13 - अजन्तधातूनाम् इड्व्यवस्था
सेट्-अजन्तधातवः
अजन्तधातवः आधिक्येन अनिटः अतः ये सेटः, तेषां ज्ञानेन अजन्तधातूनाम् इड्व्यवस्था सौकर्येण ज्ञेया | केवलं १४ अजन्तधातवः कण्ठस्थीकरणीयाः; अनेन सर्वेषाम् अजन्तधातूनाम् इड्व्यवस्था मनसि सिद्धा | एषु द्वादश धातवः स्वयं सेटः (श्रि, श्वि, शी, डी, यु, रु, नु, स्नु, क्षु, क्ष्णु, वृञ्, वृङ्), तदा द्वौ धातू यौ न केवलं स्वयं सेटौ अपि तु वर्गप्रतिनिधी (भू-धातुः सर्वेषाम् ऊकारान्तानां प्रतिनिधिः, तॄ-धातुः सर्वेषाम् ॠकारान्तानां प्रतिनिधिः) |
धेयं यत् अधः धातुः दीयते, तेन सह च पञ्च उदाहरणानि दीयन्ते— तास् (लुट्), तुमुन्, तव्यत्, स्य (लृट्), स्य (लृङ्) | पूर्वतनपाठे अस्माभिः दृष्टं यत् संस्कृतभाषायाम् आहत्य त्रिंशत् वलाद्यार्धधातुक-प्रत्ययाः इडनुकूलाः | ते च लिट्-प्रत्ययान् अतिरिच्य वर्गद्वये विभक्ताः— तकारादयः प्रत्ययाः, सकारादयः प्रत्ययाश्च | तकारादीनां प्रक्रियासाम्यं, पुनः सकारादीनां प्रक्रियासाम्यम् | अतः इडागमपाठानन्तरं प्रक्रियां समूहीकृत्यपठिष्यामः | प्रथमतया तकारादिप्रत्ययाः— तास्, तृच्, तृन्, तुमुन्, तव्य-तव्यत्, क्त-क्तवतु, क्त्वा | तकारादिप्रत्ययेषु एक एव तिङ्-सम्बद्धः सः तास् इति विकरणं लुट्-लकारे | तदा अवशिष्टाः यावन्तः तकारादि-इडनुकूलप्रत्ययाः, ते कृत्-प्रत्ययाः | अतः क्रमेण लुट्-लकाराननतरं तान् क्रमेण पठिष्यामः—तृच्, तृन्, तुमुन्, तव्य-तव्यत्, क्त-क्तवतु, क्त्वा च | यतोहि वारं वारं समानकार्येण नैपुण्यं जायते | तदा सकारादिप्रत्ययसम्बद्धपाठः भविष्यति | स्य, सन्, सिच्, सीयुट्, क्से, से, सेन्, सिप् च |
अधः प्रत्येकं धातोः कृते त्रीणि प्रमुखतकारादिप्रत्ययान्तरूपाणि, तदा द्वे प्रमुखसकारादिप्रत्ययान्तरूपे | अनेन धातोः इड्व्यवस्था अपि ज्ञास्यते, तत्तत्सम्बद्धरूपाणि अपि ज्ञास्यन्ते | तास्-प्रत्ययान्तरूपं प्रथमतया प्रदर्श्यते यतोहि तस्य इडागमप्रसङ्गे अपवादभूतरूपाणि न्यूनातिन्यूनं सन्ति | अपि च अस्य तास्-रूपस्य ज्ञानेन तृच्, तृन् अपि ज्ञायेते |
१. एकाच्-आकारान्तधातवः - सर्वे एकाच्-आकारन्ताः धातवः अनिटः सन्ति | यथा —
धातुः | तास् (लुट्) | तुमुन् | तव्यत् | स्य (लृट्) | स्य (लृङ्) |
पा | पाता | पातुम् | पातव्यम् | पास्यति | अपास्यत् |
२. एकाच्-इकारान्तधातवः - अत्र श्रि, श्वि इति द्वौ सेटौ |
श्रि | श्रयिता | श्रयितुम् | श्रयितव्यम् | श्रयिष्यति / ते | अश्रयिष्यत् / अश्रयिष्यत |
श्वि | श्वयिता | श्वयितुम् | श्वयितव्यम् | श्वयिष्यति | अश्वयिष्यत् |
श्रिञ् सेवायाम् भ्वा उ० (श्रयति/श्रयते), टुओँश्वि गतिवृद्ध्योः भ्वा प० (श्वयति)
एतत् धातुद्वयं विहाय अन्ये सर्वे एकाच्-इकारान्तधातवः अनिटः सन्ति | यथा —
जि | जेता | जेतुम् | जेतव्यम् | जेष्यति | अजेष्यत् |
३. एकाच्-ईकारान्तधातवः - अत्र शीङ्, डीङ् इति द्वौ सेटौ |
शी | शयिता | शयितुम् | शयितव्यम् | शयिष्यते | अशयिष्यत |
डी | डयिता | डयितुम् | डयितव्यम् | डयिष्यते | अडयिष्यत |
शीङ् स्वप्ने अ आ० (शेते), डीङ् विहायसा गतौ भ्वा आ० (डयते), डीङ् विहायसा गतौ दि आ० (डीयते)
एतत् धातुद्वयं विहाय अन्ये सर्वे एकाच्-ईकारान्तधातवः अनिटः सन्ति | यथा —
नी | नेता | नेतुम् | नेतव्यम् | नेष्यति | अनेष्यत् |
४. एकाच्-उकारान्तधातवः - अत्र यु, रु, नु, स्नु, क्षु, क्ष्णु इति षड् धातवः सेटः |
यु | यविता | यवितुम् | यवितव्यम् | यविष्यति | अयविष्यत् |
रु | रविता | रवितुम् | रवितव्यम् | रविष्यति | अरविष्यत् |
नु | नविता | नवितुम् | नवितव्यम् | नविष्यति | अनविष्यत् |
स्नु | स्नविता | स्नवितुम् | स्नवितव्यम् | स्नविष्यति | अस्नविष्यत् |
क्षु | क्षविता | क्षवितुम् | क्षवितव्यम् | क्षविष्यति | अक्षविष्यत् |
क्ष्णु | क्ष्णविता | क्ष्णवितुम् | क्ष्णवितव्यम् | क्ष्णविष्यति | अक्ष्णविष्यत् |
यु मिश्रेणेऽमिश्रणे च, अ प० (यौति), रु शब्दे अ प० (रौति). णु स्तुतौ अ पर० (नौति), ष्णु प्रस्रवणे अ प० (स्नौति), टुक्षु शब्दे अ प० (क्षौति), क्ष्णु तेजने अ प० (क्ष्णौति)
एतत् धातुषट्कं विहाय अन्ये सर्वे एकाच्-उकारान्तधातवः अनिटः सन्ति | यथा —
हु | होता | होतुम् | होतव्यम् | होष्यति | अहोष्यत् |
५. एकाच ऊकारान्तधातवः - सर्वे एकाच्-ऊकारन्ताः धातवः सेटः सन्ति | यथा —
भू
|
भविता | भवितुम् | भवितव्यम् | भविष्यति | अभविष्यत् |
६. एकाच्-ऋकारान्तधातवः - अत्र वृङ्, वृञ् इति द्वौ सेटौ |
वृङ् | वरिता | वरितुम् | वरितव्यम् | वरिष्यते | अवरिष्यत |
वृञ् | वरिता | वरितुम् | वरितव्यम् | वरिष्यति
वरिष्यते |
अवरिष्यत्
अवरिष्यत |
वृङ् सम्भक्तौ क्र्या आ० (वृणीते), वृञ् वरणे स्वा उ० (वृणोति/वृणुते)
एतत् धातुद्वयं विहाय अन्ये सर्वे एकाच्-ऋकारान्तधातवः अनिटः सन्ति | यथा —
कृ | कर्ता | कर्तुम् | कर्तव्यम् | करिष्यति | अकरिष्यत् |
अत्र विशेषः -
ऋद्धनोः स्ये (७.२.७०) इत्यनेन ऋकारान्ताः धातवः, हन्-धातुः च स्यप्रत्यये सेटः भवन्ति |
७. एकाच्-ॠकारान्तधातवः - सर्वे एकाच ॠकारन्ताः धातवः सेटः सन्ति | यथा —
तॄ | तरिता | तरितुम् | तरितव्यम् | तरिष्यति | अतरिष्यत् |
८. एकाच्-एजन्तधातवः - सर्वे एकाच एजन्ताः धातवः अनिटः सन्ति | यथा —
ध्यै | ध्याता | ध्यातुम् | ध्यातव्यम् | ध्यास्यति | अध्यास्यत् |
अत्र विशेषः -
एजन्तधातवः शित्-भिन्नेषु आर्धधातुकेषु प्रत्ययेषु आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन आकारान्ताः भवन्ति |
भव्याभगिन्या विरचितं कोष्ठकमपि सुन्दरं— तस्मिन् सर्वा सूचिना मिलित्वा प्राप्यते | येषां कृते भव्या-भगिन्याः कोष्ठके अधिकसौकर्यं, तत् कोष्ठकम् अत्र उपयोक्तुं शक्यते--
अजन्तधातूनाम् इड्व्यवस्था---समग्रं चिन्तनम्
Swarup – November 2015 (updated July 2019)