06A - सार्वधातुकप्रकरणं कृत्सु
ध्वनिमुद्रणानि |
---|
१) sArvadhAtukaprakriyA-kRutsu_2019-10-29 |
धातुभ्यः विहिताः प्रत्ययाः द्विधाः—तिङ् च कृत् च | एते सर्वे प्रत्ययाः पुनः विभजिताः— सार्वधातुकाः आर्धधातुकाश्च | अस्य महत्त्वम् एवं यत् प्रत्ययः सार्वधातुकश्चेत्, कर्त्रर्थे शबादयः विकरणाः आयान्ति कर्तरि शप् इत्यनेन | शबादयः आयान्ति चेत् धातुगणभेदाः भवन्ति | प्रत्ययः सार्वधातुकः नास्ति चेत् आर्धधातुकः एव; आर्धधातुकः चेत् इडागमविचारः करणीयः | इदं विभजनं (सार्वधातुक-आर्धधातुक-प्रत्यययोः) तिङ्षु अपि भवति, कृत्सु अपि भवति |
द्वयोः पूर्वतनभागयोः (05 सार्वधातुकप्रकरणम् - अदन्तम् अङ्गम्; 06 सार्वधातुकप्रकरणम् - अनदन्तम् अङ्गम्) सार्वधातुकप्रकरणं कथं भवति इति अवलोकितवन्तः तिङ्-प्रसङ्गे | तत्र लट्, लोट्, लङ्, विधिलिङ्— एषु चतुर्षु लकारेषु कर्त्रर्थे शबादयः विकरणाः आयान्ति कर्तरि शप् इत्यादिभिः सूत्रैः; ततः धातुगणभेदाः निष्पन्नाः इति जानीमः | अधुना अस्मिन् भागे (सार्वधातुकप्रकरणं कृत्सु) अयम् एव विचारः भवति कृत्-प्रसङ्गे |
कृत् नाम किम् ? उपर्युक्तं यत् धातुभ्यः विहिताः प्रत्ययाः द्विधाः—तिङ् च कृत् च | यः कोऽपि तिङ्-भिन्नः प्रत्ययः धातुतः विहितः, स च प्रत्ययः कृत् इत्युच्यते, कृदतिङ् (३.१.९३) इति सूत्रेण | यस्य प्रातिपदिकस्य अन्ते कृत्-प्रत्ययः अस्ति, तत् प्रातिपदिकं कृदन्तम् | तन्निमित्तपदानि सर्वदा सुबन्तानि | इत्युक्तौ नामपदानि सन्ति | यथा कर्तव्यम्, मतिः, नेता, गायकः, लिखन्, प्रकाशमानम्— इमानि पदानि सर्वाणि कृत्प्रत्यययुक्तानि | यतः एते प्रत्ययाः (तव्यत्, क्तिन्, तृच्, ण्वुल्, शतृ, शानच्) साक्षात् धातोः विहिताः, अपि च तिङ्संज्ञकाः न सन्ति |
एते सर्वे प्रत्ययाः—तिङः, कृतश्च—अष्टाध्याय्याः तृतीयाध्याये विहिताः, यत्र धातोः, प्रत्ययः इत्यनयोः अधिकारः | तिङ्-प्रत्ययाः आरम्भे सर्वे सार्वधातुकाः, तिङ्शित्सार्वधातुकम् (३.४.११३) इति सूत्रेण | अत्र अनुवृत्ति-सहित-सूत्रमिदम् अवलोकयाम— धातोः परश्च तिङ्-शित् प्रत्ययः सार्वधातुकम् | अतः सार्वधातुकत्वस्य कृते प्रथमो नियमः अयं यत् प्रत्ययः धातुतः विहितः स्यात् | (धातुतः विहितः नास्ति चेत्, सार्वधातुकत्वस्य आर्धधातुकत्वस्य प्रश्नः नैव उदेति |) तदा धातुतः विहितश्चेत्, तिङ् चेत् सार्वधातुकम् इति निश्चितम् | परन्तु कृत् चेत्, किमपि नैश्चित्यं नास्ति यत् सार्वधातुकं भवेत्; कृत् शित् अस्ति चेदेव अयं कृत्प्रत्ययः सार्वधातुकः | कृत्-प्रत्ययेषु नव शितः | ते च— शतृ, शानच्, चानश्, शानन्, खश्, श, एश्, शध्यै, शधैन् इति | एषु द्वौ प्रसिद्धौ— शतृ, शानच् च | एतान् नव प्रत्ययान् अतिरिच्य अवशिष्टाः सर्वे कृत् प्रत्ययाः आर्धधातुकाः, आर्धधातुकं शेषः (३.४.११४) इति सूत्रेण |
अत्र च अन्यदेकं वक्तव्यम् अस्ति यत् प्रक्रियायां वास्तविकविभजनमस्ति सार्वधातुकप्रक्रिया, आर्धधातुकप्रक्रिया च | एकमेव विभजनम्—अन्यत् किमपि विभजनं नास्ति; इत्युक्तौ तिङ्-कृत् इत्यनयोः यः भेदः, स प्रक्रियाभेदो नास्ति | प्रत्ययः सार्वधातुकसंज्ञकः चेत्, स च प्रत्ययः तिङ् भवतु वा कृत् भवतु वा, उभयत्र प्रक्रिया समाना | उभयत्र धातुगणनिमित्तकः विकरणप्रत्ययः | उभयत्र तस्य च विकरणप्रत्ययस्य स्वभावम् अनुसृत्य धात्वङ्गे गुणो वा गुणनिषेधो वा परिशीलनीयः | प्रत्ययः तिङ् चेत् परिणामः अस्ति तिङन्तपदं; प्रत्ययः कृत् चेत् परिणामः प्रातिपदिकं; तावान् एव भेधः | तथैव प्रत्ययः तिङ् वा कृत् वा भवतु, परन्तु स च प्रत्ययः आर्धधातुकसंज्ञकः चेत् इडागमचिन्तनं करणीयम् | उभयत्र प्रक्रिया समाना | तर्हि अत्र अस्माकं विषयः अस्ति सार्वधातुकप्रक्रिया कृत्सु; वस्तुतस्तु सार्वधातुकप्रक्रिया यावत् भवति, तावत् अत्र किमपि वैशिष्ट्यं नास्ति—तिङन्तस्थले अस्माभिः यत् पठितं तत्तु अत्रापि समानम् | अत्र भेदः अस्ति यत् अन्ततो गत्वा सुबन्तपदं भविष्यति इति कारणतः लिङ्गभेदः वर्तते | तदा च सुप्-प्रत्ययाः संयोजनीयाः | एतत्सर्वं नूतनमस्ति अवश्यं; किन्तु सार्वधातुकक्षेत्रे नान्तर्गतम् अपि तु तदतिरिक्तम् | अतः अत्र लिङ्गविषये नूतनांशः अस्ति, सुबन्तप्रक्रिया च नूतना; अनयोः द्वयोः विषययोः प्रसङ्गे सम्यक्तया परिशीलयिष्यामः |
तर्हि नवसु सार्वधातुककृत्प्रत्ययेषु अस्मिन् पाठे द्वौ प्रसिद्धौ सार्वधातुकप्रत्ययौ— शतृ, शानच् च — अवलोकयिष्यामः |
अस्य पाठस्य अन्तर्भूताः भागाः --
०० - सार्वधातुकप्रकरणं कृत्सु.pdf
Swarup Bhai, Oct 30, 2019, 7:27 AM v.1