09 - प्रकरणस्य सौन्दर्यम् - रुत्वप्रकरणम्
अनुनासिकविषये अस्माभिः दृष्टं यत् कुत्रचित् एकवारम् अनुनासिकादेशः एकवारम् अनुस्वारागमः विकल्पेन भवतः | अयं विकल्पः कथं सिध्यति इति चेत्, रुत्वप्रकरणेन |
रुत्वम् एकं प्रकरणम् | प्रकरणं नाम एकः सूत्र-समूहः यस्मिन् वारं वारम् एकप्रकारकं कार्यं सिध्यति | अस्मिन् पाठे, रुत्वप्रकरणस्य माध्यमेन प्रकरण-नाम्नः वस्तुनः को लाभ इति ज्ञास्यामः |
रुत्व-प्रकरणे १२ सूत्राणि सन्ति | अस्मिन् प्रकरणे, विभिन्नसूत्रैः वारं वारं कस्यचित् वर्णस्य स्थाने "रु" इति आदेशः भवति | तदा कार्यद्वयं सञ्जायते—
१) रु → स्थाने विसर्गः → स्थाने सकारः | रु → ः → स् |
२) रु इत्यस्मात् पूर्वस्थितवर्णस्य विकल्पेन अनुनासिकादेशः / अपरस्मिन् पक्षे अनुस्वारः आगमः | ँ / ं |
रुत्वप्रकरणे "प्रकरणम्" इति नाम प्रयुक्तं यतः अयं सूत्र-समूहः उपर्युक्तस्य कार्यद्वयस्य कृते समर्पितः | अतः विशिष्टे कार्यद्वते इदं प्रकरणम् अतीव समर्थम् | समर्थम् इत्युक्तौ इदं कार्यद्वयं वारं वारं भवति परन्तु स्वचालितरीत्या एव; पुनः पुनः वदनस्य काऽपि आवश्यकता नास्ति | आरम्भे एकवारम् एव कार्यं विधीयते; तदा एवमेव पुनः पुनः सञ्जायते | तर्हि सूत्रसङ्ख्यायाः अत्यन्तं महत्वम् | यानि सूत्राणि अस्मिन् समूहे आयान्ति, तेषु एव रु इत्यदिकम् अनुवृत्तं भवति | सूत्रम् अपरस्मिन् प्रकरणे स्थितं चेत्, रु नायाति |
रुत्वप्रकरणस्य द्वितीयसूत्रात् आरभ्य यत्र यत्र रु आदिष्टो भवति तत्र तत्र तस्य रेफात् प्राक् यः स्वरः अस्ति, तस्य स्थाने विकल्पेन अनुनासिकादेशो भवति | यस्मिन् पक्षे अनुनासिकादेशो न भवति, तत्र अनुस्वारागमो भवति | तदा रु-स्थाने विसर्गः; अपि च विसर्गस्य स्थाने सकारः |
यथा—
सम् + स्कृति → समः सुटि इत्यनेन मकारस्य रुत्वम् → सरु + स् + कृति → अनुबन्धलोपे → सर् + स्कृति → विकल्पेन अँ-आदेशः / तदभावे अनुस्वारागमः → सँर् स्कृति / संर् स्कृति → पदान्तरेफस्य स्थाने विसर्गः → सँः स्कृति / संः स्कृति → विसर्गस्य स्थाने सकारः → सँस्स्कृति / संस्स्कृति |
रुत्वप्रकरण-सूत्राणि
मतुवसो रु सम्बुद्धौ छन्दसि (८.३.१)
अत्रानुनासिकः पूर्वस्य तु वा (८.३.२)
आतोऽटि नित्यम् (८.३.३)
अनुनासिकात् परोऽनुस्वारः (८.३.४)
समः सुटि (८.३.५)
पुमः खय्यम्परे (८.३.६)
नश्छव्यप्रशान् (८.३.७)
उभयथर्क्षु (८.३.८)
दीर्घादटि समानपादे (८.३.९)
नॄन्पे (८.३.१०)
स्वतवान्पायौ (८.३.११)
कानाम्रेडिते (८.३.१२)
अधिकार-सूत्राणि
पदस्य (८.१.१६) = अत्र आरभ्य ८.३.५५ पर्यन्तम् इदं सूत्रं एकैकस्मिन् विधिसूत्रे उपविश्य सूत्रार्थं पूरयति | अत्र अलोऽन्त्यस्य इत्यनेन परिभाषासूत्रेण अस्य अर्थो भवति "पदान्तस्य" |
अत्रानुनासिकः पूर्वस्य तु वा (८.३.२, लघु० ९१) = ८.३.२ इत्यस्मात् आरभ्य ८.३.१२ पर्यन्तं यत्र यत्र रुत्वं विहितं, तत्र तत्र रु इतस्मात् प्राक् यः वर्णोऽस्ति, तस्य विकल्पेन अनुनासिकादेशो भवति | अस्मिन् रुत्व-प्रकरणे यानि सूत्राणि सन्ति रुत्वविधायकानि, तेषु सूत्रेषु अयम् अर्थः सर्वत्र अन्वेति |
सूत्रार्थः = अस्मिन् रु-प्रकरणे, रु-इत्यस्मात् पूर्वावर्ति-स्वरस्य स्थाने अनुनासिकादेशो विकल्पेन भवति | अत्र अव्ययपदं, अनुनासिकः प्रथमान्तं, पूर्वस्य षष्ठ्यन्तं, तु अव्ययपदं, वा अव्ययपदम्, अनेकपदमिदं सूत्रम् | अनुवृत्ति-सहितं सूत्रमेवम्— अत्रानुनासिकः पूर्वस्य तु वा संहितायाम् इति |
उपर्युक्तयोः अधिकारसूत्रयोः दत्तं यत् विधिसूत्रेषु आगत्य उपविशतः | विधिसूत्रं नाम यस्मिन् सूत्रे किञ्चन कार्यं भवति— आदेशः, आगमः, लोपः वा | रुत्वप्रकरणे रु इत्यस्य विधानं भवति | केषु सूत्रेषु ? ८.३.१ इत्यस्मिन्, तदा ८.३.५ - ८.३.१२ इत्येषु |
प्रकरणरीत्या कार्यम्
रुत्वम् एकं प्रकरणम् इति तु सत्यम् | अत्र प्रकरणं सत् तस्य वैशिष्ट्यं किम् इति द्रष्टुम् इच्छामः | तर्हि शीघ्रमेव एकस्यानन्तरम् अग्रिमं सूत्रं पश्याम येन प्रकरणेन कीदृशं सौकर्यं भवति इति स्पष्टं स्यात् | अत्र सर्वाणि सूत्राणि अस्माकं कृते मुख्यानि न सन्ति, यथा ८.३.८, ८.३.९, ८.३.११ वेदे एव भवन्ति | परन्तु अस्माकम् अवधानम् यत् कथं रु इत्यस्य अनुवृतिः अपि च अत्रानुनासिकः पूर्वस्य तु वा इत्यस्य अधिकारः सर्वेषु विधिसूत्रेशु भवतः | अनेन वयम् अवगच्छामः किमर्थं सूत्रं तावत् लघु भवति अपि च कथं प्रक्रणे यदा क्रमेण पश्यामः सौकर्येण प्रत्येकं सूत्रस्य पूर्तिं कृत्वा वाक्यं साधितुं शक्नुमः |
१. मतुवसो रु सम्बुद्धौ छन्दसि (८.३.१) = रुत्व-विधायकं सूत्रम् | अत्र वेदे एव रु आदिष्टं भवति | परन्तु अस्मिन् सूत्रे "रु विहितम्" इति अस्माकं कृते मुख्यम् | अस्मिन् प्रकरणे रु वारं वारम् आधिष्टं, किञ्च पुनः न उच्यते साक्षत् | अस्मिन् सूत्रे एव उक्तम्; अग्रिमेषु सूत्रेषु रु अनुवृत्तम् |
२. अत्रानुनासिकः पूर्वस्य तु वा (८.३.२) = अस्मिन् रुत्वप्रकरणे रु यत्र यत्र विहितं, तत्र तत्र रु इत्यस्मात् पूर्वं यः स्वरः, सः विकल्पेन अनुनासिकः भवति | येषु सूत्रेषु रु विहितं, तेषु इदं सूत्रं साक्षात् आगत्य अर्थं पूरयति | अस्य सूत्रस्य पूर्णतया अनुवृत्तिः भवति सर्वेषु विधिसूत्रेषु अस्मिन् प्रकरणे |
३. आतोऽटि नित्यम् (८.३.३) = दीर्घ-आकारः रु इत्यस्मात् पूर्वं चेत् अस्य सूत्रस्य प्रसक्तिः | आतः अटि अनुनासिकः विकल्पेन न अपि तु नित्यम् | यथा ८.३.९ इति सूत्रे अनेन अनुनासिकः नित्यम् भवति |
४. अनुनासिकात् परोऽनुस्वारः (८.३.४) = अस्मिन् रुत्वप्रकरणे रु यत्र यत्र विहितं, तत्र तत्र रु इत्यस्मात् पूर्वं यः स्वरः, यस्मिन् पक्षे अनुनासिकः न भवति, तस्मिन् पक्षे तस्य स्वरस्य अनन्तरम् अनुस्वारः आगमः भवति |
५. समः सुटि (८.३.५) = सम् + स्कृति | सुटि सम्-स्थाने रु-आदेशो भवति | यत् कार्यं वक्ष्यते अत्र, तदेव कर्यम् अनुसरति अस्य प्रकरणस्य अग्रे स्थितेषु सूत्रेषु अपि | अतः अत्र एकवारम् उच्यते, तदा तदेव अग्रिमेषु अपि इति बोध्यम् | "मतुवसो" इत्यस्मात् सूत्रात् रु इत्यस्य अनुवृत्तिः | सम् उपसर्गः सन् स्वयं पदम् अस्ति इति स्मर्तव्यम् | अतः मकारः "पदान्ते" अस्ति | तर्हि पदस्य, अलोऽन्त्यस्य इत्याभ्यां म्-स्थाने रु विहितम् | अत्रानुनासिकः पूर्वस्य तु वा अपि अस्मिन् सूत्रे प्रविश्य वदति यत् रु इत्यस्मात् पूर्वं यः स्वरः, सः विकल्पेम अनुनासिको भवति | सम् + स्कृति → सँर् + स्कृति / सर् + स्कृति (अस्मिन् पक्षे अनुस्वारः आयाति संर् + स्कृति) |
६. पुमः खय्यम्परे (८.३.६) = यत् कार्यं कृतं समः सुटि इत्यनेन, तदेव कार्यं पुनः क्रियते अत्र | पदानि भिन्नानि; कार्यं समानम् | (१) रु → ः → स्; (२) ँ / ं |
पुम् + खय् [खय् प्रत्याहारे स्थितः वर्णः; खय् परे अम् स्यात् (अम् प्रत्याहारे स्थितः वर्णः)]
कार्यम् = म् → रु [पुमः स्थाने रु, तदा पदस्य + अलोऽन्त्यस्य इत्याभ्याम् पदान्तस्य म् स्थाने रु]
पुर् + खय् [कार्यम् = र् इत्यस्मात् पूर्वस्थितवर्णस्य विकल्पेन अनुनासिकादेशः / अपरस्मिन् पक्षे अनुस्वारः आगमः | ँ / ं]
पुँर् / पुंर् + खय् [कार्यम् = रु → ः → स्]
पुँस् / पुंस् + धय्
उदा—
पुम् + कामा → पुँस्कामा / पुंस्कामा |
पुम् + पुत्र → पुँस्पुत्र / पुंस्पुत्र
पुम् + फलम् → पुँस्फलम् / पुंस्फलम्
७. नश्छव्यप्रशान् (८.३.७) = यत् कार्यं कृतं समः सुटि इत्यनेन, तदेव कार्यं पुनः क्रियते अत्र | पदानि भिन्नानि; कार्यं समानम् | (१) रु → ः → स्; (२) ँ / ं | पूर्वतनात् सूत्रात् अम्परे इत्यस्य अनुवृत्तिः |
नकारान्तपदम् + छव् [छव् प्रत्याहारे स्थितः वर्णः; छव् परे अम् स्यात् (अम् प्रत्याहारे स्थितः वर्णः)]
कार्यम् = न् → रु [नः रु]
र् + छव् [कार्यम् = र् इत्यस्मात् पूर्वस्थितवर्णस्य ँ / ं]
[कार्यम् = रु → ः → स्]
उदा—
कस्मिन् + चित् → कस्मिँश्चित् / कस्मिंश्चित्
कान् + चित् → काँश्चित् / कांश्चित् |
भवान् + चिन्तयतु → भवाँश्चिन्तयतु / भवांश्चिन्तयतु
८. उभयथर्क्षु (८.३.८) = "उभयथ" नाम यत् कार्यं विहितं नश्छव्यप्रशान् (८.३.७) इत्यनेन सूत्रेण, तदेव कार्यं वैकल्पिकम् अस्ति ऋग्वेदे (ऋक्षु) | नकारान्तपदस्य नकारः एकवारं तिष्ठति, एकवारं तस्य स्थाने रुत्वं भवति | (रुत्वं भवति चेत, सामान्यकार्यं भवति एव (१) रु → ः → स्; (२) ँ / ं |
९. दीर्घादटि समानपादे (८.३.९) = ऋग्वेदे, अटि परे नकारान्तपदस्य नकारस्य रुत्वं विकल्पेन भवति, नकारात् पूर्वं दीर्घस्वरः अस्ति चेत् | पूर्वतनसूत्रात् "उभयथा" इत्यस्य अनुवृत्तिः विकल्पार्थे | समानपादे नाम ऋग्वेदस्य एकस्मिन् पादे (stanza) | रुत्वं भवति चेत् अपि च रु इत्यस्मात् प्राक् दीर्घः आकारः अस्ति चेत्, तर्हि आतोऽटि नित्यम् (८.३.३) इति सूत्रेण अनुनासिकादेशो भवति नित्यं न तु विकल्पेन |
१०. नॄन्पे (८.३.१०) = नॄन् + प् → पदान्तनकारस्य स्थाने रुत्वम् विकल्पेन ("उभयथा" इत्यस्य अनुवृत्तिः विकल्पार्थे |) | तदा (१) रु → ः ; (२) ँ / ं | उदा— नॄँः पाहि / नॄंः पाहि | नॄँः प्रीणीहि / नॄंः प्रीणीहि | (अत्र पकारः परे अस्ति अतः विसर्गस्य स्थाने सकारो न भवति |)
११. स्वतवान्पायौ (८.३.११) = वेदे स्वतवान् इति पदस्य अनन्तरं "पायु" अस्ति चेत्, पदान्तस्य नकारस्य स्थाने रुत्वम् | तदा (१) रु → ः ; (२) ँ / ं | स्वतवान् + पायु → ऋग्वेदे → भुव॒स्तस्य॒ स्वत॑वाँः पायुरग्ने (ऋग्वेद ४.२.६) | (अत्र पकारः परे अस्ति अतः विसर्गस्य स्थाने सकारो न भवति |)
१२. कानाम्रेडिते (८.३.१२) = कान् + कान् → द्वितीय-कान् आम्रेडिते चेत्, प्रथमस्य कान् इत्यस्य नः रु, तदा (१) रु → ः → स्; (२) ँ / ं | कान् + कान् → काँस्कान् / कांस्कान् |
अनेन रुत्वप्रकरणस्य परिसमाप्तिः | सूत्रक्रमेण पठामश्चेत्, अतीव सुलभतया सूत्रस्य बोधो भवति मनसि |
Swarup Bhai, Jun 24, 2014, 1:03 AM