08 - मातुः पाठस्य वैलक्षण्यम्
किमर्थं पाणिनीयव्याकरणस्य अध्ययनार्थं नूतना पद्धतिः ?
मातुः धातुपाठे किं नूतनम् अस्ति अपि च किमर्थम् अस्माभिः सर्वैः अयं धातुपाठः अपेक्षितः इत्यत्र उच्यते | अस्मिन् परिचये बहवः पारिभाषिकशब्दाः सन्ति, अतः अवगमनं न भवति चेत् इमं पाठं त्यक्त्वा अग्रे पठतु; अनन्तरं यदा मातुः पाठस्य कश्चन आधारः मनसि स्थापितः, तदा पुनः अत्र आगत्य पठतु | तस्मिन् समये अवगमनम् अवश्यं स्यात् |
मातुः धातुपाठः पाणिनेः धातुपाठः एव; वैयाकरणसिद्धान्तकौमुदी अपि तथा—पाणिनेः धातुपाठः | तर्हि मातुः पाणिनीयधातुपाठः, वैयाकरणसिद्धान्तकौमुदी चेत्यनयोः को भेदः ? यथा उक्तं द्वयोः विवरणं तदेव, पाणिनेः धातुपाठः—अतः विवरणदृष्ट्या भेदो नास्ति | उत्तरं प्रापय्ते पाठ्यक्रमे—येन क्रमेण सर्वं विवरणं दत्तं, तत्र महान् भेदः | कस्मिंश्चित् ज्ञानक्षेत्रे बह्वी सूचना अस्ति चेत्, तर्हि तस्मिन् क्षेत्रे पाठनस्य पद्धतिः अत्यन्तं महत्त्वपूर्णा | यतः सूचना तु अस्ति, परन्तु विद्यार्थिनः आत्मसात् न कर्तुं पारयन्ति चेत्, सूचनायाः किं मूल्यम् ?
प्रत्येकस्मिन् स्तरे मातुः पाठ्यक्रमः पाणिनेः सूत्राणि अवलम्ब्य समायोजितः |
१) द्विसहस्रस्य धातूनां क्रमस्य स्तरे
२) लकारक्रमस्य स्तरे
३) प्रक्रियास्तरे
एवं च सर्वत्र सूत्राधारीकृत्य पाठ्यक्रमः व्यवस्थापितः | पाणिनीयसूत्राणां शक्तिः एतादृशी यत् लघुस्थाने सूचना अधिका—लघ्वीकरणम् इति | मातुः पाठनमार्गः अपि तथा | धातुपाठं सम्यक्तया बोधितुं कियान् समयः अपेक्षितः इति किञ्चन महत् तत्त्वम् | सिद्धान्तकौमुद्याः मार्गः दीर्घः, मातुः धातुपाठस्य मार्गः ह्रस्वः | कारणं किम् ? मातुः क्रमे तर्कः विद्यते, सर्वम् आयोजितं सूत्राणुगुणं; सिद्धान्तकौमुदी न तथा | कथमिति अग्रे पश्येम |
१-अ) धातुक्रमः
वयं जानीमः यत् पाणिनेः सूत्राणि आधारीकृत्य प्रातिपदिकानि तदन्तपदम् अनुसृत्य आयोजितानि—पुंसि अकारान्तशब्दाः, देव इव; इकारान्तशब्दाः, मुनि इव; उकारान्तशब्दाः, गुरु इव; ऋकारान्तशब्दाः, कर्तृ इव | स्त्रियां लता, नदी, मति, धेनु, मातृ; क्लीबे वन, मधु, वारि अपि तथा | नाम देवशब्दः बहूनां शब्दानां प्रतिनिधिः, अतः देवशब्दं जानीमश्चेत्, बहून् शब्दान् जानीमः एव | अपि च प्रक्रियादृष्ट्या, सिद्धान्तकौमुद्यां प्रातिपदिकानां कृते तादृशी व्यवस्था अस्ति एव | रामशब्दस्य व्युत्पत्तिः प्रदर्शिता; इयं च व्युत्पत्तिः सर्वेषाम् अकारान्त-पुंलिङ्गशब्दानां कृते प्रतिनिधिः | तथैव अग्रेऽपि सर्वेषां प्रातिपदिकानां कृते इति |
परन्तु यद्यपि धातूनां कृते अपि पाणिनीयसूत्राणि तथैव व्यवस्थापितानि, तथापि एतावता केनापि तादृशम् आयोजनं न कृतम् | न सिद्धान्तकौमुद्यां, न वा अन्यत्र | अधुनैव प्रथमवारम् ऐतिहासिकी पद्धतिः अक्रियत मात्रा पुष्पदीक्षितया | तया सर्वे द्विसहस्रं धातवः चतुर्दशसु विभागेषु विभक्ताः | अजन्तधातवः अन्त्यक्रमेण आयोजिताः; हलन्तधातवः उपधा-क्रमेण विभक्ताः | किमर्थं तथा ? पाणिनेः सूत्राणि तथा सन्ति | अजन्तधातूनां कृते सूत्राणां कार्यम् अन्तिमस्वरम् अनुसृत्य भवति | अतः मात्रा एवमेव रीत्या अजन्तधातवः विभक्ताः—अकारान्ताः, आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः, एजन्ताः च | हलन्तधातूनां कृते पाणिनेः सूत्राणां कार्यं उपधाम् अनुसृत्य भवति | नाम अन्तिमवर्णात् प्राक् यः वर्णः, तम् अनुसृत्य इति | अतः तत्र हलन्तधातूनां कृते अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, शेषधातवः चेति |
अनेन क्रमेण सर्वे धातवः पाणिनिसूत्रानुसारेण समायोजिताः | अत्र कानिचन सूत्राणि प्रदर्शितानि यत्र तदन्तानुगुणं कार्यं साधितम्—
अजन्तधातवः
आकारान्तधातूनां कृते—
अङ्गकार्यम् = आतो लोप इटि च, श्नाभ्यस्तयोरातः, आतो युक् चिण्कृतोः|
प्रत्ययाः विहिताः = आतोऽनपुसर्गे कः, आतो मनिन्-क्वनिब्-वनिपश्च, आतो युच् |
इगन्तधातूनां कृते (इकारान्तानां, उकारान्तानां, ऋकारान्तानां च कृते) —
अङ्गकार्यम् = सार्वधातुकार्धधातुकयोः, अचि श्नुधातुभ्रुवां य्वोरियङुवङौ, एरनेकाचोऽसंयोगपूर्वस्य |
प्रत्ययाः विहिताः
इकारान्तधातूनां कृते— एरच्
उकारान्तधातूनां कृते— ओरावश्यके
ऋकारान्तधातूनां कृते— ऋहलोर्ण्यत्
ॠकारान्तधातूनां कृते— ॠदोरप्
अतः सूत्राणि दृष्ट्वा अजन्तधातूनाम् अन्तिमस्वरम् अनुसृत्य क्रमः स्वाभाविकः |
हलन्तधातवः
हलन्तधातूनाम् उपधाम् अनुसृत्य सूत्राणि विरचितानि पाणिनिना—
अदुपधाधातूनां कृते = अत उपधायाः, अतो हलादेर्लघोः, पोरदुपधात्, अतो ल्रान्तस्य, अत एकहल्मध्येऽनादेशादेलिटि |
इगुपधधातूनां कृते = पुगन्तलघूपधस्य च, इगुपधज्ञाप्रीकिरः कः |
ऋदुपधधातूनां कृते = ऋदुपधाच्चाक्लृपिचृतेः, रीगृदुपधस्य च, उरृत् |
अतः सूत्राणि दृष्ट्वा हलन्तधातूनाम् उपधाम् अनुसृत्य क्रमः स्वाभाविकः |
१-आ) प्रतिनिधि-सिद्धान्तः
एवं च मातुः पाठे एकः धातुः बहूनां धातूनां प्रतिनिधिः भवति | यथा बुध् धातुः; बुध् उदुपधधातुः | उपधायां ह्रस्वः उकारः यस्य धातोः, सः उदुपधधातुः | भ्वादिगणे ६४ उदुपधधातवः सन्ति अपि च मातुः धातुपाठे सर्वे भ्वादिगणीयाः उदुपधधातवः एकत्र तया सङ्गृहीताः | एषाम् उदुपधधातूनां सार्वधातुकलकाराणां तिङन्तरूपाणां कृते कानि कानि सूत्राणि अपेक्षितानि, तानि अपि सर्वाणि दत्तानि तत्रैव | अतः अनेन एका एव उदुपधधातोः प्रक्रिया ज्ञायते चेत्, ६४ धातूनां प्रक्रिया ज्ञाता | अयं प्रतिनिधि-सिद्धान्तः सर्वत्र विहितः मात्रा, यतः पाणिनीयसूत्राणि तथैव सन्ति |
भ्वादिगणे उदुपधधातवः सामान्यधातवः | अन्यत् उदाहरणं दृश्यतां, यत्र इतोऽपि कार्यं वर्तते | तुदादिगणे इगन्तधातवः विशेषधातवः सन्ति | तत्र तुदादिगणे षोडश इगन्तधातवः सन्ति, अपि च तेषां कार्यम् असामान्यम् | तत्रैव मातुः सार्वधातुकलकाराणां पाठस्य तुदादिगणस्य विभागे सर्वे षोडश धातवः दत्ताः—रि, पि, धि, क्षि; गु, ध्रु, कुङ्, णू, धू, षू, मृङ्, पृङ्, दृङ्, धृङ्, कॄ, गॄ | अपि च सम्बद्धानि सूत्राणि प्रदत्तानि—तिङ्-शित्सार्वधातुकम्, क्ङिति च, अचि श्नुधातुभ्रुवां य्वोरियङुवङौ, अनेकाल् शित्सर्वस्य, ङिच्च, रिङ्शयग्लिङ्क्षु, ॠत इद्धातोः | तत्र यथा अधः उच्यते, एषां धातूनाम् अङ्गकार्यं क्रियते | परन्तु अवगम्यतां यत्, यद्यपि धातवः षोडश, तत्र कार्यं चतुर्विधा एव—रि, पि, धि, क्षि इत्येषां कृते एकं कार्यं; गु, ध्रु, कुङ्, णू, धू, षू इत्येषां कृते एकं कार्यं; मृङ्, पृङ्, दृङ्, धृङ् इत्येषां कृते एकं कार्यं; कॄ, गॄ इत्यनयोः कृते एकं कार्यम् इति | अतः अत्र प्रतिनिधि-रूपेण रि, गु, मृङ्, कॄ च स्वीक्रियन्ते चेत्, सर्वेषां षोडशानां कृते प्रक्रिया ज्ञाता | अपि च यथा अग्रे उक्तम्, एकस्मिन् प्रकोष्ठे अङ्गकार्यं, अपरस्मिन् प्रकोष्ठे तिङ्प्रत्ययाः सिद्धाः, तृतीये प्रकोष्ठे अङ्ग-तिङ्प्रत्यययोः मेलनम् | अनेन अत्यन्तं सुलभतया लटि, लोटि, लङि, विधिलिङि च एषां षोडशानां धातूनां तिङन्तरूपाणि साधितानि ज्ञातानि च |
२) लकारक्रमः
लकाराणां क्रमः मात्रा व्यवस्थापितः | दशानां लकाराणां द्वौ विभागौ कृतौ—आर्धधातुकलकाराः, सार्वधातुकलकाराः च |
वैयाकरणसिद्धान्तकौमुद्याम् एकैकधातोः दश दश लकाराः क्रमेण साध्यन्ते | प्रथमधातुः दशसु अपि लकारेषु प्रदिशति; पुनः द्वितीयधातुः पुनः दशसु अपि लकारेषु प्रदिशति | अयं क्रमः वैज्ञानिको न | अनेन कस्यापि लकारस्य सम्यक् बोधो न जायते | अनेन विद्यार्थिनां प्रचुरः सङ्घर्षः अपेक्षितः | तावता कष्टेनापि नैपुण्यं न भवति | यत्र यत्र संस्कृतस्य व्याकरणपाठः क्रियते, तत्र तत्र एतादृशी गतिः | अत्यन्तं सङ्घर्षः, समयः अधिकः, फलं न्यूनम् | फलम् इत्युक्ते प्रक्रियाः ज्ञातव्याः अपि च साधितानि रूपाणि व्यवहरणीयानि | फलाभावः किमर्थमिति चेत्, अत्यन्तं दीर्घकालात् इदानीं यावत् यः परम्परागतः पाठ्यक्रमः अनुक्रियते, सः नैव तर्कपूर्णः | एकस्य धातोः कृते साक्षात् लट्, लिट्, लुट्, लृट्, लोट्, लङ् इत्यादि क्रमः, सः केवलं वर्णमालानुसारेण प्रवर्तते; अत्र प्रक्रियायाः न कोऽपि सम्बन्धः; दूरात् अपि सम्बन्धः न |
अतः मात्रा "एकः एव धातुः, सर्वेषु अपि लकारेषु" इति क्रमं त्यक्त्वा, सार्वधातुकलकाराणं कृते गणम् अनुसृत्य सर्वेषाम् अपि धातूनां लट्, लोट्, लङ्, विधिलिङ् मिलित्वा क्रियन्ते; आर्धधातुकलकाराणां कृते सर्वेषाम् अपि धातूनाम् एक एव लकारः इति क्रमः परिगृहीतः | अयमेव पाणिनेः क्रमः, यतः तदनुसारेण पाणिनिना प्रकरणानि कृतानि | पाणिनीयक्रमः एवं यत् सर्वेषां धातूनां कृते एकस्मिन् समये एक एव लकारः साध्यः—न तु एकस्य धातोः दश लकाराः |
मातुः क्रमः आहत्य—
a) सार्वधातुकलकाराणां कृते लट्, लोट्, लङ्, विधिलिङ् संङ्गृहीताः | दशसु गणेषु पृथक्तया एते चत्वारः लकाराः साध्यन्ते | | एकैकस्य गणे यावन्तः धातवः सन्ति, सर्वे मातृपाठे अन्तर्भूताः | सर्वे धातवः पूर्वोक्त-पद्धत्या आयोजिताः—अजन्तधातवः अन्तिमस्वरम् अनुसृत्य अकारान्ताः, आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः, एजन्ताः च | हलन्तधातवः उपधाम् अनुसृत्य अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, शेषधातवः चेति |
b) आर्धधातुकलकाराणां कृते लिट्, लुट्, लृट्, आशीर्लिङ्, लुङ्, लृङ् एकैकः पृथक्तया क्रियते | अत्र सर्वे गणाः सम्मिलिताः | गणस्य चर्चा नैव क्रियते, गणाः नैव प्रयुजुयन्ते | यतोहि एषु लकारेषु गणभेदः नास्त्येव; सर्वे गणाः समानाः | अतः अत्र केवलम् एकः लकारः, द्विसहस्रं धातवः | धातवः च पूर्वोक्त-पद्धत्या आयोजिताः—अजन्तधातवः अन्तिमस्वरम् अनुसृत्य अकारान्ताः, आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः, एजन्ताः च | हलन्तधातवः उपधाम् अनुसृत्य अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, शेषधातवः चेति |
तर्हि, यथा उक्तम् मातुः पद्धतिम् अधिकृत्य आर्धधातुकलकाराणां कृते सर्वे धातवः क्रियन्ते एकस्मिन् एव लकारे | प्रत्येकं लकारस्य सर्वं कार्यं एकस्मिन् स्थाने सङ्गृहीतम् | वृतान्ते लिट्लकारः | लिट्लकारस्य सर्वाणि सम्बद्ध-सूत्राणि, सर्वं लिट्-सम्बद्धं कार्यम् मात्रा एकस्मिन् अध्याये स्थापितम् | लिट्-लकारः आर्धधातुकः अतः धातुगण-सम्बद्धं किमपि कार्यं नास्ति | तथापि सिद्धान्तकौमुद्यां दशगणेषु पृथक्तया, एकैकस्मिन् गणे विभागेन लिट्लकारः क्रियते | परन्तु मातुः पाठे यतः लिट्लकारः आर्धधातुकः, अतः सर्वेषां धातूनां लिट्-सम्बद्धकार्यं एकत्र भवति एकस्मिन् एव अध्याये | धातवः कस्मिन्नपि गणे भवन्तु नाम, लिटः कृते सर्वे धातवः एकत्र एव भवन्ति |
सार्वधातुकलकारः आर्धधातुकलकारः चेति पारिभाषिकशब्दौ सिद्धान्तकौमुद्यां नैव स्तः | अपि च अस्मिन् विभागद्वये यादृशं प्राधान्यं मात्रा दत्तं स्वस्य पाठे, तादृशं न कुत्रापि लभ्यते |
३) प्रक्रिया
प्रक्रिया सूत्राधारीकृत्य मात्रा आयोजिता | सा च प्रकिया विभक्ता प्रकोष्ठेषु |
प्रकोष्ठम् अवलम्ब्य कार्यवितरणं विलक्षणम् | यथा यन्त्रागारे कार्यं विभाजितं भिन्न-भिन्नेषु प्रकोष्ठेषु येन कर्मकराणाम् एकस्मिन् कार्ये नैपुण्यं भवेत्, तथैव मात्रा भिन्ने प्रकोष्ठे भिन्नं कार्यं स्थापितम् | एवं रीत्या अस्माकं नैपुण्यं शीघ्रमेव विकसति |
a) एकस्मिन् प्रकोष्ठे अङ्गकार्यम् |
यथा सार्वधातुकलकारेषु विकरणप्रत्ययं निमित्तीकृत्य धातुः इति अङ्गे अङ्गकार्यं निष्पादितम् |
उदाहरणार्थम्—
भू + शप् → भू + अ → भो + अ → भ् + अव् + अ → भव इति अङ्गं निष्पन्नम् | अनेन शपं निमित्तीकृत्य अङ्गकार्यं साधितम् | तथा सर्वेऽपि उकारान्ताः ऊकारान्ताः च भ्वादिगणीयधातवः सम्मिलिताः |
अन्यच्च तुदादिगणे कुङ् इति आत्मनेपदिधातुः | कुङ् + श → कु + अ → क् + उव् + अ → कुव इति अङ्गं निष्पन्नम् | [लङि अकुव, लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१) इत्यनेन]
मात्रा सर्वं अङ्गकार्यं समाहृत्य उच्यते, नाम तस्याः समग्रं चिन्तनम् | तया द्विसहस्रस्य धातूनां क्रमः व्यवस्थापितः सूत्राणाम् अनुसारम् | इदम् आयोजनम् अङ्गकार्यानुसारेण एव कृतम् | यथा अत उपधायाः इत्यादीनि सूत्राणि सन्ति, अतः अदुपधधातवः सङ्गृहीताः | पुगन्तलघूपधस्य च इत्यस्ति, अतः इगुपधधातवः सम्मिलिताः | अतो लोपः, अतो गुणे, अतो दीर्घो यञि, तदनुसारं सर्वेषाम् अदन्तानाम् अङ्गानां सङ्ग्रहणम् अक्रियत | यथा पाणिनेः सूत्राणि कार्यं विदधति, तेन एव क्रमेण मात्रा धातवः व्यवस्थापिताः | एतावता कदापि केनापि न कृतम् |
b) अपरस्मिन् प्रकोष्ठे तिङ्प्रत्ययानां सिद्धिः |
वृत्तान्ते, आत्मनेपदे—
अदन्ताङ्गानां कृते लङि सिद्ध-प्रत्ययाः—
त इताम् अन्त
थाः इथाम् ध्वम्
इ वहि महि
अनदन्ताङ्गानां कृते लङि सिद्ध-प्रत्ययाः—
त आताम् अत
थाः आथाम् ध्वम्
इ वहि महि
एवं रीत्या सर्वेषां लकाराणां कृते सिद्ध-तिङ्प्रत्ययाः निष्पन्नाः | अपि च यया रीत्या प्रयुक्ताः, दृष्टिः पूर्णतया नूतना |
c) तृतीये प्रकोष्ठे अङ्ग-तिङ्प्रत्ययानां संयोजनकार्यम् |
लङि अकुव इति अङ्गम् | अदन्ताङ्गानां कृते उपरि प्रदर्शिताः सिद्ध-तिङ्प्रत्ययाः |
अकुव + त → अकुवत
अकुव + इताम् → अकुवेताम् आद्गुणः (६.१.८७)
अकुव + अन्त → अकुवन्त अतो गुणे (६.१.९७)
अकुव + थाः → अकुवथाः
अकुव + इथाम् → अकुवेथाम् आद्गुणः (६.१.८७)
अकुव + ध्वम् → अकुवध्वम्
अकुव + इ → अकुवे आद्गुणः (६.१.८७)
अकुव + वहि → अकुवावहि अतो दीर्घो यञि (७.३.१०१)
अकुव + महि → अकुवामहि अतो दीर्घो यञि (७.३.१०१)
अनेन तिङन्तस्य सिद्ध्यर्थं कार्यं प्रकोष्ठत्रये विभक्तम् | अस्मिन् सौकर्यम् अस्ति, तर्कोऽपि अस्ति | स्वस्य वर्गेऽपि मया दृष्टं यत् अनेन पद्धत्या विद्यार्थिनः शीघ्रमेव अवगच्छन्ति, स्वयमेव रूपाणि साधयन्ति च | पूर्वं, सर्वत्र लोके सिद्धान्तकौमुद्या लघुसिद्धान्तकौमुद्या च छात्राणां बहु कष्टं भवति स्म | अद्यापि भवति यत्र तया पद्धत्या अधीयते | अधुना कष्टं समाप्तम् ! छात्राः मातुः पद्धतिम् अवलम्ब्य पठन्ति चेत्, न कोऽपि क्लेशः अपि तु आनन्द एव | पाणिनेः व्यवस्थायां विशिष्टा शक्तिः वर्तते, अद्भुतं लाघवं—यया रीत्या तस्य एकेन एव सूत्रेण महत् कार्यं सिध्यति, तया | मातुः पाठे यतोहि सर्वम् आयोजितं पाणिनेः सूत्रानुसृत्य, अतः तस्याः पद्धतौ सा एव शक्तिः, अपि च तदेव लाघवम् |
अन्ते इदमपि वक्तव्यम् अस्ति यत् मातुः चिन्तनं सर्वत्र समग्रं चिन्तनं भवति | न केवलं धातुपाठे, अपितु कृदन्तप्रकरणेऽपि तद्धितप्रकरणेऽपि तदेव समग्रं चिन्तनम् | यथा कृदन्तप्रकरणे यः कोऽपि प्रत्ययः भवतु नाम, यदा तस्य पाठः क्रियते मात्रा, तदा सर्वेषां धातूनां कृते भवति | कृदन्तप्रकरणेऽपि स एव धातुक्रमः, ते एव चतुर्दश धातुवर्गाः अजन्तधातूनां हलन्तधातूनां च | वृत्तान्ते क्तिन् प्रत्ययः; यदा क्तिन् पाठ्यते मात्रा, तदा सर्वेषां धातूनां कृते यत्र यत्र क्तिन् विहितः, तत्र तत्र मातुः चिन्तनम् | आहत्य, न कोऽपि रूपं त्यक्तं; सर्वव्यापकं चिन्तनम् इदम् |
०९ - मातुः पाठस्य वैलक्षण्यम्.pdf (54k)
Swarup – July 2013