01 - ण्वुल्, तृच्, ल्युट्
ण्वुल्, तृच्, ल्युट् एते त्रयः प्रत्ययाः धातुभ्यः विहिताः अपि च तिङ्-भिन्नाः, अतः कृत्-प्रत्ययाः इत्युच्यन्ते | तिङ्शित्सार्वधातुकम् (३.४.११३) इत्यनेन यः प्रत्ययः धातुतः विहितः अपि च तिङ् शित् वा, सः सार्वधातुकम् | आर्धधातुकं शेषः (३.४.११४) इत्यनेन अवशिष्टाः प्रत्ययाः ये धातुभ्यः विहिताः, तिङ्-शित्-भिन्नाः, ते सर्वे आर्धधातुकाः | ण्वुल्, तृच्, ल्युट् एते त्रयः प्रत्ययाः धातुभ्यः विहिताः, न तिङ् न वा शित्, अतः त्रयोऽपि आर्धधातुकप्रत्ययाः |
ण्वुल्, तृच्, ल्युट् यतः आर्धधातुकप्रत्ययाः, अतः गणीया चर्चा नितरां नापेक्षिता | धातुः कस्मिन् अपि गणे भवतु नाम, तस्य अत्र कृदन्तस्य गणेन सह न कोऽपि सम्बन्धः | धातुः “कस्मिन् गणे" इति प्रश्नस्तु नैव उदेति | अपि तु आर्धधातुकप्रत्यये सति अयमेव प्रश्नः— इडागमः भवति न वा इति |
इड्व्यवस्था
इट्— नाम "इ" इति आगमः — कुत्रचित् धातु-प्रत्यययोः मध्ये आयाति | सामान्यनियमः अयं यत् धातुः अपि सेट् (स-इट्), प्रत्ययः अपि सेट् चेदेव इडागमो भवति | द्वयोर्मध्ये एकोऽपि अनिट् (अन्-इट्), तर्हि इडागमो नैव विहितः | द्वयमपि सेट् चेदपि कुत्रचित् अपवादत्वेन न भवति; परन्तु द्वयोर्मध्ये एकः अनिट् चेत् इडागमो नैव भवति | ण्वुल् ल्युट् च अनिटौ; तृच् सेट् | अतः ण्वुल् ल्युट् वा धातुतः परे चेत्, नैव इडागमः | तृच् सेट् अस्ति, अतः धातुः अपि सेट् चेत्, इडागमः सम्भवति (भवति इति सामान्यनियमः, परन्तु अपवादाः सन्ति) |
A. ण्वुल्
ण्वुल्-प्रत्ययः सर्वेभ्यः धातुभ्यः विहितः | अनेन प्रत्ययेन यः शब्दः निष्पन्नः, सः कर्त्रर्थकः, त्रिषु लिङ्गेषु च भवति | ण्वुल् अनिट्, अतः अत्र इडागमो नैव भवति | "कर्त्रर्थे भवति" इत्युक्ते यः तत् कार्यं करोति, सः— यः नयति सः नायकः, यः गायति सः गायकः, इत्यादिकम् |
अयं प्रत्ययः णित् (ण् इत् यस्य सः) अतः यत् कर्यं भवति णित्सु, तत् अत्रापि भवेत् | यथा णिच् प्रत्यये यत् अङ्गकार्यं भवति, तदत्रापि | नाम ण्वुल् णित्, अतः अचो ञ्णिति च अत उपधायाः चेत्याभ्याम् अङ्गकार्यं ण्वुल्-प्रत्यये परे भवति | ण्वुल्-प्रत्ययः आर्धधातुकः अपि अस्ति, अतः यत् सामान्यम् अङ्गकार्यं भवति आर्धधातुक-प्रत्ययानाम्, तत् कार्यम् अपि भवति अत्र | नाम धातौ लघु-इकः गुणः भवति पुगन्तलघूपधस्य च इति सूत्रेण |
ण्वुल्तृचौ (३.१.१३३, लघु० ७८४) = धातुतः ण्वुल् तृच् च विहितौ | कर्तरि कृत् (३.४.६७) इत्यनेन कर्त्रर्थे एतौ प्रत्ययौ भवतः | ण्वुल् च तृच् च तयोरितरेतरद्वन्द्वः ण्वुल्तृचौ | ण्वुल्तृचौ प्रथमान्तम् एकं पदमिदं सूत्रम् | धातोः, प्रत्ययः, परश्च इत्येषाम् अधिकारः | अनुवृत्ति-सहित-सूत्रम्— धातोः ण्वुल्तृचौ प्रत्ययौ परौ |
युवोरनाकौ (७.१.१, लघु० ७८५) = अङ्गात् परं यु, वु इत्यनयोः स्थाने क्रमशः अन च अक च आदेशौ भवतः | युश्च वुश्च तयोः समाहारद्वन्द्वः युवुः, तस्य युवोः युवोः षष्ठ्यन्तं, अनाकौ प्रथमान्तं, द्विपदमिदं सूत्रम् | अङ्गस्य इत्यस्य अधिकारः, अत्र पञ्चमीविभक्तौ | अनुवृत्ति-सहित-सूत्रम्— अङ्गात् युवोः अनाकौ |
ण्वुल् → चुटू इत्यनेन णकारस्य इत्-संज्ञा, हलन्त्यम् इत्यनेन लकारस्य इत्-संज्ञा, तस्य लोपः इत्यनेन णकारलकारयोः लोपः → वु अवशिष्यते | वु-स्थाने अक आदेशो भवति |
1. अजन्तधातुः अस्ति चेत्, एकं कार्यम्—
a. अचो ञ्णिति (७.२.११५, लघु० १८२) = अङ्गम् अजन्तं चेत्, अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | ञ् च ण् च ञ्णौ, ञ्णौ इतौ यस्य तत् ञ्णित्, तस्मिन् ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात् वृद्धिः इत्यस अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— अङ्गस्य अचः वृद्धिः ञ्णिति | अलोऽन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः |
कृ + ण्वुल् → अनुबन्धलोपे → कृ + वु → युवोरनाकौ इत्यनेन अकादेशः → कृ + अक → अचो ञ्णिति इत्यनेन अजन्ताङ्गस्य अन्तिमस्य अचः वृद्धिः → कार् + अक → वर्णमेलने → कारक | पुंसि कारकः, स्त्रियां कारिका, नपुंसके कारकम् |
तथैव—
तॄ + ण्वुल् → तारक
नी + ण्वुल् → धात्वन्ते अचः वृद्धिः, वु-स्थाने अक-आदेशः → नै + अक → एचोऽयवायावः इत्यनेन आय्-आदेशः → नाय् + अक → नायक |
धेयं यत् यद्यपि अत्र अजन्तधातूनां प्रसङ्गे सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिरस्ति (गुणकार्यम्), परन्तु तत् सूत्रं प्रबाध्य अचो ञ्णिति इत्यनेन वृद्धिः भवति | अचो ञ्णिति, सार्वधातुकार्धधातुकयोः इत्यस्य अपवादभूतसूत्रं यतः अत्र सार्वधातुकार्धधातुकयोः कार्यं करोति चेत्, अचो ञ्णिति निरवकाशं भविष्यति |
2. हलन्तधातुः अस्ति चेत्, मार्गद्वयं वर्तते | उपधायां ह्रस्व-अकारः चेत्, अत उपधायाः | उपधायां लघुः इक् चेत्, पुगन्तलघूपधस्य च |
a. अत उपधायाः (७.२.११६, लघु० ४५५) = उपधायां अतः वृद्धिः ञिति णिति प्रत्यये परे | अतः षष्ठ्यन्तं, उपधायाः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | उपधायां ह्रस्व-अकारस्य वृद्धिः भवति (ञिति णिति च प्रत्यये परे); नाम ह्रस्व-अकारस्य स्थाने आकारादेशः | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात् वृद्धिः इत्यस अनुवृत्तिः; अचो ञ्णिति (७.२.११५) इत्यस्मात् ञ्णिति इत्यस अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति | उपधा नाम अन्तिमवर्णात् पूर्वं यः वर्णः, सः |
वद् + ण्वुल् → अनुबन्धलोपे → वद् + वु → युवोरनाकौ इत्यनेन अकादेशः → वद् + अक → अत उपधायाः इत्यनेन उपधायां ह्रस्व-अकारस्य वृद्धिः → वाद् + अक → वादक | पुंसि वादकः, स्त्रियां वादिका, नपुंसके वादिकम् |
b. पुगन्तलघूपधस्य च (७.३.८६, लघु० ४५१) = सार्वधातुकप्रत्यये परे, आर्धधतुकप्रत्यये परे च अङ्गस्य उपधायां लघु-इकः गुणः (अपि च पुगन्ताङ्गस्य इकः गुणः) | णिच् आर्धधातुकप्रत्ययः अतः प्रसक्तिरस्ति | पुक् अन्ते यस्य तत् पुगन्त्म्, लघ्वी उपधा यस्य तत् लघूपधम्, पुगन्तञ्च लघूपधञ्च तयोः समाहारद्वन्द्वःः पुगन्तल्घूपधम्, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णतया अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | यत्र गुणादेशः वा वृद्ध्यादेशः वा भवति अपि च कस्य स्थाने नोक्तं, तत्र नियमः अस्ति यत् इकः स्थाने इति भवति | अनुवृत्ति-सहित-सूत्रम्— पुगन्तस्य लघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
लिख् + ण्वुल् → अनुबन्धलोपे → लिख् + वु → युवोरनाकौ इत्यनेन अकादेशः → लिख् + अक → पुगन्तलघूपधस्य च इत्यनेन उपधायां लघु-इकः गुणः → लेख् + अक → वर्णमेलने → लेखक | पुंसि लेखकः, स्त्रियां लेखिका, नपुंसके लेखकम् |
विशिष्टं कार्यम्
१. आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | उपदेशे इत्यनेन औपदेशिकधातूनामेव प्रसक्तिः, न तु आतिदेशिकधातूनाम् | उपदेशावस्थायाम्, अशिति प्रत्यये परे, एजन्तधातूनाम् अन्त्यस्य एचः स्थाने आत्वादेशः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— एचः धातोः आत् उपदेशे अशिति |
आतो युक् चिण्कृतोः (७.३.३३, लघु ७५७) = आदन्तानां युगागमः स्यात् चिणि ञ्णिति कृति च | चिण् वा ञित्-णित् कृत् प्रत्ययेषु परेषु, आकारान्तानां धातूनां युक्-आगमो भवति | चिण् च कृत् च तयोरितरेतरद्वन्द्वः चिण्कृतौ, तयोः चिण्कृतोः | आतः षष्ठ्यन्तं, युक् प्रथमान्तं, चिण्कृतोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | अचो ञ्णिति इत्यस्मात् ञ्णिति इत्यस्य अनुवृत्तिः | अङ्गस्य इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— अङ्गस्य आतः युक् चिण्कृतोः ञ्णिति |
गै + ण्वुल् → अनुबन्धलोपे → गै + वु → युवोरनाकौ इत्यनेन अकादेशः → गै + अक → आदेच उपदेशेऽशिति इत्यनेन एजन्तस्य आत्त्वम् → गा + अक → आतो युक् चिण्कृतोः इत्यनेन णिति परे युगागमः → गा + य् + अक → गायक
एवमेव—
ध्यै → ध्या → ध्यायकः
पै पाने → पा → पायकः
२. पाठकः इत्युक्ते यः पठति, अथवा यः पाठयति ?
उत्तरं-- द्वयमपि | किमर्थम् ?
पठ् + ण्वुल् = पाठकः
पठ् + णिच् + ण्वुल् = पाठकः
अत उपधायाः (७.२.११६) इत्यनेन सूत्रेण हलन्ताङ्गस्य उपधायाः अकारस्य स्थाने ञिति णिति च प्रत्यये वृद्धिः भवति | नाम अङ्गं हलन्तम् अस्ति चेत्, तस्य अङ्गस्य उपधायाम् अकारः अस्ति चेत्, परस्य प्रत्ययस्य इतसंज्ञकः ञकारः णकारः वा, तर्हि अङ्गस्य उपधायां स्थितस्य अकारस्य स्थाने आकारः भवति |
पठ् धातुः हलन्तधातुः | उपधायाम् अकारः अस्ति | ण्वुल् प्रत्ययः णित् (णकारः इत् यस्य सः) अस्ति | तस्यां दशायां पठ्-धातौ स्थितस्य अकारस्य स्थाने आकरः भवति |
पठ् + ण्वुल् → पठ् + वु → पठ् + अक (वु स्थाने अक, युवोरनाकौ इत्यनेन सूत्रेण) → पाठ् + अक (अत उपधायाः इत्यनेन सूत्रेण) → पाठकः
पठ् + णिच् → पाठ् + णिच् (अत उपधायाः इत्यनेन सूत्रेण) → पाठ् + इ (अनुबन्धलोपः) → पाठि + ण्वुल् → पाठ् + ण्वुल् (णिच् सम्बद्धस्य इकारस्य लोपः णेरनिटि इत्यनेन सूत्रेण (६.४.५१, लघु० ५२९)) → पाठ् + वु → पाठ् + अक (वु स्थाने अक, युवोरनाकौ इत्यनेन सूत्रेण) → पाठकः
णेरनिटि (६.४.५१, लघु० ५२९) = अनिडादौ आर्धधातुके परे णेर्लोपः स्यात् | इत्युक्तौ आर्धधातुकप्रत्ययः, यस्य आदौ इडागमः नास्ति, परे अस्ति चेत्, तर्हि पूर्वं स्थितस्य णेः (णिच्-प्रत्ययस्य) लोपो भवति | णेः षष्ठ्यन्तम्, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अतो लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | आर्धधातुके इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमिदम्— अनिटि आर्धधातुके णेः लोपः |
B. तृच्
तृच्-प्रत्ययः सर्वेभ्यः धातुभ्यः विहितः | अनेन प्रत्ययेन यः शब्दः निष्पन्नः, सः कर्त्रर्थकः, त्रिषु लिङ्गेषु च भवति | तृच् सेट्, अतः धातुः अपि सेट् चेत् इडागमो भवति इति सामान्यनियमः; कुत्रचित् अपवादाः सन्ति |
तृच्-प्रत्ययः न णित् न वा ञित् | अतः अचो ञ्णिति इत्यस्यापि प्रसक्तिर्नास्ति, अत उपधायाः इत्यस्यापि प्रसक्तिर्नास्ति | परन्तु तृच्-प्रत्ययः धातुभ्यः विहिताः, न तिङ् न वा शित्, अतः आर्धधातुकः | तर्हि अत्र सार्वधातुकार्धधातुकयोः च पुगन्तलघूपधस्य च चेत्यनयोः प्रसक्तिः |
ण्वुल्तृचौ (३.१.१३३, लघु० ७८४) = धातुतः ण्वुल् तृच् च विहितौ | कर्तरि कृत् (३.४.६७) इत्यनेन कर्त्रर्थे एतौ प्रत्ययौ भवतः | ण्वुल् च तृच् च तयोरितरेतरद्वन्द्वः ण्वुल्तृचौ | ण्वुल्तृचौ प्रथमान्तम् एकं पदमिदं सूत्रम् | धातोः, प्रत्ययः, परश्च इत्येषाम् अधिकारः | अनुवृत्ति-सहित-सूत्रम्— धातोः ण्वुल्तृचौ प्रत्ययौ परौ |
तृच् → हलन्त्यम् इत्यनेन चकारस्य इत्-संज्ञा, तस्य लोपः इत्यनेन तस्य लोपः → तृ अवशिष्यते |
1. अजन्तधातुः अस्ति चेत्, एकं कार्यम्—
a. सार्वधातुकार्धधातुकयोः (७.३.८४, लघु० ३८८) = सार्वधातुके आर्धधातुके च प्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्, एकपदमिदं सूत्रम् | मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य इत्यस्य अधिकारः | इको गुणवृद्धी इत्यस्मात् परिभाषा-सूत्रात् इकः आयाति यत्र स्थानी नोक्तम् | अलोऽन्त्यस्य इत्यनेन अन्तिमस्य इक्-वर्णस्य गुणः | अनुवृत्ति-सहित-सूत्रमिदम्— अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
कृ + तृच् → अनुबन्धलोपे → कृ + तृ → सार्वधातुकार्धधातुकयोः इत्यनेन इगन्ताङ्गस्य इकः गुणः → कर् + तृ → वर्णमेलने → कर्तृ (प्रथमाविभक्तौ पुंसि कर्ता, स्त्रियां कर्त्री, नपुंसके कर्तृ)
एवमेव—
नी + तृच् → नी + तृ → ने + तृ → नेतृ (नेता)
हृ (हरति) + तृच् → हर्तृ (हर्ता)
गम् + तृच् → गन्ता
हन् + तृच् → हन्ता
दा + तृच् → दाता
ज्ञा + तृच् → ज्ञाता
क्री + तृच् → क्रेता
अत्र कुत्रचित् इडागमो भवति—
शी (शेते) → शयिता
डी (डयते) → डयिता
वृ (वृणोति) → वरिता
2. हलन्तधातुः चेत्, उपधायां लघु-इक् अस्ति चेदव कार्यं भवति—
a. पुगन्तलघूपधस्य च (७.३.८६, लघु० ४५१) = सार्वधातुकप्रत्यये परे, आर्धधतुकप्रत्यये परे च अङ्गस्य उपधायां लघु-इकः गुणः |
भुज् + तृच् → अनुबन्धलोपे → भुज् + तृ → पुगन्तलघूपधस्य च इत्यनेन अङ्गस्य उपधायां लघु-इकः गुणः → भोज् + तृ → सन्धिकार्यम् → भोक्तृ (भोका)
अत्र कुत्रचित् इडागमो भवति—
लिख् + तृच् → लिख् + तृ → पुगन्तलघूपधस्य च → लेख् + तृ → इडागमः → लेखितृ (लेखिता)
लघु-इक् नास्ति चेत् गुणकार्यं नास्ति—
पठ् + तृच् → पठिता
रच् + तृच् → रचयितृ (रचयिता)
C. ल्युट्
ल्युट्-प्रत्ययः सर्वेभ्यः धातुभ्यः विहितः | अनेन प्रत्ययेन यः शब्दः निष्पन्नः, सः नित्यं नपुंसकलिङ्गकः | ल्युट् अनिट्, अतः अत्र इडागमो नैव भवति |
ल्युट्-प्रत्ययः न णित् न वा ञित् | अतः अचो ञ्णिति इत्यस्यापि प्रसक्तिर्नास्ति, अत उपधायाः इत्यस्यापि प्रसक्तिर्नास्ति | परन्तु ल्युट्-प्रत्ययः धातुभ्यः विहिताः, न तिङ् न वा शित्, अतः आर्धधातुकः | तर्हि अत्र सार्वधातुकार्धधातुकयोः च पुगन्तलघूपधस्य च चेत्यनयोः प्रसक्तिः |
युवोरनाकौ (७.१.१, लघु० ७८५) = अङ्गात् परं यु, वु इत्यनयोः स्थाने क्रमशः अन च अक च आदेशौ भवतः | अनुवृत्ति-सहित-सूत्रम्— अङ्गात् युवोः अनाकौ |
ल्युट् → लशक्वतद्धिते इत्यनेन लकारस्य इत्-संज्ञा, हलन्त्यम् इत्यनेन टकारस्य इत्-संज्ञा, तस्य लोपः इत्यनेन लकारटकारयोः लोपः → यु अवशिष्यते | यु-स्थाने अन आदेशो भवति |
1. अजन्तधातुः अस्ति चेत्, एकं कार्यम्—
a. सार्वधातुकार्धधातुकयोः (७.३.८४, लघु० ३८८) = सार्वधातुके आर्धधातुके च प्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्, एकपदमिदं सूत्रम् | मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य इत्यस्य अधिकारः | इको गुणवृद्धी इत्यस्मात् परिभाषा-सूत्रात् इकः आयाति यत्र स्थानी नोक्तम् | अलोऽन्त्यस्य इत्यनेन अन्तिमस्य इक्-वर्णस्य गुणः | अनुवृत्ति-सहित-सूत्रमिदम्—अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
कृ + ल्युट् → अनुबन्धलोपे → कृ + यु → युवोरनाकौ इत्यनेन यु-स्थाने अन आदेशः → कृ + अन → सार्वधातुकार्धधातुकयोः इत्यनेन इगन्ताङ्गस्य इकः गुणः → कर् + अन → वर्णमेलने + णत्वम् → करण (करणम्)
एवमेव—
नी + ल्युट् → नी + अन → सार्वधातुकार्धधातुकयोः → ने + अन → एचोऽयवायावः → नय् + अन → नयन (नयनम्)
भू + ल्युट् → भू + अन → सार्वधातुकार्धधातुकयोः → भो + अन → एचोऽयवायावः → भव् + अन → भवन (भवनम्)
2. हलन्तधातुः चेत्, उपधायां लघु-इक् अस्ति चेदव कार्यं भवति—
a. पुगन्तलघूपधस्य च (७.३.८६, लघु० ४५१) = सार्वधातुकप्रत्यये परे, आर्धधतुकप्रत्यये परे च अङ्गस्य उपधायां लघु-इकः गुणः |
लिख् + ल्युट् → लिख् + अन → पुगन्तलघूपधस्य च इत्यनेन उपधायां लघु-इकः गुणः → लेख् + अन → लेखन (लेखनम्)
एवमेव—
बुध् + ल्युट् → बोधन (बोधनम्)
कृष् + ल्युट् → कर्षण (कर्षणम्)
पठ् + ल्युट् → पठन (पठनम्)
Swarup – August 2014
---------------------------------
०१ - ण्वुल्, तृच्, ल्युट्.pdf (65k) Swarup Bhai, Nov 29, 2017, 5:19 PM