04 - स्वर-सन्धिः - सूत्रसहिता दृष्टिः
सूत्रेषु विभक्ति-अर्थः
षष्ठीविभक्तिः = स्थाने
सप्तमीविभक्तिः = पूर्वकार्यम्
पञ्चमीविभक्तिः = परकार्यम्
प्रथमाविभक्तिः = आदेशः, आगमः, नामकरणम्
१. सवर्णदीर्घसन्धिः
अकः सवर्णे दीर्घः (६.१.९९) = अक्-वर्णात् सवर्णे अचि परे पूर्वपरयोः स्थाने दीर्घसंज्ञक-एकादेशः स्यात् | अक् प्रत्याहारः = अ, इ, उ, ऋ, ऌ | अकः पञ्चम्यन्तं, सवर्णे सप्तम्यन्तं, दीर्घः प्रथमान्तं, त्रिपदमिदं सूत्रम् | इको यणचि (६.१.७६) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम् |
तुल्यास्यप्रयत्नं सवर्णम् (१.१.९) = तालु-आदीनि स्थानानि, आभ्यन्तर-प्रयत्नाः, आभ्यां मानाभ्यां यस्य वर्णस्य येन वर्णेन सह तौल्यं, तयोः वर्णयोः सवर्णसंज्ञा स्यात् | सवर्णसंज्ञा विधायक-सूत्रम् | तुल्यः नाम सदृशः | आस्यम् [अस् + ण्यत्] नाम मुखे सञ्जायते यत् | तुल्यं च तुल्यश्च तुल्यौ, आस्यञ्च प्रयत्नश्च आस्यप्रयत्नौ, तुल्यौ आस्यप्रयत्नौ ययोः तत्तुल्यास्यप्रयत्नं, द्वन्द्वगर्भः बहुव्रीहिः | तुल्यास्यप्रयत्नं प्रथमान्तं, सवर्णं प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— तुल्यास्यप्रयत्नं सवर्णम् |
वर्णद्वयं यदा मुखस्य समाने स्थाने, समानेन आभ्यन्तरप्रयत्नेन च उच्चार्यते, तदा तस्य वर्णद्वयस्य सवर्णसंज्ञा भवति | कस्यचित् वर्णस्य उच्चारणार्थं मुखे किञ्चन स्थानं भवति, मुखस्य अन्तः कश्चन प्रयत्नः भवति (आभ्यन्तरप्रयत्नः इति), अपि च मुखात् बहिः कश्चन प्रयत्नः भवति (बाह्यप्रयत्नः इति) | स्थानानि = कण्ठः, तालु, मूर्धा, दन्ताः, ओष्ठौ इत्यादिकम् | आभ्यन्तरप्रयत्नाः इत्युक्ते स्पृष्टः, ईषत्स्पृष्टः, ईषद्विवृतः, विवृतः संवृतः चेति | बाह्यप्रयत्नाः इत्युक्ते विवारः, संवारः, श्वासः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदात्तः, अनुदात्तः, स्वरितः चेति | धेयं यत् सावर्ण्यार्थं केवलं मुखस्य अन्तः यत् स्थानम् अपि च यः आभ्यन्तरप्रयत्नः सः, एते एव द्वे तत्त्वे अपेक्ष्येते | बाह्यप्रयत्नः अस्मिन् विषये नैवान्तर्भूतः | अनेन अ, आ अपि च सर्वे अष्टादश अकाराः इत्येषां सावर्ण्यं भवति | एषां वर्णानां स्थानं कण्ठः, आभ्यन्तरप्रयत्नः विवृतश्च |
२. गुणसन्धिः
अदेङ्गुणः (१.१.२) = ह्रस्व-अकारः, एकारः, ओकारः (एङ्) एषां वर्णानां गुणसंज्ञा स्यात् | अत् एङ् च गुणसंज्ञः स्यात् इति | अत् च एङ् च अदेङ् | अदेङ् प्रथमान्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— अत् एङ् गुणः |
आद्गुणः (६.१.८६) = अवर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात् | अत्र अचि परे इत्यस्य इकि परे इति फलितः अर्थः यतः अकारात् अकारः चेत् कार्यं बाधितम् अकः सवर्णे दीर्घः (६.१.९९) इत्यनेन; अकारात् एच् चेत् कार्यं बाधितं वृद्धिरेचि (६.१.८७) इत्यनेन सूत्रेण च | आत् पञ्चम्यन्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७६) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— आत् अचि पूर्वपरयोः एकः गुणः संहितायाम् |
उरण् रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः स्यात् | ऋकारेण त्रिंशत्-प्रकारकः ऋकारः भवति इति बोध्यम् | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्, अण् प्रथमान्तं, रपरः प्रथमान्तं, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— उः स्थाने अण् रपरः |
३. वृद्धिसन्धिः
वृद्धिरादैच् (१.१.१) = आकारः ऐकारः, औकारः (ऐच्) एषां वर्णानां वृद्धिसंज्ञा स्यात् | वृद्धिः प्रथमान्तम्, आत् प्रथमान्तम्, ऐच् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— वृद्धिः आत् ऐच् |
वृद्धिरेचि (६.१.८७) = अवर्णात् एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक-एकादेशः स्यात् | इदं सूत्रम् आद्गुणः (६.१.८६) इत्यस्य अपवादः | वृद्धिः प्रथमान्तम्, एचि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | आद्गुणः (६.१.८६) इत्यस्मात् आत् इत्यस्य अनुवृत्तिः; एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— आत् एचि पूर्वपरयोः एकः वृद्धिः संहितायाम् |
४. यण्-सन्धिः
इको यणचि (६.१.७६) = इकः स्थाने यण्-आदेशः स्यात् अचि परे संहितायां विषये | इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम् (सवर्णे अचि परे अकः सवर्णे दीर्घः (६.१.९९) इत्येनेन यण् बाधितम्) | इकः षष्ठ्यन्तं, यण् प्रथमान्तम्, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— इकः यण् अचि संहितायाम् |
यदि + अपि → इको यणचि (६.१.७६) इत्यनेन इकः स्थाने यण्-आदेशः → इ-स्थाने यकारः → यद्यपि
५. यान्तवान्तादेशसन्धिः
एचोऽयवायावः (६.१.७७) = एचः (ए, ओ, ऐ, औ इत्येषां) स्थाने क्रमेण अय्, अव्, आय्, आव् इत्यादेशाः भवन्ति अचि परे | क्रमेण इत्युक्तं यथासंख्यमनुदेशः समानाम् (१.३.१०) इति परिभाषा सूत्रस्य साहाय्येन | अय् च, अव् च, आय् च, आव् च, तेषाम् इतरेतरद्वन्द्वः, अयवायावः | एचः षष्ठ्यन्तम्, अयवायावः प्रथमान्तं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७६) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— एचः अयवायावः अचि संहितायाम् |
मिष्टे + इच्छा → एचोऽयवायावः (६.१.७७) → मिष्ट् +ए-स्थाने अय्-आदेशः + इच्छा → मिष्टयिच्छा*
गुरौ + आदरः → एचोऽयवायावः (६.१.७७) → गुर् + औ-स्थाने आव्-आदेशः + आदरः → गुरावादरः*
- लोपः शाकल्यस्य (८.३.१९) इत्यनेन विकल्पेन यकारवकारयोः लोपः → मिष्ट इच्छा, गुरा आदरः | ततः अग्रे च सन्धिः न भवति |
(सूत्रम् अस्यकरपत्रस्य अन्ते लभ्यते, अपि च सम्पूर्णविवरणम् अस्मिन् पाठे |)
६. पूर्वरूपसन्धिः (यान्तवान्तादेशसन्धि-अपवादः)
एङः पदान्तादति (६.१.१०७) = पदान्तात् एङ्-वर्णात् अति परे पूर्वपरयोः स्थाने पूर्वरूपः एकादेशः स्यात् | पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात् | इदं सूत्रम् एचोऽयवायावः (६.१.७७) इत्यस्य अपवादः | एङः पञ्चम्यन्तं, पदान्तात् पञ्चम्यन्तम्, अति सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | अमि पूर्वः (६.१.१०५) इत्यस्मात् पूर्वः इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— पदान्तात् एङः अति पूर्वपरयोः एकः पूर्वः संहितायाम् |
७. पररूपसन्धिः (वृद्धिसन्धि-अपवादः)
एङि पररूपम् (६.१.९३) = अवर्णान्तात् उपसर्गात् एङादौ धातौ परे पूर्वपरयोः स्थाने पररूपम् एकादेशः स्यात् | अवर्णान्तादुपसर्गादेङादौ धातौ परे पररूपमेकादेशः स्यात् | वृद्धिसन्धेः अपवादः | धातोः आदौ एकारः अथवा ओकारः चेत् एङादिधातुः | एङि सप्तम्यन्तं, पररूपं प्रथमान्तं, द्विपदमिदं सूत्रम् | आद्गुणः (६.१.८६) इत्यस्मात् आत् इत्यस्य अनुवृत्तिः | उपसर्गादृति धातौ (६.१.९०) इत्यस्मात् उपसर्गात्, धातौ इत्यनयोः अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— आत् उपसर्गात् एङि धातौ पूर्वपरयोः एकं पररूपं संहितायाम् |
प्र + एजते → एङि पररूपम् (६.१.९४) इत्यनेन पूर्वपरयोः पररूपम् एकादेशः → प्र् + ए + जते → प्रेजते
उप + ओषति → एङि पररूपम् (६.१.९४) इत्यनेन पूर्वपरयोः पररूपम् एकादेशः → उप् + ओ + षति → उपोषति
तस्य पुनः अपवाधः—
एत्येधत्यूठ्सु (६.१.८८) = अवर्णात् एच्-आदि इण्-धातौ, एध्-धातौ, ऊठि च परे पूर्वपरयोः स्थाने वृद्धिसंज्ञकः एकादेशः स्यात् | अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् | एङि पररूपम् (६.१.९३) इत्यस्य अपवादः | अत्र एच् इति इण्, एध् इत्यनयोः विशेषणम् | एति, एधति सुबन्तरूपाणि इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम् (३.३.१०८ अन्तर्गते) इति वार्त्तिकेन, धातु-निर्देशे श्तिप्-प्रत्ययो भवति | अनेन इ + श्तिप् → एति, एध् + श्तिप् → एधति | एतिश्च, एधतिश्च, ऊठ् च तेषाम् इतरेतरद्वन्द्वः, एत्येधत्यूठः, तेषु एत्येधत्यूठ्सु | एत्येधत्यूठ्सु सप्तम्यन्तम्, एकपदमिदं सूत्रम् | आद्गुणः (६.१.८६) इत्यस्मात् आत् इत्यस्य अनुवृत्तिः | वृद्धिरेचि (६.१.८७) इत्यस्मात् वृद्धिः, एचि इत्यनयोः अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— आत् एचि एत्येधत्यूठ्सु एकः पूर्वपरयोः वृद्धिः संहितायाम् |
उप + एति → पररूपं प्रबाध्य → उपैति
प्र + एधते → पररूपं प्रबाध्य → प्रैधते
प्रष्ठ + ऊहः → गुणसन्धिं प्रबाध्य → प्रष्ठौहः
आहत्य एत्येधत्यूठ्सु (६.१.८८), एङि पररूपम् (६.१.९३) इत्यस्य अपवादः; एङि पररूपम् (६.१.९३), वृद्धिरेचि (६.१.८७) इत्यस्य अपवादः; वृद्धिरेचि (६.१.८७), आद्गुणः (६.१.८६) इत्यस्य अपवादः | यथा—
उप + एति → वृद्धिरेचि (६.१.८७) इत्यनेन वृद्धि-आदेशं प्रबाध्य एङि पररूपम् (६.१.९३) इत्यनेन पररूपं, एङि पररूपम् (६.१.९३) च प्रबाध्य एत्येधत्यूठ्सु (६.१.८८) इत्यनेन वृद्धिः → उपैति
ओमाङोश्च (६.१.९४) = अवर्णात् ओमि आङि च पूर्वपरयोः स्थाने पररूपम् एकादेशः स्यात् | ओमि आङि च आत्परे पररूपमेकादेशः स्यात् | वृद्धिरेचि (६.१.८७), अकः सवर्णे दीर्घः (६.१.९९) इत्यनयोः अपवादः | ओम् इति अव्ययपदम्; आङ् इति उपसर्गः | ओम् च आङ् च ओमाङौ द्वन्द्वसमासः, तयोः ओमाङोः | ओमाङोः सप्तम्यन्तं, च अव्यवपदं, द्विपदमिदं सूत्रम् | आद्गुणः (६.१.८६) इत्यस्मात् आत् इत्यस्य अनुवृत्तिः | एङि पररूपम् (६.१.९३) इत्यस्मात् पररूपम् इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— आत् ओमाङोः च पूर्वपरयोः एकं पररूपम् संहितायाम् |
'शिवाय ओं नमः' इति नमस्कारात्मकं वाक्यम् | शिवाय + ओम् → आद्गुणः (६.१.८६) इति प्रबाध्य वृद्धिरेचि (६.१.८७); वृद्धिरेचि (६.१.८७) प्रबाध्य ओमाङोश्च (६.१.९४) इत्यनेन पररूपादेशः → शिवायों नमः |
शिव + आङ् (इति उपसर्गः) + इहि → शिव + आ + इहि → महाभाष्ये धातूपसर्गयोः अन्तरङ्गत्वात् आ + इहि इति प्रथमं कार्यम् → आद्गुणः (६.१.८६) इत्यनेन गुणादेशः → शिव + एहि → अन्तादिवच्च (६.१.८४) इत्यनेन एकारः 'आ + इ' इत्यनयोः प्रतिनिधिः, तस्माच्च आङ्त्वं स्वीक्रियते → अकः सवर्णे दीर्घः (६.१.९९) इति प्रबाध्य पररूपादेशः → शिवेहि
८. प्रकृतिभावः
प्रकृतिभावः अच्-सन्धेः एकः प्रकारः | स्वभावेन अवस्थितिः प्रकृतिभावः इत्यर्थः | 'प्रकृत्या' इत्यनेन 'स्वभावेन'; 'भावः' इत्यनेन 'अवस्थितिः' | प्रकृत्या भावः → प्रकृतिभावः इति नामकरणम् |
ऋत्यकः (६.१.१२६) = पदान्तस्य अक्-वर्णस्य ह्रस्व-आदेशः स्यात् ऋति परे शाकल्यस्य मतेन | यस्मिन् पक्षे ह्रस्वादेशः, तस्य बलेन अच्-सन्धिः बाधितः अतः प्रकृतिभावः; ह्रस्वादेशाभावपक्षे अच्-सन्धिप्रवर्तनं यथासामान्यम् | यथासङ्गं गुणसन्धिः, यण्-सन्धिः, सवर्णादीर्घसन्धिः इति | समासेऽपि अयं प्रकृतिभावः | ऋति सप्तम्यन्तम्, अकः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | एङः पदान्तादति (६.१.१०७) इत्यस्मात् पदान्तात् इत्यस्य अनुवृत्तिः; विभक्तिपरिणाम इत्यनेन पदान्तस्य | इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च (६.१.१२५) इत्यस्मात् ह्रस्वः, शाकल्यस्य इत्यनयोः अनुवृत्तिः | संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— पदान्तस्य अकः ह्रस्वः ऋति शाकल्यस्य संहितायाम् |
इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च (६.१.१२५) = पदान्तस्य इक्-वर्णस्य ह्रस्व-आदेशः स्यात् असवर्णे अचि परे शाकल्यस्य मतेन | यस्मिन् पक्षे ह्रस्वादेशः, तस्य बलेन अच्-सन्धिः बाधितः अतः प्रकृतिभावः; ह्रस्वादेशाभावपक्षे यण्-सन्धिः यथासामान्यम् | अयं प्रकृतिभावः न समासे | न सवर्णः असवर्णः, तस्मिन् असवर्णे, नञ्तत्पुरुषः | इकः षष्ठ्यन्तम्, असवर्णे सप्तम्यन्तं, शाकल्यस्य षष्ठ्यन्तं ह्रस्वः प्रथमान्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | एङः पदान्तादति (६.१.१०७) इत्यस्मात् पदान्तात् इत्यस्य अनुवृत्तिः; विभक्तिपरिणाम इत्यनेन पदान्तस्य | इको यणचि (६.१.७६) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— पदान्तस्य इकः ह्रस्वः असवर्णे अचि शाकल्यस्य संहितायाम् |
दधि + अत्र → दधि अत्र
→ दध्यत्र (यण्-सन्धिः)
चक्री + अत्र → चक्रि अत्र
→ चक्र्यत्र (यण्-सन्धिः)
प्लुतप्रगृह्या अचि नित्यम् (६.१.१२३) = प्लुतवर्णाः प्रगृह्यवर्णाः च प्रकृतिभावे नित्यं तिष्ठन्ति अचि परे | प्लुताः प्रगृह्याश्च अचि परे नित्यं प्रकृत्या स्युः | प्लुताश्च प्रगृह्याश्च प्लुतप्रगृह्याः इतरेतरद्वन्द्वः | प्लुतप्रगृह्याः प्रथमान्तं, अचि सप्तम्यन्तं, नित्यं प्रथमान्तं, त्रिपदमिदं सूत्रम् | प्रकृत्यान्तःपदमव्यपरे (६.१.११३) इत्यस्मात् प्रकृत्या इत्यस्य अनुवृत्तिः | संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— प्लुतप्रगृह्याः अचि नित्यम् प्रकृत्या संहितायाम् |
ईदूदेद्द्विवचनं प्रगृह्यम् (१.१.११) = ईकारान्तः, ऊकारान्तः, एकारान्तः च द्विवचनान्तशब्दः प्रगृह्य-संज्ञकः स्यात् | ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात् | ईच्च, ऊच्च, एच्च ईदूदेत् समाहारद्वन्द्वः | ईदूदेत् प्रथमान्तं, द्विवचनं प्रथमान्तं, प्रगृह्यं प्रथमान्तं, त्रिपदमिदं सूत्रम् | ईदूदेत् इति विशेषणं, द्विवचनम् इति विशेष्यं; येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः | एवं च ईदूदेत् द्विवचनम् इत्युक्ते ईकारान्तद्विवचनं (शब्दरूपम्), ऊकारान्तद्विवचनम्, एकारान्तद्विवचनं च | अनुवृत्ति-सहितसूत्रम्— ईदूदेत् द्विवचनं प्रगृह्यम् |
दूराद्धूते च (८.२.८४) = दूरात्सम्बोधने यद्वाक्यं तस्य टेः प्लुतः वा स्यात् | भाष्यकारैः प्लुतसम्बद्धसूत्राणि विकल्पेन भवन्ति, तस्मात् 'वा' सूत्रे आनीयते | 'अरे देवदत्त !' इति दृष्टान्ते सम्बोधनस्य अन्तिमः अकारः विकल्पेन प्लुतो भवति; देवदत्त३ इति | झयो होऽन्यतरस्याम् (८.४.६२) इत्यनेन हकारस्य स्थाने धकारादेशः | दूरात् पञ्चम्यन्तं, हूते सप्तम्यन्तां, च अव्ययपदं, त्रिपदमिदं सूत्रम् | वाक्यस्य टेः प्लुत उदात्तः (८.२.८२) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— दूरात् हूते च वाक्यस्य टेः प्लुतः वा |
अचोऽन्त्यादि टि (१.१.६४) = अचां मध्ये यः अन्त्यः, सः आदिः यस्य तत् टि-संज्ञकं स्यात् | सूत्रं स्वयं सम्पूर्णम्— अचः अन्त्यादि टि |
झयो होऽन्यतरस्याम् (८.४.६२) = झयः उत्तरस्य हकारस्य विकल्पेन पूर्वसवर्णादेशो भवति | अनुवृत्ति-सहितसूत्रम्— झयः हः पूर्वस्य सवर्णः अन्यतरस्याम् |
झलां जशोऽन्ते (८.२.३९) = पदान्ते झलः स्थाने जशादेशो भवति | अनुवृत्ति-सहितसूत्रम्— पदस्य अन्ते झलां जशः |
अदसो मात् (१.१.१२) = अदस्-शब्दस्य मकारात् परः ईकारः ऊकारः च प्रगृह्यसंज्ञकौ स्तः | अस्मात् परावीदूतौ प्रगृह्यौ स्तः | अमू, अमी | अदस्-शब्दः त्रिषु लिङ्गेषु प्रथमाविभक्तौ द्वितीयविभक्तौ च द्विवचने अमू इति रूपं भवति | पुंलिङ्गे प्रथमाविभक्तौ बहुवचने अमी | अदसः षष्ठ्यन्तं, मात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | ईदूदेद्द्विवचनं प्रगृह्यम् (१.१.११) इत्यस्मात् ईदूत्, प्रगृह्यम् इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अदसः मात् ईदूत् प्रगृह्यम् |
ओत् (१.१.१५) = ओकारान्त-निपातशब्दः प्रगृह्य-संज्ञकः स्यात् | ओदन्तो निपातः प्रगृह्यः स्यात् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अनेन 'ओकारान्तनिपातः' | 'अहो ईशाः' इत्यत्र प्लुतप्रगृह्या अचि नित्यम् (६.१.१२३) इत्यनेन प्रकृतिभावः, न तु एचोऽयवायावः (६.१.७७) | ओत् प्रथमान्तम् एकपदमिदं सूत्रम् | निपात एकाजनाङ् (१.१.१४) इत्यस्मात् निपातः इत्यस्य अनुवृत्तिः | ईदूदेद्द्विवचनं प्रगृह्यम् (१.१.११) इत्यस्मात् प्रगृह्यम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— ओत् निपातः प्रगृह्यम् |
निपात एकाजनाङ् (१.१.१४) = एकाच् निपातः प्रगृह्य-संज्ञकः स्यात्, आङ्-वर्जयित्वा | एकोऽज् निपातः आङ्वर्जः प्रगृह्यः स्यात् | दृष्टान्ते इ इन्द्रः (अहो इन्द्रः!), उ उमेशः (अहो उमेशः!); उभयत्र प्लुतप्रगृह्या अचि नित्यम् (६.१.१२३) इत्यनेन प्रकृतिभावः न तु सवर्णदीर्घसन्धिः | एकश्चासौ अच्, एकाच् कर्मधारयः | न आङ् अनाङ् नञ्तत्पुरुषः | ईदूदेद्द्विवचनं प्रगृह्यम् (१.१.११) इत्यस्मात् प्रगृह्यम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अनाङ् एकाच् निपातः प्रगृह्यः |
अत्र 'एकाच् निपातः' इत्युक्तम् | तादृशः निपातः यस्मिन् एक एव स्वरः; तद्विहाय न हल्-वर्णः न वा अन्यः स्वरः भवेत् | नाम एक एव वर्णः स्यात्; स च वर्णः स्वरः हि | अतः अस्मिन् सूत्रे 'एकाच्' इत्यस्य विशिष्टः अर्थः | अपरेषु सूत्रेषु 'एकाच्' इत्युक्ते यत्किमपि शब्दरूपं यस्मिन् एकः एव स्वरः; अस्मिन् सूत्रे किन्तु 'एकाच्' इत्युक्ते एकः स्वरः, तदतिरिच्य किमपि न भवेत् | यथा इ इन्द्र (Oh Indra!); उ उत्तिष्ठ (O arise!) | एषु स्थलेषु प्रकृतिभावः एव, न तु सामान्यम् अच्-सन्धिकार्यम् | अतः 'उ उत्तिष्ठ' इत्यस्मिन् सवर्णदीर्घसन्धिः न भवति |
अधुना 'आ' निपातः अस्ति चेत् का गतिः इति पश्येम | निपात एकाजनाङ् (१.१.१४) इत्यनेन आ-निपातः प्रगृह्यसंज्ञकः भवति आङ् विहाय | आङ् इति चेत् प्रगृह्यसंज्ञकः न; अन्ये सर्वे एकाचः निपाताः अनेन सूत्रेण गृह्यन्ते | तर्हि आङ् कुत्र कुत्र भवति इति द्रष्टव्यम् |
आङ्-निपातस्य चत्वारः प्रयोगाः—
१) अनत्यन्तगत्यर्थे | आ + उष्णः → ओष्णः [किञ्चित् उष्णः; अतीव उष्णः न] |
२) आ-उपसर्गः | आ + गम् + लट् → आगच्छति | आ + इहि → एहि |
३) अभिविधिः = आरम्भस्य सीमा | आजन्म (अव्ययम्) = जन्मतः आरभ्य |
४) मर्यादा = अन्तस्य सीमा | 'इति यावत्', 'तावत् पर्यन्तम्' इत्यर्थः | आ + अध्ययनात् → आध्ययनात् (until the reading begins) |
एषु चतुर्षु स्थलेषु 'आ' इत्यनेन सह सामान्य-अच्-सन्धिः भवति | ओष्णः, एहि, आध्ययनात् | इति कृत्वा निपात एकाजनाङ् (१.१.१४) इत्यस्मिन् 'अनाङ्' | नाम आङ् अस्ति चेत् प्रकृतिभावो न विद्यते | एतान् चतुरः प्रयोगान् अतिरिच्य 'आ'-निपातस्य व्यवहारः भवति चेत्, निपात एकाजनाङ् (१.१.१४) इत्यनेन प्रगृह्य-संज्ञा भवति अतः प्रकृतिभावः एव | यथा— आ एवं मन्यसे = अहो! तथा चिन्तयसि किम् | आ एवं किलासीत् = अहो! तथा आसीत् बहु पूर्वम् | वृद्धिसन्धिबाधकम् |
अत्र 'रथोपस्थ' इति प्रसङ्गे—
"एवम् उक्त्वार्जुनः रथोपस्थ उपाविशत् |" [कथा, पृ० स० १२, गीताप्रवेशः प्रथमभागः]
रथस्य उपस्थः = रथोपस्थः [षष्ठीतत्पुरुषसमासः]
उपस्थ m. middle or inner part of anything
रथोपस्थ m. driving-box
रथोपस्थ m. hinder part of a car
रथोपस्थ m. seat of a chariots
रथोपस्थ m. well of a chariot
सन्धिरहितवाक्यम्—
एवम् उक्त्वा अर्जुनः रथोपस्थे उपाविशत् |
रथोपस्थे उपाविशत् → एचोऽयवायावः (६.१.७७) [यान्तवान्तादेशसन्धिः] → रथोपस्थय् + उपाविशत् → लोपः शाकल्यस्य (८.३.१९) इत्यनेन विकल्पेन यकारलोपः → रथोपस्थ + उपाविशत् → पूर्वत्रासिद्धम् (८.२.१) इत्यनेन गुणसन्धिः बाधितः |
लोपः शाकल्यस्य (८.३.१९) = अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति अशि परे शाकल्यस्य मतेन | लोपः प्रथमान्तं, शाकल्यस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | व्योलघुप्रयत्नतरः शाकटयनस्य इत्यस्मात् व्योः इत्यस्य अनुवृत्तिः; भोभगोअघोअपूर्वस्य योऽशि इत्यस्मात् अपूर्वस्य च अशि चेत्यनयोः अनुवृत्तिः | पदस्य, संहितायाम् इत्यनयोः अधिकारः | शाकल्यस्य इत्युक्ते शाकल्यस्य मतेन, नाम इदं विकल्पेन भवति | अनुवृत्ति-सहितसूत्रम्— अपूर्वयोः पदान्तयोः व्योः लोपः अशि शाकल्यस्य |
पूर्वत्रासिद्धम् (८.२.१) = सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम् | पूर्वस्मिन् इति पूर्वत्र | न सिद्धम्, असिद्धम् | पूर्वत्र अव्ययम्, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम् | इदं सूत्रम् अधिकारसूत्रम्; अष्टाध्याय्याः अन्तपर्यन्तं प्रवर्तते | अनेन सूत्रेण अष्टाध्याय्यी इति ग्रन्थः भागद्वये विभजितः | प्रथमाध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः; अष्टमाध्यायस्य द्वितीयः, तृतीयः, चतुर्थश्च पादाः मिलित्वा द्वितीयभागः | प्रथमभागस्य नाम सपादसप्ताध्यायी; द्वितीयभागस्य नाम त्रिपादी | त्रयाणां पादानां समाहारः त्रिपादी (द्विगुसमासः) | सप्तानाम् अध्यायानां समाहारः सप्ताधायी; पादेन सहिता, सपादसप्ताध्यायी |
अस्मिन् पसङ्गे इतोऽपि सूचना आवश्यकी चेत्, अस्मिन् करपत्रे 'पूर्वत्रासिद्धम् (८.२.१)' इति विषये पठतु |
Swarup – November 2013 (updated May 2015, Sept 2017)
स्वर-सन्धिः - सूत्रसहिता दृष्टिः.pdf (90k) Swarup Bhai, Nov 4, 2020, 5:20 PM