तर्हि तद्वत्‌ अत्र विभागसंयोगनाशयोः कारणम्‌ क्रिया एव भवतु इति चेत् चिन्तयाम | परन्तु सस्यवृक्षयोः नैयत्यं नास्ति | अत्र विभागसंयोगनाशयोः नियतत्वं; नियमेन सहचर्यम्‌ अस्ति | तत्र तु एकेन सस्येन साकं यत्किमपि सस्यम्‌ उत्पद्येत | एतदेव सस्यं जायेत इति नास्ति | परन्तु अत्र विभागः अस्ति चेत्‌, संयोगनाशः अपि भवत्येव इति दृष्टम्‌ | तर्हि नियतः कश्चन सम्बन्धः अस्ति | नियतः सम्बन्धः अस्ति चेत्‌, कार्यकारणभावो वा कश्चन भवेदेव |


प्रश्नः— कश्चन सम्बन्धः नाम द्वयोः कारणं समानम्‌ | समानकारणजन्यत्वम्‌ |


उत्तरं— तर्हि एतत्पक्षानुसारं विभागजविभागः कथम्‌ उपपाद्यते ? हस्तपुस्तकविभागः, तदा कायपुस्तकविभागः इति |


प्रश्नः— तत्रापि विभागः च संयोगनाशः समानक्षणे भवतु |


उत्तरं— विभागसंयोगनाशयोः कार्यकारणभावो नास्ति चेत्‌, समानक्रियातः जायते चेत्‌ किमर्थं द्वयोः पार्थक्यम्‌ ?


प्रश्नः— एका एव घटना दृष्टिद्वयेन द्रष्टुं शक्यते किल ? सावधिकविवक्षायां विभागः इति वक्तव्यं; सावधिकविवक्षा नास्ति चेत्‌, संयोगनाशः | घटना एका एव |


उत्तरम्‌ — अस्तु, तर्हि एतादृशः अपि मार्गः भवितुम्‌ अर्हति |


प्रश्नः— भवितुम्‌ अर्हति चेत्‌ लाघवं किल | तर्हि विभागसंयोगनाशयोः कार्यकारणभावं, विभागस्य च पूर्ववृत्तित्वं च त्यजाम |


उत्तरं— न, किन्तु कार्यकारणभावस्य स्वीकारे नियामकं भवति अन्वयव्यतिरेक-अनुविधानम्‌ | अन्वयव्यतिरेकसहचाराभ्यां कार्यकारणभावः निर्णीयते | दण्डसत्त्वे घटसत्त्वं, दण्डाभावे घटाभावः इति अन्वयव्यतिरेकसहचारः; अन्वयव्यतिरेकसहचाराभ्यां कार्यकारणभावः | इति यथा, तथैव अत्रापि अन्वयव्यतिरेकसहचारौ स्तः | तदाधारेण तयोः कार्यकारणभावः स्वीकृतः | अन्वयव्यतिरेकसहचारौ एव प्रमाणं कार्यकारणभावस्य स्वीकारे | अत्र संयोगनाशस्य विभागेन साकं तादृशसहचरौ स्तः— विभागः भवति चेत्‌ संयोगनाशः; विभागो नास्ति चेत्‌ संयोगनाशो नास्ति | एवं च मार्गद्वयं भवतु | भवदुक्तरीत्या, तदा च अत्र कार्यकारणभावः |


प्रश्नः— किन्तु द्वयोः मध्ये एकः दोषपूर्णः अपि भवितुम्‌ अर्हति किल |


उत्तरं— न, द्वाभ्यामपि मार्गाभ्याम्‌ उपपादयितुं शक्यते | यथा दृष्टिः तथा सृष्टिः | तृतीयमार्गः अपि अस्ति | मीमांसकेषु कश्चन वदति यत्‌ कार्यकारणभावः अपि अस्ति, द्वयोः समानकालिकोपपत्तिरपि अस्ति | यस्मिन्‌ समये कारणं, तस्मिन्नेव समये कार्यमपि | कारणपूर्ववृत्तित्वस्य आवश्यकता एव नास्ति इति तेषां मतम्‌ |


प्रश्नः— किन्तु अन्यप्रश्नः अस्ति | दण्डसत्त्वे घटसत्त्वं, दण्डाभावे घटाभावः इत्युक्तम्‌ | घटसत्त्वे दण्डसत्त्वं, घटाभावे दण्डाभावः इति वक्तुं न शक्यते किल | नाम विपरीतत्वेन नोच्यते |


उत्तरं— सत्यम्‌ | येन साकम्‌ अन्वयव्यतिरेकसहचारौ स्तः, तत्‌ कारणम्‌ | घटस्य दण्डेन साकम्‌ अन्वयव्यतिरेकसहचारौ स्तः अतः दण्डः कारणम्‌ | दण्डे सति घटः भवति, दण्डे असति घटः न भवति | विभागे सति संयोगनाशो भवति; विभागे असति संयोगनाशो न भवति |


प्रश्नः— किन्तु अयं कार्यकारणभावः एकस्यां दिशि एव भवति | घटसत्त्वे दण्डसत्त्वं, घटाभावे दण्डाभावः इति नास्ति, किन्तु कुत्रचित्‌ तथा विपरीतत्वेन भवति चेत्‌ किं वक्तव्यं भवति ? तदा उभयथा कार्यकारणभावः इति वा ? घटाभावे दण्डाभावः इति वक्तुं न शक्यते किल | यतोहि दण्डः कुत्रचित्‌ भवति यत्र घटः न स्यात्‌ | नाम दण्डस्य उत्पादनार्थं घटस्य आवश्यकता नास्ति | किन्तु विभागः कुत्रचित्‌ भवति यत्र संयोगनाशो नास्ति इति वा ? विभागस्य उत्पादनार्थं संयोगनाशस्य आवश्यकता नास्ति चेत्‌, विभागः कुत्रचित्‌ भवेत्‌ यत्र संयोगनाशो नास्ति | यया रीत्या दण्डस्य निर्माणार्थं घटः नापेक्षते अतः कुत्रचित्‌ दण्डः भवति यत्र घटः नास्ति, एवमेव विभागः कुत्रचित्‌ भवेत्‌ यत्र संयोगनाशः न स्यात्‌ |


उत्तरं— किन्तु क्वचित्‌ कार्यकारणयोः समनियतत्वं भवति, क्वचिच्च न भवति | प्रकृतस्थले कार्यकारणयोः समनियतत्वम्‌ अस्ति, विभागसंयोगनाशयोः | समनियतत्वं नाम समानप्रदेशता |


प्रश्नः— नाम दण्डघटयोः यादृशकार्यकारणभावः अस्ति, तस्मात्‌ भिन्नकार्यकारणभावः विभागसंयोगनाशयोः |


उत्तरं— सत्यम्‌ | यतोहि दण्डघटयोः असमनियतत्वं; विभागसंयोगनाशयोः समनियतत्वम्‌ | विभागसंयोगनाशयोः एक एव अवस्थानं भवति | तथा नास्ति दण्डघटयोः स्थले |


- - - - - - - -


(सम्भाषणानन्तरं प्रच्छकस्य मनसि इतोऽपि केचन प्रश्नाः, ये अग्रिमे सम्भाषणे पृच्छ्यन्ते)


- - - - - - - -


[अपरेण सह आलापः]


प्रश्नः— अन्वयव्यतिरेकसहचाराभ्यां कार्यकारणभावः निश्चीयते | तत्र च विभागः संयोगस्य नाशकः इति कृत्वा विभागेन संयोगनाशः उत्पद्यते | अधुना दण्डः अस्ति चेदेव घटः उत्पद्यते, किन्तु घटः नास्ति चेदपि दण्डः उत्पद्यते | यत्र यत्र दण्डः तत्र तत्र घटः इति अन्वयसहचारः |


उत्तरं— सत्यम्‌ | तत्सत्त्वे तत्सत्त्वं— कारणसत्त्वे कार्यसत्त्वम्‌ | अत्र 'दण्डसत्त्वे' इत्युक्ते केवलदण्डसत्त्वम्‌ इति नार्थः | अपि तु सामग्र्यां सत्यां दण्डः अस्ति चेत्‌, घटः उत्पद्यते | दण्डं विहाय अन्या सर्वा सामग्री अस्ति किन्तु दण्डः नास्ति चेत्‌, घटः न उत्पद्यते |


प्रश्नः— तत्र च दण्डाभावे घटाभावः इति सत्यं, किन्तु घटाभावे दण्डाभावः इति न भवति किल | तथापि विभागसंयोगनाशयोः कार्यकारणभावः चेदपि तयोः सम्बन्धः न तथा यथा दण्डघटयोः | विभागसत्त्वे संयोगनाशसत्त्वं, विभागाभावे संयोगनाशाभावः इति तु आस्ति, किन्तु संयोगनाशसत्त्वे विभागसत्त्वं, संयोगनाशाभावे विभागाभावः अपि अस्ति | अत्र उच्यते यत्‌ विभागसंयोगनाशयोः समनियतत्वम्‌ अस्ति; दण्डघटयोः तथा नास्ति |


विभागसंयोगनाशयोः मध्ये उभयथा अन्वयव्यतिरेकसहचारौ स्तः इति चेत्‌ कथं जानीमः द्वयोः मध्ये किं कारणं, किञ्च कार्यम्‌ ? किमर्थं न वदामः यत्‌ संयोगनाशः कारणं, विभागः कार्यम्‌ ? नाम किं पूर्वं किम्‌ अनन्तरम्‌ इति कथं ज्ञायेत ?


उत्तरं— समीचीनप्रश्नः | अत्र लोकव्यवहारः विनिगमकः, निर्णायकः इत्यस्मिन्‌ विषये किञ्चित्‌ चिन्तयाम | यदा दण्डेन घटं ताडयति, तदा द्वयोः कपालयोः संयोगः नष्टः इत्यपि लोके उच्यते; द्वौ कपालौ विभक्तौ इत्यपि उच्यते | लोके विभागः, संयोगनाशः इति एक एव वस्तु इति व्यवहारः | अतः लोकव्यवहारः विनिगमकः इति वक्तुं न शक्यते | शास्त्रीया काचित्‌ युक्तिः अस्माभिः द्रष्टव्या |


संयोगनाशः इति कीदृशपदार्थः ?


प्रश्नः— अभावपदार्थः |


उत्तरं— सत्यम्‌ | तेन अभावपदार्थेन विभागः उत्पद्यते इति वक्तव्यं चेत्‌, अभावेन भावपदार्थस्य उत्पत्तिः इति अङ्गीकृतं भवति |


प्रश्नः— अभावपदार्थेन भावपदार्थस्य उत्पत्तिः इति भवति खलु | यथा रूपनाशात्‌ रूपान्तरम्‌ उत्पद्यते | यत्र तेजःसंयोगेन आम्रफले हरितरूपं नश्यति, रूपान्तरं च उत्पद्यते तत्र न केवलं तेजःसंयोगः अपि तु पूर्वविद्यमानरूपस्य नाशः अपि परविद्यमानरूपं प्रति कारणम्‌ | यावत्‌ पूर्वविद्यमानरूपनाशः न जायते, तावत्‌ रूपान्तरं नोत्पद्यते इति कृत्वा |


उत्तरं— निमित्तकारणं तु भवितुम्‌ अर्हति अभावः | यथा महान्‌ वायुः अस्ति चेत्‌, वृष्टिः न पतिष्यति | अतः वृष्टिपातं प्रति महान्‌ वायुः प्रतिबन्धकः | तस्य च अभावे एव वृष्टिः भवति | तर्हि वायोः अभावः वृष्टिपातस्य कारणं; निमित्तकारणं परन्तु | न समवायिकारणं न वा असमवायिकारणम् |


परन्तु अत्र संयोगनाशस्य विभागं प्रति कारणत्वम्‌ अस्माभिः उच्यमानम्‌ असमवायिकारणरूपं जातम्‌ | अभावपदार्थः भावपदार्थस्य उत्पत्तौ असमवायिकारणं न भवति |


प्रश्नः— किन्तु अत्र संयोगनाशः इति अभावः असमवायिकारणम्‌ इति नोच्यते | संयोगनाशः समवायसम्बन्धेन अधिकरणे नास्ति | अतः असमवायिकारणं कथं वा स्यात्‌ ?


उत्तरम्‌— एवं सति विभागस्य असमवायिकारणं किम्‌ ?


प्रश्नः— विभागस्य असमवायिकारणं भवेदेव इति नास्ति किल |


उत्तरं— को‍ऽपि भावपदार्थः उत्पद्यते चेत्‌ तस्य समवायिकारणम्‌ असमवायिकारणं च भवतः | विभागः भावरूपपदार्थः; तस्य असमवायिकारणं भवेदेव | किमपि द्रव्यं, गुणं, कर्म वा पश्यतु | जातिः, विशेषः, समवायः, एते तु नोत्पद्यन्ते नित्यत्वात्‌ | किन्तु द्रव्यं, गुणः, कर्म इत्येषाम्‌ असमवायिकारणं भवत्येव | अतः कथं असमवायिकारणं विना विभागरूपभावपदार्थस्य उत्पत्तिः कर्तुं शक्येत ?


अस्माभिः उक्ते क्रमे दण्डक्रियातः एकस्मिन्‌ कपाले द्वयोः मध्ये वा क्रिया उत्पन्ना | सा च क्रिया विभागं जनयति | सा क्रिया विभागस्य असमवायिकारणम्‌ | स च विभागः पुनः संयोगनाशस्य निमित्तकारणम्‌ | एवं च विभागरूपभावपदार्थोत्पत्तिं प्रति क्रियारूपभावपदार्थस्य असमवायिकारणत्वं सुष्ठु उपपद्यते | नो चेत्‌ विपरीतक्रमे असमवायिकारणाभावे सत्यपि विभागस्य उत्पत्तिः अस्माभिः अङ्गीकर्तव्या भवति |


आहत्य विभागस्य असमवायिकारणम्‌ अपेक्षितं, तच्च असमवायिकारणं क्रिया इत्येव भवितुम्‌ अर्हति | एकवारं यदा कपाले क्रिया उत्पद्यते, तदा झटिति विभागः उत्पद्यते; अनन्तरमेव संयोगनाशः |


प्रश्नः— अस्तु, साधु एव | विभागसंयोगनाशयोः कार्यकारणभावं स्वीकुर्मश्चेत्‌ भवदुक्तरीत्या समनियतत्वं वर्तते चेदपि विभागरूपभावपदार्थस्य असमवायिकारणावश्यकत्वात्‌ विभागः पूर्वमेव, संयोगनाशः अनन्तरम्‌ इति स्वीकर्तव्यं स्यात्‌ | परन्तु वस्तुतः विभागः च संयोगनाशः च द्वयमपि युगपत्‌ क्रियया उत्पद्यते इति मम भाति | क्रिया एव द्वयोः कारणं; समानकाले व्युत्पत्तिः द्वयोः इति युक्तपूर्णमार्गः प्रतीयते | विभागः संयोगनाशः इति पदार्थद्वयं समानम्‌ इति न, किन्तु समानकाले व्युत्पन्नम्‌ | लाघवम्‌ अपि अस्ति |


उत्तरं— सम्यक्‌ चिन्तनं भवतः | अत्र भिन्नक्षणोत्पत्तिकत्वम्‌ इति कथं प्रतिपादयितुं शक्नुमः इत्युक्तौ संयोगनाशं प्रति तत्र तत्र क्रियायाः कारणत्वकल्पनापेक्षया विभागेन एव संयोगनाशः उत्पद्यते इति अङ्गीकुर्मश्चेत्‌ संयोगनाशं प्रति विभागः कारणम्‌ इति कार्यकारणभावे लाघवं भवति |


प्रश्नः— लाघवं कथम्‌ ?


उत्तरं— विभागं प्रति कुत्रचित्‌ क्रिया कुत्रचित्‌ विभागः इति कारणत्वेन अङ्गीकर्तव्यमेव | भवदुक्तरीत्या एकस्मिन्‌ क्षणे संयोगनाशः विभागः चोत्पद्येते इत्युक्तौ संयोगनाशं प्रति विभागः न कारणम्‌ | तर्हि किं कारणं संयोगनाशस्य ?


प्रश्नः— क्रिया, साक्षात्‌ |


उत्तरं— क्रिया | अस्तु; अस्मिन्‌ लाघवं वर्तते न वा इति द्रष्टव्यम्‌ | विभागं प्रति क्वचित्‌ क्रिया कारणं, क्वचित्‌ विभागः एव कारणम्‌ |


प्रश्नः— सत्यम्‌ | नाम, हस्तपुस्तकयोः विभागः कर्मजः, कायपुस्तकयोः विभागः विभागजः |


उत्तरम्‌— इत्थञ्च विभागं प्रति क्वचित्‌ क्रिया कारणं— हस्तपुस्तकयोः विभागे हस्तगतक्रिया कारणम्‌ | क्वचित्‌ विभागः एव कारणं— कायपुस्तकयोः विभागे हस्तपुस्तकविभागः कारणम्‌ | इदानीं विभागः च संयोगनाशः च द्वयमपि युगपत्‌ उत्पद्यते इति चेत्‌, एवमेव करणीयं भवति संयोगनाशस्य कृतेऽपि |


प्रश्नः— सत्यम्‌ | हस्तपुस्तकयोः संयोगनाशे क्रिया कारणं; कायपुस्तकयोः संयोगनाशे हस्तपुस्तकसंयोगनाशः एव कारणम्‌ |


उत्तरं— सत्यम्‌ | तदपेक्षया संयोगनाशं प्रति विभागः एव कारणम्‌ इति स्वीकुर्मः; अनेन संयोगनाशस्य एकमेव कारणं भवति | विभागस्य कारणद्वयम्‌ इति अवश्यं स्वीकार्यं— क्वचित्‌ क्रिया कारणं, क्वचित्‌ विभागः कारणम्‌ | यतोहि (१) विभागसंयोगनाशयोः कार्यकारणभावः स्वीक्रियते चेत्‌, यथोक्तं समनियतत्वं चेदपि विभागः अवश्यं पूर्वं भवेत्‌, अतः तस्य 'क्वचित्‌ क्रिया कारणं, क्वचित्‌ विभागः कारणम्‌'; (२) विभागसंयोगनाशौ युगपत्‌ जायेते चेदपि विभागस्य 'क्वचित्‌ क्रिया कारणं, क्वचित्‌ विभागः कारणम्‌' | परन्तु संयोगनाशस्य तादृशकार्यकारणभावद्वयस्य आवश्यकता नास्ति | तर्हि कार्यकारणभावद्वयम्‌ इति किमर्थम्‌ ? संयोगनाशं प्रति विभागः कारणम्‌ इति एकेन कारणेन संयोगनाशः सर्वत्र सम्पद्यते |


प्रश्नः— नाम हस्तपुस्तकसंयोगनाशं प्रति हस्तपुस्तकविभागः कारणम्‌ | कायपुस्तकसंयोगनाशं प्रति कायपुस्तकविभागः कारणम्‌ इति वा ? इति चेत्‌ पुनः भिन्नविभागः किल | उभयत्र भिन्नविभागः कारणं इति कृत्वा लाघवं कथम्‌ ?


उत्तरं— अनेन, विभागत्वेन सर्वेषां विभागानां सङ्ग्रहः भवति | इदानीं भवदुक्तरीत्या क्रियात्वेन हस्तगतक्रिया, दण्डगतक्रिया, कपालगतक्रिया, सर्वाः सङ्ग्रहीतुं शक्यते | विभागं प्रति क्रिया कारणम्‌ इति; सर्वाः क्रियाः अपि अन्तर्भूताः | कायपुस्तकविभागं प्रति किन्तु क्रिया न कारणम्‌ अपि तु हस्तपुस्तकविभागः एव | तर्हि विभागत्वेन एकः कार्यकारणभावः, पुनः क्रियात्वपुरस्कारेण अन्यः कार्यकारणभावः | इत्थञ्च विभागं प्रति कार्यकारणभावः द्विविधः |


इदानीं संयोगनाशं प्रति क्वचित्‌ क्रिया कारणं, क्वचित्‌ संयोगनाशकारणम्‌ इति कार्यकारणभावद्वयापेक्षया संयोगनाशं प्रति विभागः एव कारणम्‌ इत्यस्मिन्‌ लाघवम्‌ | विभागत्वेन कार्यकारणभावः एकः एव भवति |


प्रश्नः— इदानीमपि स्पष्टं नास्ति | हस्तपुस्तकयोः संयोगनाशः, कायपुस्तकयोः संयोगनाशः उभयत्र विभागः इत्येव कारणं, किन्तु भिन्नविभागः इति न उच्यते वा ?


उत्तरं— सत्यं, भिन्नविभागः एव | किन्तु अस्माभिः कार्यकारणभावः विभागत्वेन स्वीकृतः | अतः विभागद्वयमपि अस्मिन्‌ अन्तर्गतं भवति | यथा कार्यसामान्यं प्रति कर्ता कारणम्‌ इत्युच्यते | नाम कर्तृत्वेन कार्यकारणभावः | कृतिमान्‌ कर्ता | स च कर्ता क्वचित्‌ कुलालः, क्वचित्‌ कुविन्दः, क्वचित्‌ पुनः अन्यः को‍ऽपि भवति | यतः एषु सर्वेषु कर्तृत्वं वर्तते, अतः यद्यपि कर्तारः विभिन्नाः तथापि लाघवं तिष्ठति | कर्तृत्वपुरस्कारेण एकः कार्यकारणभावः स्वीक्रियते | कार्यसामान्यं प्रति कर्ता कारणम्‌ |


एवमेव गुणं प्रति द्रव्यं समवायिकारणम्‌ इति किल उच्यते | रूपम्‌ एकः गुणः, तस्य घटः कारणम्‌ | घटगतरूपं प्रति घटः कारणम्‌ | पटगतरूपं प्रति पटः कारणम्‌ | एवं गुणाः अपि भिन्नाः भवन्ति; द्रव्याणि अपि भिन्नानि वर्तन्ते | परन्तु कार्यकारणभावः कथं स्वीकृतः ? द्रव्यत्वेन रूपेण द्रव्यं समवायिकारणम्‌ | 'द्रव्यत्वेन' इत्यस्मात्‌ घटः अपि स्वीकर्तुं शक्यते, पटः अपि स्वीकर्तुं शक्यते, जलमपि स्वीकर्तुं शक्यते | यत्र कुत्रापि गुणः उत्पद्यते, तत्र अधिकरणे द्रव्यत्वम्‌ अस्त्येव | तर्हि द्रव्यत्वपुरस्कारेण एकः कार्यकारणभावः, गुणं प्रति द्रव्यं समवायिकारणम्‌ |


अत्रापि तथा | 'विभागः' एव खलु | विभागान्तरं भवतु नाम, विभागत्वेन कारणत्वं स्वीकृतम्‌ अतः भिन्नविभागः अस्ति चेदपि लाघवक्षेत्रे न कोऽपि प्रभावः, न का‍पि हानिः | घटं प्रति दण्डः कारणम्‌; अस्य घटस्य अन्यः दण्डः, तस्य घटस्य अन्यः दण्डः | परन्तु अस्माभिः कार्यकारणभावः दण्डत्वपुरःसरेण स्वीकृतः अर्थात्‌ दण्डत्वावच्छिन्नं कारणम्‌ इति स्वीक्रियते | अतः सोऽपि दण्डः दण्डत्वविशिष्टः, एष अपि दण्डः दण्डत्वविशिष्टः | दण्डत्वं पुरस्कृत्य कार्यकारणभावस्वीकारे पृथक्‌ पृथक्‌ दण्डः कारणं चेदपि कार्यकारणभावस्य ऐक्यं सम्पादयितुं शक्यते | घटत्वावच्छिन्नं प्रति दण्डत्वावच्छिन्नं कारणम्‌ | अनेन एकविधकार्यकारणभावं वक्तुं शक्नुमः | एवमेव संयोगनाशं प्रति विभागः कारणम्‌ |


प्रश्नः— अस्तु बुद्धं, समीचीनम्‌ | किन्तु अत्र एका महती समस्या दृश्यते— कस्य आधारेण, अस्माकं कः अधिकारः भवति वक्तुं, यत्‌ विभागः एकस्मिन्‌ काले भवति, संयोगनाशः च अपरस्मिन्‌ काले ? कालभेदेन लाघवं नष्टम्‌ इति | संयोगनशस्य अनेन एक एव कार्यकारणभावः इति भवतु नाम; विभागः एकस्मिन्‌ काले संयोगनाशः तस्मात्‌ भिन्नकाले इति अनुभवविरुद्धः, लोकव्यवहारविरुद्धश्च |


उत्तरं— तथा न चिन्तनीयम्‌ | कार्यस्य पूर्वस्मिन्‌ क्षणे उपस्थितिं विना कथं वा कार्यम्‌ उत्पद्येत ? संयोगनाशं प्रति विभागः कारणत्वेन अङ्गीकृतः इत्युक्तौ अग्रिमक्षणे एव संयोगनाशः प्रतिपादयितुं शक्यः | क्षणानाम्‌ अत्यन्तं लघुत्वात्‌, अत्यन्तं सूक्ष्मत्वात्‌, क्षणभेदः अङ्गीकर्तुं शक्यते | एवमेव उत्पन्नं द्रव्यं क्षणम्‌ अगुणम्‌ अक्रिया च तिष्ठति | उत्पत्तिक्षणे, द्रव्ये को‍ऽपि गुणः काऽपि क्रिया वा न भवति | द्वितीये क्षणे एव द्रव्ये रूपं, गन्धः, स्पर्शः इत्यादयः गुणाः उत्पद्यन्ते | किमर्थं तादृशनियमः अङ्गीकृतः ? पूर्वक्षणे कारणं नास्ति चेत्‌, कथं वा रूपम्‌ इत्यादयः गुणाः उत्पद्येरन्‌ ? घटः उत्पद्यते, अग्रिमे क्षणे समवायिकारणीभूतघटः अस्ति इत्यतः तत्र रूपादिकम्‌ उत्पद्यते | तादृशम्‌ अङ्गीक्रियते चेत्‌, अत्रापि क्षणात्मकविलम्बः अङ्गीकर्तुं शक्यः |


नाङ्गीक्रियते चेत्‌, कारणसहभावेन कार्यम्‌ उत्पद्यते | इत्युक्ते प्रथमक्षणे यदा घटः उत्पद्यते, तस्मिन्नेव क्षणे रूपादिकम्‌ उत्पद्यते घटे | कारणानां सर्वेषां सहभावित्वात्‌ अपि च समवायिकारणस्य कार्यसहभावेन कारणत्वस्वीकारात्‌ घटोत्पत्तिक्षणे एव रूपादिकम्‌ उत्पद्यते इति स्वीकर्तुं शक्यते | एवञ्च विभागोत्पत्तिक्षणे एव संयोगनाशः अङ्गीकर्तुं शक्यः | कारणं विभागः, यस्मिन्‌ क्षणे उत्पद्यते, तस्मिन्नेव क्षणे संयोगनाशः इति कार्यमपि उत्पद्यते इति अङ्गीकर्तुं शक्यम्‌ | कारणसहभावेन कार्योत्पत्तिः | अत्र किन्तु तदानीमपि द्वयोः कार्यकारणभावः इति वक्तव्यम्‌ | अस्मिन्नेव लाघवम्‌ | विभागसंयोगनाशयोः समानकारणजन्यत्वस्य अपेक्षया संयोगनाशस्य कारणं विभागः एव इत्यस्मिन्‌ लाघवम्‌ अवश्यम्‌ अस्ति |


Swarup – October 2017


---------------------------------

२४ - विभागसंयोगनाशयोः कार्यकारणभावः.pdf