07 - अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/07---anunAsikaH-anusvAraH-cetyanayorbhedaH
Jump to navigation Jump to search
ध्वनिमुद्रणम्‌
anunAsikaH_anusvAraH_cetyanayorbhedaH_2014-05-28


व्याकरणक्षेत्रे अस्माकं प्रथमं कार्यं वर्णस्तरे भवति— नाम, भाषायां वर्णाः के ? ते च कीदृशाः ? तत्र एतावता, आधिक्येन मनसि स्पष्टता विद्यते | अस्मिन्‌ विषये मुख्यतया, प्रायः एक एव प्रश्नः तिष्ठति; स च मध्ये मध्ये उदेति वर्गेषु | अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः कः ? इयं वार्ता संस्कृतभाषायाः मूलविषयेषु अन्यतमः |


वृत्तान्ते सत्वसन्धौ विकल्पेन अनुनासिकचिह्नम्‌ अनुस्वारो वा भवति | तत्र बहवः पृच्छन्ति, "अस्तु—परन्तु द्वयोर्भेदः कः ?” यथा कस्मिन्‌ + चित्‌ → कस्मिंश्चित्‌ वा कस्मिँश्चित्‌ वा विकल्पेन भवतः | अत्र भेदः कः ? उच्चारणभेदोऽस्ति वा ?


१) अर्थः


अनुनासिकः इत्युक्तौ वर्णस्य स्वभावः | यदा कश्चन वर्णोऽनुनासिको भवति, तदा स वर्णः स्वयम्‌ अनुनासिक इति उच्यते |


अनुस्वारो न तथा | अनुस्वारः पृथक्‌ अक्षरम्‌ अस्ति अतः तदर्थं सप्तमीविभक्तेः प्रयोगं कुर्मः | कस्मिंश्चित्‌ वर्णे अनुस्वारोऽस्ति इति वदामः | परन्तु अनुनासिकस्य कृते प्रथमाविभक्तेः प्रयोगो भवति (न तु सप्तमी), यतोहि वर्णः स्वयम्‌ अनुनासिकः | तर्हि वर्णः अनुनासिकः, किन्तु वर्णे अनुस्वारः | अँ—अत्र अकारः एव अनुनासिकः इत्युच्यते; "अकारे अनुनासिकः" तु नैव वदामः |


अनुनासिकत्वं दिविधा— नित्यम्‌ अनित्यञ्च | यत्र नित्यं, तत्र अनुनासिकत्वस्य व्यक्तीकरणार्थं स वर्णः एव पर्याप्तः | यत्र अनित्यम्‌ अस्ति, तत्र एकं चिह्नम्‌ उपविशति वर्णस्य उपरि |


नित्यम् अनुनासिकवर्णाः के ? वर्गीयवर्णानां पञ्चमसदस्याः एते सर्वे नित्यम्‌ अनुनासिकाः—ङ्‌, ञ्‌, ण्‌, न्‌, म्‌ |


के के वर्णाः अनित्यम्‌ अनुनासिकाः ? सर्वे स्वराः, य्‌, व्‌, ल्‌ चैते अनित्यम्‌ अनुनासिकाः भवन्ति | एकवारं भवन्ति अनुनासिकाः, एकवारं भवन्ति अननुनासिकाः |


२) लेखनचिह्नम्‌

ं = अनुस्वारः

ँ = अनुनासिकचिह्नम्‌ (अनित्यम्‌ अनुनासिकवर्णानाम्‌ एव कृते | नित्यम्‌ अनुनासिकवर्णानां कृते तु किमपि चिह्नं नास्ति |)


धेयं यत्‌ चन्द्रबिन्दु-शब्दस्तु हिन्दी-भाषायां प्राप्यते; संस्कृतभाषायां नैव भवति | संस्कृते ँ इति चिह्नम्‌, अनुनासिकचिह्नम्‌ इति वदामः |


अत्र बोध्यं यत्‌ अनुस्वारः अक्षरम्‌ अस्ति | संस्कृतभाषायाम्‌ अक्षरं त्रिविधम्—स्वरः, अयोगवाहः, व्यञ्जनञ्च | अयोगवाहः इत्युक्तौ तानि अक्षराणि यानि माहेश्वरसूत्रेषु नान्तर्भूतानि | अनुस्वारः, विसर्गः, जिह्वामूलीयः, उपध्मानीयः इमानि अक्षराणि अयोगवाहाः इति | न विद्यते योगः (योगः = सम्बन्धः) येषां (माहेश्वरसूत्रेषु) ते अयोगाः | वहन्ति इति वाहाः—भाषायां प्रोयुक्ताः | अयोगाश्च ते वाहाश्च इति अयोगवाहाः | ये वर्णाः माहेश्वरसूत्रेषु न पठिताः किन्तु भाषायां प्रयुक्ताः, ते अयोगवाहाः | तर्हि अनुस्वारः अक्षरम्‌ | (अक्षरवर्णौ समानार्थि-शब्दौ | व्युत्पत्ति-प्रभावेन व्यञ्जकः किञ्चित्‌ भिन्नः, किन्तु साधारणप्रयोगे साम्यं वर्तते इति बोध्यम्‌ |)


अनुनासिकचिह्नं तु अक्षरं नास्ति | अनुनासिकचिह्नम्‌ अपरेषां वर्णानाम्‌ उपभागो भवति; अस्य चिह्नस्य प्रभावेन वर्णः स्वयम् अनुनासिको भवति | सर्वेषु स्वरेषु, य्‌, व्, ल्‌ चैषु वर्णेषु अनुनासिकचिह्नम्‌ उपवेष्टुम्‌ अर्हति, नान्यत्र | कारणमेवं यत्‌ एते एव वर्णाः अनुनासिकाः अननुनासिकाश्च भवन्ति |


अननुनासिकाः = अ इ उ ऋ ऌ ए ओ ऐ औ; य्‌, व्‌, ल्‌

अनुनासिकाः = अँ इँ उँ ऋँ ऌँ एँ ओँ ऐँ औँ; य्‌ँ, व्‌ँ, ल्‌ँ


नित्यम्‌ अनुनासिकाः = ङ्‌, ञ्‌, ण्‌, न्‌, म्‌


३) उच्चारणम्‌


कस्यापि वर्णस्य उच्चारणार्थम्‌ उच्चारणस्य किञ्चन स्थानं भवति मुखे नासिकायां वा | स्थानानि प्रायः दृष्टानि अन्यत्र कदाचित्‌ | यथा अ, आ, क्‌, ख्‌, ग्‌, घ्‌, ङ्‌, ह्‌ इत्येषां स्थानं कण्ठः | इ, ई, च्‌, छ्‌, ज्‌, झ्‌, ञ्‌, य्‌, श्‌ इत्येषां स्थानं तालु | तथैव मूर्धा, दन्ताः, ओष्ठौ इत्यादिकं स्थानानि सन्ति | आधिक्येन स्थानानि मुखे सन्ति | परन्तु वर्णोऽनुनासिकश्चेत् तस्य कश्चन स्थानं मुखे अपि अस्ति, नासिकायामपि अस्ति | अनुस्वारस्य स्थानं नासिकायाम्‌ एव अस्ति |*


तर्हि अनुनासिकः अनुस्वारः चेत्यनयोरुच्चारणभेदः कः ?


अनुनासिकोच्चारणम्‌


प्रमुखसिद्धान्तोऽयं यत्‌ कश्चन वर्णो यदा अनुनासिको भवति, तदा स स्वयम्‌ अनुनासिको भवति अतः स्वस्य एव उच्चारणे अनुनासिकत्वम्‌ आयाति | अनुनासिकत्वं नाम उच्चारणे तस्य स्थानद्वयं भवेत्—मुखे एकं स्थानं, नासिकायाम्‌ एकं स्थानम्‌ | यथा अँ, इँ, उँ, ओँ | यथा अकारस्य स्थानं कण्ठः; यदा अकारः अनुनासिको भवति, तदा तस्य कण्ठेऽपि नासिकायाम्‌ अपि स्थानं भवति | कोऽपि वर्णः अनुनासिको भवति चेत्‌, स स्वयं साक्षात्‌ अनुनासिको भवति |


अनुनासिकविधायकं सूत्रम्‌ अधो दत्तम्‌ |


मुखनासिकावचनोऽनुनासिकः (१.१.८, लघु० ९) = मुखेन नासिकया च उभयेन यः वर्णः उच्चारितः, तस्य अनुनासिक-संज्ञा भवति | उच्यते इति वचनः | मुखसहिता नासिका मुखनासिका (मध्यमपदलोपसमासः), तया वचनः (उच्चारितो वर्णः) स मुखनासिकावचनः (तृतीयातत्पुरुषः) | मुखनासिकावचनः प्रथमान्तम्‌, अनुनासिकः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात्‌, इति वृत्तिः |

अन्यः सिद्धान्तः अवधातव्यः—प्रादेशिकभाषासु अनुनासिकस्वराः बहुत्र दृश्यन्ते | परन्तु संस्कृतभाषायाम्‌ अनुनासिकस्वरस्य क्षेत्रं सीमितम्‌ | प्रायः यत्र यत्र अनुनासिकचिह्नं सम्भवति स्वरे, तत्र तत्र अपरस्मिन्‌ पक्षे अनुस्वारोऽपि सम्भवति | तदर्थं सूत्रद्वयं वर्तते; इमे द्वे सूत्रे अग्रिमे पाठे पश्येम | (धेयं यत्‌ विपरीतक्रमेण न भवति यत्‌ यत्र यत्र अनुस्वारः तत्र तत्र अनुनासिकोऽपि सम्भवति; तथा न |)


उदाहरणम्‌


यथा सँस्कृति-शब्दे, व्युत्पत्तौ अनुनासिकादेशो भवति | अपि च संस्कृति-शब्दे अनुस्वारागमो भवति | पक्षद्वयात्मकं रूपं विद्यते | उभयं रूपं शुद्धम्‌ |


सँ = मुखसहितनासिकया उच्चारणं भवति | अत्र अनुनासिकस्य लक्षणम्‌ | अनुनासिकम्‌ इत्युक्ते किम्‌ ? मुखनासिकावचनोऽनुनासिकः | मुखसहितनासिकया उच्चार्यमाणो वर्णः अनुनासिको भवति |


सं = अकारः अननुनासिकः; तदा अनुस्वारः केवलं नासिकया |


सँस्कारः / संस्कारः अपि तथा | सँस्कार-शब्दस्य अकारे मुखस्यापि आकृतिः विशिष्टा निर्मीयते, नासिकायाः अपि उपयोगो भवति | संस्कार-शब्दस्य अकारः अनुनासिको नास्त्येव; अस्मिन्‌ अकारे केवलं मुखस्य आकृतिः निर्मीयते |


अन्यत्‌ उदाहरणम्‌


यथोक्तम्‌ अनुनासिकस्य स्थानं मुखञ्च नासिका च | तत्र विकारः उभयत्र दृश्यते; उभयत्र संयोगो भवति | उभाभ्यां विना अनुनासिकस्य उच्चारणं न सम्भवेत्‌ |


किम्‌ + लिखितम्‌ → अनुस्वारसन्धिः (मोऽनुस्वारः) → किं + लिखितम्‌ → परसवर्णसन्धिः (अनुस्वारस्य ययि परसवर्णः)

→ किलँलिखितम् | अत्र लकारस्य दन्त्यस्थानम्‌ अपि युज्यते, नासिका अपि युज्यते |


नित्यम्‌ अनुनासिकवर्णानाम्‌ उच्चारणम्‌


ङ्‌, ञ्‌, ण्‌, न्‌, म्‌ एते वर्णाः अपि अनुनासिकवर्णाः सन्ति | ङ् इत्यस्य कण्ठस्थानम्‌ अपि अस्ति, नासिका अपि अस्ति | "ङ" वदामश्चेत्‌, ङकारोत्तरवर्ति-अकारस्य अनुनासिकध्वनिः नास्ति; पुरावर्तिनः ङकारस्य एव अनुनासिकध्वनिः | तथैव ञ्‌ इत्यस्य तालुस्थानमपि अस्ति, नासिका-स्थनम्‌ अपि अस्ति | ण्‌ इत्यस्य मूर्धास्थानमपि अस्ति, नासिका अपि अस्ति | न्‌ इत्यस्य दन्तास्स्थानमपि अस्ति, नासिका अपि अस्ति | म्‌ इत्यस्य ओष्ठौ-स्थानमपि अस्ति, नासिका अपि अस्ति | ङ्‌, ञ्‌, ण्‌, न्‌, म्‌ एते वर्णाः मुखेन अनुनासिकया च उच्चार्यन्ते | मुखे एषां स्थानम्‌ अस्त्येव; तत्‌ स्थानं सत्‌ नासिका अपि अस्ति | एते पञ्च वर्णाः नित्यम्‌ अनुनासिकाः | "ञमङणनां नासिका च" इति कथनेन मुखसहितनासिकया उच्चार्यमाणः वर्णः भवति | वर्गीयव्यञ्जनानि सन्तः तेषां वर्गीयस्थानं तु भवत्येव | वर्गाणां पञ्चमसदस्याः सन्तः तेषां नासिका स्थानमपि भवति |


अत्र नित्यं नाम नासिकां विना एषां पञ्चानाम्‌ उच्चारणम्‌ असम्भवमेव | नासिकां पिधाय नकारस्य उच्चारणं क्रियताम्—न भवति एव | तथैव ङ, ञ, ण, म इत्येषामपि | व्यतिरेके त्‌, थ्‌, द्‌, ध्‌ एषां वर्णानाम्‌ उच्चारणं नासिकां विना एव भवति; परन्तु नकारो नैव तथा | तर्हि वर्गाणां प्रथमसदस्यतः चतुर्थसदस्यपर्यन्तम्‌ एते वर्णाः अननुनासिकाः |


यथोक्तं सर्वे स्वराः द्विविधाः—अननुनासिकारूपमपि अस्ति, अनुनासिकारूपमपि अस्ति | यदा तेषाम्‌ उपरि अनुनासिकाचिह्नम्‌ अस्ति तदा ते अनुनासिकाः | मुखे स्थानम्‌ अस्त्येव; नासिका-स्थानमपि अस्ति | सर्वेषां स्वराणाम्‌ अनुनासिकारूपं सम्भवति | य्‌, व्‌, ल्‌ अपि तथा |


स्वरान्‌ च, वर्गाणां पञ्चमसदस्यान्‌ च, य्‌, व्‌, ल्‌ च— एतान्‌‍ वर्णान्‌ वर्जयित्वा अनुनासिकत्वम्‌ अन्यत्र न सम्भवति | ककारे अनुनासिकता न सम्भवति | ककारोत्तरवर्त्यकारे सम्भवेत्‌ नाम; परन्तु ककारे न सम्भवति | एवमेव अन्येष्वपि वर्गीयव्यञ्जनेषु न सम्भवति (पञ्चमसदस्यं विहाय) |


अनुस्वारोच्चारणम्‌


अत्र सर्वप्रथमं मूलसिद्धान्तः दीयते, तदा केचन सूक्ष्मबिन्दवः सन्ति |


यदा कस्मिंश्चित्‌ वर्णे अनुस्वारोऽस्ति, तदा प्रथमं तस्य वर्णस्य उच्चारणं भवति, अनन्तरमेव अनुस्वारस्य उच्चारणम्— पश्चात्‌, पृथक्तया च | येन प्रकारेण पुस्तक-शब्दे सकारः प्रथमं दृश्यते, अनन्तरमेव तकारः अतः सकारस्य उच्चारणं पूर्वं, तकारोच्चारणम्‌ अनन्तरमेव; तथैव संस्थान-शब्दे क्रमेण सकारः प्रथमं दृश्यते, तदा अकारः, अनन्तरमेव अनुस्वारः अतः सकारोत्तरवर्ति-अकारस्य उच्चारणं पूर्वम्‌, अनन्तरमेव अनुस्वारोच्चारणम्‌ |


संशय-शब्दस्य उच्चारणं परिशीलयतु | प्रथमतया सकारः, तदा अकारः, तदा एव अनुस्वारः | अकारस्य उच्चारणं नासिकसहितं नैव भवति | अकारोत्तरवर्ति-अनुस्वारस्य उच्चारणं केवलं नासिकया | सर्वैः गृहे एकवारं क्रियताम्‌ |


प्रश्नोऽस्ति कुत्र नासिकया ध्वनिः आरभ्यते | बहुत्र उच्चारणदोषाः श्रुयन्ते | कुत्रचित्‌ अनुस्वार-पूर्ववर्तिनः वर्णस्य नासिकसहितम्‌ उच्चारणं क्रियते—तत्र अनुस्वारस्य प्रभावः अध्यारोपितो भवति पूर्ववर्तिनः वर्णे | अयं कश्चन दोषः | कारणम्‌ अस्ति यत्‌ सकारोत्तरवर्ती यः अकारः, सः अनुनासिको न | मुखसहित-नासिकया उच्चार्यमाणः वर्णः अनुनासिको भवति किल ? अत्र न तथा | एतादृशं वदनम्‌ अत्र दुष्टम्‌ | संशय-शब्दस्य उच्चारणे अचः परोऽनुस्वारः | अनुस्वारः यः भवति, सः अचः परे तिष्ठति |


अन्यत्र श्रुयते एतादृशं यस्मिन्‌ अनुस्वारस्य नासिकया उच्चारणं न क्रियते एव; स्थाने मकारस्य उच्चारणं क्रियते, यथा "सम्‌शयः" | अत्रापि दोषः | तर्हि अनुस्वारस्य प्रभावः पुरावर्तिवर्णे भवति चेत्‌ दोषः; अनुस्वारस्य नासिकया उच्चारणं न क्रियते चेदपि दोषः | उभयत्र दोषः अवधातव्ययः |


*अत्र पुनरन्या वार्ता उदेति | अनुस्वारः नासिकया एव उच्चार्यते इति शिक्षणम्‌ | स्थानं नासिकायाम्‌ | तथापि अनुस्वारः स्वतन्त्रवर्णो नास्ति | पृथक्तया स्वतन्त्रतया अनुस्वारः कुत्रापि न दृश्यते किल; सदा कस्यचित्‌ वर्णस्य उपरि उपविष्टो दृश्यते | यथा संस्कार-शब्दे, अकारे अनुस्वारो वर्तते | वस्तुस्थितिस्तु इयं यत्‌ अनुस्वारः एकाकिनी न; अतः तस्य उच्चारणे ईषत्‌ प्रभावस्तु भवत्येव पूर्ववर्तिवर्णस्य | अं, इं, उं, ओं, सर्वत्र अनुस्वारे पूर्ववर्तिवर्णस्य ईषत्‌ प्रभावः | तेन प्रभावेन तस्य (पूर्ववर्तिवर्णस्य) स्थानमपि किञ्चित्‌ अवशिष्यते अनुस्वारस्य उच्चारणसमये |


अन्तिमवार्ता भवति पदान्ते | यानम्‌ गच्छति → अनुस्वारसन्धिः (मोऽनुस्वारः) → यानं गच्छति | अत्र यद्यपि अनुस्वारसन्धि इति वदामः परञ्च वस्तुतः इयं लेखन-परम्परा; उच्चारणार्थं न | अतः "यानं गच्छति" यत्‌ लिखामः, तस्य उच्चारणं "यानम्‌ गच्छति" इव | अधुना परसवर्णसन्धिं कृत्वा यानङ्गच्छति इति लिखामश्चेत्‌ भिन्ना वार्ता; तत्र उच्चारणभेदस्त्वस्त्येव | परन्तु "यानं गच्छति" इति लेखनस्य परम्परा न तु वदनस्य, इति धेयम्‌ |


सारांशः


तर्हि अनुनासिकत्वं वर्णस्य स्वभावः | यः वर्णः अनुनासिकः, तस्य मुखसहितनसिकया उच्चारणं भवति | अनुस्वारः केवलं नासिकया उच्चारितः इति सिद्धन्तः | किञ्चित्‌ स्थानम्‌ अवशिष्यते पूर्वतनवर्णात्‌ इति प्रकृतिः; किन्तु स्वस्य स्थानं तु नासिका | यथा संशय-शब्दे प्रथमम्‌ अकारः, तदा अनुस्वारः |


तर्हि सत्वसन्धौ कान्‌ + चित्‌ → काँश्चित्‌ अपि भवति, कांश्चित्‌ अपि भवति | उच्चारणभेदो ज्ञायते | अपि च द्वयोर्मध्ये यः कोऽपि वदतु, परञ्च उभयत्र का-न्‌-श्चित्‌ इति उच्चारणं तु दोषपूर्णमेव | तथैव संस्कृतम्‌ इत्यस्य स-म्‌-स्कृतम्‌ इत्यपि दोषपूर्णम्‌ | नासिकया, अथवा मुखसहितनासिकया चेत्‌ धेयं यत्‌ वायुः नासिकया गच्छति |


अनुस्वारस्य अधिकरणसम्बन्धो वर्तते (अपरेषु वर्णेषु भवति), परन्तु अनुनासिकः वर्णस्य स्वभावः; वर्णः एव अनुनासिकः, पृथक्‌ नास्ति | भ्रमो भवति यतोहि उभयत्र चिह्नम्‌ उपरि अस्ति; ं ँ च तत्र दर्शनेन साम्यं प्रतीयते | बिन्दुः उभयत्र; परञ्च भेदो महान्‌ |


Swarup – May 2014

---------------------------------

अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः - १.pdf (48k) Swarup Bhai, Jun 1, 2014, 7:35 PM v.2