06A - जुहोत्यादिगणे अजन्तधातवः
जुहोत्यादिगणे २४ धातवः सन्ति | यथा सर्वेषु गणेषु, कर्त्रर्थके सार्वधातुकप्रत्यये परे, कर्तरि शप् इत्यनेन शप् विहितः अस्ति | तदा जुहोत्यादिभ्यः श्लुः (२.४.७५) इत्यनेन शपः श्लु (लोपः) भवति | अतः जुहोत्यादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते |
जुहोत्यादिभ्यः श्लुः (२.४.७५) = जुहोत्यादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्-प्रत्ययस्य श्लु (लोपः) भवति | जुहोतिरादिः येषां ते जुहोत्यादयः, तेभ्यः जुहोत्यादिभ्यः | जुहोत्यादिभ्यः पञ्चम्यन्तं, श्लुः प्रथमान्तं, द्विपदमिदं सूत्रम् | अदिप्रभृतिभ्यः शपः (२.४.७२) इत्यस्मात् शपः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं—जुहोत्यादिभ्यः शपः श्लुः |
अत्र प्रश्नः उदेति यत् लोप-श्लु इत्यनयोः भेदः कः ? द्वाभ्यां प्रत्ययस्य अदर्शनम् इति तु अस्ति | लोपः इत्युक्ते प्रत्ययः अदृष्टः, परन्तु अदृष्टे सत्यपि कार्यक्षेत्रे लुप्तस्य प्रभावः तदानीमपि अस्ति | एतदर्थं सूत्रम् अस्ति प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) |
प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात् | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन् प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणम्, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— प्रत्ययलोपे प्रत्ययलक्षणम् |
तर्हि प्रत्यये लुप्ते तदाश्रितं कार्यं भवति | श्लु न तथा; प्रत्ययस्य श्लु भवति चेत् न केवलं प्रत्ययः गच्छति, अपि तु तदाश्रितं कार्यमपि न स्यात् | तद्विधायकं सूत्रम् अस्ति न लुमताऽङ्गस्य (१.१.६३) |
न लुमताऽङ्गस्य (१.१.६३) = यस्मिन् शब्दे 'लु' अस्ति, तेन शब्देन प्रत्ययादर्शनं विहितं चेत्, सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात् | लुः अस्य अस्ति इति लुमान्, तेन लुमता | न अव्ययपदं, लुमता तृतीयान्तम्, अङ्गस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न |
अस्मिन् सूत्रे लुमता, लुमत् इति प्रातिपदिकस्य तृतीयाविभक्त्यन्तं रूपम् | इदं मतुप्-प्रत्ययान्तं; प्रथमाविभक्तौ लुमान् | मतुप्-प्रत्ययस्य अर्थः अस्य अस्मिन् वा; यथा बुद्धिमान् इत्युक्ते बुद्धिः अस्य अस्मिन् वा, सः बुद्धिमान् | तर्हि 'लु' अस्य अस्मिन् वा, सः लुमान् | व्याकरणे त्रयः लुमन्तः सन्ति— लुक्, श्लु, लुप् चेति | इदं सूत्रं वक्ति यत् येन अदर्शनं भवति, सः लुमान् अस्ति चेत्, तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति | अनुवृत्ति-सहितसूत्रं तथैव— (यदा) लुमता प्रत्ययलोपे (तदा) अङ्गस्य प्रत्ययलक्षणं न | अतः न लुमताऽङ्गस्य (१.१.६३) इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यस्य बाधकसूत्रम् | तर्हि अत्र सारांशः एवं यत् श्लु इत्यनेन कस्यचित् प्रत्ययस्य अदर्शनं भवति चेत्, यस्मात् अङ्गात् सः प्रत्ययः लुप्तः जातः, तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति |
आहत्य लोपप्रकरणे चत्वारि सूत्राणि | क्रमेण—
अदर्शनं लोपः (१.१.६०) = लोप-संज्ञया अदर्शनं विहितम् |
प्रत्ययस्य लुक्श्लुलुपः (१.१.६१) = लुक्, श्लु, लुप् इत्याभिः तिसृभिः संज्ञाभिः अदर्शनं विहितम् |
प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) = प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात् |
न लुमताऽङ्गस्य (१.१.६३) = लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात् |
जुहोत्यादिगणे विकरणप्रत्ययः शप् आसीत्, अनन्तरं तस्य श्लु अभवत् | लुमता शपः अदर्शनं जातम्, अतः धात्वङ्गे शप्-निमित्तकम् अङ्गकार्यं नार्हम् |
अधुना नूतनप्रश्नः उदेति यत् अदादिगणे लुक् अपि लुमान् अस्ति, जुहोत्यादिगणे श्लु अपि लुमान् | द्वयमपि लुमान् चेत्, द्वयोः भेदः कः ? वस्तुतः द्वयोः कुत्रचित् साम्यं, कुत्रचित् च भेदः | साम्यं अस्मिन्, यत् लुमान् सन् प्रत्ययलक्षणं न भवति | पुनः भेदः, यतोहि विशिष्टसूत्राणि भवन्ति लुकः कृते श्लोः कृते च | यथा अदादिगणे उतो वृद्धिर्लुकि हलि इति सूत्रम् अस्माभिः दृष्टं, येन गुणं प्रबाध्य वृद्धिर्भवति | श्लु इत्यनेन तादृशं कार्यं न प्राप्यते | किन्तु श्लोः विशिष्टं कार्यमपि अस्ति, यत् लुक् इत्यनेन न सिध्यति | तत्र प्रमुखं कार्यम् इदम्—
श्लौ (६.१.१०) = धातोः द्वित्वं भवति श्लौ परे | श्लौ सप्तम्यन्तम्; एकं पदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— धातोः द्वे श्लौ |
जुहोत्यादिगणे श्लुना सर्वेषां धातूनां द्वित्वं भवति | यथा दा → दादा, धा → धाधा, भी → भीभी, हु → हुहु |
पाणिनीयव्याकरणे पञ्चसु स्थलेषु द्वित्वं भवति—श्लौ (जुहोत्यादिगणे), लिटि, चङि (लुङ्-लकारे), सनि, यङि च |
अत्रास्ति द्वित्वप्रकरणम्—
एकाचो द्वे प्रथमस्य (६.१.१)
अजादेर्द्वितीयस्य (६.१.२)
न न्द्राः संयोगादयः (६.१.३)
पूर्वोऽभ्यासः (६.१.४)
उभे अभ्यस्तम् (६.१.५)
जक्षित्यादयः षट् (६.१.६)
तुजादीनां दीर्घोऽभ्यासस्य (६.१.७)
लिटि धातोरनभ्यासस्य (६.१.८)
सन्यङोः (६.१.९)
श्लौ (६.१.१०)
चङि (६.१.११)
दाश्वान्साह्वान्मीढ्वांश्च (६.१.१२)
एकाचो द्वे प्रथमस्य (६.१.१) = अधिकारसूत्रं— प्रथमस्य एकाच्-भागस्य द्वित्वं भवति | जागृ → जा जागृ | पच् → पच् पच् | इ → इ इ | षष्ठाध्यायस्य प्रथमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | एकाचः षष्ठ्यन्तं, द्वे प्रथमान्तं, प्रथमस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— प्रथमस्य एकाचः द्वे |
अजादेर्द्वितीयस्य (६.१.२) | अधिकारसूत्रम्— अजादिधातोः द्वितीयस्य एकाच्-भागस्य द्वित्वं भवति | ऊर्णु → ऊर्णु नु | षष्ठाध्यायस्य प्रथमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | अजादेः षष्ठ्यन्तं, द्वितीयस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रं — अजादेः द्वितीयस्य (एकाचः द्वे) |
बहुत्र धातुः एकाच् एव; तथा भवति चेत् समग्रधातोरेव द्वित्वं भवति | यथा जुहोत्यादिगणे मा → मामा, हा → हाहा | धातुः अनेकाच् चेत्, अपि च हलादिः इति चेत् एकाचो द्वे प्रथमस्य (६.१.१) इत्यनेन प्रथमस्य एकाच्-भागस्य द्वित्वं भवति | धातुः अनेकाच् चेत्, अपि च अजादिः इति चेत् अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वं भवति | एकाच्-भागः इत्युक्ते यदा हि प्रथमः अच्-वर्णः आयाति, स च वर्णः भागस्य अन्तो भवति | नाम, स्वरवर्णः भागस्य अन्तिमवर्णो भवति | अग्रिमवर्णः अग्रिमभागस्य प्रथमवर्णः |
धातुः अनेकाच् चेत्, अपि च हलादिः इति चेत्
यथा भू + य ( यङ्प्रत्ययः) → भूय इत्यस्य सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातुसंज्ञा → सन्यङोः (६.१.९) इत्यनेन द्वित्वम् → भूय इति धातुः अनेकाच्, हलादिः च अतः प्रथमस्य एकाच्-भागस्य द्वित्वम् → ऊ-कारः स्वरः अतः स च ऊकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'भू' इति प्रथमभागः, तस्य च द्वित्वम् → भू भू य
किन्तु धातुः अजादिः अस्ति चेत् अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वं भवति—
अश् य ( यङ्प्रत्ययः) → अश्य इत्यस्य सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातुसंज्ञा → सन्यङोः (६.१.९) इत्यनेन अजादेः द्वितीयस्य द्वित्वम् → अश्य इति धातौ अश्य इत्यस्य प्रथमः अ-कारः स्वरः अतः स च अकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'श्य' इति द्वितीयभागः, तस्य च द्वित्वम् → अ श्य श्य
न न्द्राः संयोगादयः (६.१.३) = अचः पराः संयोगादयः नदराः द्विर्न भवन्ति | न् च द् च रश्च तेषामितरेतरद्वन्द्वो न्द्राः | संयोगस्य आदयः, संयोगादयः षष्ठीतत्पुरुषः | न अव्ययपदं, न्द्राः प्रथमान्तं, संयोगादयः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अजादेर्द्वितीयस्य (६.१.२) इत्यस्मात् अजादेः इत्यस्य अनुवृत्तिः | अच् चासौ आदिश्च अजादिः, तस्मात् अजादेः कर्मधारयः | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अजादेः संयोगादयः न्द्राः न द्वे |
यथा—
ऊर्णु → ऊ इति प्रथमः एकाच्-भागः, र्णु इति द्वितीयः एकाच्-भागः → अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वम् → न न्द्राः संयोगादयः (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'नु' इत्यस्य एव द्वित्वम् → ऊर्णु नु
उन्द् + सन् → इडागमः, षत्वादेशः → उन्दिष → त्रयः एकाच्-भागाः उ, न्दि, ष → अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वम् → 'न्दि' इति द्वितीयः एकाच्-भागः → न न्द्राः संयोगादयः (६.१.३) इत्यनेन संयोगादि-नकारस्य द्वित्वं न भवति अतः 'दि' इत्यस्य एव द्वित्वम् → प्रथमः तृतीयः च एकाच्-भागौ यथावत् तिष्ठतः → उन्दि + दि + ष → उन्दिदिष
द्वित्वे जाते प्रथभागस्य नाम अभ्यासः, मिलित्वा द्वयोर्नाम अभ्यस्तम् |
पूर्वोऽभ्यासः (६.१.४) = द्वित्वानन्तरं, यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम् | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं—पूर्वः अभ्यासः द्वयोः |
उभे अभ्यस्तम् (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम् | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्—उभे द्वे अभ्यस्तम् |
तत्र द्वित्वस्य अनन्तरं कानिचन कार्याणि सन्ति अभ्यासे; यथा अभ्यासस्य ह्रस्वत्वम्, अल्पप्राणत्वं च भवति | इदं सर्वम् अभ्यासकार्यम् इति उच्यते | आर्धधातुकप्रकरणे विस्तरेण परिशीलयाम (लिटि, लुङि, सनि, यङि इत्येषु) | अभ्यासकार्यस्य पुनः विभजनं भवति— सामान्याभ्यासकार्यं, विशेषाभ्यासकार्यं चेति | सामान्याभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति, सर्वेषां धातूनां कृते | विशेषाभ्यासकार्यं भवति द्वित्वस्य निमित्तम् अधिकृत्य; यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यङि, चङि च |
अत्र सन्ति प्रमुख-सामान्याभ्यासकार्याणि—
ह्रस्वः (७.४.५९)
हलादिः शेषः (७.४.६०)
शर्पूर्वाः खयः (७.४.६१)
कुहोश्चुः (७.४.६२)
उरत् (७.४.६६)
अभ्यासे चर्च (८.४.५४)
ह्रस्वः (७.४.५९) = अभ्यासस्य अच्-वर्णः ह्रस्वः स्यात् | अचश्च (१.२.२८) इति परिभाषा-सूत्रेण यत्र कुत्रापि सूत्रेषु 'ह्रस्व', 'दीर्घ', 'प्लुत' इत्येते शब्दाः आयान्ति, तत्र 'अचः' इति शब्दः सूत्रार्थेऽपि आयाति | अतः 'ह्रस्वः' इत्युक्तौ 'ह्रस्वः अच्-वर्णः'; तथा सर्वत्र | ह्रस्वः प्रथमान्तम्, एकपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य अचः ह्रस्वः |
खा खाद् → ख खाद्
नी नी → नि नी
लू लू → लु लू
से सेव् → सि सेव्
गो गोष्ट् → गु गोष्ट्
ढौ ढौक् → ढु ढौक्
हलादिः शेषः (७.४.६०) = अभ्यासस्य आदिमः* हल् शेषः, अभ्यासे अपरेषां हलां लोपः | हल् प्रथमान्तम्, आदिः प्रथमान्तं, शेषः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— (अङ्गस्य) अभ्यासस्य हलादिः शेषः |
*आदिमः इत्युक्तौ 'आदौ यः', न तु 'प्रथमः' | अतः अजादिधातोः द्वित्वं क्रियते चेत्, आदौ अच्-वर्णः न तु हल्-वर्णः इति कारणतः हलादिः शेषः (७.४.६०) इत्यनेन अभ्यासे सर्वेषां हल्-वर्णानां लोपो भवति | अट् → अट् अट् → अ अट् |
पठ् → पठ् पठ् → प्रथमः पठ् इति भागः अभ्याससंज्ञकः → हलादिः शेषः (७.४.६०) इत्यनेन अभ्यासस्य आदिमः हल् शेषः, अभ्यासे अपरेषां हलां लोपः → प पठ् | तथैव ज्ञा → ज ज्ञा | एवमेव विचारणीयम्— धन्, निज्, विष्, खाद्, धिष्, विज्, तुर्, भस् |
शर्पूर्वाः खयः (७.४.६१) = यस्य अभ्यासस्य पूर्वं शर् परञ्च खय्, तस्य तु खय् एव शेषो भवति, अन्ये हलः च लुप्यन्ते | हलादिः शेषः (७.४.६०) इत्यस्य अपवादः अतः तस्य बाधकसूत्रम् | शर् पूर्वो येषां ते शर्पूर्वाः | शर्पूर्वाः प्रथमान्तं, खयः प्रथमान्तं, द्विपदमिदं सूत्रम् | हलादिः शेषः (७.४.६०) इत्यस्मात् वचनपरिणामं कृत्वा शेषाः इत्यस्य अनुवृत्तिः | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— (अङ्गस्य) अभ्यासस्य शर्पूर्वाः खयः शेषाः |
स्पर्ध् → स्पर्ध् स्पर्ध् → प स्पर्ध्
एवमेव विचारणीयम्— स्पन्द्, स्पूर्ज्, स्तम्भ्, स्तुभ्, स्खल्, स्पश्, स्तिघ्, स्फुर् |
कुहोश्चुः (७.४.६२) = अभ्यासे कवर्गीयस्य हकारस्य च स्थाने चवर्गीयादेशो भवति | तत्र स्थानेऽन्तरतमः (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात् हकारस्य स्थाने झकारः, तदा अभ्यासे चर्च (८.४.५४) इत्यनेन झ-स्थाने जकारः | कुश्च ह् च तयोरितरेतरद्वन्द्वः कुहौ, तयोः कुहोः | कुहोः षष्ठ्यन्तं, चुः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य कुहोः चुः |
स्थानेऽन्तरतमः (१.१.५०) = प्रसङ्गम् अवलम्ब्य तुल्यतमः आदेशो भवति | स्थाने सप्तम्यन्तम्, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम् |
कृ → कृ कृ → कर् कृ → क कृ → च कृ
खन् → खन् खन् → ख खन् → छ खन् → च खन्
गम् → गम् गम् → ग गम् → ज गम्
ग्रह् → ग्रह् ग्रह् → ग ग्रह् → ज ग्रह्
घृ → घृ घृ → घर् घृ → झ घृ → ज घृ
हृ → हृ हृ → हर् हृ → ह हृ → ज हृ
हस् → हस् हस् → ह हस् → झ हस् → ज हस्
उरत् (७.४.६६) = अभ्यासस्य ऋवर्णस्य स्थाने अत्-आदेशः भवति | उः षष्ठ्यन्तम्, अत् प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य उः अत् |
वृष् → वृष् वृष् → वृ वृष् → वर् वृष् → व वृष्
कृष् → कृष् कृष् → कृ कृष् → कर् कृष् → क कृष् → च कृष्
हृष् → हृष् हृष् → हृ हृष् → हर् हृष् → ह हृष् → ज हृष्
ऋकारान्तधातवः—
भृ → भृ भृ → भर् भृ → भ भृ → ब भृ
हृ → हृ हृ → हर् हृ → ह हृ → ज हृ
कृ → कृ कृ → कर् कृ → क कृ → च कृ
तॄ → तॄ तॄ → तर् तॄ → त तॄ
अभ्यासे चर्च (८.४.५४) = अभ्यासे झल्-स्थाने जश् चर् च आदेशौ भवतः | तत्र स्थानेऽन्तरतमः (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात् झश्-स्थाने जश् अपि च खय्-स्थाने चर् | अनुवृत्त्यर्थम् अष्टमाध्याये | अभ्यासे सप्तम्यन्तं, चर् प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | झलां जश् झशि (८.४.५३) इत्यस्मात् झलां, जश् इत्यनयोः अनुवृत्तिः | तयोर्यवावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्—अभ्यासे झलां जश् चर् च संहितायाम् |
चर्त्वम्
थु थुड् → तु थुड्
फ फल् → प फल्
छु छुप् → चु छुप्
जश्त्वम्
भु भू → बु भू
ढु ढौक् → डु ढौक्
झ झर्झ् → ज झर्झ्
अस्माभिः ज्ञायते यत् सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति |
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्
२. तिङ्प्रत्यय-सिद्धिः
३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्
जुहोत्यादिगणे अपि तथा, किन्तु द्वित्वम् अभ्यासकार्यं चापि स्तः; द्वित्वस्य निमित्तं श्लु, अभ्यासस्य निमित्तं यः प्रत्ययः अभ्यस्तात् परः अस्ति— `तिङ् वा कृत् वा भवतु | तर्हि आहत्य जुहोत्यादिगणे कार्यस्य क्रमः एतादृशः—
- शप् विधीयते कर्तरि शप् इत्यनेन
- शपः स्थाने श्लु भवति
- श्लौ इत्यनेन धातोः द्वित्वं भवति
- सामन्य-अभ्यासकार्यम्; अभ्यस्तोत्तर-प्रत्ययः अस्य निमित्तम् (ह्रस्वः, हलादिः शेषः, कुहोश्चुः, उरत्, अभ्यासे चर्च)
- विशेष-अभ्यासकार्यम्; श्लुः अस्य निमित्तम्; चत्वारि सूत्राणि (अस्मिन् पाठे द्वे— भृञामित्, अर्तिपिपर्त्योश्च)
- अङ्गकार्यं, तिङ् च कृत् च निमित्तम्
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्
विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् नास्ति यतः शप्-विकरणप्रत्ययस्य श्लुः भवति | श्लुः तु अङ्गकार्यस्य (अभ्यासकार्यस्य) निमित्तं भवति; तच्च तृतीये सोपाने क्रियते येन एकैकस्य धातोः चर्चा करणीया एकवारम् एव | तदर्थम् अभ्यासकार्यम् अपि तत्रैव |
२. तिङ्प्रत्यय-सिद्धिः
जुहोत्यादिगणे अङ्गम् अनदन्तम्, अतः अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः भवन्ति | परन्तु यत्र धातुः अभ्यस्तसंज्ञकः अस्ति, तत्र तिङ्प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते | जुहोत्यादिगणे सर्वे धातवः अभ्यस्तसंज्ञकाः, अत्र सर्वत्र इमे द्वे कार्ये स्तः—
१) अदभ्यस्तात् (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | झोऽन्तः (७.१.३) इत्यस्मात् झः (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | आयनेयीनीयियः फढखछगां प्रत्ययादीनाम् (७.१.२) इत्यस्मात्, वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत् |
धेयं यत् अत्-आदेशस्य तकारः हलन्त्यम् (१.३.३) इति सूत्रेण इत्-संज्ञकः न, यतोहि अत् तु विभक्तिसंज्ञक-झि-प्रत्ययस्य अवयवस्य आदेशः अतः न विभक्तौ तुस्माः (१.३.४) इत्यनेन हलन्त्यम् (१.३.३) बाधितम् |
अदभ्यस्तात् (७.१.४) इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ्-स्थाने अत् आदेशः, अतः लटि झि → अति न तु अन्ति; लोटि झि → अतु न तु अन्तु |
२) सिजभ्यस्तविदिभ्यश्च (३.४.१०९) = ङित्-लकारस्य अवस्थायां, सिच्-प्रत्ययात्, अभ्यस्तसंज्ञकात् धातोः, विद्-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्-आदेशो भवति | सिच् च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | नित्यं ङितः (३.४.९९) इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः | झेर्जुस् (३.४.१०८) इत्यस्मात् झेः जुस् इत्यनयोः अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस् |
अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्-आदेशः | जुस् इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत्, लङि अन्-स्थाने उः इति प्रत्ययः भवति |
अतः आहत्य अभ्यस्तसंज्ञक-धातूनां कृते, सार्वधातुकलकारेषु सिद्ध-तिङ्प्रत्ययाः एते | जुहोत्यादिगणे एते एव योजनीयाः—
परस्मैपदम् आत्मनेपदम्
लट्-लकारः
ति तः अति ते आते अते
सि थः थ से आथे ध्वे
मि वः मः ए वहे महे
लोट्-लकारः
तु, तात् ताम् अतु ताम् आताम् अताम्
हि, तात् तम् त स्व आथाम् ध्वम्
आनि आव आम ऐ आवहै आमहै
लङ्-लकारः
त् ताम् उः त आताम् अत
स् तम् त थाः आथाम् ध्वम्
अम् व म इ वहि महि
विधिलिङ्-लकारः
यात् याताम् युः ईत ईयाताम् ईरन्
याः यातम् यात ईथाः ईयाथाम् ईध्वम्
याम् याव याम ईय ईवहि ईमहि
३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्
1. आकारान्तधातवः (6 धातवः सन्ति— माङ् माने (मा), ओहाङ् गतौ (हा), ओहाक् त्यागे (हा), गा स्तुतौ (गा), डुदाञ् दाने (दा), डुधाञ् धारणपोषणयोः (धा) च)
A. माङ् माने (मा), ओहाङ् गतौ (हा), ओहाक् त्यागे (हा), गा स्तुतौ (गा)
द्वित्वम् अभ्यासकार्यं च—
भृञाद्यन्तर्गणः | डुभृञ् धारणपोषणयोः, माङ् माने, ओहाङ् गतौ—इमे त्रयः धातवः भृञादयः |
भृञामित् (७.४.७६) = भृञ् माङ् ओहाङ् इत्येषां धातूनाम् अभ्यासस्य ह्रस्वः इकारादेशो भवति श्लौ परे | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः, न तु अभ्यासस्य पूर्णस्य | भृञां षष्ठ्यन्तम्, इत् प्रथमान्तं, द्विपदमिदं सूत्रम् | णिजां त्रयाणां गुणः श्लौ (७.४.७५) इत्यस्मात् त्रयाणां, शलौ इत्यनयोः अनुवृत्तिः | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— भृञाम् त्रयाणाम् अङ्गस्य अभ्यासस्य इत् शलौ |
त्रिषु धातुषु माङ् माने (अनुबन्धलोपे मा), ओहाङ् गतौ (अनुबन्धलोपे हा) आकारान्तधातू | द्वयमपि ङित्त्वात् आत्मनेपदिधातुः |
मा → श्लौ (६.१.१०) इत्यनेन द्वित्वम् → मामा → भृञामित् (७.४.७६) इत्यनेन अभ्यासस्य ह्रस्वः इकारादेशः → मिमा इति अङ्गम्
हा → श्लौ (६.१.१०) इत्यनेन द्वित्वम् → हाहा → भृञामित् (७.४.७६) इत्यनेन अभ्यासस्य ह्रस्वः इकारादेशः → हिहा → कुहोश्चुः (७.४.६२) इत्यनेन अभ्यासस्य चवर्गादेशः → झिहा → अभ्यासे चर्च (८.४.५४) इत्यनेन झश्-स्थाने जश् → जिहा → जिहा इति अङ्गम्
ओहाक् त्यागे, अनुबन्धलोपे हा-धातुः, परस्मैपदी |
हा → द्वित्वम् अभ्यासकार्यं च परिशीलनीयम्
गा स्तुतौ छान्दसः, इत्युक्तौ वेदे प्रयुज्यते न तु लोके | अतः बहुलं छन्दसि (७.४.७८) इत्यनेन सूत्रेण अभ्यासस्य इत्त्वम् | गागा → गिगा → जिगा |
गा स्तुतौ, परस्मैपदी
गा → द्वित्वम् अभ्यासकार्यं च परिशीलनीयम्
बहुलं छन्दसि (७.४.७८) = बहुलं छन्दसि विषये, अभ्यासस्य इकारादेशो भवति श्लौ | यस्य कस्यापि धातोः श्लौ परे द्वित्वं, तस्य वेदप्रसङ्गे अभ्यास-स्थितस्य स्वरस्य इकारादेशः | यथा वच् → विवक्ति, सच् → सिषक्ति, घृ → जिघर्ति. हृ → जिहर्ति |
तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यम्—
श्नाभ्यस्तयोरातः (६.४.११२) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति, किति ङिति सार्वधातुकप्रत्यये परे | श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः श्नाभ्यस्तौ, तयोः श्नाभ्यस्तयोः | श्नाभ्यस्तयोः षष्ठ्यन्तम्, आतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | श्नसोरल्लोपः (६.४.१११) इत्यस्मात् लोपः, इत्यस्य अनुवृत्तिः | गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः | अत उत्सार्वधातुके (६.४.११०) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य श्नाभ्यस्तयोः आतः लोपः क्ङिति सार्वधातुके |
ई हल्यघोः (६.४.११३) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य स्थाने ई-कारादेशः भवति, किति ङिति हलादिसार्वधातुकप्रत्यये परे—परन्तु घुसंज्ञक-धातुः चेत्, न भवति (घुसंज्ञक-धातुः नाम दा धा च धातू) | न घुः अघुः, तस्य अघोः | ई लुप्तप्रथमाकं पदं, हलि सप्तम्यन्तम् अघोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | श्नाभ्यस्तयोरातः (६.४.११२) इत्यस्मात् श्नाभ्यस्तयोः, आतः चेत्यनयोः अनुवृत्तिः | गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः; अत् उत्सार्वधातुके (६.४.११०) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य श्नाभ्यस्तयोः आतः ई क्ङिति हलि सार्वधातुके अघोः |
मा - मिमा, हा - जिहा, हा - जहा, गा - जिगा एतेषां धातूनां कृते—
१) हलादि पित्सु = आकारान्तेषु गुणः न भवति अतः किमपि कार्यं नास्ति | जिगा + ति → जिगाति
२) अजादि पित्सु = आकारान्तेषु गुणः न भवति; केवलं सन्धिकार्यम् | जिगा + आनि → जिगानि
३) हलाद्यपित्सु = ई हल्यघोः इत्यनेन आकारस्य ईकारः | मिमा + ते → मिमीते
४) अजाद्यपित्सु = श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः | मिमा + अते → मिम् + अते → मिमते
माङ् माने ङित्त्वात् आत्मनेपदी | मिमा इति अङ्गम् |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
ओहाङ् गतौ अपि ङित्त्वात् आत्मनेपदी | जिहा इति अङ्गम् | रूपाणि उपरि मिमा इति यथावत् |
गा-धातुः परस्मैपदी | जिगा इति अङ्गम् |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
ओहाक् - हा - जहा, परस्मैपदिधातुः | तिङ्प्रत्यय-निमित्तके अङ्गकार्ये विशेषः—
जहातेश्च (६.४.११६) = ओहाक्-धातोः आकारस्य स्थाने ह्रस्वः इकारादेशो विकल्पेन भवति हलादौ किति ङिति सार्वधातुक-प्रत्यये परे | अलोऽन्त्यस्य (१.१.५२) इत्यनेन ओहाक्-धातुरूप्यङ्गस्य अन्ते स्थितस्य आ-कारस्य स्थाने इदादेशः, न तु पूर्णतया अङ्गस्य | जहातेः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इद् दरिद्रस्य (६.४.११४) इत्यस्मात् इत् इत्यस्य अनुवृत्तिः | भियोऽन्यतरस्याम् (६.४.११५) इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः | ई हल्यघोः (६.४.११३) इत्यस्मात् हलि इत्यस्य अनुवृत्तिः | गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः | अत उत्सार्वधातुके (६.४.११०) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— जहातेः च अङ्गस्य इत् हलि क्ङिति सार्वधातुके अन्यतरस्याम् |
जहा + तः → जहितः | अपक्षे ई हल्यघोः (६.४.११३) इत्यनेन आकारस्य ईकारः | जहा + तः → जहीतः
आ च हौ (६.४.११७) = हि-प्रत्यये परे ओहाक्-धातोः आकारस्य स्थाने न केवलं विकल्पेन ह्रस्वः इकारादेशः, अपि तु आकारादेशः अपि | आहत्य हौ परे आकारस्य स्थाने विकल्पेन इकारः, आकारो वा भवति | च-शब्दस्य बलेन इकारः अत्र विधीयते | आ लुप्तप्रथमाकं पदं, च अव्ययपदं, हौ सप्तम्यन्तं पदं, त्रिपदमिदं सूत्रम् | इद् दरिद्रस्य (६.४.११४) इत्यस्मात् इत् इत्यस्य अनुवृत्तिः | भियोऽन्यतरस्याम् (६.४.११५) इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः | जहातेश्च (६.४.११३) इत्यस्मात् जहातेः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— जहातेः अङ्गस्य इत्, आ च हौ अन्यतरस्याम् |
अपक्षे ई हल्यघोः (६.४.११३) इत्यनेन आकारस्य ईकारः | जहा + हि → जहाहि, जहिहि, जहीहि |
वैयाकरणेषु अत्र मतभेदः अस्ति | काशिकायाम् उपरितनव्याख्यानम् अस्ति | सिद्धान्तकौमुद्याम् उच्यते यत् 'च' इत्यस्य बलेन ई हल्यघोः (६.४.११३) इत्यस्मात् ईकारस्यापि अनुवृत्तिः भवति आ च हौ (६.४.११७) इति सूत्रे; तस्मात् अनेन एव सूत्रेण विकल्पेन त्रयः अपि आदेशाः सिध्यन्ति; अनया दृष्ट्या ई हल्यघोः (६.४.११३) इत्यस्य पृथक् आवश्यकता नास्ति |
लोपो यि (६.४.११८) = यकारादौ सार्वधातुक-प्रत्यये परे, ओहाक्-धातोः आकारस्य लोपो भवति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन ओहाक्-धातुरूप्यङ्गस्य अन्ते स्थितस्य आ-कारस्य लोपः, न तु पूर्णतया अङ्गस्य | जहातेश्च (६.४.११३) इत्यस्मात् जहातेः इत्यस्य अनुवृत्तिः | अत उत्सार्वधातुके (६.४.११०) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— जहातेः अङ्गस्य लोपः यि सार्वधातुके |
जहा + यात् → जह् + यात् → जह्यात्
तर्हि ओहाक् - हा - जहा, परस्मैपदीधातुः |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
B. डुदाञ् (दा), डुधाञ् (धा) धातू
दा → द्वित्वम् अभ्यासकार्यं च परिशीलनीयम्
धा → द्वित्वम् अभ्यासकार्यं च परिशीलनीयम्
१) हलादि पित्सु = आकारान्तेषु गुणः न भवति अतः किमपि कार्यं नास्ति | ददा + ति → ददाति
२) अजादि पित्सु = आकारान्तेषु गुणः न भवति; केवलं सन्धिकार्यम् | ददा + आनि → ददानि
३) हलाद्यपित्सु = श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः | ददा + तः → दद् + तः → खरि च इत्यनेन चर्त्वसन्धिः → दत्तः
४) अजाद्यपित्सु = श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः | ददा + अति → दद् + अति → ददति
हलाद्यपित्सु आकारस्य स्थाने किमर्थम् ईकारादेशः न भवति ? ई हल्यघोः (६.४.११३) इत्यस्य प्रसक्तिः अत्र तु नास्त्येव | 'ई हलि अघोः'—अघोः इत्युक्ते न घुः अघुः, तस्य | घु इति काचन संज्ञा अस्ति; दा-धातुः धा-धातुः च घु-संज्ञकधातू स्तः | अस्य कृते अधः दाधा घ्वदाप् (१.१.२०) इति सूत्रं विवृतम् अस्ति |
ई हल्यघोः (६.४.११३) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य स्थाने ई-कारादेशः भवति, किति ङिति हलादिसार्वधातुकप्रत्यये परे—परन्तु घुसंज्ञक-धातुः चेत्, न भवति (घुसंज्ञक-धातुः नाम दा धा च धातू) | न घुः अघुः, तस्य अघोः | ई लुप्तप्रथमाकं पदं, हलि सप्तम्यन्तम् अघोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | श्नाभ्यस्तयोरातः (६.४.११२) इत्यस्मात् श्नाभ्यस्तयोः, आतः चेत्यनयोः अनुवृत्तिः | गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः; अत् उत्सार्वधातुके (६.४.११०) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य श्नाभ्यस्तयोः आतः ई क्ङिति हलि सार्वधातुके अघोः |
दाधा घ्वदाप् (१.१.२०) = दा-रूप-धातोः, धा-रूप-धातोः च घु-संज्ञा भवति, दाप् दैप् च विहाय | यस्य धातोः स्वरूपं दा धा च, अथवा आदेशेन यस्य धातोः रूपं दा धा च भवति, तस्य धातोः घु-संज्ञा भवति | आहत्य षट् धातवः गृहीताः— डुदाञ्, दाण्, दो, देङ्, डुधाञ्, धेट् च | अनुबन्धलोपानन्तरं चत्वारः दा-धातवः सन्ति, द्वौ धा-धातू स्तश्च | दाश्च दाश्च दाश्च दाश्च तेषामेकशेषो दाः, धाश्च धाश्च तयोरितरेतरद्वन्द्वो धौ, दाश्च धौ च तेषामितरेतरद्वन्द्वो दाधाः | न दाप्, अदाप् | दाधाः प्रथमान्तं, घु लुप्प्रथमाकम्, अदाप् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— दाधाः घु अदाप् |
अस्मिन् सूत्रे कथं दो, देङ्, धेट् इत्येषां ग्रहणम् ? एते तु दा-रूप-धा-रूप-धातवः न सन्ति | लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति परिभाषया प्रतिपदोक्तस्यैव ग्रहणं भवेत् | डुदाञ्, दाण्, डुधाञ् इत्येषां प्रतिपदोक्ततत्वात् ग्रहणं भवति | किन्तु दो, देङ्, धेट् इत्येषां लक्षण-माध्यमेन एव आकारान्तत्वं सिध्यति | आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन अशिति प्रत्येये परे एजन्तधातूनाम् आत्त्वम् | लक्षणेन एव एषां त्रयाणाम् आत्त्वम् इति कृत्वा ग्रहणं न स्यात् | किन्तु उक्तपरिभाषायाः अपवादत्वेन गामादाग्रहणेष्वविशेषः इति तदग्रिमपरिभाषया, लक्षणेन एव दा-धा इत्यनयोः आकारान्तत्वं सिध्यति चेदपि तयोः ग्रहणं भवति | 'अदाप्' इत्यस्य कथनेन दाप्, दैप् इत्येषु दैप् इत्यस्य ग्रहणम् अपि तथैव भवति |
आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | उपदेशे इत्यनेन औपदेशिकधातूनामेव प्रसक्तिः, न तु आतिदेशिकधातूनाम् | उपदेशावस्थायाम्, अशिति प्रत्यये परे, एजन्तधातूनाम् अन्त्यस्य एचः स्थाने आत्वादेशः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— एचः धातोः आत् उपदेशे अशिति |
अनेन डुदाञ् अपि डुधाञ् अपि घुसंज्ञकौ धातू | अतः ई हल्यघोः (६.४.११३) इत्यस्य प्रसक्तिः नास्ति | श्नाभ्यस्तयोरातः (६.४.११२) इति सूत्रं किति ङिति सार्वधातुकप्रत्यये परे कार्यं करोति; केवलम् 'अजादि' अपित्सु तु नोक्तम्, अतः अवसरः यत्र भवति, तत्र हलाद्यपित्सु अपि कार्यं करोति | दा-धातुः धा-धातुः, अनयोः प्रसङ्गे तादृशोऽवसरः प्राप्यते |
दा-धातोः कृते तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यंम् उपर्युक्तमेव; तत् विहाय लोट्-लकारस्य मध्यमपुरुषे ददा + हि → दे + हि → देहि | सूत्रमिदम्—
घ्वसोरेद्धावभ्यासलोपश्च (६.४.११९) = हि-परे, घुसंज्ञक-धातोः अस्-धातोः च स्थाने एकारादेशो भवति; अभ्यासः अस्ति चेत् तस्य लोपो भवति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन धातुरूप्यङ्गस्य अन्तिमवर्णस्य स्थाने एकारादेशः, न तु पूर्णतया अङ्गस्य | घुश्च अस् च तयोरितरेतरद्वन्द्वो घ्वसौ, तयोः घ्वसोः | अभ्यासस्य लोपः, अभ्यासलोपः षष्ठीतत्पुरुषः | घ्वसोः षष्ठ्यन्तं, एत् प्रथमान्तं, हौ सप्तम्यन्तम्, अभ्यासलोपः प्रथमान्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— घ्वसोः अङ्गस्य एत् अभ्यासलोपः च हौ |
घ्वसोरेत् + हावभ्यासलोपश्च → झलां जशोऽन्ते (८.२.३९) इत्यनेन जश्त्वम् → घ्वसोरेद् + हावभ्यासलोपश्च → झयो होऽन्यतरस्याम् (८.४.६२) इत्यनेन विकल्पेन पूर्वसवर्णादेशः → घ्वसोरेद्धावभ्यासलोपश्च
झयो होऽन्यतरस्याम् (८.४.६२) = झयः उत्तरस्य हकारस्य विकल्पेन पूर्वसवर्णादेशो भवति | झयः पञ्चम्यन्तं, हः षष्ठ्यन्तम्, अन्यतरस्यां सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | उदः स्थास्तम्भोः पूर्वस्य (८.४.६१) इत्यस्मात् पूर्वस्य इत्यस्य अनुवृत्तिः; अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यस्मात् सवर्णः इत्यस्य अनुवृत्तिः | अन्यतरस्याम् इत्युक्ते विकल्पेन | अनुवृत्ति-सहितसूत्रं— झयः हः पूर्वस्य सवर्णः अन्यतरस्याम् |
ददा + हि → देहि | दधा + हि → धेहि | (अस्-धातोः एधि इति भवति; अग्रे अदादिगणस्य हलन्तधातुपाठे प्रक्रिया द्रष्टव्या |)
दा-धातोः अङ्ग-तिङ्प्रत्यययोः मेलने कुत्रचित् चर्त्वसन्धिः भवति खरि च इत्यनेन सूत्रेण | चर्त्वसन्धौ तत्तत् वर्गस्य प्रथमसदस्यादेशः भवति | (खरि च इति सूत्रम् अधः विवृतम् |) यथा—
ददा + तः → श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः → दद् + तः → खरि च इत्यनेन चर्त्वसन्धिः → दत् + तः → दत्तः
ददा + थः → श्नाभ्यस्तयोरातः, आकारस्य लोपः → दद् + थः → खरि च इत्यनेन चर्त्वसन्धिः → दत् + थः → दत्थः
एवमेव ददा + तात् → दत्तात्; अददा + ताम् → अदत्ताम्; ददा + ते → दत्ते; अददा + थाः → अदत्थाः
डुदाञ् ञित्त्वात् उभयपदी धातुः | ददा इति अङ्गम् |
परस्मैपदम्
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
आत्मनेपदम्
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
धा-धातोः कृते तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यंम् उपर्युक्तमेव; तत् विहाय लोट्-लकारस्य मध्यमपुरुषे दधा + हि → धे + हि → धेहि; सूत्रं पूर्वोक्तम् | अन्यच्च इतोऽपि एकं कार्यम् अस्ति—
दधस्तथोश्च (८.२.३८) = द्वित्वकृतस्य झषन्तस्य धाञ्-धातोः बशो भष् स्यात् तथोः स्ध्वोः च परयोः | 'दधा' इत्यस्य यत्र आकारलोपः, तत्र 'दध्' इति झषन्तरूपं सिध्यति | तादृशस्य 'दध्' इत्यस्य दकारस्य स्थाने धकारादेशो भवति तकारे, थकारे, सकारे ध्व-शब्दे च परे | इदं कार्यं वर्णनिमित्तकं न तु अङ्गनिमित्तकं; हल्-सन्धिकार्यम् एव, अष्टमाध्याये च | झष्-प्रत्याहारे वर्गस्य चतुर्थवर्णाः अन्तर्भूताः— झ्, भ्, घ्, ढ्, ध् | बश्-प्रत्याहारे ब्, ग्, ड्, द् इत्येते वर्णाः | भष्-प्रत्याहारे भ्, घ्, ढ्, ध् इत्येते वर्णाः | तश्च थ् च तथौ, तकारादकारः उच्चारणार्थः, तयोः तथोः | दधः षष्ठ्यन्तं, तथोः सप्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | एकाचो बशो भष् झषन्तस्य स्ध्वोः (८.२.३७) इत्यस्मात् बशो, भष्, झषन्तस्य, स्ध्वोः इत्येषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— झषन्तस्य दधः बशः भष् स्ध्वोः तथोः च |
यथा—
दधा + तः → श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः → दध् + तः → दधस्तथोश्च इत्यनेन द्-स्थाने ध् → धध् + तः → खरि च इत्यनेन चर्त्वसन्धिः → धत्तः
एवमेव दधा + थः → धत्थः; दधा + तात् → धत्तात्; दधा + ते → धत्ते; दधा + स्व → धत्स्व; अदधा + त → अधत्त
धा-धातोः अङ्ग-तिङ्प्रत्यययोः मेलने कुत्रचित् चर्त्वसन्धिः भवति, अपि च कुत्रचित् जश्त्वसन्धिः भवति झलां जश् झशि इति सूत्रेण | जश्त्वसन्धौ तत्तत् वर्गस्य तृतीयसदस्यादेशः भवति | झलां जश् झशि इति सूत्रम् अधः विवृतम् अस्ति | उदाहरणानि एवम्—
दधा + ध्वे → श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः → दध् + ध्वे → दधस्तथोश्च → धध् + ध्वे → झलां जश् झशि→ धद् + ध्वे → धद्ध्वे
एवमेव दधा + ध्वम् → धद्ध्वम्; अदधा + ध्वम् → अधद्ध्वम्
अतः आहत्य अपित्सु प्रत्ययेषु धा-धातोः त्रीणि कार्याणि भवन्ति—
१) आकारलोपः (श्नाभ्यस्तयोरातः)
२) द् → ध् (दधस्तथोश्च) | त्, थ्, स्, ध्व् परे चेत्, इदं कार्यं भवति |
३) चर्त्वसन्धिः (खरि परे), जश्त्वसन्धिः (झशि परे)
सन्धिकार्यस्य कृते सूत्राणि इमानि—
झलां जशोऽन्ते (८.२.३९) = पदान्ते झलः स्थाने जशादेशो भवति | पदात् परे कोऽपि वर्णः स्यात् वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात् परे अच् स्यात् हल् स्यात् वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम् अस्ति चेत् अन्या वार्ता | झल् प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्, ष्, स्, ह् | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश् प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्, ब्, ग्, ड्, द् इति | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः || तर्हि पदस्य अन्ते झल्-प्रत्याहारे कश्चन वर्णः अस्ति चेत्, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | अनुवृत्ति-सहितसूत्रम्— पदस्य अन्ते झलां जशः |
अस्माकम् इदानींतने कार्ये धा-धातोः कृते जश्त्वसन्धिः भवति, परन्तु झलां जशोऽन्ते इत्यनेन न यतः अस्माकं सन्धिकार्यं पदान्ते नास्ति अपि तु पदस्य मध्ये एव | अतः अत्र जश्त्वसन्धिः क्रियते झलां जश् झशि इति सूत्रेण—
झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति, झशि परे | अनेन सूत्रेण जश्त्वं भवति अपदान्ते | झश्-प्रत्याहारे वर्गाणां तृतीयः चतुर्थश्च वर्णाः अन्तर्भूताः | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— झलां जश् झशि संहितायाम् |
खरि च (८.४.५५) = खरि परे झलः स्थाने चरादेशो भवति | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | झलां जश् झशि (८.४.५३) इत्यस्मात् झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च (८.४.५४) इत्यस्मात् चर् इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— झलां चर् खरि च संहितायाम् |
चर्-प्रत्याहारे च्, ट्, त्, क्, प् इत्येते वर्णाः (वर्गाणां प्रथमवर्णाः) अन्तर्भूताः | श्, ष्, स् अपि अन्तर्भूताः, परन्तु अनेन सूत्रेण श्-स्थाने श्, ष्-स्थाने ष्, स्-स्थाने स् इति कारणतः कोऽपि भेदः नास्ति तत्र | पदान्ते इदं सूत्रं झलां जशोऽन्ते इत्यस्य बाधकम् |
डुधाञ् ञित्त्वात् उभयपदी धातुः | दधा इति अङ्गम् |
परस्मैपदम्
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
आत्मनेपदम्
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
2. इकारान्तधातवः ईकारान्तधातवः च (3 धातवः)
त्रयः इ/ईकारान्तधातवः सन्ति | वर्गद्वये विभक्ताः यतः अजाद्यपित्सु कार्यं पृथक्तया क्रियेत | कि ज्ञाने (कि-धातुः), ञिभी भये (भी-धातुः) च असंयोगपूर्वौ धातू; ह्री लज्जायां (ह्री-धातुः) संयोगपूर्वः |
कि → द्वित्वम् अभ्यासकार्यं च परिशीलनीयम्
भी → द्वित्वम् अभ्यासकार्यं च परिशीलनीयम्
ह्री → द्वित्वम् अभ्यासकार्यं च परिशीलनीयम्
१) हलादि पित्सु = सार्वधातुकार्धधातुकयोः इत्यनेन गुणः | बिभी + ति → बिभे + ति → बिभेति
२) अजादि पित्सु = सार्वधातुकार्धधातुकयोः इत्यनेन गुणः; एचोऽयवायावः इत्यनेन अय्-आदेशः | बिभी + आनि → बिभे + आनि → बिभ् + अय् + आनि → बिभयानि
३) हलाद्यपित्सु = क्ङिति च इत्यनेन गुणनिषेधः; किमपि कार्यं नास्ति | बिभी + तः → बिभीतः
४) अजाद्यपित्सु = अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यनेन संयोगपूर्वस्य इयङ्-आदेशः | जिह्री + अति → जिह्र् + इय् + अति → जिह्रियति
एरनेकाचोऽसंयोगपूर्वस्य इत्यनेन असंयोगपूर्वस्य यण्-आदेशः | बिभी + अति → बिभ् + य् + अति → बिभ्यति
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्, भ्रू प्रातिपदिकम् च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात् इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— य्वोः श्नुधातुभ्रुवाम् अङ्गानां इयङुवङौ अचि |
एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) = असंयोगपूर्व-अनेकाच्-इकारान्ताङस्य यण्-आदेशो भवति अचि परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृश-धातुः यस्य अन्ते इकारः (न तु केवलम् इकाररूप्यङ्गम्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अल्-वर्णस्य यणादेशः (न तु पूर्णाङ्गस्य) | न एकम्, अनेकम्, अनेके एकाचः यस्मिन् सः अनेकाच् नञ्तत्पुरुषगर्भो बहुव्रीहिः, तस्य अनेकाचः | नास्ति संयोगः पूर्वे यस्य स असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | एः षष्ठ्यन्तम्, अनेकाचः षष्ठ्यन्तम्, असंयोगपूर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | इणो यण् (६.४.८१) इत्यस्मात् यण् इत्यस्य अनुवृत्तिः | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि, धातोः (विपरिणामेन षष्ठ्यन्तम्) इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यण् अचि |
लङि विशेषः—
अबिभी + झि → सिजभ्यस्तविदिभ्यश्च इत्यनेन झि-प्रत्ययस्य स्थाने जुस्-आदेशः → अबिभी + उः → जुसि च इत्यनेन इगन्ताङ्गस्य गुणः → अबिभे + उः → एचोऽयवायावः इत्यनेन अय्-आदेशः → अबिभ् + अय् + उः → अबिभयुः
जुसि च (७.३.८३) = अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति | जुसि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन इगन्तस्य अङ्गस्य; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः | क्सस्याचि (७.३.७२) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | मिदेर्गुणः (७.३.८२) त्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इति परिभाषासूत्रेण इकः स्थानी भवति | अनुवृत्ति-सहितसूत्रम्— इकः अङ्गस्य गुणः अचि जुसि च |
किमर्थम् 'अजादौ जुसि परे' इति चेत् 'शृणुयुः' | अत्र जुस् भवति किन्तु स च जुस् अजादिः नास्ति, अतः इगन्ताङ्गस्य गुणो न भवति | यासुट्-आगमे सति गुणः न भवति |
यासुट् परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) = लिङ्-लकारस्य परस्मैपदि-प्रत्ययानां यासुट्-आगमो भवति; स च आगमो ङिद्वत् | अनुवृत्ति-सहितसूत्रम्— परस्मैपदानां लिङः लस्य उदात्तः यासुट् ङित् च |
यथासामान्यम्—
अबिभी + स् → सार्वधातुकार्धधातुकयोः इत्यनेन गुणः → अबिभे + स् → ससजुषो रुः इत्यनेन रुत्वम् → अबिभेर् → खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गादेशः → अबिभेः
ससजुषो रुः (८.२.६६) = पदान्ते सकारस्य च सजुष्-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तम्, रुः प्रथमान्तम्, द्विपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ससजुषोः पदस्य रुः |
खरवसानयोर्विसर्जनीयः (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | रो रि (८.३.१४) इत्यस्मात् रः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— रः पदस्य विसर्जनीयः खरवसानयो: संहितायाम् |
अत्र भी-धातोः एकः विशेषः—
भियोऽन्यतरस्याम् (६.४.११५) = भी-धात्वङ्गस्य विकल्पेन इकारादेशो भवति हलादि-किति-ङिति-सार्वधातुकप्रत्यये परे | अलोऽन्त्यस्य (१.१.५२) इत्यनेन धातुरूप्यङ्गस्य अन्तिमवर्णस्य स्थाने इकारादेशः, न तु पूर्णतया अङ्गस्य | भियः षष्ठ्यन्तम्, अन्यतरस्यां सप्तम्यन्तं, द्विपदमिदं सूत्रम् | इद् दरिद्रस्य (६.४.११४) इत्यस्मात् इत् इत्यस्य अनुवृत्तिः; ई हल्यघोः (६.४.११३) इत्यस्मात् हलि इत्यस्य अनुवृत्तिः; गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः; अत उत्सार्वधातुके (६.४.११०) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— भियः अङ्गस्य इत् हलि क्ङिति सार्वधातुके अन्यतरस्याम् |
भी + तः → बिभी + तः → बिभीतः, बिभितः |
ञिभी भये परस्मैपदी धातुः | बिभी इति असंयोगपूर्वम् ईकारान्तम् अङ्गम् |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
कि ज्ञाने (कि-धातुः) इत्यस्य कार्यं तथैव; चिकि इति अङ्गम् अपि असंयोगपूर्वम् अतः अजाद्यपित्सु यणादेशः |
ह्री लज्जायां परस्मैपदी धातुः | जिह्री इति संयोगपूर्वम् ईकारान्तम् अङ्गम् |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
3. उकारान्तधातवः (1 धातुः)
एक एव उकारान्तधातुः अस्ति— हु दानादनयोः (हु-धातुः) |
हु → द्वित्वम् अभ्यासकार्यं च परिशीलनीयम्
१) हलादि पित्सु = सार्वधातुकार्धधातुकयोः इत्यनेन गुणः | जुहु + ति → जुहो + ति → जुहोति
२) अजादि पित्सु = सार्वधातुकार्धधातुकयोः इत्यनेन गुणः; एचोऽयवायावः इत्यनेन अव्-आदेशः | जुहु + आनि → जुहो + आनि → जुह् + अव् + आनि → जुहवानि
३) हलाद्यपित्सु = क्ङिति च इत्यनेन गुणनिषेधः; किमपि कार्यं नास्ति | जुहु + तः → जुहुतः
४) अजाद्यपित्सु = अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इति सूत्रं प्रबाध्य हुश्नुवोः सार्वधातुके इत्यनेन हु-धात्वङ्गस्य असंयोगपूर्वस्य उकारस्य यण्-आदेशः | जुहु + अति → जुह् + व् + अति → जुह्वति
हुश्नुवोः सार्वधातुके (६.४.८७) = हु-धातुः च अनेकाच् श्नुप्रत्ययान्तम् अङ्गं च, तयोः, असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण्-आदेशः भवति अजादि-सार्वधातुकप्रत्यये परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन उकारस्य स्थाने, यण्-प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः; यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन अचि इत्युक्तौ अजादि-प्रत्यये | हुश्च श्नुश्च तयोरितरेतरद्वन्द्वः हुश्नुवौ, तयोः हुश्नुवोः | न विद्यते पूर्वः संयोगः यस्मात्, सः असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | हुश्नुवोः षष्ठ्यन्तं, सार्वधातुके सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; इणो यण् (६.४.८१) इत्यस्मात् यण् इत्यस्य अनुवृत्तिः; एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) इत्यस्मात् अनेकाचः, असंयोगपूर्वस्य इत्यनयोः अनुवृत्तिः; ओः सुपि (६.४.८३) इत्यस्मात् ओः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनेकाचः हुश्नुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण् अचि सार्वधातुके |
लङि—
अजुहु + झि → सिजभ्यस्तविदिभ्यश्च इत्यनेन झि-प्रत्ययस्य स्थाने जुस्-आदेशः → अजुहु + उः → जुसि च इत्यनेन इगन्ताङ्गस्य गुणः → अजुहो + उः → एचोऽयवायावः इत्यनेन अव्-आदेशः → अजुह् + अव् + उः → अजुहवुः
जुसि च (७.३.८३) = अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति | जुसि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन इगन्तस्य अङ्गस्य; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः | क्सस्याचि (७.३.७२) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | मिदेर्गुणः (७.३.८२) त्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इति परिभाषासूत्रेण इकः स्थानी भवति | अनुवृत्ति-सहितसूत्रम्— इकः अङ्गस्य गुणः अचि जुसि च |
लोटि—
हुझल्भ्यो हेर्धिः (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | येनविधिस्तदन्तस्य (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम् अन्ते झल् | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हुझल्भ्यः अङ्गेभ्यः हेः धिः |
झलन्तधातवः सन्ति येषाम् अन्तिमो वर्णः झल्-प्रत्याहारे अन्तर्भूतः | अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च एतादृशधातवः सम्भवन्ति | अग्रे धातूनां हल्-सन्धिविषयः आयाति, तदा एषां गणानां हलन्तधातून् अवलोकयेम |
यथा— जुहु + हि → जुहु + धि → जुहुधि |
हु-धातुः परस्मैपदी | जुहु इति अङ्गम् |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
4. ऋकारान्तधातवः (5 धातवः)
पञ्च ऋकारान्तधातवः सन्ति—डुभृञ् धारणपोषणयोः (भृ), सृ गतौ (सृ), घृ क्षरणदीप्त्योः (घृ), हृ प्रसह्यकरणे (हृ), ऋ गतौ (ऋ) च |
अभ्यासकार्यम्
सामान्यतया ऋकारान्तधातूनाम् अभ्यासे उरत् (७.४.६६) इत्यनेन अत्वम्, उरण् रपरः (१.१.५१) इत्यनेन रपरत्वं, हलादिः शेषः (७.४.६०) इत्यनेन रेफलोपो भवति | परन्तु श्लौ परे, नाम जुहोत्यादिगणे, एषां पञ्चानामपि धातूनां विशिष्टाभ्यासकार्यं भवति येन उरत् (७.४.६६) बाध्यते |
डुभृञ्-धातुः
भृञामित् (७.४.७६) इत्यनेन अभ्यासस्य इकारादेशः | अनेन उरत् (७.४.६६) इति सामान्याभ्यासकार्यं बाधितम् |
भृ → द्वित्वम् अभ्यासकार्यं च परिशीलनीयम्
भृञामित् (७.४.७६) = भृञ् माङ् ओहाङ् इत्येषां धातूनाम् अभ्यासस्य ह्रस्वः इकारादेशो भवति श्लौ परे | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः, न तु अभ्यासस्य पूर्णस्य | भृञां षष्ठ्यन्तम्, इत् प्रथमान्तं, द्विपदमिदं सूत्रम् | णिजां त्रयाणां गुणः श्लौ (७.४.७५) इत्यस्मात् त्रयाणां, शलौ इत्यनयोः अनुवृत्तिः | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— भृञाम् त्रयाणाम् अङ्गस्य अभ्यासस्य इत् शलौ |
वेदे ऋकारान्तधातवः
सृ, घृ, हृ, ऋ च इत्येते धातवः छान्दसाः, इत्युक्तौ वेदे प्रयुज्यन्ते | अतः बहुलं छन्दसि (७.४.७८) इत्यनेन सूत्रेण अभ्यासस्य इत्त्वम् | घृ → जिघृ | हृ → जिहृ | ऋ → इयृ |
बहुलं छन्दसि (७.४.७८) = छन्दसि विषये अभ्यासस्य श्लौ बहुलम् इकारादेशो भवति | वेदगतधातूनां सामान्यसूत्रम् | अनेन सूत्रेण कस्यचिदपि धातोः नाम्ना सङ्केतो न दत्तः; सर्वेषां वेदगतधातूनाम् अभ्यासस्य इकारादेशः श्लौ परे |
लोके ऋ-धातुः
ऋ तु लोके अपि प्रयुज्यते; तत्र अर्तिपिपर्त्योश्च (७.४.७७) इत्यनेन अभ्यासस्य इत्त्वं भवति | तदा अभ्यासस्यासवर्णे (६.४.७८) इत्यनेन अभ्यासस्य इवर्णस्य इयङ्-आदेशः |
ऋ → श्लौ इत्यनेन द्वित्वम् → ऋऋ → अर्तिपिपर्त्योश्च (७.४.७७) इत्यनेन अभ्यासस्य इत्त्वम् → इऋ → उरण् रपरः इत्यनेन अण् रपरः → इरृ → हलादिः शेषः इत्यनेन हलः लोपः → इऋ → अभ्यासस्यासवर्णे (६.४.७८) इत्यनेन अभ्यासस्य इवर्णस्य इयङ्-आदेशः → इयृ
अर्तिपिपर्त्योश्च (७.४.७७) = ऋ-धातोः पॄ-धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व-इकारादेशो भवति श्लौ परे | अनेन सूत्रेण ऋ, पॄ धात्वोः अभ्यासस्य इत्त्वं भवति श्लौ | इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम् (३.३.१०८, वार्तिकम्) इति वार्तिकेन ऋ → अर्ति, पॄ → पिपर्ति; द्वावपि सुबन्तौ | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः, न तु अभ्यासस्य पूर्णस्य | अर्तिश्च पिपर्तिश्च तयोरितरेतरद्वन्द्वः अर्तिपिपर्ती, तयोः अर्तिपिपर्त्योः | अर्तिपिपर्त्योः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | भृञामित् (७.४.७६) इत्यस्मात् इत् इत्यस्य अनुवृत्तिः | निजां त्रयाणां गुणः श्लौ (७.४.७५) इत्यस्मात् शलौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अर्तिपिपर्त्योः च अङ्गस्य अभ्यासस्य इत् श्लौ |
अभ्यासस्यासवर्णे (६.४.७८) = अभ्यासस्य इवर्णस्य उवर्णस्य च स्थाने क्रमशः इयङ् उवङ् च आदेशो भवति | न सवर्णः असवर्णः, तस्मिन् असवर्णे अभ्यासस्य षष्ट्यन्तम्, असवर्णे सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि, य्वोः, इयङुवङौ चेत्येषाम् अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य य्वोः इयङुवङौ असवर्णे अचि |
डुभृञ्-धातोः चतुर्षु लकारेषु रूपाणि
१) हलादि पित्सु = सार्वधातुकार्धधातुकयोः इत्यनेन गुणः | बिभृ + ति → बिभर् + ति → बिभर्ति
२) अजादि पित्सु = सार्वधातुकार्धधातुकयोः इत्यनेन गुणः | बिभृ + आनि → बिभर् + आनि → अट्कुप्वाङ् इत्यनेन णत्वम् → बिभराणि
३) हलाद्यपित्सु = क्ङिति च इत्यनेन गुणनिषेधः; किमपि कार्यं नास्ति | बिभृ + तः → बिभृतः
४) अजाद्यपित्सु = इको यणचि इत्यनेन यण्-आदेशः | बिभृ + अति → बिभ्र् + अति → बिभ्रति
लङि—
१. त्-लोपः, स्-लोपः
अबिभृ + त् → सार्वधातुकार्धधातुकयोः → अबिभर् + त् → त्-लोपः → अबिभर् → खरवासयोर्विसर्जनीयः इत्यनेन विसर्गादेशः → अबिभः
तथैव अबिभृ + स् → अबिभर् + स् → स्-लोपः → अबिभर् → अबिभः
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन लङ्-लकारे प्रथमपुरुषे अपृक्तसंज्ञकस्य त्-प्रत्ययस्य लोपः, तथैव च मध्यमपुरुषे स्-प्रत्ययस्य लोपः |
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) = हलन्तात्, दीर्घङ्यन्तात्, दीर्घाबन्तात् च सु-ति-सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्-लोपः, लङि प्रथमपुरुषे त्-लोपः, मध्यमपुरुषे स्-लोपश्च | हल् च ङी च आप् च तेषाम् इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम् | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात् पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | लोपो व्योर्वलि (६.१.६५) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्— दीर्घात् हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल् लुप्यते |
अपृक्त एकाल् प्रत्ययः (१.२.४१) = यस्य प्रत्यस्य एकैव अल्, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल् एकाल्, कर्मधारयः | अपृक्तः प्रथमान्तम्, एकाल् प्रथमान्तं, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— एकाल् प्रत्ययः अपृक्तः |
खरवसानयोर्विसर्जनीयः (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | रो रि (८.३.१४) इत्यस्मात् रः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— रः पदस्य विसर्जनीयः खरवसानयो: संहितायाम् |
२. जुसि गुणः
अबिभृ + झि → सिजभ्यस्तविदिभ्यश्च इत्यनेन झि-प्रत्ययस्य स्थाने जुस्-आदेशः → अबिभृ + उः → जुसि च इत्यनेन इगन्ताङ्गस्य गुणः → अबिभर्+ उः → अबिभरुः
जुसि च (७.३.८३) = अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति | जुसि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन इगन्तस्य अङ्गस्य; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः | क्सस्याचि (७.३.७२) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | मिदेर्गुणः (७.३.८२) त्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इति परिभाषासूत्रेण इकः स्थानी भवति | अनुवृत्ति-सहितसूत्रम्— इकः अङ्गस्य गुणः अचि जुसि च |
डुभृञ् धारणपोषणयोः ञित्त्वात् उभयपदी धातुः | बिभृ इति अङ्गम् |
परस्मैपदम्
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
आत्मनेपदम्
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
अन्येषां चतुर्णां ऋकारान्तधातूनाम् रूपाणि एवमेव भवन्ति |
5. ॠकारान्तधातवः (1 धातुः)
एक एव ॠकारान्तधातुः अस्ति, पॄ पालनपूरणयोः |
अर्तिपिपर्त्योश्च (७.४.७७) = ऋ-धातोः पॄ-धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व-इकारादेशो भवति श्लौ परे | अनेन सूत्रेण ऋ, पॄ धात्वोः अभ्यासस्य इत्त्वं भवति श्लौ | इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम् (३.३.१०८, वार्तिकम्) इति वार्तिकेन ऋ → अर्ति, पॄ → पिपर्ति; द्वावपि सुबन्तौ | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः, न तु अभ्यासस्य पूर्णस्य | अर्तिश्च पिपर्तिश्च तयोरितरेतरद्वन्द्वः अर्तिपिपर्ती, तयोः अर्तिपिपर्त्योः | अर्तिपिपर्त्योः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | भृञामित् (७.४.७६) इत्यस्मात् इत् इत्यस्य अनुवृत्तिः | निजां त्रयाणां गुणः श्लौ (७.४.७५) इत्यस्मात् शलौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अर्तिपिपर्त्योः च अङ्गस्य अभ्यासस्य इत् श्लौ |
पॄ → श्लौ इत्यनेन द्वित्वम् → पॄपॄ → उरत् इत्यनेन पपॄ →उरण् रपरः इत्यनेन अण् रपरः → पर्पॄ → हलादिः शेषः इत्यनेन हलः लोपः → पपॄ → अर्तिपिपर्त्योश्च इत्यनेन अभ्यासस्य ह्रस्व-इकारादेशः → पिपॄ इति अङ्गम् |
उरत् (७.४.६६) = प्रत्यये परे अभ्यासस्य ॠकारस्य स्थाने अत्-आदेशः भवति | उः षष्ठ्यन्तम्, अत् प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य उः अत् |
हलादिः शेषः (७.४.६०) = अभ्यासस्य आदिमः हल् शेषः, अभ्यासे अपरेषां हलां लोपः | हल् प्रथमान्तम्, आदिः प्रथमान्तं, शेषः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य हलादिः शेषः |
१) हलादि पित्सु = सार्वधातुकार्धधातुकयोः इत्यनेन गुणः | पिपॄ + ति → पिपर् + ति → पिपर्ति
२) अजादि पित्सु = सार्वधातुकार्धधातुकयोः इत्यनेन गुणः | पिपॄ + आनि → पिपर् + आनि → अट्कुप्वाङ् इत्यनेन णत्वम् → पिपराणि
३) हलाद्यपित्सु = उदोष्ठ्यपूर्वस्य इत्यनेन उकारादेशः, उरण् रपरः इत्यनेन रपरत्वं, हलि च इत्यनेन उपधायाः उकारस्य दीर्घत्वम् | पिपॄ + तः → पिपुर् + तः → पिपूर् + तः → पिपूर्तः
४) अजाद्यपित्सु = उदोष्ठ्यपूर्वस्य इत्यनेन उकारादेशः, उरण् रपरः इत्यनेन रपरत्वम् | पिपॄ + अति → पिपुर् + अति → पिपुरति
उदोष्ठ्यपूर्वस्य (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम् अङ्गं यस्य अन्ते ॠकारः अस्ति, न तु ॠकारः इति अङ्गम्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ऋवर्णस्य) | उत् प्रथमान्तम्, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | ॠत इद् धातोः (७.१.१००) इत्यस्मात् ॠतः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ओष्ठ्यपूर्वस्य ॠतः अङ्गस्य उत् |
उरण् रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति | ऋकारेण त्रिंशत्-प्रकारकः ऋकारः भवति इति बोध्यम् | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्, अण् प्रथमान्तम्, रपरः प्रथमान्तम्, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— उः स्थाने अण् रपरः |
हलि च (८.२.७७) = हलि परे रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति | हलि सप्तम्यन्तम्, च अव्ययपदम्, द्विपदमिदं सूत्रम् | सिप धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः; र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः र्वोः इत्यनेन येषाम् धातूनाम् अन्ते रेफः वकारश्च, तेषामपि ग्रहणम् | अनुवृत्ति-सहितसूत्रं— हलि च र्वोः धातोः उपधायाः इकः दीर्घः |
पिपॄ + तः → उदोष्ठ्यपूर्वस्य इत्यनेन उकारादेशः, उरण् रपरः इत्यनेन रपरत्वम् → पिपुर् + तः → हलि च इत्यनेन उपधायाः उकारस्य दीर्घत्वम् → पिपूर् + तः → पिपूर्तः
लङि—
१. त्-लोपः, स्-लोपः
अपिपॄ + त् → सार्वधातुकार्धधातुकयोः → अपिपर् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन त्-लोपः → अपिपर् → खरवासयोर्विसर्जनीयः इत्यनेन विसर्गादेशः → अपिपः
तथैव अपिपॄ + स् → अपिपर् + स् → स्-लोपः → अपिपर् → अपिपः
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन लङ्-लकारे प्रथमपुरुषे अपृक्तसंज्ञकस्य त्-प्रत्ययस्य लोपः, तथैव च मध्यमपुरुषे स्-प्रत्ययस्य लोपः |
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) = हलन्तात्, दीर्घङ्यन्तात्, दीर्घाबन्तात् च सु-ति-सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्-लोपः, लङि प्रथमपुरुषे त्-लोपः, मध्यमपुरुषे स्-लोपश्च | हल् च ङी च आप् च तेषाम् इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम् | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात् पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | लोपो व्योर्वलि (६.१.६५) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्— दीर्घात् हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल् लुप्यते |
अपृक्त एकाल् प्रत्ययः (१.२.४१) = यस्य प्रत्यस्य एकैव अल्, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल् एकाल्, कर्मधारयः | अपृक्तः प्रथमान्तम्, एकाल् प्रथमान्तं, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— एकाल् प्रत्ययः अपृक्तः |
खरवसानयोर्विसर्जनीयः (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | रो रि (८.३.१४) इत्यस्मात् रः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— रः पदस्य विसर्जनीयः खरवसानयो: संहितायाम् |
२. जुसि गुणः
अपिपॄ + झि → सिजभ्यस्तविदिभ्यश्च इत्यनेन झि-प्रत्ययस्य स्थाने जुस्-आदेशः → अपिपॄ + उः → जुसि च इत्यनेन इगन्ताङ्गस्य गुणः → अपिपर् + उः → अपिपरुः
जुसि च (७.३.८३) = अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति | जुसि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन इगन्तस्य अङ्गस्य; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः | क्सस्याचि (७.३.७२) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | मिदेर्गुणः (७.३.८२) त्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इति परिभाषासूत्रेण इकः स्थानी भवति | अनुवृत्ति-सहितसूत्रम्— इकः अङ्गस्य गुणः अचि जुसि च |
पॄ पालनपूरणयोः परस्मैपदी धातुः | पिपॄ इति अङ्गम् |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
अनेन जुहोत्यादिगणस्य अजन्तधातवः समाप्ताः |
६ - जुहोत्यादिगणे अजन्तधातवः (c).pdf (135k) Swarup Bhai, May 19, 2019, 6:18 PM v.1
Swarup – August 2013 (Updated May 2016)